संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|विष्णुसंहिता| विंशः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - विंशः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता विंशः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपादुत्सवस्य विधिं परम् ।स्थापितोऽपि विना येन प्रसीदति न केशवः ॥१॥अब्दमर्धं त्रिमासं वा मासं पक्षमसम्भवे ।नवाहं वाऽपि सप्ताहं पञ्चाहं नेष्यते परम् ॥२॥माघे वा मार्गशीर्षे वा चैत्रे वैशाख एव वा ।पौषे वा फाल्गुने कुर्यादुत्सवं बहुविस्तरम् ॥३॥प्रत्यब्दं नियतं कुर्याच्छक्त्या सर्वार्थसाधनम् ।पुण्याहेनोत्सवारम्भे ध्वजस्थापनमाचरेत् ॥४॥सप्ताह्निकचतुष्कादौ मङ्गलङ्कुररोपणम् ।श्रवणान्तं तु संकल्प्य तीर्थस्नानावसानिकम् ॥५॥कारयेदुत्सवं भक्त्या विष्णोर्विष्णुपरायणः ।स्थापयेदुत्सवारम्भे ध्वजं गरुडलक्षणम् ॥६॥दिक्षु चाष्टौ यथान्यायं पताकादीन् समुज्ज्वलान् ।ध्वजोत्थाने कृते किञ्चिन्न विघ्नैरभिभूयते ॥७॥कलशेन समं कार्यं ध्वजस्यारोहणं तदा ।पूर्ववन्मण्डपं कृत्वा वेदिं च सुपरिश्रिताम् ॥८॥अग्नेश्च जननं कुम्भमूर्त्तिपानां च कल्पनम् ।ध्वजदण्डः समः कार्यो दृढो व्रणविवर्जितः ॥९॥कर्मान्तरानियुक्तश्च न शुष्कः पतितः स्वयम् ।पुष्यादियोगे सङ्ग्राह्यः सुलग्ने शकुनैः शुभैः ॥१०॥ब्राह्मणैः स्वस्तिवाच्यादौ शुचिः स्नातः स्वलङ्कृतः ।तथाविधैर्द्विजैर्युक्तो जयशब्दादिसंयुतः ॥११॥मध्वाज्याक्तकुठारेण पूर्वोत्तरमुखो गुरुः ।छित्वा वंशमुपानीय कलशैः स्नापयेच्छुभैः ॥१२॥मृत्कषायौषधीतीर्थैर्गन्धपुष्पैश्च पूजयेत् ।पताका च शुभा कार्या सिता तदवलम्बिनी ॥१३॥स्याद् देवागारशिखरत्रिभागसमलम्बिनी ।दर्भैरावेष्टिता घण्टा चामरादर्शसंयुता ॥१४॥सम्मुखं लेखयेत् तत्र विनाताकुलनन्दनम् ।आजानुनाभिकण्ठाग्रं सितपीतारुणासितम् ॥१५॥दुर्निरीक्षं सुरैर्दैत्यैर्ज्वालान्वितविलोचनम् ।अनन्ताद्यष्टनागेन्द्रधरं नीलाग्रनासिकम् ॥१६॥सहस्रादित्यसंकाशं मनसाऽऽवाह्य विन्यसेत् ।पूजयेद् गन्धपुष्पैश्च मन्त्रेणानेन मन्त्रवित् ॥१७॥तारादिः पक्षिराजाय हुतान्तोऽष्टाक्षरस्तु यः ।सम्बुद्धिरूप एव स्यादावाहनविसर्गयोः ॥१८॥चन्दनस्रग्बलिध्यानैः शयनेऽभ्यर्च्य वासयेत् ।होमं च विधिवत् कुर्याद् वर्गाद्यैः कादिशान्तगैः ॥१९॥हुतान्तैः प्रणवाद्यैश्च तिलान् व्रीहिसमन्वितान् ।चतुर्भिरक्षरैर्दिक्षु चवर्गानन्तरैर्विना ॥२०॥अष्टोत्तरसहस्रं तु वैनतेयपदान्वितैः ।आज्याक्तं होमयेत् सर्वं निवेद्यं च चतुर्विधम् ॥२१॥बलिं च परितो दद्याद् भूतानां ध्वजवासिनाम् ।अनेककोटिसंख्यानां भूतानां चापि पार्षदाम् ॥२२॥प्रभातेऽभ्यर्चयित्वैवं ब्राह्मणांश्चैव तर्पयेत् ।ध्वजवाहनभूतोऽसौ विष्णोर्विष्णुपराक्रमः ॥२३॥सुपर्णः प्रीयतां मह्यं विनताकुलनन्दनः ।इत्युच्चार्य ततो गच्छेद् देवतायतनं प्रति ॥२४॥ध्वजमादाय तैः सार्धं देवमूर्त्तिधरैर्द्विजैः ।वेदतूर्यादिनिर्घोषैः सुलग्ने स्तापयेद् ध्वजम् ॥२५॥मुक्तागारुडहेमानि गर्त्ते विन्यस्य रोहयेत् ।ओन्नमोऽष्टकुलानागभूषणाय नागशोणितलिप्ताङ्गाय सप्तपातालवासिजनविक्षोभणकराय महाशैलसञ्चालनायारुणकनीयसे पुरुषोत्तमवाहनाय विनतानन्दकराय त्रैलोक्यविक्षोभणाय देवदानवगन्धर्वोरगमथनायामृतमथनाय मातुरर्थे नागमोहनाय हन हन विघ्नान् नाशय स्वाहा ।अनेन स्तितिमन्त्रेण स्तुत्वा तं विहगेश्वरम् ॥२६॥सान्निध्यं कल्पयेत् तस्य पक्षिराजस्य सर्वदा ।ततः प्रभृति तत्स्थानं नोपसर्पन्ति राक्षसाः ॥२७॥पिशाचा दन्दशूकाश्च तस्मात् कार्योध्वजोच्छ्रयः ।स्नपनं चात्रकर्तव्यं प्रासादस्य तथैव च ॥२८॥कलशं पूरयेच्छुभ्रं फलैर्नानाविधैः शुभैः ।सर्वधान्यैस्तथा शुक्लैः कुसुमैश्च सुगन्धिभिः ॥२९॥तत्त्वानां तु यथा न्यासस्तदुक्तं प्रथमं तव ।यजमानोऽनुगैः सार्धं ध्वजमन्दिरयोः पुनः ॥३०॥प्रदक्षिणं त्रिधा कृत्वा गच्छेदवभृथं ततः ।शुभं तीर्थं प्रविश्यात्र गङ्गामावाहयेत् पुनः ॥३१॥देवि! विष्णुपदे! शुद्धे! सर्वपापव्यपोहिन! ।नन्दिनीत्येव ते नाम नलिनी मालिनीति च ॥३२॥दक्षापत्या च विहगी सर्वभूतप्रियेति च ।शरणं त्वां प्रपन्नोऽस्मि पापान्यमोचय मा चिरम् ॥३३॥ध्यात्वा जपन्निमं मन्त्रं वारि विक्षोभ्य पाणिना ।मज्जेद् येऽन्येऽत्र मज्जन्ति सर्वे तु स्युरकल्मषाः ॥३४॥मूलाङ्गैस्तर्पयेत् तत्र मुनीन् देवान् ऋषींस्तथा ।पार्षदांश्च भवेत् तृप्तिस्तेषां द्वादशवार्षिकी ॥३५॥दीक्षान्ते च प्रतिष्ठान्ते कुर्यादवभृथं तथा ।सर्वतीर्थसमं पुण्यं भवत्येव न संशयः ॥३६॥ध्वजानन्यांस्तथा स्थाप्य दिशापालाङ्कचिह्नितान् ।स्वमन्त्रैः पूजयेद् दिक्षु सर्वेभ्यश्च बलिं हरेत् ॥३७॥ग्रामवीथीश्च सम्मृज्य प्रोक्ष्य गन्धोदकैस्ततः ।समन्ताद् विकिरेत् पुष्पैः शोभनैश्च सुगन्धिभिः ॥३८॥ग्रामपर्यन्तदेशे च ग्रामान्तश्चत्वरेषु च ।चैत्यारामेषु गोष्ठेषु देवतायतनेषु च ॥३९॥तोरणैश्च पताकाभिर्मण्डलैश्चोपशोभयेत् ।कदलीनालिकेरेक्षुपूगपुष्पफलद्रुमैः ॥४०॥दीपप्रासादयन्त्रैश्च कुर्याच्छोभां समन्ततः ।सवनेषु बलिं दद्याद् गन्धपुष्पादिसंयुतम् ॥४१॥पूजयित्वा यथान्यायमुत्सवेषु विशेषतः ।संस्नाप्य शुद्धतोयैश्च पयोदध्याज्यगन्धकैः ॥४२॥गव्यैश्च नालिकेराद्भिर्लिप्त्वा गन्धैः सुयोजितैः ।हृद्यैः सुधूपितैश्चित्रैः परिधाप्य नवैंशुकैः ॥४३॥पुष्पैर्मनोहरैः पुण्यैर्विविधैश्च विशेषतः ।मालास्रग्भिः समन्ताच्च सन्धूप्यायः पुरादिभिः ॥४४॥सरत्नहेमभूषाभिर्भक्त्या दीपैश्च पूजयेत् ।स्वादुभिः सोपदंशैश्च प्रभूतैराज्यसंयुतैः ॥४५॥चतुर्विधैर्दधिक्षीरगुलाद्यैश्च निवेद्यकैः ।गीतसङ्गीतवादित्रबहुलं भक्तहर्षणम् ॥४६॥विविधान्नाद्यभूयिष्ठमुत्सवं कारयेत् ततः ।कृत्वा नित्यबलिं दद्यात् तत्रोत्सवबलिं पुनः ॥४७॥विशेषेण च कर्तव्यं सर्वमङ्गलसंयुतम् ।स्त्रियो द्विजाश्च हृष्टाश्च भक्ताश्च जयपाठकाः ॥४८॥देवस्य परितो गत्वा मुच्यन्तेऽखिलपातकैः ।नृत्तगीतादिभिश्चात्र विशालं कुर्युरुत्सवम् ॥४९॥शनैः प्रदक्षिणं गच्छेद् बलिं दद्याच्च देशिकः ।यावन्त्युत्सवक्लृप्तानि दिनान्येवं समाचरेत् ॥५०॥गन्धपुष्पाक्षतैः स्रग्भिः फलैश्च विविधैः शुभैः ।किरेयुः कौतुकं भक्ताः कालचक्रमथापि वा ॥५१॥एवं त्रिधा परिभ्रम्य षडहानि यथाविधि ।सप्तमेऽह्वि ततः कुर्यात् पुष्पयागं हरिप्रियम् ॥५२॥पूर्वेद्युर्भूशयो भूत्वा नियतात्मा हविष्यभुक् ।उपोष्य निशि देवस्य कुर्यात् कौतुकबन्धनम् ॥५३॥कर्मार्चां तु समाराध्य मण्डपे समलङ्कृते ।प्ररोहघटिकाभिस्तु शरावैर्दिग्विदिग्गतैः ॥५४॥वैष्णवैः कारयित्वा तु घृतारोपणमादितः ।जयमङ्गलघोषैस्तु प्रदर्श्यादर्शमङ्गलम् ॥५५॥जितं त इति बध्नीयात् कौतुकं दक्षिणे करे ।आचार्यस्यापि कर्तव्यं तदा कौतुकबन्धनम् ॥५६॥चामरैस्तालवृन्तैश्च वीजयेन्मङ्गलान्वितम् ।शयने सन्निवेश्यार्चामनिर्वाणप्रदीपकैः ॥५७॥रात्रिशेषं समासीत सन्धूप्यायः पुरादिभिः ।प्रातः स्नात्वाऽर्चयित्वा च कृत्वा मङ्गलवाचनम् ॥५८॥ग्रामप्रदक्षिणं चात्र पिष्टचूर्णानि कारयेत् ।उलूखले नवे शुद्धे दूर्वादिभिरलंकृते ॥५९॥वैष्णवीभिस्तु दासीभिर्द्विजैर्वा सुशुभानि तु ।लिप्त्वाऽऽज्येन तु तामर्चां मूलबिम्बमथापि वा ॥६०॥हेमचूर्णादिभिः सम्यक् परिमृज्य समन्ततः ।हरिद्रमुद्गसम्मिश्रैर्भक्तानां मूर्ध्नि विन्यसेत् ॥६१॥गन्धचूर्णैश्च विमृजेत् प्रतिमां तद्वदेव तु ।स्नापयेद् वेदिकामध्ये पूरितैस्तीर्थवारिभिः ॥६२॥गन्धतोयैश्च दातव्यं भक्तानां मूर्ध्नि तज्जलम् ।दत्त्वा सुवर्णचूर्णं च पूजयेद् विधिना पुनः ॥६३॥स्नात्वाऽऽचम्य पुनर्वेद्यां शोधितायां समन्ततः ।चतुस्तोरणयुक्तायां विकिरेत् सर्षपाक्षतैः ॥६४॥कलशैरङ्कुरैर्दीपैर्दर्पणाद्यैश्च भूषयेत् ।दामानि लम्बयेत् तत्र मुक्तादामानि चाभितः ॥६५॥कुम्भेशवर्धनीभ्यां तु कृत्वाऽऽदौ भूपरिग्रहम् ।पूर्ववत् सूत्रयित्वाऽत्र कारयेत् पुष्पमण्डलम् ॥६६॥पञ्चवर्णैः शुभैः पुष्पैरम्लानैश्च सुगन्धिभिः ।मन्दारपीतकोरण्डैः पद्मबिल्वदलैरपि ॥६७॥जपादिवर्जितैः शुद्धैर्यथावर्मविभागतः ।मध्ये सकर्णिकं पदम्मष्टपत्रं सुशोभनम् ॥६८॥षङ्भिर्द्वादशभिर्वाऽपि दलैर्युक्तं प्रकल्पयेत् ।पीतैस्तु कर्णिका कार्या रक्तवर्णैस्तु केसराः ॥६९॥हरितैः सन्धयश्चात्र शुक्लैरेव दलानि तु ।भद्रकं वा लिखेत् तत्र चक्राब्जं वा यथारुचि ॥७०॥बहिरावरणे चाष्टौ पद्मान्यष्टदलानि तु ।मूर्त्तीनां चाथ देवीनां तथा पुष्पमयान्यथ ॥७१॥मुद्राणां लोकपालानां तथैवावरणद्वये ।आदिपद्मार्धमानेन मूर्त्तिपद्मानि कल्पयेत् ॥७२॥तदर्धेन तु मुद्राणामिन्द्रादीनां प्रकल्पयेत् ।तावता वैनतेयस्य विष्वक्सेनस्य चैव हि ॥७३॥पश्चिमं वाहयेद् द्वारं वीथीश्च परितो भवेत् ।पुष्पदन्तप्रदेशे स्यात् सञ्चारो मूर्त्तिदारिणाम् ॥७४॥एवं पुष्पमयान्येव कुर्यात् पद्मानि सर्वशः ।द्वारादिकं बहिः सर्वं यथाशोबं प्रकल्पयेत् ॥७५॥योगपीठं तु सम्पूज्य सगात्रं सपरिच्छदम् ।प्रतिमामादिपद्मस्य कर्णिकायां निवेशयेत् ॥७६॥पूजयेत् पूर्ववद् देवं न्यासं कृत्वा यथाविधि ।मूर्त्तिशक्त्यस्त्रलोकेशाः पूज्याः पद्मेषु तेषु च ॥७७॥गन्धैः पुष्पैश्च धूपैश्च दीपैरन्नैश्च शोभनैः ।पूजयित्वा यथान्यायमग्निकार्यं समारभेत् ॥७८॥चतस्रः पालिकाः पूर्वमग्नेः कृत्वा चतुर्दिशम् ।चतुरश्च चरून् कृत्वा यथावित्तानुसारतः ॥७९॥पूर्ववत् संस्कृते वह्नौ चतुर्धैकं विभज्य वा ।कृत्वोपस्तरणादीनि प्रथमं तु निवेदयेत् ॥८०॥द्वितीयं जुहुयादग्नौ घृताक्तं प्राग्वदेव तु ।तृतीयं परिवारेभ्यो दत्त्वाऽन्ते बलिमेव च ॥८१॥चतुर्थं प्राशयेत साज्यं शेषं कृत्वा तु पूर्ववत् ।हिरण्यं दक्षिणां दद्याद् ब्राह्मणांश्चैव भोजयेत् ॥८२॥नृत्तगीतादिभिः स्तोत्रैर्वेदनादैश्च पुष्कलैः ।पूजनैर्वैष्णवानां च प्रीणयेदखिलेश्वरम् ॥८३॥द्वादश्यां श्रवणेऽप्येवं कुर्याद् यागं विचक्षणः ।सप्तमे सप्तमे कुर्याद् विष्णुयागमतन्द्रितः ॥८४॥संवत्सरं तथा कृत्वा विष्णुलोके महीयते ।अयने विषुवे चैव सोमसूर्यग्रहे तथा ॥८५॥संक्रमे विष्णुपञ्चम्यां कृत्वेष्टं प्राप्नुयात् फलम् ।प्रथमे दिवसे रात्रौ कुर्याद् ग्रामप्रदक्षिणम् ॥८६॥अह्नि प्रदक्षिणं कुर्याच्छेषेषु दिवसेषु च ।बलिं च सर्वतो दद्याद् भूतेभ्योऽन्तर्बहिस्तथा ॥८७॥परिभ्रमणकाले च मण्डलेषु बलिं हरेत् ।कौतुकस्य पुरस्तात् तु गन्तव्यं बलिदायिभिः ॥८८॥गन्धपुष्पादिसंयुक्तं जलदानसमन्वितम् ।बलिविक्षेपणं कुर्याद् बलिमुद्रां च दर्शयेत् ॥८९॥कुमुदादिध्वजेशानां पञ्चाशद्गणनायकाः ।भवन्ति शतशस्तेषां तथैव च सहस्रशः ॥९०॥॥इति विष्णुसंहितायां विंशः पटलः॥ N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP