विष्णुसंहिता - पञ्चदशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् प्रतिष्ठापञ्कं क्रमात् ।
परमेष्ठ्यादिभिर्मन्त्रैः कर्तव्यं तु विशेषतः ॥१॥
स्थापनास्तापना चैव तथा संस्थापना पुनः ।
प्रस्थापना च पञ्चोक्ताः प्रतिष्ठापनया सह ॥२॥
स्थितासीनशयानानां यानगस्य चलस्य च ।
या क्रिया पञ्चधा प्रोक्ता सा प्रतिष्ठेति कीर्तिता ॥३॥
स्थाने सौम्या भवेन्मूर्तिः सौम्याग्नैयी तथासने ।
आग्नेऽयी शयनेऽन्यत्र यथाकामं तु कल्पयेत् ॥४॥
सात्त्विकी राजसी चापि तामसी च यथाक्रमात् ।
सिता रक्ताऽसिता मूर्तिः श्यामा सर्वत्र वा भवेत् ॥५॥
स्थिता तु दैविकी मूर्त्तिः परस्य परमात्मनः ।
किञ्चिन्मानुषसंयुक्ता त्वासीनाऽन्या समोच्यते ॥६॥
स्थाने तु व्यापको विष्णुर्व्याप्यव्यापक आसने ।
व्याप्यस्तु शयने ज्ञेयः सवनत्रयदेवताः ॥७॥
पार्श्वयोर्ब्रह्मरुद्राभ्यामर्केन्दुभ्यां तदन्तिके ।
पृष्ठे श्रिया सरस्वत्या शान्त्या रत्या च पार्श्वयोः ॥८॥
वराहहयशीर्षाभ्यां तत्पृष्ठे दशभिः स्थिः ।
पार्श्वेऽजभृगुदक्षैश्च रुद्राग्निमनुभिस्तथा ॥९॥
सनत्कुमारस्कन्दाभ्यां श्रीस्थानस्थितसिद्धिभिः ।
आसीनश्चामख्यग्रकराभिर्द्वादशावृतः ॥१०॥
प्रद्युम्नेनानिरुद्धेन नाभिपद्मस्थितेन च ।
पञ्चभिः शयितोऽग्रस्थमार्कण्डेयमहीयुतः ॥११॥
त्रिधोक्तानां तु सर्वेषामेषामन्यतमान् क्रमात् ।
यानगस्य परीवारान् यथाकामं प्रकल्पयेत् ॥१२॥
तथा धनुर्गदाचक्रशङ्खासिशरलाङ्गलैः ।
खेटकेन च पद्मेन वृतः साधारणैर्भते ॥१३॥
चतुर्भुजः स्थितो देव आसीनोऽष्टभुजो भवेत् ।
शयानस्येच्छया योज्या भुजाः सर्वत्र वेच्छया ॥१४॥
पञ्चोपनिषदस्त्वेताः सुसूक्ष्मा देवशक्तयः ।
पञ्चतन्मात्रशब्देन कीर्त्तिता वेदवादिभिः ॥१५॥
पञ्चैताः संहता यस्माच्छक्तयः सर्वहेतवः ।
पञ्चभिर्युक्त एवाभिः स सर्गादौ प्रवर्तते ॥१६॥
निग्रहानुग्रहौ चापि करोतीशः स्वतोऽक्रियः ।
स्थापनादिषु सर्वत्र पूर्णैश्वर्यस्तु नान्यथा ॥१७॥
गुणप्रधानतो भेदात् संहतास्वेव शक्तिषु ।
विभागः पञ्चधा ज्ञेयो नैकशः पृथगास्थितेः ॥१८॥
विचित्रकार्यकरणसम्बन्धो भोगकारणम् ।
इत्यन्ये शक्तयश्चास्य सकार्यकरणास्तथा ॥१९॥
अतः प्रतिष्ठानिपुणैराचार्यैस्तन्त्रपारगैः ।
संहतास्ताः प्रयोक्तव्या बिम्बैश्वर्यप्रसिद्धये ॥२०॥
स्थापनादिविभागः स्याद् बिम्बविन्यासजोऽप्यतः ।
प्राधान्यख्यापनार्थैव भेदोक्तिरिति तद्विदः ॥२१॥
पञ्चशक्तिमये सूक्ष्मे देहे साधारणे पुनः ।
मूर्त्तयस्तस्य मूलाङ्गविशेषाद् बहुधा स्मृताः ॥२२॥
वृत्तायते च प्रासादे चतुरश्रायते तु वा ।
स्थाप्यं शयनमन्यत्र स्थितासीनयियासवः ॥२३॥
यत्र वा तत्र वा काले प्रतिष्ठा मुक्तये कृता ।
उत्तरे त्वयने कार्या शुक्लपक्षे च मुक्तये ॥२४॥
पुनर्वस्वश्विनीश्रोणपुष्यहस्तोत्तरत्रये ।
रेवतीरोहिणीस्वातीभरणीषु च शस्यते ॥२५॥
प्रतिपच्च द्वितीया च पञ्चमी च त्रयोदशी ।
दशमी पौर्णमासी च द्वादशी तिथयस्त्विमाः ॥२६॥
सोमो बृहस्पतिश्चैव भार्गवोऽथ बुधस्तथा ।
एते सौम्यग्रहा योज्या वारोदयनिरीक्षणैः ॥२७॥
सप्तमान्नवमाद् वाऽपि प्रागेव स्याच्छुभेऽहनि ।
पञ्चमाद् वाऽङ्कुरारोपस्त्रिकालोक्षार्चनान्वितः ॥२८॥
त्रिविधं पात्रमुद्दिष्टं मङ्गलाङ्कुररोपणे ।
पालिका घटिका चैव शरावश्चेति भेदतः ॥२९॥
विष्णुब्रह्मशिवाधीशा निर्दोषाः सर्वकर्मसु ।
प्रत्येकं द्वादश ग्राह्याः पालिकाः षोडशैव वा ॥३०॥
पञ्चविंशाङ्गुलोच्चास्तास्तद्वक्त्रं षोडशाङ्गुलम् ।
षडङ्गुलं चतुष्कोच्चं पीठं तत्सन्धिरङ्गुलम् ॥३१॥
घटिकामानमङ्गुल्यः षोडश द्वादशैव वा ।
पञ्च वक्त्राणि दिक्षूर्ध्वं मितानि चतुरङ्गुलैः ॥३२॥
पालिकापीठवत् पीठं नालं तु चतुरङ्गुलम् ।
तालास्योच्चं शरावं तु चतुरङ्गुलपीठकम् ॥३३॥
त्रिषङ्क्त्तीकृत्य पात्राणि सुगुप्ते स्थान उत्तरे ।
अग्न्यादीशानपर्यन्तं स्थापयित्वा प्रयत्नतः ॥३४॥
मृद्वालुकाकरीषैस्तु पूरितान्युत्तरोत्तरम् ।
दूर्वादिभिरलंकृत्य धान्यकूर्चस्थितानि च ॥३५॥
यवमुद्गतिलव्रीहिमाषशिम्बकुलुस्थकान् ।
प्रियङ्गुसर्षपश्यामराजमाषाढकीयुतान् ॥३६॥
द्वादशाक्षरमन्त्रेण क्षालयेच्च शुभानिमान् ।
पुण्याहं वाचयित्वाऽऽदौ ब्राह्मणैः स्वस्ति वांच्य च ॥३७॥
अष्टाक्षरेण बीजानि क्रमात् तेषु विनिक्षिपेत् ।
प्रादक्षिण्येन पूर्वोक्तक्रमादवहितो गुरुः ॥३८॥
जितं ते पुण्डरीकाक्ष! नमस्ते विश्वभावन! ।
सुब्रह्मण्य! नमस्तेऽस्तु नमः पुरुष! पूर्वज! ॥३९॥
त्रितारकनमोऽन्तेन तेनैवं सवनत्रये ।
कूर्चपाणिः क्रमात् सिञ्चेद् गन्धहारिद्रवारिणा ॥४०॥
देवतानामभिस्तानि गन्धपुष्पैश्च पूजयेत् ।
पात्राणां देवताः प्रोक्ता बीजानामधुना शृणु ॥४१॥
यवसर्षमुद्गेषु ब्रह्मा रुद्रो हरिः क्रमात् ।
वायुः पूज्यस्तु निष्पावे स्कन्दश्चैव प्रियङ्गुके ॥४२॥
माषेष्विन्द्रः कुलुस्थेऽग्निः शालिष्वर्को यमस्तिले ।
वरुणो राजमाषे श्रीराढक्यां श्यामगः शशी ॥४३॥
मण्डलेषु सकूर्चेषु पूजयित्वाऽष्टदिक्क्रमात् ।
रात्रीशेभ्यो बलिं दद्यात् पार्षदान्तं जलान्वितम् ॥४४॥
पललं रजनीचूर्णं सलाजं दधिसक्तुकम् ।
भूतक्रूरबलिं दद्यात् पूर्वं भूतप्रहर्षणम् ॥४५॥
द्वितीयं पैतृकं चैव दद्यात् सतिलतण्डुलम् ।
धानोडुम्बिकलाजैस्तु ततो यक्षबलिं हरेत् ॥४६॥
नालिकेरपयस्सक्तुशालिपिष्टविमिश्रितम् ।
चतुर्थं निशि वै दद्यात् ततो नागबलिं बुधः ॥४७॥
पञ्चमं तु बलिं दद्यात् ब्राह्मं पद्माक्षतैर्युतम् ।
चरुमाऽपूपयुक्तेन षष्ठं शैवबलिं हरेत् ॥४८॥
गुलान्नं वैष्णवं चैव सप्तमं तदनन्तरम् ।
पायसं कृसरं दद्यादष्टमं नवमं तथा ॥४९॥
शुद्धवासाः शुचिर्भूत्वा नियतात्मा हविष्यभुक् ।
प्रतिरात्रं बलिं दद्यात् ततः स्नानं समाचरेत् ॥५०॥
प्रातः कर्मदिने दत्त्वा पश्चात् कर्मणि योजयेत् ।
प्रविशेत् गुरुरेवात्र नान्यः कोऽपि कथञ्चन ॥५१॥
उच्छिष्टाद्यशुभं सर्वं वर्जयेच्च प्रयत्नतः ।
अदत्त्वा तु बलिं तत्र न कुर्यात् पालिकाक्रियाम् ॥५२॥
बल्यदाने तु नैष्फल्यात् सर्वथाऽङ्कुररोपणम् ।
बलिना सह कर्तव्यं प्रयत्नाद् दिशिकोत्तमैः ॥५३॥
मण्डपे स्तम्भमूलेषु धान्ययुक्तेषु विन्यसेत् ।
कर्मारम्भेषु पात्राणि सम्यग्रूढाङ्कुराणि तु ॥५४॥
श्यामेषु द्रव्यनाशः स्याद् रक्तेषु कलहो ध्रुवम् ।
तिर्यग्गतेषु रोगः स्यादप्ररूढे मृतिर्भवेत् ॥५५॥
शुभं पीतेषु शुक्लेषु समेषूर्ध्वेष्वृजुष्वपि॥
तस्मात् सर्वप्रयत्नेन सदा रक्ष्याण्यतन्द्रितैः ॥५६॥
यदाऽङ्कुराणि रोहन्ति तदाप्रभृति नित्यशः ।
मार्जनं ग्रामवीथीनां कृत्वाऽऽसिच्य समन्ततः ॥५७॥
नास्तिकोन्मत्तपाषण्डिपतितादीक्षिताशुचीन् ।
ततो निर्वास्य यत्नेन यागद्रव्याणि संहरेत् ॥५८॥
प्रासादस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् ।
चतुर्द्वारं वितानादिशोभितं सुपरिच्छदम् ॥५९॥
तोरणान्यथ चत्वारि पञ्चहस्तोच्छ्रितानि च ।
ध्वजानष्टौ पताकाश्च नवमं तार्क्ष्यलक्षणम् ॥६०॥
प्रासादविस्तरोत्सेधान् दशद्वारायतं ध्वजम् ।
घटा हैमादयो ग्राह्या मार्त्तिका वा नवाः शुभाः ॥६१॥
लोहजं च महत् पात्रं कुम्भं द्रोणवहं तथा ।
प्रस्थोद्वहानि चत्वारि चरुस्थालीश्च शोभनाः ॥६२॥
आज्यस्थालीं प्रणीतां च समिद्दर्भकुशांस्तथा ।
सौवर्मराजते चान्ये पात्रे द्वे प्रसृतोद्वहे ॥६३॥
अर्घ्याद्यर्थानि चान्यानि लौहान्यब्जनिभानि च ।
आयुधानि तथान्यानि जातिहेममयानि च ॥६४॥
कूर्मं गरुडमब्जं तु रत्नानि विविधानि च ।
लोहान् धातूंश्च बीजानि दर्वीस्रुवजुहूस्रुचः ॥६५॥
मृत्तिकाघटिकाः सूत्ररजांसि कुसुमानि च ।
गन्धगुग्गुलुतैलानि दधिक्षीरगुलं मधु ॥६६॥
गव्यं घृतं च होमार्थं गोमयं मूत्रमेव च ।
कम्बलाजिनखट्वाश्च शयनं च नवं शुभम् ॥६७॥
उपधानद्वयोपेतं सकपोलस्थलद्वयम् ।
शुक्लास्तरणसंयुक्तं वस्त्राणि विविधानि च ॥६८॥
सवत्सां कपिलां चौकां हेमशृङ्गीं पयस्विनीम् ।
सुरभीश्च चतस्रोऽन्या दोहनानि शुभानि च ॥६९॥
कषायार्थस्त्वचश्चैव होमद्रव्याणि सर्वशः ।
भूषणानि च रम्याणी चक्रिकापल्लवांस्तथा ॥७०॥
दूर्वाद्योषधिजातानि फलानि मधुराणि च ।
मूलान्युद्वर्त्तनादीनि हैमं यज्ञोपवीतकम् ॥७१॥
मङ्गलानि शुभान्यष्टौ कुण्डिकां वर्धनीं तथा ।
शुष्केन्धनानि दीपांश्च सूत्रं धान्यानि तण्डुलान् ॥७२॥
चतुर्विधं तथा वाद्यं गायकान् नर्त्तकांस्तथा ।
विप्रान् वेदविदः शान्तान् वैष्णवांस्तु विशेषतः ॥७३॥
शब्दन्यायनिमित्तज्ञान् प्रयोग्ज्ञांश्च वैदिकान् ।
मुहूर्त्तज्ञांश्च कालज्ञान् व्रतिनो मन्त्रपाठकान् ॥७४॥
यतींश्च विमलज्ञानांस्तक्षकांश्च विशेषतः ।
उक्तानुक्तं च यत् सर्वं कार्ये दृष्ट्वा तदाहरेत् ॥७५॥
यागोपकरणं सर्वं स्थानादि च विशेषतः ।
सर्वं भोगेन दुष्टं स्यात् तस्मात् सर्वं नवं शुभम् ॥७६॥
मलक्षालनमात्रेण शुद्धिर्भवति लौकिकी ।
देवपूजासु शास्त्रोक्तं स्नानं स्यात् कायशोधनम् ॥७७॥
लोकसंव्यवहारेषु धर्मशास्रान्तरेषु च ।
विहिताः शुद्धयो ग्राह्या विष्णुभक्तेन धीमता ॥७८॥
खननादीनि दुष्टायाः शोधनानि विदुर्भुवः ।
शुद्धामपि तु यागार्थं गोमयेनोपलेपयेत् ॥७९॥
तद् धेनुजं नवं भूस्थं क्षीराद्यपि सुगालितम् ।
घृतं विलीनमुत्पूतं सुगन्धीष्टं विशेषतः ॥८०॥
गां लिप्त्वाऽस्त्रेण संविध्य हस्तं प्रक्षाल्य सम्मृशेत् ।
प्रोक्ष्याक्षतैः ससिद्धार्थैः किरेत् तत् स्थानशोधनम् ॥८१॥
तोयेन साम्लकल्केन ताम्रं हैमं तु वारिणा ।
राजतं गृहधूमेन पलालाङ्गारकेण वा ॥८२॥
लोजतं भस्मना शुध्येच्छङ्खादि लवणेन च ।
मृदाऽद्भिः फलपात्राणि दारवाणि तु तक्षणात् ॥८३॥
पार्थिवानि तु दाहेन नवान्येवाददीत वा ।
लेपगन्धापनोदेन शुद्धिः सर्वस्य कीर्त्तिवा ॥८४॥
सकूर्चे गन्धपुष्पाढ्ये जले ताराभिमन्त्रिते ।
ध्यात्वा मन्त्रमयं ज्योतिः प्रोक्षणं द्रव्यशोधनम् ॥८५॥
अक्षाराकलुषं शुद्धं भूरि नद्यादिसम्भवम् ।
सुरसं दुर्जनास्पृष्टमम्भः स्यात् सर्वकर्मसु ॥८६॥
लौही पात्रवदर्चाऽपि शोध्या चूर्णैस्तु शैलजा ।
शोधनं दारवस्यैवं चित्रस्य मलहानतः ॥८७॥
मार्जनं मणिजानां तु धातुजानां तु शैलवत् ।
एवं संशोध्य संहृत्य सृष्ट्वाऽङ्गैः सकलीकृतम् ॥८८॥
शुध्यत्यस्थावरं बेरं स्थावरं स्नपनादिभिः ।
मार्जनादेव शुध्यन्ति क्षालनाद् वा कुशादयः ॥८९॥
सदर्भासन आसीनः पूजास्थानादधः सुधीः ।
दर्भपाणिः सकूर्चेन वारिणा मन्त्रतेजसा ॥९०॥
प्रोक्षणाच्छोधयेत् सर्वमात्मानं दारणादिभिः ।
न्यासश्च प्रणवो दर्भाः प्रशस्ता मन्त्रशोधने ॥९१॥
आवृत्तिगणनं मुद्रा ध्यानं च परिकीर्तितम् ।
सत्यप्रियहितैर्वाचो ज्ञानं तुष्टिश्च चेतसः ॥९२॥
सर्वेषामपि विज्ञेया भक्तिरेका विशोदिनी ।
स्थलजं करवीरादि जलजं कमलादि च ॥९३॥
अवर्जितं नवं पुष्पं सुगन्धि विनिवेदयेत् ।
यत्किञ्चित् पीतवर्णं तु सितं वा शुचिनाऽऽहृदतम् ॥९४॥
अवस्त्राहृतमम्लानं पुष्पं स्याद् ग्राह्यमापादि ।
सच्छिद्रं मुकुलं जीर्णं पतितं पात्रवर्जितम् ॥९५॥
भुक्तसेषमगन्धं च केशकीटादिमिश्रितम् ।
पुष्पमापद्यपि त्याज्यमर्कपत्रगतं तथा ॥९६॥
प्रतिषिद्धानि पुष्पाणि सुस्नातोऽपि यदि स्पृशेत् ।
स्नायात् पुनरशक्तश्चेदुपस्पृश्यार्चयेत् प्रभुम् ॥९७॥
स्वयं पत्न्यथवा पुत्रः शिष्यो वा पुष्पमाहरेत् ।
शुद्धपाणिः सुपात्रस्थं पिधायानातपे न्यसेत् ॥९८॥
रात्रिपुष्पैर्यजेद् रात्रौ दिवापुष्पैर्दिवा तथा ।
आपत्काले यथायोगं प्राप्तकालं तु शस्यते ॥९९॥
निर्गन्धमपि मन्दारपीतकोरण्डकादि यत् ।
प्रशस्तं तदपि ग्राह्यं गिरिकर्ण्यादिवर्जितम् ॥१००॥
दूर्वापामार्गभद्राणां तृलसीगन्धपूर्णयोः ।
तमालाश्वत्थबिल्वानां शम्याः कुशपलाशयोः ॥१०१॥
पत्राणि धातकीब्राह्मीभृङ्गाणामपि पुष्पवत् ।
यवप्रियङ्गुनिष्पावमुद्गमाषचणाङ्कुरान् ॥१०२॥
सुसंभृतानलूनाग्रान् पुष्पालाभे प्रकल्पयेत् ।
पुष्पं स्वारामजं मुख्यं मध्यमं वन्यमाहृतम् ॥१०३॥
अधमं क्रीतमर्चायां फलं दातुः प्रतिग्रहे ।
पृथग्वा सह वा पिष्टैः सितास्रेन्दुरुगायसैः ॥१०४॥
कृत्रिमैर्वाऽर्चयद् गन्धैः प्राण्यङ्गरहितैः शुभैः ।
सालसर्जपुराणां वा दारुसेव्येन्द्वयोरुजाम् ॥१०५॥
धूपमाज्यादिसंयुक्तं शुभे पात्रे निवेदयेत् ।
तैलेनाज्येन वा दीपं दारुस्रेहेन वाऽऽपदि ॥१०६॥
सूत्रवर्त्तियुतं तद्यादमुखानिलदीपितम् ।
त्रिः क्षालितैरनुत्स्विन्नैरमलैः शालितण्डुलैः ॥१०७॥
शृतं घृतोपदंशादियुतमन्नं निवेदयेत् ।
कालपक्वान्यदुष्टानि फलानि मधुराणि च ॥१०८॥
अलाभे केवलैः पुष्पैर्जलैर्वा मनसाऽर्चयेत् ॥१०९॥

॥इति विष्णुसंहितायां पञ्चदशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP