संस्कृत सूची|संस्कृत साहित्य|संहिता|विष्णुसंहिता| एकादशः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - एकादशः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता एकादशः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपाद् दीक्षितस्याभिषेचनम् ।पुत्रको देशिको वाऽपि येनाचार्यत्वमृच्छति ॥१॥प्रथमं समये दीक्षा तन्त्रज्ञाने ततोऽर्चने ।तिस्रो ह्येताः प्रयोक्तव्या दीक्षा धर्मविवृद्धये ॥२॥आलिख्य मण्डलं पूर्वं परिवारसमायुतम् ।दर्शयेच्छिष्यमाचार्यो यमसौ समयी स्मृतः ॥३॥मण्डले देवमाराध्य पुष्पाञ्जलिपुरस्सरम् ।दर्शयेद् विधिना यं तु स भवेत् तन्त्रदीक्षितः ॥४॥अग्नौ हुत्वाऽखिलान् मन्त्रान् पूजयित्वा च तं प्रभुम् ।दर्शयेद् विधिना यं तु स ज्ञेयो देशिकोऽर्चकः ॥५॥पुत्रकोऽधीत्य तन्त्राणि द्वितीयं मन्त्रमाप्नुयात् ।तृतीयं पूजयेद् देवमित्येवं त्रिविधः क्रमः ॥६॥एकेनैव प्रयोगेण तिस्रो दीक्षा ह्यनुग्रहे ।समयग्रन्थपूजार्थाः कर्तव्यस्तत्त्ववेदिना ॥७॥पूर्वं कृत्वा तु संस्कारं गर्भाधानादिकं क्रमात् ।व्रतबन्धान्तमाचार्यस्तत्त्वेन परमेण वै ॥८॥एकैकं दशहोमेन ततस्तत्त्वानि संहरेत् ।वेकारादीनि तत्त्वानि पञ्चभूतात्मकानि वै ॥९॥ध्यात्वा शिष्यशरीरे तु षष्ठं क्षेत्रज्ञलक्षणम् ।होमेन शोधयित्वाऽन्ते पूर्णया योजयेत् परे ॥१०॥पञ्चभूतस्वरूपेण तत्र माया व्यवस्थिता ।षष्ठं तु परमं तत्वमबद्धं परमार्थतः ॥११॥न स्वभावस्य विच्छित्तिर्भवेदग्न्यौष्ण्यवद् यतः ।तस्माद् घटादिवद् बद्धो व्योमवत् परमं पदम् ॥१२॥एवं ज्ञात्वा तु मेधावी व्यतिरिक्तं निरञ्जनम् ।घटवद् यः स्मृतो बन्धस्तं होमेन विनाशयेत् ॥१३॥पृथिव्यादि समारभ्य वेकाराद्यैस्तु पञ्चभिः ।एकैकं शतहोमेन क्रमात् तत्त्वानि शोधयेत् ॥१४॥पञ्च पूर्णाहुतीर्हुत्वा बन्धच्छेदं च भावयेत् ।क्षेत्रज्ञं शतहोमान्ते मायाबन्धविवर्जितम् ॥१५॥ध्यायन् पूर्णाहुतिं दद्यान्मक्तिदीक्षेयमुत्तमा ।समयादिविभागेन कर्म यस्य यदीरितम् ॥१६॥तदेवास्य पुनः कार्यं प्रायश्चित्तविधावपि ।अब्देऽब्देऽपि च कर्तव्या दीक्षा शिष्येष्वनुग्रहात् ॥१७॥यागैर्द्वादशभिर्यस्तु दीक्षितोऽसौ हरिः स्वयम् ।यं तु शिष्यं गुणोपेतमाचार्यं कर्तुमिच्छति ॥१८॥तस्याभिषेचनं कुर्याद् विधिनाऽनेन मन्त्रवित् ।राज्ञोऽभिषेचनं कुर्याद् विधिनाऽनेन मन्त्रवित् ॥१९॥साधकस्यानपत्यस्य दरिद्रस्य च रोगिणः ।पूर्ववन्मण्डलं कृत्वा सर्वलक्षमलक्षितम् ॥२०॥समभ्यर्च्यात्र देवेशं हुत्वाऽग्नौ च यथाविधि ।कलशान् स्थापयेदग्रे निर्दोषान् सूत्रवेष्टितान् ॥२१॥पञ्चरत्नसमायुक्तान् सहिरण्यान् सपल्लवान् ।वेष्टितान् वस्त्रयुग्मैस्तु चतुरो दिक्ष्वनुक्रमात् ॥२२॥मध्यतः पञ्चमं चैव सकूर्चं सापिधानकम् ।प्रणवं कलशे पूर्वे सर्वमन्त्रात्मकं न्यसेत् ॥२३॥अकारं दक्षिणे चैव सर्वतन्त्रात्मकं बुधः ।पश्चिमे विष्णुगायत्रीमधिकारमयीं तथा ॥२४॥उत्तरेऽपि न्यसेद् विष्णुं सर्वगं ज्ञानविग्रहम् ।मध्यमे वैष्णवं बीजं शब्दब्रह्म सनातनम् ॥२५॥ततस्तानर्चयेत् सर्वान् गन्धपुष्पाक्षतैः क्रमात् ।योगाधिकारतन्त्रार्थसर्वविद्यासमन्वितान् ॥२६॥यथोक्तमातृकाब्जस्थतारादिज्योतिषोऽखिलान् ।मन्त्रतन्त्रादिरूपेण ध्यात्वा देवं पृथक् क्रमात् ॥२७॥सहस्रावर्तितं कुर्याच्छतावर्तितमेव वा ।एकैकं कलशं त्वेवमाचार्यः सुसमाहितः ॥२८॥ततो होमं च कुर्वीत यथावत् साधकेश्वरः ।उपसंहारमार्गेण निर्वाणाख्यं यथोदितम् ॥२९॥एवं योगविधानेन कृत्वा तत्राधिवासनम् ।अभिषेकं ततः सम्यक् कुर्याद् वै साधकस्य तु ॥३०॥मण्डपस्योत्तरे पार्श्वे पूर्वं कृत्वा सुशोभनाम् ।एकहस्तां द्विहस्तां वा चतुर्हस्तां तु वेदिकाम् ॥३१॥तालोच्छ्रितां चतुःस्तम्भे मण्डपे छदनान्विते ।वितानवस्त्रसञ्छन्ने स्रग्दामादिविभूषिते ॥३२॥अलंकृते यथाशोभं लाजकुम्भैश्चतुर्दिशम् ।लिखित्वा स्वस्तिकं मध्ये चतुरश्रं सुशोभनम् ॥३३॥सितेन रजसा तत्र श्रीपर्णीद्रुमसम्भवम् ।भद्रपीठं तु संस्थाप्य चतुरश्रं नवं शुभम् ॥३४॥अनन्तं साम्बुजं तस्मिन् धर्मादिमयमर्चयेत् ।ततोऽग्रे प्राङ्मुखः स्थित्वा ध्यात्वा पीठगतं प्रभुम् ॥३५॥मनसा पूजयित्वा तु कार्यमेनं निवेदयेत् ।भगवन्! दीक्षितस्योक्तमाचार्यत्वेऽभिषेचनम् ॥३६॥तत् करिष्याम्यनुज्ञातस्त्वया सर्वार्थसिद्धये ।लब्धानुज्ञस्ततः कुर्यादभिषेकं यथाविधि ॥३७॥सृष्टिक्रमेण वै ध्यात्वा तत्त्वाध्वानं सुभावितः ।प्रवेशयेद् गुरुः शिष्यं प्राङ्मुखं शुक्लवाससम् ॥३८॥ध्यात्वाऽनन्तासनस्थं तमर्चितं विष्णुमव्ययम् ।आनीय कलशानत्र स्वासु दिक्षु निवेशयेत् ॥३९॥स्त्रीभिः सुस्वरकण्ठाभिर्गीयमानेऽथ मङ्गले ।शङ्खतूर्यनिनादेन नीराजनपुरस्सरम् ॥४०॥ततोऽभिषेचयेत् सार्धं ब्रह्मघोषेण देशिकः ।पूर्वोक्तैरेव मन्त्रैस्तु ध्यात्वा मन्त्रात्मकं जलम् ॥४१॥प्रतिकुम्भं तथाऽभ्यर्च्य धूपयित्वा यथाक्रमम् ।चतुर्भिः पञ्चमेनाथ परं ज्ञानात्मकेन च ॥४२॥नीराजनं पुनः कृत्वा पूजयेद् गन्धपुष्पकैः ।परिधाप्य नवे वस्त्रे शोभने तमुपागतम् ॥४३॥आचान्तमुपवेश्याग्रे बृसीं दत्त्वा स्वयं गुरुः ।सोऽपि प्रणम्य देवेशं तस्यामासीत वाग्यतः ॥४४॥सकलीकृत्य मन्त्रैस्तं पूजयेत् पूर्ववत् पुनः ।योगपट्टकमुष्णीषं चक्रं चैवाङ्गुलीयकम् ॥४५॥अधिकारं स्वकीयं च तत्त्वं चास्मै निवेदयेत् ।दद्याच्च वैष्णवं ज्ञानं संसारच्छेदकारणम् ॥४६॥श्रावयेत् समयांश्चैतांस्तन्त्रोक्तान् देशिकोत्तमः ।अनुग्राह्यास्त्वया शिष्या वैष्णवाः शुभचारिणः ॥४७॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा योषित एव वा ।अन्यदेवरता ये तु चातुर्वर्ण्याच्च ये बहिः ॥४८॥डाम्बिकाः पापकर्माणो देवब्राह्मणनिन्दकाः ।तेषामनुग्रहो नैव कर्तव्यो वैष्णव! त्वया ॥४९॥समीपे तु गुरुर्यत्र न कर्तव्या स्वतन्त्रता ।बहुयोजनमात्रे तु आचार्यो यत्र तिष्ठति ॥५०॥तत्र दीक्षा न कर्तव्या अनुक्तेन त्वयाऽनघ! ।गुरूपूजा च कर्तव्या यथा विष्णोस्तथा त्वया ॥५१॥व्याख्यानादिषु कालेषु स्मर्तव्यश्च सदा गुरुः ।न कदाचित् त्वया कार्यमप्रमाणं गुरोर्वचः ॥५२॥कृते प्रमादे कर्तव्यं प्रायश्चित्तं तदाज्ञया ।न कदाचिच्च कर्तव्यो लोकोद्वेगस्त्वयानघ! ॥५३॥वैष्णवानां च वैभाष्यं यच्च लोकेऽपि गर्हितम् ।प्रतिपत्तिश्च वृद्धानां कर्तव्या शास्रतस्त्वया ॥५४॥अभिमानो न कर्तव्यः स्वप्नेष्वपि कदाचन ।समयाश्च त्वया वत्स! आचाराश्च मयोदिताः ॥५५॥पालितव्याः प्रयत्नेन यावज्जीवं ममाज्ञया ।आचार्यो वैष्णवे तन्त्रे त्वं भव प्राणिनां प्रियः ॥५६॥शिष्यास्त्वामुपसर्पन्तु तेषु वर्तस्व शास्त्रवत् ।नार्थलोभेन वर्तेथा नाशया न भयेन वा ॥५७॥पञ्चरात्रे विशेषेण देवं च सततं स्मर ।अयनादिषु कालेषु यष्टव्यो विष्णुरव्ययः ॥५८॥गुरवः पूजनीयाश्च मनोवाक्कायकर्मभिः ।वृथषा हिंसा न कर्तव्या भर्तव्याश्च स्वशक्तितः ॥५९॥दीनानाथास्तथान्धाश्च पूज्या विप्राश्च सर्वदा ।उद्युक्तः सर्वदा तिष्ठेन्नित्यकर्मण्यतन्द्रितः ॥६०॥स्वल्पमह्ना जपं कुर्यात् स्वल्पमग्नौ च होमयेत् ।स्वल्पं वै ध्यानमातिष्ठेत् सत्रमेतत् सदा गुरोः ॥६१॥एवमुक्त्वा गुरुः शिष्यं देवाग्रस्थं सुचेतसम् ।तन्त्रं चैवाखिलं दद्यात् साधके मन्त्रमेव तु ॥६२॥देवस्य पुरतो गन्धपुष्पाक्षतयुतैर्जलैः ।चुलुकं पूरयित्वा तु मन्त्रमुच्चार्य तत्करे ॥६३॥प्रदद्यात् सिध्यतां शीघ्रं तवेष्टं मन्त्रजं फलम् ।इत्युक्तः स्वयमुत्थाय कॉत्वाऽचार्यं प्रदक्षिणम् ॥६४॥आसने स्थापयित्वाऽस्य पादौ प्रक्षाल्य भक्तितः ।तोषयेद् धनधान्येन शक्तिभक्तिवशाद् गुरुम् ॥६५॥परितोष्य तु पाणिभ्यामुपसङ्गृह्य पादयोः ।प्रार्थ्य पूजय देवं त्वमित्यनुज्ञापयेत् गुरुम् ॥६६॥लब्धानुज्ञः स शिष्योऽपि ततः प्रभृति भूजयेत् ।एवं तेनाननुज्ञातो यः पूजां कुरुते नरः ॥६७॥न तस्य पूजया सिद्धिरिति शास्त्रस्य निश्चयः ।तस्मान्मण्डलमध्यस्थं देवमाचार्यपूजितम् ॥६८॥दृष्ट्वाऽनुज्ञानं गुरोः प्राप्य पूजयेत् पुरुषोत्तमम् ।एवं यो वैष्णवीं दीक्षां कुर्यात् कारयिता च यः ॥६९॥तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये ।विष्वक्सेनं च यागान्ते दिश्यैशान्यां प्रपूजयेत् ॥७०॥पिङ्गश्मश्रुं विवृत्ताक्षं गदापाणिं चतुर्भुजम् ।शङ्खचक्रधरं देवं जगत्संरक्षणे स्थितम् ॥७१॥तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत् ।वारुणे मण्डले साङ्गं शिष्टद्रव्यैस्तु पूजयेत् ॥७२॥विसृज्योक्तेन विधिना मण्डलस्थमधोक्षजम् ।निर्माल्यं सकलं तस्मै समाहृत्य निवेदयेत् ॥७३॥तस्य विं वं नमः ष्वां वीं स्वाहेति च यथाक्रमम् ।क्सें वषट् तथा विष्वं वैं हुमित्यपि कल्पयेत् ॥७४॥क्नेन वः फडितीमानि पञ्चाङ्गानि तदर्चने ।प्रणीतस्थं जलं सिक्त्वा प्रस्तरोपरि तेन तु ॥७५॥आत्मानं सह शिष्यैस्तु प्रोक्ष्याग्निं च विसर्जयेत् ।विष्वक्सेनं विसृज्यास्मै निर्माल्यं सकलं ततः ॥७६॥पूर्वदत्तं जलेऽगाधे धृतमन्यैर्निधापयेत् ।वैष्णवान् पूजयेच्छक्त्या ब्राह्मणांस्तु विशेषतः ॥७७॥अनिवारितमन्नाद्यं सार्वजन्यं च कारयेत् ।एवमाचार्यतां प्राप्तौ दीक्षितो धर्मवत्सलः ॥७८॥वर्णाश्रमरतो भक्तो विनीतः समयान्वितः ।एककालं द्विकालं वा त्रिकालं वाऽर्चयेद्धरिम् ॥७९॥शिष्यानथानुगुह्णीयाद् दीक्षापूजाभिषेचनैः ।स्थापनादिक्रियायां च तथाऽऽचार्यत्वमर्हति ॥८०॥दीक्षान्ते चाभिषेकान्ते शक्त्या सम्पूज्य वैष्णवान् ।प्रभातेऽवभूथं गच्छेद् यत्र तीर्थं परं भवेत् ॥८१॥तत्र स्नात्वाऽर्चयित्वा च ब्राह्मणैः स्वस्ति वाचयेत् ॥८२॥॥इति विष्णुसंहितायामभिषेको नामैकादशः पटलः॥ N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP