विष्णुसंहिता - सप्तविंशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् प्रोक्षणादिविधिक्रमम् ।
नवीकरणमुद्दिश्य कार्यं सर्वं यथाक्रमम ॥१॥
सम्मृज्य सर्वतो गेहं कपिलागोमयेन च ।
तन्मूत्रेण च तेनात्र प्रोक्षयेच्छमिति ब्रुवन् ॥२॥
चतुर्दिक्षु तथा कृत्वा सगर्भगृहमादितः ।
तूष्णीं मन्त्रैश्च सम्प्रोक्ष्य शुद्धोदैर्मन्त्रवारिभिः ॥३॥
इमा आपः शिवा गव्यैः पञ्चोपनिषदेन च ।
सर्वतश्चक्रसज्जप्तैर्विकिरेत् सर्षपाक्षतैः ॥४॥
संशोध्य मण्डपं चाग्रे तोरणध्वजमण्डितम् ।
शयनं कल्पयेत् यम्यक् कुसुमोत्करसंयुतम् ॥५॥
ततः सुरक्षितं कृत्वा पुण्याहं तत्र वाच्येत् ।
कर्मार्यां स्थापयित्वाऽद्भिः सरत्नाभिश्च पञ्चभिः ॥६॥
तीर्थोदैश्च त्रयीसारसूक्तैः स्नपनमाचरेत् ।
नवाभ्यां शुक्लवस्त्राभ्यां वेष्टयित्वाऽक्षरेण तु ॥७॥
उपवीतमथाद्येन मकुटं मध्यमेन तु ।
उत्तरीयं तृतीयेन पुंबीजेन च भूषणम् ॥८॥
सर्वेण गन्धपुष्पाद्यैरिष्ट्वा पुण्याहमाचरेत् ।
ओङ्कारं भगवन् सर्वव्यापिन् सर्वपदं पुनः ॥९॥
भूताधिपत इत्येवं सर्ववेदपदं पुनः ।
सारमयेत्यतः सर्वदेवाधिपत इत्यपि ॥१०॥
एह्येहि पुरुषेत्येन्महापुरुषशब्दवत् ।
अन्तादिमध्यभूतेति परात्परतरेति च ॥११॥
व्यक्ताव्यक्तपदं पश्चाद् स्थूलसूक्ष्ममहापदम् ।
योगिन् नम इति स्वाहशब्दान्तेन तमाह्वयेत् ॥१२॥
सकलीकृत्य मूलेन हृदयादिभिरोमिति ।
दद्यात् पाद्यं तथाचाममितिगन्धानुलेप्नम् ॥१३॥
इमाः सुमनसः पुष्पं धूपं चैव वनस्पतेः ।
शुभं ज्योतिः प्रदीपं च दद्यादर्ध्यं दशाङ्गवत् ॥१४॥
आपः सिद्धार्थका दूर्वा अक्षतास्तितलण्डुलाः ।
क्षीरं यवाश्च माषाश्च कुशाग्राणीति तद् विदुः ॥१५॥
ओन्नमः पदमादौ तु ततः पुरुषोत्तमाय च ।
ततः समस्तलोकाधिपतयेऽर्घ्यमनन्तरम् ॥१६॥
निवेदयामिसंयुक्तो नमः स्वाहेत्ययं मनिः ।
भूयश्चाचमनं दद्यात् पञ्चभिः स्नापयेत् पुनः ॥१७॥
पूर्ववद् वस्त्रभूषादि पाद्याचमनमर्चनम् ।
बद्ध्वाऽथ कौतुकं धेनुप्रदानं स्वस्तिवाचनम् ॥१८॥
कृत्वाऽधिवासयेद्धोमान् पूर्ववद् दिक्षु कारयेत् ।
ऋग्यजुस्सामाथर्वज्ञा जुहुयुर्दिक्षु दीक्षिताः ॥१९॥
क्रमाच्छाब्दिकनैरुक्तच्छन्दश्शिक्षाविदोऽन्यतः ।
ज्योतिःकल्पेतिहासज्ञाः पुराणज्ञाः सदस्यकाः ॥२०॥
मीमांसान्यायसाङ्खयज्ञा वेदान्तज्ञाश्च साक्षिणः ।
गायत्र्या तु मथित्वाऽग्निमक्षरैः प्रोक्ष्य चाष्टभिः ॥२१॥
तद्युक्तैस्तैर्निषेकादि कृत्वा पूर्णां प्रदाय च ।
विहृत्याग्निमुखं कृत्वा जुहुयुः सर्व एव ते ॥२२॥
समिधः क्षीरिजा ब्राह्मीरथ पालाश्य एव वा ।
पृथगष्टसहस्राणि घृताक्ता मन्त्रसम्मिताः ॥२३॥
ततः प्रोक्ष्य जलैर्बिम्बं सदस्येभ्यो निवेदयेत् ।
सुहुताः समिधः पूर्वमस्माभिः शास्त्रदृष्टिभिः ॥२४॥
शं भवन्तो वदन्त्वत्र प्रीयतां च जनार्दनः ।
तत ओं स्वस्ति भवन्तो ब्रुवन्त्विति विधानतः ॥२५॥
ओं स्वस्ति शान्तिरित्यष्टौ सदस्या ब्रूयुरादरात् ।
ओं स्वस्ति शान्तिः सुहुतं भवत्विति गुरुर्वदेत् ॥२६॥
सदस्यानुमताः पश्चादाज्येन जुहुयुस्तथा ।
आज्यभागा हुतास्तावदित्युक्त्वा शं ब्रुवन्त्विति ॥२७॥
निवेदयेयुरष्टौ ते वदेयुश्च शमस्त्विति ।
आचार्य ओं शं सुहुतं भवत्विति तदा वदेत् ॥२८॥
चरुं हुत्वा निवेद्यं तु चरुहोमः कृतस्त्विति ।
ओं मङ्गलं ब्रुवन्त्वन्ते तेऽपि मङ्गलमस्त्विति ॥२९॥
ओं मङ्गलं च सुहुतं भवत्विति गुरुर्वदेत् ।
पुनराज्यं तथा हुत्वा निवेद्यं प्राग्वदेव तु ॥३०॥
शमित्यत्र सदस्यैश्च वक्तव्यं गुरुणा तथा ।
सर्वव्याहृतिभिर्होमाः कर्तव्यास्तैर्विदानतः ॥३१॥
आद्यन्तयोः परीषेकः कार्यः पूर्णां तथान्ततः ।
एवं हुत्वा तथा सर्वे जुहुयुश्चावसानिकम् ॥३२॥
इन्द्रविष्णुमरुद्भ्योऽग्निधर्मनेतृभ्य एव च ।
साध्येभ्यश्च दिशापालैः सर्वदेवगणैः सह ॥३३॥
व्याहृत्याग्निवायुशक्रवरुणब्रह्मविष्णुभिः ।
अश्विभ्यां गोपतियमाग्निविष्णुवसुबास्करैः ॥३४॥
विश्वभूतदिशापालनिर्ऋतीरौद्ररूपकैः ।
विष्णवे च पुनः शूलपाणये च यमाय च ॥३५॥
सकालधर्मो दण्डी च त्र्यम्बको वरुणः पुनः ।
विष्णुर्मित्रोऽथ परमेष्ठ्यादित्यभूतसमुद्रवान् ॥३६॥
आपगावायुविष्णुभ्यो मरुद्भ्यो जातवेदसे ।
इन्द्राय सर्वलोकेभ्यो ब्रह्मणे विश्वकर्मणे ॥३७॥
सोमाय सोमपार्षद्भ्यो ग्रहनक्षत्रसंयुतैः ।
तारागणैर्भूतभौमदिव्यनागैश्च होमयेत् ॥३८॥
सर्वाश्च देवता रुद्रविश्वरूपाख्यविष्णवः ।
ब्रह्मा रुद्राः सर्वदेवाः सहविघ्नैर्गणाधिपैः ॥३९॥
आदावन्ते च योक्तव्यास्तथा व्याहृतयः पृथक् ।
ससम्पातैस्ततः कुम्भं पूरयेच्छान्तिवारिभिः ॥४०॥
देवस्योत्तरतो विद्वान् संस्थाप्य सकमण्डलुम्,
सर्वतीर्थाहृतैः सर्वसमुद्रादाहृतैरपि ॥४१॥
प्राक्‌स्रोतसीभ्यो वापीभ्यः प्रत्याहृतैरथाम्बुभिः ।
सरत्नकैः सपवित्रैः कलशं पूरयामि च ॥४२॥
सर्वद्वयं ततो व्यापिन् सर्वलोकाधिसंयुतम् ।
पतये नमः स्वाहेति तारादिः पूरणे मनुः ॥४३॥
अनेन मन्त्ररूपेण पूरियित्वा कमण्डलुम् ।
वेष्टयेत् क्षौमपट्टेन सापिधानमलङ्कृतम् ॥४४॥
शेषैः शान्त्युदकैः पूर्णं पूरयित्वाऽन्यमादितः ।
सापिधानमलङ्कृत्य क्षौमाभ्यां परिवेष्ट्य च ॥४५॥
गन्धादिभिरथाभ्यर्च्य कलशं च कमण्डलुम् ।
कलशं सर्वकल्याणं गृहीत्वा प्रोक्षकः शुचिः ॥४६॥
सर्वमङ्गलसंयुक्तो नवाम्बरधरो हरिः ।
स्वयं भूत्वा जपन्मन्त्रं शनैर्गच्छेत् प्रदक्षिणम् ॥४७॥
आधाय सकुशे हस्ते सव्ये तूपरि दक्षिणम् ।
तथा कमण्डलुं चान्यो गृहीत्वा च तदग्रतः ॥४८॥
सकुशां पातयेद् धारामविच्छिन्नामनुत्कटाम् ।
शन्नोदेव्यणोरणीयान्मन्त्रद्वयमुदाहरेत् ॥४९॥
प्रासादान्तश्च संशोध्य तथा कृत्वा विचक्षणः ।
कारयेद् बिम्बशुद्धिं च युक्तितो मूर्तिपैर्गुरुः ॥५०॥
शान्तिं कृत्वा तदग्रे तु कौतुकस्नानमाचरेत् ।
पीठे निवेश्य तच्छय्यामनुगैरपनाययेत् ॥५१॥
क्षालितं शुद्धतोयेन स्नापयेन्मन्त्रवारिभिः ।
शिष्टैः शान्त्युदकैश्चैव स्नापयेत् प्रणवेन तु ॥५२॥
पाद्याचामाम्बरं भूषामुपवीतं च वेष्टनम् ।
पूर्ववत् सम्प्रदातव्यं दीपान्तं पुनरेव च ॥५३॥
ब्रह्माणमीश्वरं विप्राननुमान्य यथाविधि ।
अनुज्ञादक्षिणां दत्त्वा कुर्याच्च स्वस्तिवाचनम् ॥५४॥
शयने रुद्रसूक्तेन पीठाच्चोत्थापनं भवेत् ।
स्थाने पुरुषसूक्तेन ब्राह्मेणासनकर्मणि ॥५५॥
पुरुषेऽक्षरराजं वा मध्यमं शाङ्करे तथा ।
अन्त्यं ब्राह्मे यथायोगं युक्त्या चोत्थापनं चरेत् ॥५६॥
शान्तिकुम्भं पुरस्कृत्य धारं चैव कमण्डलोः ।
कर्मार्चामानयेद् विद्वान् वाग्यतोऽन्तः स्मरन् हरिम् ॥५७॥
तत्त्वज्ञेन धृतं कुम्भं सम्यगुद्वाहयेत् पुरः ।
शाकुनस्वस्तिसूक्ताभ्यां जयशब्दादिसंयुतम् ॥५८॥
साग्निं प्रदक्षिणीकृत्य प्रासादं प्रविशेत् पुनः ।
दत्त्वाऽर्घ्यं कौतुकं पीठे स्थापयेद् ब्राह्ममुच्चरन् ॥५९॥
शिखासिरोमुखग्रीवाद्विबाहुहृदये तथा ।
नाभावुपस्थ ऊर्वोश्च करयोः पादयोर्न्यसेत् ॥६०॥
ऐन्द्रे तु पृष्ठतः कार्यमेवं न्यासविधिः स्मृतः ।
ततस्तु प्रोक्षयेत् विद्वान् तं सम्यग् द्विषडक्षरैः ॥६१॥
कर्मार्चागतमावाह्य गन्धपुष्पोदकेन तु ।
स्नापयेन्मूलबिम्बं तु ततः शान्त्युदकेन च ॥६२॥
सर्वान्तैः कास्यहृद्गुह्यपादस्थैः कल्पयेत् तनुम् ।
हृदयादीनि चाङ्गानि यथास्थानं निवेशयेत् ॥६३॥
पाद्यादि पूर्ववत् कार्यं पुण्याहं वाचयेत् ततः ।
गन्धपूष्पादिभिः सम्यक् पूजयित्वा च भक्तितः ॥६४॥
पायसं यावकं चान्नं गौळं वाऽत्र निवेदयेत् ।
तद् भक्ष्यक्षीरसंयुक्तं साज्यं स्वादूपदंशकम् ॥६५॥
अनुक्तमन्त्रकार्येऽत्र गायत्रीं वैष्णवीं वदेत् ।
तच्छेषेण ततो दद्यात् पार्षदेभ्यो बलिं क्रमात् ॥६६॥
आचम्याचमनीयं च दत्त्वा चान्नं विसृज्य तत् ।
दक्षिणां च ततो दद्यादन्नाद्यं चानिवारितम् ॥६७॥
चक्रादीनां तु मन्त्राः स्युः स्वनामपदलक्षिताः ।
यदुक्तं स्थापने कर्म तत् सर्वं कारयेत् ततः ॥६८॥
स्थापनोक्तविधानेन स्नपनं कारयेत् ततः ।
उत्सवं च तथा यात्रां सप्ताहं भक्तिपूर्वकम् ॥६९॥
दिनत्रयं तु वा कुर्यादेकाहमथवाऽऽपदि ।
तथाऽवश्यं तु कर्तव्या शान्त्यर्थं चोत्सवक्रिया ॥७०॥
प्रोक्षणं सद्य एवेष्टं प्रायश्चित्ते विशेषतः ।
स्वर्शश्च विष्णुसूक्तेन सहस्राष्टाक्षरान्वितः ॥७१॥
शुद्धौ कृतायामिष्टोऽयं विधिः पञ्चाज्यहोमवान् ।
न तिथिर्न च नक्षत्रं न कालस्य परीक्षणम् ॥७२॥
प्रायश्चित्तेषु कर्तव्या सद्य एव च निष्कृतिः ।
चतुस्त्रिद्व्येकवेदाः स्युस्तन्त्रज्ञाश्चाधिकारिणः ॥७३॥
सद्यश्‌चेदेकवेदोऽपि बहुवेदो(द)विलम्बने ।
आचार्यः सर्वतन्त्रज्ञस्तदा स्याच्चोत्तमो विधिः ॥७४॥
अधमोऽपि विधिः कार्यः सद्योऽशक्तैरिति स्थितिः ।
पदवाक्यप्रमाणज्ञैर्वेदयज्ञव्रतस्थितैः ॥७५॥
दक्षैर्जितेन्द्रियैः शान्तैर्मूर्तिपैः सहितो गुरुः ।
एवं कुर्याद् विधानेन जलसम्प्रोक्षणं हरेः ॥७६॥
आढकत्रयसम्पूर्णमच्छिद्रं कलशं शुभम् ।
सकूर्चं वस्त्रयुग्मन वेष्टितं रत्नसंयुतम् ॥७७॥
शालिकूर्चस्थितं पूर्णं पुरुषसूक्तेन पूजयेत् ।
मूलेनाङ्गचतुर्मूर्तिविधिनाऽर्घ्यादिभिः क्रमात् ॥७८॥
तत्र विष्णुं महाविष्णुं सदाविष्णुं च विन्यसेत् ।
उल्लेखनादिकं कृत्वा संस्कृत्याग्निं च होमयेत् ॥७९॥
पौरुषं विष्णुसूक्तं च चित्तिस्रुक्‌सप्तहोतृकम् ।
चतुर्होता च षड्ढोता पञ्चोपनिषदो जितम् ॥८०॥
सावित्री व्याहृतिश्चैव हंसःशुचिषदित्यपि ।
मूलत्रयं च गायत्रीं जुहुयात् सुसमाहितः ॥८१॥
हुत्वा हुत्वा स्पृशेद् बिम्बं कलशं भवनं तथा ।
मूलत्रयेण होमान्ते स्पृशेत् प्रसृतिमुद्रया ॥८२॥
सम्पातहुततोयेन कलशस्थेन सर्वतः ।
परिभ्रम्याग्रतो धारां कृत्वा सम्प्रोक्षयेत् कुशैः ॥८३॥
वास्तुहोमे कृतेऽन्तश्च वास्तोष्पदशपञ्चकैः ।
हुनेदष्टसहस्रं तु पालाशं खादिरं तु वा ॥८४॥
तथा पञ्चशतं वाऽपि कुर्यादष्टशतं तु वा ।
तावदाज्यं चरुं लाजांस्तिलाञ् शालींश्च होमयेत् ॥८५॥
प्रत्येकमेवमेवं तु मन्त्रे मन्त्रे च होमयेत् ।
यथालाभं तु होतव्यं शास्त्रदृष्टेन वर्त्मना ॥८६॥
वैदिकानां हुनेदाज्यं शेषं वै मूलविद्यया ।
एवं कृत्वा विधानेन कौतुकं बन्धयेत् ततः ॥८७॥
द्वादशाक्षरमन्त्रेण पद्मसूत्रेण चैव हि ।
रात्रौ महोत्सवं कुर्याच्छङ्खतूर्यरवैः शुभैः ॥८८॥
रात्रौ महोत्सवं कर्तव्यो जलसम्प्रोक्षणं दिवा ।
प्रभाते सुमुहूर्ते च प्रोक्षणं कर्तुमारभेत् ॥८९॥
आवाह्य पूजयेद् देवं शङ्खचक्रादिलक्षणम् ।
साङ्गं द्वादशभिश्चैव दशभिर्मुर्तिभिः सह ॥९०॥
आदित्यरुद्रवस्वाद्यैः किन्नराद्यैश्च संवृतम् ।
वाङ्गयादिं सबिन्दुं च नमस्कारान्तमुत्तमम् ॥९१॥
प्रणवादिकमन्त्रेण स्नापयेत् सुसमाहितः ।
शेषोदकेन मन्त्रज्ञः स्नापयेद् भुवनेश्वरम् ॥९२॥
॥इति विष्णुसंहितायां सप्तविंशः पटलः॥


N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP