विष्णुसंहिता - त्रयोदशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् प्रासादविधिमुत्तमम् ।
यत्क्रियाव्यवसायोऽपि सद्यः सर्वाघनाशनः ॥१॥
अष्टेष्टकानिधानेऽपि फलं वक्तुं न शक्यते ।
अनुमेयं हि तेनैव फलं प्रासादविस्तरे ॥२॥
सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम् ।
तत् सर्वं कोटिगुणितं यजमानस्य जायते ॥३॥
द्रव्यसंस्थानभेदाच्च फलं भूयोऽस्य वर्धते ।
हितं नातः परं तस्माच्छक्तैः कार्यं तु सर्वथा ॥४॥
वृषाभ्यां कपिलाभ्यां तु समाभ्यां प्राङ्मुखो गुरुः ।
कृष्ट्वाऽसनमयैरेव यष्टीयुगहलैर्भुवम् ॥५॥
द्वादशाक्षरमन्त्रेण नववस्त्राद्यलंकृतः ।
शम्यासमीकृते गोभिः सस्यमुत्पाद्य खादयेत् ॥६॥
पुनः कृष्ट्वेष्टकाधानं कुर्याद् द्वारे तु कल्पिते ।
द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेष्टका ॥७॥
उल्लेखाद्याज्यभागान्तं कृत्वोदक्स्थण्डिले क्रमात् ।
पक्वं च विष्णुगायत्र्या हुत्वाऽथाज्याहुतीः क्रमात् ॥८॥
व्यस्तौरष्टाक्षरैरष्टौ व्याहृतीन्द्रादिभिस्ततः ।
अग्नये चैव सोमाय ग्रहेभ्योऽपि यथाक्रमम् ॥९॥
नक्षत्रेभ्यश्च भूतेभ्यो नागेभ्य इति चैव हि ।
देवताभ्यश्च सर्वाभ्यो विश्वेभ्यश्चेति देशिकः ॥१०॥
विष्णवे चेति हुत्वाऽन्ते व्याहृतीर्जुहुयात् ततः ।
समिदाज्यचरून् हुत्वा गायत्र्याऽष्टोत्तरं शतम् ॥११॥
ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च ।
इष्टकासु च मूलेन सम्पाताज्यं समर्पयेत् ॥१२॥
अश्वत्थशङ्कुना रेखाः पूर्वाग्राश्चोत्तराग्रकाः ।
तारेणाष्टौ समालिख्य प्राङ्मुखः सुसमाहितः ॥१३॥
चतुरश्रे चतुष्कोष्ठे न्यस्याग्न्यनिलकोष्ठयोः ।
पूर्वाग्रसूत्रे सौम्याग्रे तथैव निर्ऋतीशयोः ॥१४॥
स्थित्वा कृताञ्जलिः पश्चाद् ध्यात्वा देवमधोक्षजम् ।
मूलमष्टशतं जप्त्वा द्वादशाक्षरमेव च ॥१५॥
ततः स्वाक्षरसङ्खयातो जपेदष्टाक्षरं बुधः ।
प्रभुं तं प्रणतो ध्यात्वा कोष्ठेष्वष्टभिरक्षरैः ॥१६॥
अग्न्यादीन्द्रान्तमष्टौ ता इष्टका विन्यसेत् क्रमात् ।
उपानड्वत् प्रयुञ्जीत वर्जयेन्निम्नमुन्नतम् ॥१७॥
इष्टकास्तु निधायैवं श्वभ्रं सम्पूर्य वारिभिः ।
सम्पातरत्नगन्धाढ्यैर्विमलैस्तु सुगन्धिभिः ॥१८॥
कलशैः पूरितैः पूर्वमर्चितैर्मन्त्रसंस्कृतैः ।
शुक्लपुष्पाक्षतान् न्यस्य तारेणावर्तमीक्षयेत् ॥१९॥
शुभाशुभाविहावर्तौ ज्ञातव्यौ दक्षिणोत्तरौ ।
शाल्यादिक्षेत्रमृत्साभिर्गर्तं प्रच्छादयेत् ततः ॥२०॥
विसृज्य शिल्पिनोऽत्रापि कल्पयेत् स्वप्नदर्शनम् ।
शुभे लाभोऽशुभे मोक्षः शान्तिः कार्या त्वदर्शने ॥२१॥
गर्भाधानं ततः कुर्यान्नागर्भे धाम्नि सम्पदः ।
मृत्तिका दश सङ्ग्राह्या मूलानि जलजानि च ॥२२॥
धातवो रत्नबीजानि लोहादि च यदिष्यते ।
अष्टाङ्गुलं तदर्धोच्चं पादहीनोत्तरच्छदम् ॥२३॥
सान्द्रं ताम्रमयं श्लक्ष्णं गर्भपात्रं च शोभनम् ।
सुगुप्तं तद्यथा भित्तौ भित्तिमानेन वा भवेत् ॥२४॥
पादुकोपरि विप्रस्य भुवि राज्ञोऽन्ययोरधः ।
द्वारस्य दक्षिणे भागे तृतीयांशे द्विशेषिते ॥२५॥
गोमूत्रेणाप्लुते न्यस्येद् द्वारमूलस्य पार्श्वतः ।
क्षालिते पञ्चगव्येन पात्रेऽस्मिन् परिशोधिते ॥२६॥
धारणाभिर्यथान्यायं ध्यात्वा पीठेऽक्षराम्बुजम् ।
भूमण्डलमनन्तस्थं सशैलाम्भोधिदिग्गजम् ॥२७॥
प्रादक्षिण्येन कृत्वाऽन्तः पूर्वं सागरमृद्वृतिम् ।
दिग्विदिक्षु च मध्ये च गायत्र्या विन्यसेन्मृदः ॥२८॥
गिरितीर्थनदीभ्यश्च ह्रदात् कर्कटकालयात् ।
वल्मीकखलदन्त्युक्षशृङ्गेभ्यश्चाहृताः क्रमात् ॥२९॥
पङ्कजोत्पलयोर्मूले कुमुदस्य च देशिकः ।
दिक्षु लोहितकस्यापि चत्वार्येवं क्रमान्न्यसेत् ॥३०॥
मनश्शिलां हरीतालमञ्जनं श्यामसीसके ।
सौराष्ट्रीं रोचनां चैव गौरिकं पारतं तथा ॥३१॥
वज्रमौक्तिक्तिकवैडूर्यशङ्खस्पटिकपुष्यकान् ।
चन्द्रकान्तं महानीलं पद्मरागं तथा पुनः ॥३२॥
शालिनीवारकौ चैव कङ्कुमाषकुलुस्थकान् ।
निष्पावतिलमुद्गांश्च पाकपूर्णान् ससर्षपान् ॥३३॥
दिक्षु काञ्चनरूप्यायस्त्रपुण्यथ हिरण्मयम् ।
सुपर्णं कूर्मरूपं च शङ्खं चक्रं च कोणतः ॥३४॥
धनुर्गदाम्बुजं मध्ये प्रत्येकं च हिरण्मयम् ।
एतत् सर्वं समानीय न्यस्तव्यं गर्भभाजने ॥३५॥
कृत्वैवं पञ्चगव्येन प्रोक्ष्य द्वादशविद्यया ।
अग्नेर्दक्षिणतः कृत्वा जुहुयात् पूर्ववत् क्रमात् ॥३६॥
घृतं द्वादशभिर्वर्णैर्दिक्पैर्नारायणेन च ।
तारादिना हुतान्तेन वक्ष्यमाणैश्च नामभिः ॥३७॥
बीजानि सर्वधातूनि सर्वलोकाश्च पर्वताः ।
समुद्राः सर्वतीर्थानि नद्यश्चाथ ह्रदास्तथा ॥३८॥
पातालाश्चाथ नागाश्च दिग्गजा वृषभास्तथा ।
व्याहृत्यन्तं ततो हुत्वा सम्पातविधिनैव तु ॥३९॥
आज्यं समर्प्य तत् पात्रं विधायाग्रकरस्थितम् ।
जप्त्वा मन्त्रं भुवं ध्यात्वा प्राङ्मुखो निशि देशिकः ॥४०॥
सुमुहूर्त्ते द्विजानुज्ञां प्राप्य तूर्यादिनिस्वनैः ।
शक्तिं ध्यात्वाऽर्चयित्वाऽस्यां गर्भभूतमिदं स्मरन् ॥४१॥
ब्रह्माण्डं पार्थिवं शुभ्रं गृहमूर्त्तिप्रसूतये ।
ध्यात्वाऽस्मिन् पूर्ववच्चोर्वी शनैर्मन्त्रमुदीरयेत् ॥४२॥
सर्वभूतधरे! कान्ते! पर्वतस्तनमण्डिते ।
समुद्रपरिधाने! त्वं देवि! गर्भं समाश्रय ॥४३॥
एवं न्यस्ते तु गर्भेऽस्मिन् सर्वत्र च सुखं भवेत् ।
हिरण्यं दक्षिणां दत्त्वा प्रासादं कारयेत् ततः ॥४४॥
द्वार्स्थापनादधः प्राग्वदिष्ट्वा वास्तुं यथाक्रमम् ।
कृत्वा होमं च संस्पृश्य शक्त्या रत्नादि विन्यसेत् ॥४५॥
द्वारमाच्छाद्य वस्त्राभ्यां गव्यादिक्षालितं शुभम् ।
गन्धादिभिः समभ्यर्च्य शान्तिहोमादिसंयुतम् ॥४६॥
मुहूर्ते स्थापयेद् विद्वान् मध्यान्मध्यं विमुच्य तु ।
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वं च शाखयोः ॥४७॥
परतत्त्वं च मध्ये तत् सुशिरस्संव्यवस्थितम् ।
स्थापयेत् प्रणवेनाथ पूजयेच्च पुनः क्रमात् ॥४८॥
स्थिराप्रमेयव्यापित्वबोधनित्याविनाशिताः ।
तृप्तिश्च सप्त होतव्याः क्रमादाहुतिसप्तकैः ॥४९॥
प्रतीहारादयो देवा ये तस्मिन् संव्यवस्थिताः ।
नामभिस्तेऽत्र होतव्यास्ततो देयश्च तद्बलिः ॥५०॥
भित्तिस्तम्भादिविन्यासे सिरामर्मादिपीडनम् ।
सर्वथा परिहर्तव्यं वास्तुकोपोऽन्यथा भवेत् ॥५१॥
किञ्चिदुत्तरतो नीत्वा पूर्वतो वा सिरादिवित् ।
स्तम्भादीन् विन्यसेदेवं वेधदोषो न जायते ॥५२॥
प्राग्द्वारमृषभस्थं स्याद् ध्वजस्थं पश्चिमामुखम् ।
अन्यथा सर्वनाशः स्यादायदोषान्न संशयः ॥५३॥
प्राग्द्वारं ग्राममध्ये स्यात् पश्चिमे चोत्तरे तथा ।
दक्षिणेन्द्राग्निषु प्रायः पश्चिमद्वारमिष्यते ॥५४॥
त्रिंशदन्तं त्रिहस्तादि सप्तान्तैकादिभूमिकम् ।
वृत्तं वा चतुरश्रं वा दर्शनीयं तु कारयेत् ॥५५॥
भूवृद्ध्या वायुवह्नीन्द्रवरुणार्केन्दुविष्णवः ।
गृहाणां देवता ज्ञेया भूमीनां मूर्तयोऽपराः ॥५६॥
शयानासीनतिष्ठन्तो गच्छन् पूर्वे च योगिनः ।
भूमीनां देवता ज्ञेया दिक्कोणस्थास्ततोऽपराः ॥५७॥
वराहो नारसिंहश्च श्रीधरश्व हयाननः ।
जामदग्न्यश्च रामश्च वामनः कृष्ण एव च ॥५८॥
तत ऊर्ध्वं चतुर्दिक्षु वैनतेयं प्रकल्पयेत् ।
मध्ये ब्रह्मा शिवोऽन्ते स्यात् कलशे तु स्वयं हरिः ॥५९॥
कलशान्ते महाविष्णुः सदाविष्णुस्तदग्रतः ।
ज्ञातव्या गृहगर्भार्चाः स्थूलसूक्ष्मपरात्मिकाः ॥६०॥
अनन्तं पादुकं विद्यादात्मतत्त्वेश्वरं प्रभुम् ।
विद्यातत्त्वमधिष्ठानमित ऊर्ध्वं परं तथा ॥६१॥
वेद्यामिन्द्रादयो दिक्स्था विष्वक्सेनः प्रणालके ।
पादुकाद्यङ्घ्रिदङ्घोरु पट्टिकान्तं प्रतिः कटिः ॥६२॥
मेखला रशना कुक्षिर्गर्भः स्तम्भाश्च बाहवः ।
मध्यं नाभिश्च हृत् पीठमपानं जलनिर्गमः ॥६३॥
पादाधारस्त्वहंकारः पिण्डिका बुद्धिरुच्यते ।
तदन्ते प्रकृतिः पद्मं प्रतिमा पुरुषः स्मृतः ॥६४॥
घण्टा जिह्वा मनो दीपो दारु स्नायुः शिलाऽस्थि च ।
त्वक् सुधा लेपनं मांसं रुधिरं तत्र यो रसः ॥६५॥
चक्षुः शिखरपार्श्वे तु ध्वजाग्रं च शिखा भवेत् ।
तलकुम्भो भवेत् पाणिर्द्वारं प्रजननं स्मृतम् ॥६६॥
शुकनासैव नासोक्ता गवाक्षं श्रवणं विदुः ।
कपोतालिं तथा स्कन्धं कण्ठं चामलसारकम् ॥६७॥
घटं शिरो घृतं मज्जा वाङ् मन्त्रः सेचन पयः ।
नामशैत्यादिवर्णान्नधूपेषु विषयाः स्थिताः ॥६८॥
रन्ध्रे वातायने धाम्नि लेपे स्थैर्य च खादयः ।
पर्वाणि सन्धयो ज्ञेया लोहबन्धास्तथा नखाः ॥६९॥
केशरोमाणि चैवास्य विज्ञेया दुग्धकूर्चकाः ।
प्रासादपादमात्रोच्चः प्राकारः परितो भवेत् ॥७०॥
गोपुरं पादहीनोच्चं तत्समं मण्डपं विदुः ।
पीठद्विगुणविस्तारो गरुडस्यट च मण्डपः ॥७१॥
तावन्तो लोकपालानां विष्वक्सेनस्य चालयाः ।
पृष्ठेऽनन्तस्य चाग्नेय्यां हविश्शाला च तावती ॥७२॥
मातॄणामालयाः कार्या दक्षिणे चोत्तरे तथा ।
इन्द्राग्नीशगताः कार्याः सर्वे प्रत्यङ्मुखा गृहाः ॥७३॥
रक्षोवरुणवायव्यगताश्च प्राङ्मुखास्तथा ।
दक्षिणोत्तरयोः कार्याः प्रासादाभिमुखा यथा ॥७४॥
तुषहीनैरनुत्तानैरष्टभिर्मध्यमैर्यवैः ।
उत्तमं सप्तभिर्मध्यमधमं षड्भिरङ्गुलम् ॥७५॥
गायत्र्यक्षरसंख्यातैरङ्गुलैरेव साधितः ।
यो हस्तस्तेन मातव्यं सर्वं त्रिविधमिष्यते ॥७६॥
शिलाभिरिष्टकाभिर्वा काष्ठैर्वा मृद्भिरेव वा ।
कुर्यात् प्रासादविस्तारं सदोषं तु विवर्जयेत् ॥७७॥
वृद्धां बालां च चण्डालीं गर्भिणीं दुष्टभूमिजाम् ।
शिलां त्यक्त्वा शुभामन्यां गृह्णीयाद् वर्णयोगतः ॥७८॥
पुल्लिङ्गे प्रतिमा प्रोक्ता स्रीलिङ्गे पीठिका स्मृता ।
रत्नन्यासादधस्तात्तु नपुंसकशिलेष्यते ॥७९॥
कार्या गृहानुरूपाऽर्चा गृहं वाऽर्चानुरूपतः ।
न्यायोऽयं पीठिकादीनामपि ज्ञेयो विचक्षणैः ॥८०॥
न जीर्णैरुपयुक्तैर्वा शिलाद्यैर्वैष्णवं गृहम् ।
कारयेत् पीठिकां वाऽर्चामाभिचारोऽन्यथा भवेत् ॥८१॥
पुरातन्यो विवर्णाः स्युरपक्वाश्चात्र नेष्टकाः ।
गर्भवन्तः स्वयं शुष्काः पतिता वाऽग्निदूषिताः ॥८२॥
असारा दुष्टदेशस्था दूषिताश्चापि न द्रुमाः ।
कटुकण्टकिपैशाचक्षुद्रचैत्यादयस्तथा ॥८३॥
शूलसूचिध्वजस्तम्भचक्रयष्टिकृतानि च ।
न युञ्ज्याच्छास्त्रविद् गेहे नोत्तमं योजयेदधः ॥८४॥
घटीयन्त्रादिदारूणि न कपित्थाक्षजानि च ।
वाहयेन्मूलमग्रेण नोत्तमं सन्धयेन्नवे ॥८५॥
नाधोमुखं नियुञ्जीत न तथा दक्षिणामुखम् ।
अनुयागे नावन्येव द्रव्याणि शुभदानि तु ॥८६॥
प्रासादेऽधः शिलादीनि शुभान्यन्यानि वेच्छया ।
यदार्चोत्पाटिता स्थाप्या तदा पूर्वैव पीठिका ॥८७॥

॥इति विष्णुसंहितायां त्रयोदशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP