विष्णुसंहिता - दशमः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.

अथ वक्ष्यामि संक्षेपाद् दीक्षापूजाद्यनुग्रहम् ।
शिष्याधिकारसिद्ध्यर्थं निर्वाणार्थं च योगिनाम् ॥१॥
दीयन्ते सिद्धयः सर्वाः क्षीयन्ते ग्रन्थयोऽप्यतः ।
दीक्षात्वमेवं दीक्षाया धर्माधर्महृदात्मनः ॥२॥
वसन्तग्रीष्मयोर्दीक्षा कार्या वा कार्त्तिकादिषु ।
शरदाषाढयोश्चोक्तो वर्णजानामनुग्रहः ॥३॥
जातिशौचगुणान् पूर्वं परीक्ष्य स्वयमादरात् ।
शुद्धान् गुरुर्विजानीयात् स्रीशूद्रांस्तु विशेषतः ॥४॥
ते तु भक्तिं ततो ज्ञात्वा कर्तव्या परमेश्वरे ।
देववद् भक्तिमन्तोऽस्य कुर्युः शुश्रूषणं चिरम् ॥५॥
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम् ।
इच्छामश्चैहिकीं सिद्धिं विशेषेण तपोधन! ॥६॥
इति विज्ञाप्य सन्तोष्य दानानुगमसान्त्वनैः ।
तदिच्छयोक्तसम्भारानाहरेयुर्यथाबलम् ॥७॥
द्रव्याण्यानाय्य संशोध्य पूर्वोद्युरधिवास्य च ।
द्वादश्यां दीक्षयेच्छिष्यानिष्ट्वा देवविधानतः ॥८॥
देवालयनदीतीर्थगोष्ठारामादिसन्निधौ ।
ब्राह्मणादिविभागेन यागस्थानं प्रकल्पयेत् ॥९॥
दीक्षार्थिनस्तु यावन्तः सम्भवन्त्यत्र वैष्णवाः ।
ते सर्वे सममेवात्र यतेरन्नात्मशक्तितः ॥१०॥
यत्नोऽर्थो वाऽधिको यस्य फलं तस्याधिकं तथा ।
वित्तशाठ्यं तु यः कुर्यान्नरके स पतेद् ध्रुवम् ॥११॥
वैष्णवैरभ्यनुज्ञातो दीक्षितैः कुशलैः सह ।
स्नात्वाऽऽचम्य शुचिर्भूत्वा कृतिनित्यः स्वलंकृतः ॥१२॥
यागार्थं कल्पितां भूमिमाचार्यः स्वयमाविशेत् ।
सञ्चिन्त्य मनसा देवं सकलं मण्डलात्मकम् ॥१३॥
संस्कृत्य विधिना वेदिं कलशन्यासमारभेत् ।
नृसिंहजप्तान् सिद्धार्थान् फडन्तेन विकीर्य तु ॥१४॥
मूलेन विकिरान् जप्त्वा पञ्चगव्यं तु साधयेत् ।
गोमूत्रं प्रणवेनैव विसर्गेण तु गोमयम् ॥१५॥
बिन्द्वन्तेन पयो दद्याद्‌दधि दीर्घेण विष्णुना ।
घृतमाद्येन शुद्धेन विष्णुबीजेन पूजयेत् ॥१६॥
गोमूत्राद् गोमयं त्वर्धं क्षीरमष्टगुणं ततः ।
दधि सप्तगुणं दद्यादाज्यं चैव चतुर्गुणम् ॥१७॥
त्रिबीजेन कुशैः प्रोक्ष्य मूलेन विकिरान् क्षिपेत् ।
त्रिरेव प्राङ्मुखस्तिष्ठंस्तं ध्यात्वोत्तानपाणिना ॥१८॥
पीठन्यासक्रमादीशे कलशं कर्करीयुतम् ।
सरत्नं निर्व्रणं रम्यं लोहजं सूत्रवेष्टितम् ॥१९॥
पूरयित्वाऽर्चयेद् विद्वान् गन्धपुष्पैर्यथाक्रमम् ।
धर्माधर्मादिपीठस्थं पङ्कजं कलशे न्यसेत् ॥२०॥
क्षादिमूर्तिशिफानाळसरः कण्टकरन्ध्रकम् ।
धर्माद्यन्तःस्थयुग्ग्रन्थिसाधर्म्यादिनपुंसकम् ॥२१॥
काद्यैस्रिभिस्रिभिः पत्रैः कर्णिकान्तैः समन्वितम्॥
विसर्गबिन्दुदीप्ताग्रपूर्वादिस्वरकेसरम् ॥२२॥
तारांशत्रितयोपेतमात्मविद्यापरक्रमात् ।
नादशक्तियुतं मध्ये तत्रावाह्यार्चयेत् प्रभुम् ॥२३॥
वर्धन्यां चासने सिद्धे तस्मादावाहनं भवेत् ।
आज्येऽर्घ्ये च प्रणीतायां स्रुक्स्रुवेषु विशेषतः ॥२४॥
पञ्चगव्ये चरौ कुण्डे मण्डले विष्णुहस्तके ।
पूजयित्वा तथा साङ्गं कलशस्थं तु केशवम् ॥२५॥
अग्रतोऽस्त्रेण वर्धन्या मण्डपस्य समन्ततः ।
अच्छिन्नां पातयेद् धारामीशाद्यन्तं प्रदक्षिणम् ॥२६॥
पश्चात् तेनैव मार्गेण साधकः कलशं नयेत् ।
संहृत्य विकिरान् सर्वान् विकीर्णान् पात्रगैः सह ॥२७॥
सर्वधान्यस्थितं कुम्भं पूजयेद् वर्धनीं तथा ।
नवेनांशुकयुग्मेन वेष्टयेत् तं सितेन तु ॥२८॥
घटिकां च तथैकेन रक्षां चास्त्रेण कल्पयेत् ।
विकिरेदस्त्रजप्तैश्च सर्वधान्यैः समन्ततः ॥२९॥
सम्मृज्य मूर्तिभिश्चाग्नौ संस्कृते श्रपयेच्चरुम् ।
मूलेन मूर्तिभिश्चाग्नौ संस्कृते श्रपयेच्चरुम् ॥३०॥
क्षालिताज्याक्तसक्षीरानुखामारोप्य तण्डुलान् ।
क्षालितान् समुपस्तीर्णान् न्यस्यालोड्यावघट्य च ॥३१॥
उपस्तीर्योदगुद्वास्य क्षालितं प्रोक्ष्य पूजयेत् ।
कुर्याद् भस्मोर्ध्वपुण्ड्रं च तत्पार्श्वेऽष्टाक्षरेण तु ॥३२॥
उपस्तीर्य शुभे पात्रे क्षिप्तं प्रत्यभिघार्य च ।
अभिघार्य क्षतं चाद्यं भागं देवाय कल्पयेत् ॥३३॥
द्वितीयं कलशस्थाय वह्निस्थाय तृतीयकम् ।
घृताप्लुतं तु मूलेन जुहुयादाहुतित्रयम् ॥३४॥
तच्छेषेण बलिं पीत्वा पञ्चगव्यं चतुर्थकम् ।
प्रणवेन पुरा पीत्वा पञ्चगव्यं चतुर्थकम् ॥३५॥
भागं शिष्यैः सहाश्नीयाद् गुरुः कायविशोधनम् ।
सप्ताभिमन्त्रितं प्राच्यां निखातं द्वादशाङ्गुलम् ॥३६॥
भक्ष्यं तैर्दन्तकाष्ठं च क्षीरवृक्षजमव्रणम् ।
शुभं परीक्षयेत् तेन शान्तिहोमोऽशुभे स्मृतः ॥३७॥
आचान्तः सकलो भूत्वा प्रार्थयेद् गुरुरच्युतम् ।
प्रदक्षिणमुपावृत्य नमस्कृत्य प्रसाद्य च ॥३८॥
संसारार्णवमग्नानां पशूनां पाशमुक्तये ।
त्वमेव शरणं देव! सदा त्वं भक्तवत्सल ॥३९॥
देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।
पाशितान् मोक्षयिष्यामि त्वत्प्रसादात् पशूनिमान् ॥४०॥
लब्धानुज्ञस्तु संशोध्य धारणाभिरुपोषितान् ।
अस्त्रेण प्रोक्ष्य लिङ्गस्थान् पशून् स्वात्मनि योजयेत् ॥४१॥
सम्प्रोक्ष्य तं पुनर्देहं वाताग्निधृतमग्रतः ।
भस्मकूटमिव ध्यात्वा प्लावयेद् वारिणाऽखिलम् ॥४२॥
उदकैकनिधिं सम्यग् ध्यात्वा संसारमण्डलम् ।
कल्पयेत् पार्थिवीं शक्तिं ब्रह्माण्डैकस्वरूपिणीम् ॥४३॥
तन्मात्रासम्भृतां शुभ्रां वृत्तां बुद्बुदसन्निभाम् ।
लिङ्गे संक्रामिते ध्यायेत् पुरुषं प्रणवात्मकम् ॥४४॥
विभक्तेन्द्रियसंस्थानं बुद्ध्याऽब्देनाण्डभेदनम् ।
शकले रोदसी मध्ये प्रजापतिमिमं स्मरेत् ॥४५॥
प्रणवेन पुनः प्रोक्ष्य सकलीकृत्य देशिकः ।
स्वहस्ते सकलं ध्यायेन्मण्डलादिकमादरात् ॥४६॥
चतुर्द्वारं पुरं तच्च ब्रह्मतीर्थाद्यनुक्रमात् ।
मध्ये पद्मं यथाप्रोक्तं पत्राण्यङ्गुलयः स्मृताः ॥४७॥
कर्णिका तलमध्यं तु पर्वाण्यस्य तु केसराः ।
अग्निस्थानं च मध्येऽत्र तन्मध्ये केशवः स्थितः ॥४८॥
मण्डलत्रितयस्यान्तः सूर्यकोटिसमप्रभम् ।
तं ध्यात्वा पूजयेन्मध्ये गन्धपुष्पैर्यथाक्रमम् ॥४९॥
तं हस्तं दापयेन्मूर्ध्नि शिष्यस्य सुसमाहितः ।
हस्ते विष्णुः स्थितो यस्मिन् विष्णुहस्तस्तु स स्मृतः ॥५०॥
जन्मान्तरसहस्रैस्तु यत् पापं सञ्चितं पुरा ।
सर्वं तत् स्पर्शमात्रेण विलयं यात्यसंशयम् ॥५१॥
एवमेकं बहून् वापि जनयेद् ध्यानयोगतः ।
एवं संशुद्धदेहं तं गन्धपुष्पैः प्रपूजयेत् ॥५२॥
करौ सम्मृज्य मूलेन नेत्रे बद्‌ध्वा सुवाससा ।
नेत्रमन्त्रेण मेधावी सदशेनाहतेन तु ॥५३॥
शिष्यं पुष्पाञ्जलिधरं प्राङ्मुखं तु प्रवेशयेत् ।
ब्राह्मणादिक्रमेणैव बहवश्चेद् विविक्षवः ॥५४॥
द्वारं तु दक्षिणं श्रेष्ठं मण्डपस्य प्रवेशने ।
उत्तरादीनि चत्वारि विप्रादीनां विशेषतः ॥५५॥
पुरप्रवेशनं कार्यं शिष्यकामानुरूपतः ।
प्रजाबलार्थसौभाग्यं रत्नान्नविजयस्त्रियः ॥५६॥
धृतिमोक्षायुरारोग्यं पशुपुत्रसुखादि च ।
पूर्वादिषु प्रवेशे स्यात् करं दत्त्वा प्रवेशयेत् ॥५७॥
कृतप्रदक्षिणं शिष्यं क्रमाद् वन्दितदिक्पतिम् ।
देवाभिमुखमानीय प्राड्मुखं स्थापयेत् ततः ॥५८॥
तूष्णीं स गुरुणोद्दिष्टो यतवाक्कायमानसः ।
जानुद्वयेन भूमिं तु विष्टभ्य नतिपूर्वकम् ॥५९॥
ध्यात्वा देवं हरिं भक्त्या सूर्यकोटिसमप्रभम् ।
लक्ष्म्या समन्वितं सौम्यमष्टबाहुमलङ्कृतम् ॥६०॥
समाहितः क्षिपेन्माल्यं गुर्वदेशप्रतीक्षया ।
तन्नेत्रावरणं मुक्त्वा पुष्पपातं विलोकयेत् ॥६१॥
पुष्पपातानूरूपेण मूर्तिनाम्ना तमाह्वयेत् ।
अमन्त्रमर्चनं तत्र कारयेद् देवमूर्तिषु ॥६२॥
देवान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु ।
गुप्तान्तं नाम वैश्यस्य शूद्रे दासान्तमुद्दिशेत् ॥६३॥
स्त्रीणां देवीति नाम स्यात् सा मूर्तिस्तस्य कामदा ।
दृष्टमात्रे प्रणश्यन्ति मण्डले पापसञ्चयाः ॥६४॥
धूपं दीपं क्रमाद् दत्त्वा निवेद्यं चात्र कल्पयेत् ।
प्रकृत्यादिपृथिव्यन्तं साधिभूताधिदैवतम् ॥६५॥
अध्यात्मसंहृतं सर्वं क्रमाच्छिष्यतनौ न्यसेत् ।
दक्षिणेनोपवेश्यैनं दर्भपाणिं तु वाग्यतम् ॥६६॥
अन्वारब्धेन होतव्यमाचार्येण विजानता ।
अग्नौ सम्पातविधिना तत्त्वानां तु शतं शतम् ॥६७॥
दत्त्वा पूर्णाहुतिं सर्वं कुम्भेशाय निवेदयेत् ।
करणीं कर्तरीं चाथ रजांसि घटिकां तथा ॥६८॥
यच्चान्यदुपयोगि स्यात् सर्वं तद् वायुगोचरे ।
साङ्गेन मूलमन्त्रेण परामृश्याधिवासयेत् ॥६९॥
ततः शयीत तैः शिष्यैः कुशानास्तीर्य तं स्मरन् ।
दुःस्वप्नादिषु शान्तिः स्यान्नान्यथा सिद्धिरैहिकी ॥७०॥
प्रातः स्नात्वा विसृज्येशं मण्डले पुनरर्चयेत् ।
प्रवालमुक्ताभारणहेमपुष्पैर्मनोहरैः ॥७१॥
निवेद्यैर्विविधैश्चाग्निं सन्तर्प्याहूय तान् क्रमात् ।
पूर्ववत् कृतदेवार्चानग्रे पद्मासनस्थितान् ॥७२॥
सम्प्रोक्ष्य सकलीकृत्य विष्णुहस्तेन के स्पृशेत् ।
प्रकृत्यादिपृथिव्यन्तां सृष्टिं ध्यात्वाऽखिलां क्रमात् ॥७३॥
तन्मात्रभूतां तद्देहे जीवेन समतां गताम् ।
तारेणात्मनि संयोज्य ध्यात्वा समरसीकृतम् ॥७४॥
जीवं तद्देहकालाग्निशक्तियोनिसमर्पणात् ।
गर्भं जन्माधिकारं च भोगं नाशं च पञ्चभिः ॥७५॥
अष्टाष्टाहुतिर्भिर्हुत्वा नरके च तथा पुनः ।
पाताले भुवि शंशोध्य स्थावरत्वादिजन्मभिः ॥७६॥
विलोमं शूद्रविट्क्षत्रब्राह्मणत्वेषु योजयेत् ।
क्रियाः षोडश मूलेन पाकयज्ञादिभिः क्रमात् ॥७७॥
शोधयित्वाऽश्वमेधान्तैः कल्पयेदन्त्यमाश्रमम् ।
कृत्वाऽन्त्येष्टिं पिशाचादियोन्यष्टकविभागतः ॥७८॥
त्रिसुरान्तं क्रमान्नीत्वा नाशयेत् कर्मबन्धनम् ।
ततः सम्प्रोक्ष्य तद्देहमाहुतीनां शतेन तम् ॥७९॥
सृष्टीश्वरमुदासीनं पूर्णाहुत्या च कल्पयेत् ।
मूलजप्तेन शुक्लेन रजसा हृदि ताडयेत् ॥८०॥
वियुङ्क्ष्वहुंफडन्तेन नाम्ना तत्त्वाक्षरादिना ।
विश्लेष्यायाहिहामन्तबीजाद्यामन्त्रितेन च ॥८१॥
आदाय समतां नीत्वा युङ्क्ष्वहुंफडिति क्रमात् ।
प्रकृत्याकृत्य तेनैव संहारान्तेन होमयेत् ॥८२॥
वह्नावखिलतत्त्वानामालयेऽव्याकृते हरौ ।
लीयमानं क्रमात् सर्वं तत्त्वाध्वानं स्मरेद् बुधः ॥८३॥
शुद्धं परेण तत्त्वेन पूर्णाहुत्या च सन्धयेत् ।
एवं तत्त्वानि संशोध्य प्रकृतिं परमात्मनि ॥८४॥
विलाप्य ज्ञानयोगेन दद्यात् पूर्णाहुतिं बुधः ।
निर्वामे प्रकृतिं दग्ध्वा सन्दध्यात् पूर्णया परे ॥८५॥
अधिकारे समादध्यान्नरं प्राकृतमीश्वरे ।
इष्ट्वा देवमशक्तौ तु सर्वोपकरणान्वितम् ॥८६॥
सद्योऽधिवास्य द्वादश्यां दीक्षयेत् स्थण्डिलेऽपि वा ।
अष्टाष्टाहुतिभिः पूर्वं क्रमात् तत्त्वानि शोधयेत् ॥८७॥
मनसो वासना येयं सा मुक्तेः परिपन्थिनी ।
तच्छुद्ध्या शुध्यति क्षेत्री दुष्टया दूष्यतेच सः ॥८८॥
मनसो वासनोच्छेदः कर्मबन्धविमोचनात् ।
निर्बीजकरणं तस्य शोधनं समुदाहृतम् ॥८९॥
गुरुणा योजितो नित्यं योगी योगं समभ्यसेत् ।
न सिध्यति विना तेन योगो नास्त्यत्र संशयः ॥९०॥
दग्धाङ्गं विस्फुलिङ्गाभमाकृष्य स

N/A

References : N/A
Last Updated : December 31, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP