संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|विष्णुसंहिता| दशमः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - दशमः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता दशमः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपाद् दीक्षापूजाद्यनुग्रहम् ।शिष्याधिकारसिद्ध्यर्थं निर्वाणार्थं च योगिनाम् ॥१॥दीयन्ते सिद्धयः सर्वाः क्षीयन्ते ग्रन्थयोऽप्यतः ।दीक्षात्वमेवं दीक्षाया धर्माधर्महृदात्मनः ॥२॥वसन्तग्रीष्मयोर्दीक्षा कार्या वा कार्त्तिकादिषु ।शरदाषाढयोश्चोक्तो वर्णजानामनुग्रहः ॥३॥जातिशौचगुणान् पूर्वं परीक्ष्य स्वयमादरात् ।शुद्धान् गुरुर्विजानीयात् स्रीशूद्रांस्तु विशेषतः ॥४॥ते तु भक्तिं ततो ज्ञात्वा कर्तव्या परमेश्वरे ।देववद् भक्तिमन्तोऽस्य कुर्युः शुश्रूषणं चिरम् ॥५॥भगवंस्त्वत्प्रसादेन संसारार्णवतारणम् ।इच्छामश्चैहिकीं सिद्धिं विशेषेण तपोधन! ॥६॥इति विज्ञाप्य सन्तोष्य दानानुगमसान्त्वनैः ।तदिच्छयोक्तसम्भारानाहरेयुर्यथाबलम् ॥७॥द्रव्याण्यानाय्य संशोध्य पूर्वोद्युरधिवास्य च ।द्वादश्यां दीक्षयेच्छिष्यानिष्ट्वा देवविधानतः ॥८॥देवालयनदीतीर्थगोष्ठारामादिसन्निधौ ।ब्राह्मणादिविभागेन यागस्थानं प्रकल्पयेत् ॥९॥दीक्षार्थिनस्तु यावन्तः सम्भवन्त्यत्र वैष्णवाः ।ते सर्वे सममेवात्र यतेरन्नात्मशक्तितः ॥१०॥यत्नोऽर्थो वाऽधिको यस्य फलं तस्याधिकं तथा ।वित्तशाठ्यं तु यः कुर्यान्नरके स पतेद् ध्रुवम् ॥११॥वैष्णवैरभ्यनुज्ञातो दीक्षितैः कुशलैः सह ।स्नात्वाऽऽचम्य शुचिर्भूत्वा कृतिनित्यः स्वलंकृतः ॥१२॥यागार्थं कल्पितां भूमिमाचार्यः स्वयमाविशेत् ।सञ्चिन्त्य मनसा देवं सकलं मण्डलात्मकम् ॥१३॥संस्कृत्य विधिना वेदिं कलशन्यासमारभेत् ।नृसिंहजप्तान् सिद्धार्थान् फडन्तेन विकीर्य तु ॥१४॥मूलेन विकिरान् जप्त्वा पञ्चगव्यं तु साधयेत् ।गोमूत्रं प्रणवेनैव विसर्गेण तु गोमयम् ॥१५॥बिन्द्वन्तेन पयो दद्याद्दधि दीर्घेण विष्णुना ।घृतमाद्येन शुद्धेन विष्णुबीजेन पूजयेत् ॥१६॥गोमूत्राद् गोमयं त्वर्धं क्षीरमष्टगुणं ततः ।दधि सप्तगुणं दद्यादाज्यं चैव चतुर्गुणम् ॥१७॥त्रिबीजेन कुशैः प्रोक्ष्य मूलेन विकिरान् क्षिपेत् ।त्रिरेव प्राङ्मुखस्तिष्ठंस्तं ध्यात्वोत्तानपाणिना ॥१८॥पीठन्यासक्रमादीशे कलशं कर्करीयुतम् ।सरत्नं निर्व्रणं रम्यं लोहजं सूत्रवेष्टितम् ॥१९॥पूरयित्वाऽर्चयेद् विद्वान् गन्धपुष्पैर्यथाक्रमम् ।धर्माधर्मादिपीठस्थं पङ्कजं कलशे न्यसेत् ॥२०॥क्षादिमूर्तिशिफानाळसरः कण्टकरन्ध्रकम् ।धर्माद्यन्तःस्थयुग्ग्रन्थिसाधर्म्यादिनपुंसकम् ॥२१॥काद्यैस्रिभिस्रिभिः पत्रैः कर्णिकान्तैः समन्वितम्॥विसर्गबिन्दुदीप्ताग्रपूर्वादिस्वरकेसरम् ॥२२॥तारांशत्रितयोपेतमात्मविद्यापरक्रमात् ।नादशक्तियुतं मध्ये तत्रावाह्यार्चयेत् प्रभुम् ॥२३॥वर्धन्यां चासने सिद्धे तस्मादावाहनं भवेत् ।आज्येऽर्घ्ये च प्रणीतायां स्रुक्स्रुवेषु विशेषतः ॥२४॥पञ्चगव्ये चरौ कुण्डे मण्डले विष्णुहस्तके ।पूजयित्वा तथा साङ्गं कलशस्थं तु केशवम् ॥२५॥अग्रतोऽस्त्रेण वर्धन्या मण्डपस्य समन्ततः ।अच्छिन्नां पातयेद् धारामीशाद्यन्तं प्रदक्षिणम् ॥२६॥पश्चात् तेनैव मार्गेण साधकः कलशं नयेत् ।संहृत्य विकिरान् सर्वान् विकीर्णान् पात्रगैः सह ॥२७॥सर्वधान्यस्थितं कुम्भं पूजयेद् वर्धनीं तथा ।नवेनांशुकयुग्मेन वेष्टयेत् तं सितेन तु ॥२८॥घटिकां च तथैकेन रक्षां चास्त्रेण कल्पयेत् ।विकिरेदस्त्रजप्तैश्च सर्वधान्यैः समन्ततः ॥२९॥सम्मृज्य मूर्तिभिश्चाग्नौ संस्कृते श्रपयेच्चरुम् ।मूलेन मूर्तिभिश्चाग्नौ संस्कृते श्रपयेच्चरुम् ॥३०॥क्षालिताज्याक्तसक्षीरानुखामारोप्य तण्डुलान् ।क्षालितान् समुपस्तीर्णान् न्यस्यालोड्यावघट्य च ॥३१॥उपस्तीर्योदगुद्वास्य क्षालितं प्रोक्ष्य पूजयेत् ।कुर्याद् भस्मोर्ध्वपुण्ड्रं च तत्पार्श्वेऽष्टाक्षरेण तु ॥३२॥उपस्तीर्य शुभे पात्रे क्षिप्तं प्रत्यभिघार्य च ।अभिघार्य क्षतं चाद्यं भागं देवाय कल्पयेत् ॥३३॥द्वितीयं कलशस्थाय वह्निस्थाय तृतीयकम् ।घृताप्लुतं तु मूलेन जुहुयादाहुतित्रयम् ॥३४॥तच्छेषेण बलिं पीत्वा पञ्चगव्यं चतुर्थकम् ।प्रणवेन पुरा पीत्वा पञ्चगव्यं चतुर्थकम् ॥३५॥भागं शिष्यैः सहाश्नीयाद् गुरुः कायविशोधनम् ।सप्ताभिमन्त्रितं प्राच्यां निखातं द्वादशाङ्गुलम् ॥३६॥भक्ष्यं तैर्दन्तकाष्ठं च क्षीरवृक्षजमव्रणम् ।शुभं परीक्षयेत् तेन शान्तिहोमोऽशुभे स्मृतः ॥३७॥आचान्तः सकलो भूत्वा प्रार्थयेद् गुरुरच्युतम् ।प्रदक्षिणमुपावृत्य नमस्कृत्य प्रसाद्य च ॥३८॥संसारार्णवमग्नानां पशूनां पाशमुक्तये ।त्वमेव शरणं देव! सदा त्वं भक्तवत्सल ॥३९॥देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।पाशितान् मोक्षयिष्यामि त्वत्प्रसादात् पशूनिमान् ॥४०॥लब्धानुज्ञस्तु संशोध्य धारणाभिरुपोषितान् ।अस्त्रेण प्रोक्ष्य लिङ्गस्थान् पशून् स्वात्मनि योजयेत् ॥४१॥सम्प्रोक्ष्य तं पुनर्देहं वाताग्निधृतमग्रतः ।भस्मकूटमिव ध्यात्वा प्लावयेद् वारिणाऽखिलम् ॥४२॥उदकैकनिधिं सम्यग् ध्यात्वा संसारमण्डलम् ।कल्पयेत् पार्थिवीं शक्तिं ब्रह्माण्डैकस्वरूपिणीम् ॥४३॥तन्मात्रासम्भृतां शुभ्रां वृत्तां बुद्बुदसन्निभाम् ।लिङ्गे संक्रामिते ध्यायेत् पुरुषं प्रणवात्मकम् ॥४४॥विभक्तेन्द्रियसंस्थानं बुद्ध्याऽब्देनाण्डभेदनम् ।शकले रोदसी मध्ये प्रजापतिमिमं स्मरेत् ॥४५॥प्रणवेन पुनः प्रोक्ष्य सकलीकृत्य देशिकः ।स्वहस्ते सकलं ध्यायेन्मण्डलादिकमादरात् ॥४६॥चतुर्द्वारं पुरं तच्च ब्रह्मतीर्थाद्यनुक्रमात् ।मध्ये पद्मं यथाप्रोक्तं पत्राण्यङ्गुलयः स्मृताः ॥४७॥कर्णिका तलमध्यं तु पर्वाण्यस्य तु केसराः ।अग्निस्थानं च मध्येऽत्र तन्मध्ये केशवः स्थितः ॥४८॥मण्डलत्रितयस्यान्तः सूर्यकोटिसमप्रभम् ।तं ध्यात्वा पूजयेन्मध्ये गन्धपुष्पैर्यथाक्रमम् ॥४९॥तं हस्तं दापयेन्मूर्ध्नि शिष्यस्य सुसमाहितः ।हस्ते विष्णुः स्थितो यस्मिन् विष्णुहस्तस्तु स स्मृतः ॥५०॥जन्मान्तरसहस्रैस्तु यत् पापं सञ्चितं पुरा ।सर्वं तत् स्पर्शमात्रेण विलयं यात्यसंशयम् ॥५१॥एवमेकं बहून् वापि जनयेद् ध्यानयोगतः ।एवं संशुद्धदेहं तं गन्धपुष्पैः प्रपूजयेत् ॥५२॥करौ सम्मृज्य मूलेन नेत्रे बद्ध्वा सुवाससा ।नेत्रमन्त्रेण मेधावी सदशेनाहतेन तु ॥५३॥शिष्यं पुष्पाञ्जलिधरं प्राङ्मुखं तु प्रवेशयेत् ।ब्राह्मणादिक्रमेणैव बहवश्चेद् विविक्षवः ॥५४॥द्वारं तु दक्षिणं श्रेष्ठं मण्डपस्य प्रवेशने ।उत्तरादीनि चत्वारि विप्रादीनां विशेषतः ॥५५॥पुरप्रवेशनं कार्यं शिष्यकामानुरूपतः ।प्रजाबलार्थसौभाग्यं रत्नान्नविजयस्त्रियः ॥५६॥धृतिमोक्षायुरारोग्यं पशुपुत्रसुखादि च ।पूर्वादिषु प्रवेशे स्यात् करं दत्त्वा प्रवेशयेत् ॥५७॥कृतप्रदक्षिणं शिष्यं क्रमाद् वन्दितदिक्पतिम् ।देवाभिमुखमानीय प्राड्मुखं स्थापयेत् ततः ॥५८॥तूष्णीं स गुरुणोद्दिष्टो यतवाक्कायमानसः ।जानुद्वयेन भूमिं तु विष्टभ्य नतिपूर्वकम् ॥५९॥ध्यात्वा देवं हरिं भक्त्या सूर्यकोटिसमप्रभम् ।लक्ष्म्या समन्वितं सौम्यमष्टबाहुमलङ्कृतम् ॥६०॥समाहितः क्षिपेन्माल्यं गुर्वदेशप्रतीक्षया ।तन्नेत्रावरणं मुक्त्वा पुष्पपातं विलोकयेत् ॥६१॥पुष्पपातानूरूपेण मूर्तिनाम्ना तमाह्वयेत् ।अमन्त्रमर्चनं तत्र कारयेद् देवमूर्तिषु ॥६२॥देवान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु ।गुप्तान्तं नाम वैश्यस्य शूद्रे दासान्तमुद्दिशेत् ॥६३॥स्त्रीणां देवीति नाम स्यात् सा मूर्तिस्तस्य कामदा ।दृष्टमात्रे प्रणश्यन्ति मण्डले पापसञ्चयाः ॥६४॥धूपं दीपं क्रमाद् दत्त्वा निवेद्यं चात्र कल्पयेत् ।प्रकृत्यादिपृथिव्यन्तं साधिभूताधिदैवतम् ॥६५॥अध्यात्मसंहृतं सर्वं क्रमाच्छिष्यतनौ न्यसेत् ।दक्षिणेनोपवेश्यैनं दर्भपाणिं तु वाग्यतम् ॥६६॥अन्वारब्धेन होतव्यमाचार्येण विजानता ।अग्नौ सम्पातविधिना तत्त्वानां तु शतं शतम् ॥६७॥दत्त्वा पूर्णाहुतिं सर्वं कुम्भेशाय निवेदयेत् ।करणीं कर्तरीं चाथ रजांसि घटिकां तथा ॥६८॥यच्चान्यदुपयोगि स्यात् सर्वं तद् वायुगोचरे ।साङ्गेन मूलमन्त्रेण परामृश्याधिवासयेत् ॥६९॥ततः शयीत तैः शिष्यैः कुशानास्तीर्य तं स्मरन् ।दुःस्वप्नादिषु शान्तिः स्यान्नान्यथा सिद्धिरैहिकी ॥७०॥प्रातः स्नात्वा विसृज्येशं मण्डले पुनरर्चयेत् ।प्रवालमुक्ताभारणहेमपुष्पैर्मनोहरैः ॥७१॥निवेद्यैर्विविधैश्चाग्निं सन्तर्प्याहूय तान् क्रमात् ।पूर्ववत् कृतदेवार्चानग्रे पद्मासनस्थितान् ॥७२॥सम्प्रोक्ष्य सकलीकृत्य विष्णुहस्तेन के स्पृशेत् ।प्रकृत्यादिपृथिव्यन्तां सृष्टिं ध्यात्वाऽखिलां क्रमात् ॥७३॥तन्मात्रभूतां तद्देहे जीवेन समतां गताम् ।तारेणात्मनि संयोज्य ध्यात्वा समरसीकृतम् ॥७४॥जीवं तद्देहकालाग्निशक्तियोनिसमर्पणात् ।गर्भं जन्माधिकारं च भोगं नाशं च पञ्चभिः ॥७५॥अष्टाष्टाहुतिर्भिर्हुत्वा नरके च तथा पुनः ।पाताले भुवि शंशोध्य स्थावरत्वादिजन्मभिः ॥७६॥विलोमं शूद्रविट्क्षत्रब्राह्मणत्वेषु योजयेत् ।क्रियाः षोडश मूलेन पाकयज्ञादिभिः क्रमात् ॥७७॥शोधयित्वाऽश्वमेधान्तैः कल्पयेदन्त्यमाश्रमम् ।कृत्वाऽन्त्येष्टिं पिशाचादियोन्यष्टकविभागतः ॥७८॥त्रिसुरान्तं क्रमान्नीत्वा नाशयेत् कर्मबन्धनम् ।ततः सम्प्रोक्ष्य तद्देहमाहुतीनां शतेन तम् ॥७९॥सृष्टीश्वरमुदासीनं पूर्णाहुत्या च कल्पयेत् ।मूलजप्तेन शुक्लेन रजसा हृदि ताडयेत् ॥८०॥वियुङ्क्ष्वहुंफडन्तेन नाम्ना तत्त्वाक्षरादिना ।विश्लेष्यायाहिहामन्तबीजाद्यामन्त्रितेन च ॥८१॥आदाय समतां नीत्वा युङ्क्ष्वहुंफडिति क्रमात् ।प्रकृत्याकृत्य तेनैव संहारान्तेन होमयेत् ॥८२॥वह्नावखिलतत्त्वानामालयेऽव्याकृते हरौ ।लीयमानं क्रमात् सर्वं तत्त्वाध्वानं स्मरेद् बुधः ॥८३॥शुद्धं परेण तत्त्वेन पूर्णाहुत्या च सन्धयेत् ।एवं तत्त्वानि संशोध्य प्रकृतिं परमात्मनि ॥८४॥विलाप्य ज्ञानयोगेन दद्यात् पूर्णाहुतिं बुधः ।निर्वामे प्रकृतिं दग्ध्वा सन्दध्यात् पूर्णया परे ॥८५॥अधिकारे समादध्यान्नरं प्राकृतमीश्वरे ।इष्ट्वा देवमशक्तौ तु सर्वोपकरणान्वितम् ॥८६॥सद्योऽधिवास्य द्वादश्यां दीक्षयेत् स्थण्डिलेऽपि वा ।अष्टाष्टाहुतिभिः पूर्वं क्रमात् तत्त्वानि शोधयेत् ॥८७॥मनसो वासना येयं सा मुक्तेः परिपन्थिनी ।तच्छुद्ध्या शुध्यति क्षेत्री दुष्टया दूष्यतेच सः ॥८८॥मनसो वासनोच्छेदः कर्मबन्धविमोचनात् ।निर्बीजकरणं तस्य शोधनं समुदाहृतम् ॥८९॥गुरुणा योजितो नित्यं योगी योगं समभ्यसेत् ।न सिध्यति विना तेन योगो नास्त्यत्र संशयः ॥९०॥दग्धाङ्गं विस्फुलिङ्गाभमाकृष्य स N/A References : N/A Last Updated : December 31, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP