विष्णुसंहिता - पञ्चविंशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपादुत्पातेषु च निष्कृतिम् ।
संशोधनक्रमं चैव स्थानप्रतिमयोः क्रमात् ॥१॥
उत्पतन्ति पुरस्तादित्युत्पाता भयशंसिनः ।
दिव्यान्तरिक्षभौमास्ते ज्ञेयास्तन्त्रेषु कीर्तिताः ॥२॥
प्रासादगर्भपीठार्चाः शरीरत्वेन शाङ्गिणः ।
कल्पिताः सर्वदा रक्ष्या विप्रैरुत्पातशङ्कया ॥३॥
उत्पातेषूपजातेषु न कार्या पूजना हरेः ।
अस्पृश्याः प्रतिमापीठप्रासादाः साङ्गदेवताः ॥४॥
अकृतायां तु निष्कृत्यां स्पष्टाः कुप्यन्ति देवताः ।
पूजिता वा ततो यत्नान्निष्कृतिं कारयेद् द्रुतम् ॥५॥
वितानाग्निनिभं विष्णोर्विम्बमुत्पातदूषितम् ।
अकृतायां तु निष्कृत्यामपूज्यं सर्वथा बुधैः ॥६॥
विलम्बने तु निष्कृत्या विनश्येद् देवसन्निधिः ।
तत्स्थाः प्रेता भयं कुर्युर्व्याधिशोकादिभिर्नृणाम् ॥७॥
पतनं चलनं स्वेदो हसनं चैव रोदनम् ।
उत्पाटनं हृतिश्चोरैर्दाहः प्रध्वंसनं बलात् ॥८॥
पीठप्रासादकेत्वस्त्रतोरणानां च पार्षदाम् ।
भङ्गश्छत्राकवल्मीककृमिकीटादिसम्भवः ॥९॥
श्वचोरव्रात्यपाषण्डिदेवलादिप्रवेशनम् ।
अर्चनं चाप्यमन्त्रज्ञैरन्थभक्तैरदीक्षितैः ॥१०॥
क्षुद्रान्यमन्त्रसंयोगः कालजीर्तिर्दिगाश्रयः ।
उषितैर्नीरसैर्दुष्टैः प्रतिषिद्धैश्च पूजनम् ॥११॥
अनाराधश्च निर्दोषः कालेपेक्षा प्रमादतः ।
कलहो मरणं जन्म रक्तश्लेष्माश्रुपातनम् ॥१२॥
एते चान्ये च विज्ञेया उत्पाता बहुदोषदाः ।
तस्मात् सर्वप्रयत्नेन कर्तव्यमविलम्बितम् ॥१३॥
प्रायश्चित्तं यथोत्साहमन्यथा सर्वनाशनम् ।
महद् बहुषु चोग्रेषु निमित्तेषु विशेषतः ॥१४॥
निमित्तेष्वल्पमल्पेषु सद्यो वा यत्र निष्कृतिः ।
बिम्बपीठगृहालिन्दप्राङ्कणेषु यथातथम् ॥१५॥
खननादिविधिं कुर्याद् यथादोषबलाबलम् ।
खननं हरणं दाहः पूरणं गोनिवासनम् ॥१६॥
विप्रोच्छिष्टं च गव्यं च सप्तैताः स्थानशुद्धयः ।
खादिरस्फ्‌येन चास्त्रेण खात्वा हस्तादिमानतः ॥१७॥
सदोषानखिलान् पात्रैर्हृत्वा पांसून् बहिः क्षिपेत् ।
कुशदर्भादिभिर्दग्ध्वा तद्भस्मादि पुनर्हरेत् ॥१८॥
सुमृद्भिः खातमापूर्य हस्तिपादैस्तु याज्ञिकैः ।
गोमूत्रसिक्तमाकोट्य विप्रपादोदकैस्तथा ॥१९॥
गां निवास्याशयेद् विप्रान् पायसं वैष्णवान् बहून् ।
तदुच्छिष्टे हृते सिञ्चेद् गव्यैश्च विकिरैः किरेत् ॥२०॥
स्थानशुद्धिरियं प्रोक्ता बिम्बशोधनमुच्यते ।
क्षालनप्लावनस्नामार्जनानि यथाक्रमम् ॥२१॥
धारावगाहनं पश्चादभिषैकोऽत्र सप्तमः ।
क्षालनं दर्भमृत्त्वग्भिस्तूष्णीं तोयैश्च शोधनम् ॥२२॥
गन्धपुष्पाक्षतोपैतैरमन्त्रैः प्लावनं जलैः ।
सकूर्चैर्द्रव्ययुक्तैस्तैर्मन्त्रवत् स्नानमम्बुभिः ॥२३॥
पात्रे यथोक्तमापूर्य तोयं मन्त्रैः प्रपूज्य च ।
कूर्चाग्रैः प्रोक्षयेद् बिम्बं मन्त्रैस्तदिह मार्जनम् ॥२४॥
संस्थाप्य धान्यकूर्चस्थमैशान्यां लोहसम्भवम् ।
वारुणं पात्रमापूर्य सकूर्चं सलिलैः शुभैः ॥२५॥
मत्स्यौ कूर्मौ च सौवर्णौ राजतौ चात्र निक्षिपेत् ।
समृणालां सपुष्पां च पद्मिनीं क्षालितां तथा ॥२६॥
वरुणं तत्र सम्पूज्य तीर्थं चावाह्य वैष्णवम् ।
पालाशादित्रिपादस्थं दारापात्रं तु लोहजम् ॥२७॥
सहेमच्छिद्रमापूर्य सकूर्चं प्रतिमोपरि ।
धाराऽच्छिद्रा च कर्तव्या याममात्रं दिने दिने ॥२८॥
समन्त्रं वारुणात् पात्रात् तोयं हृत्वाऽत्र पूरयेत् ।
पञ्चोपनिषदो जप्या वाग्यतैर्दर्भपाणिभिः ॥२९॥
स्पृशद्भिः पात्रमव्यग्रैर्ध्यायद्भिर्विष्णुमव्ययम् ।
पौरुषं पावमानं च सूक्तमन्यच्च वैष्णवम् ॥३०॥
संहिता वाऽखिलाऽन्येषां कार्योऽत्राद्यन्तयोर्जपः ।
धारान्ते पूजयेद् देवमुद्वास्य वरुणं पुनः ॥३१॥
न चाल्यं वारुणं पात्रं त्रिरात्रं यत्र जप्यते ।
हृत्वाऽम्भः पुनरापूर्य पूर्ववत् सर्वमाचरेत् ॥३२॥
गन्धतौयैः पयोभिर्वा धाराऽऽज्येनापि चोत्तमा ।
कार्याऽत्रापि च कर्तव्यं तथा वरुमपूजनम् ॥३३॥
सञ्च्छाद्यार्चां सुवासोभिर्दर्भैरथ समन्ततः ।
संस्थाप्य याज्ञिकैः काष्ठैः कृतं पात्रं प्रमामतः ॥३४॥
गव्यैर्व्यस्तैः समस्तैश्च गन्धोदान्तैर्यथाक्रमम् ।
दिने दिने यथान्यायं कर्तव्यमवगाहनम् ॥३५॥
पञ्च कुम्भांस्तु संस्थाप्य सकूर्चान् सूत्रवेष्टितान् ।
गन्धपुष्पाक्षताम्भोभिः पूर्णानुपनिषत्क्रमात् ॥३६॥
सपल्लवमुखान् न्यस्य चक्रिकाश्च सतण्डुलाः ।
सम्पूज्य वाससाऽवेष्ट्य तैरेव त्वभिमन्त्रयेत् ॥३७॥
पञ्चबिः स्नापयेदेवमभिषेकविधिः स्मृतः ।
षोडश द्वादशाष्टौ वा दीक्षिता वैष्णवा द्विजाः ॥३८॥
वैदेस्त्रिभिश्चतुर्भिर्वा नादयेयुर्दिवानिशम् ।
नववस्त्रपरीधानाः स्वाचान्ता गुरुमूर्तिपाः ॥३९॥
पुण्याहं वाचयित्वाऽत्र यथाविधि समाहिताः ।
प्रोक्षयेयुश्च राक्षोघ्नैर्मन्त्रैः शान्तिकपौष्टिकैः ॥४०॥
वैदिकैस्तान्त्रिकैश्चैव सर्वे दर्भाग्रपाणयः ।
तच्छिष्टाद्भिर्गृहं प्रोक्ष्य बहिरन्तश्च सर्वतः ॥४१॥
विकिरेत् पञ्चभिर्मन्त्रैः सगव्यैः सर्षपाक्षतैः ।
मण्डपे शोधिते वह्निं संस्कृत्य विधिवत् ततः ॥४२॥
जुहुयुर्मूर्तिपाः सर्वे कुण्डेष्वाचार्यसंयुताः ।
कृत्वा प्रधानहोमान्तं सर्वत्राग्निमुखं क्रमात् ॥४३॥
ध्यायन्तो विष्णुमव्यग्रा वह्निस्थं साङ्गमव्यम् ।
पञ्चभिस्त्रिसहस्राज्यं जुहुयुः सर्ववह्निषु ॥४४॥
ततः समिद्‌घृतव्रीहितिललाजसहस्रकम् ।
क्रमादष्टाक्षरेणैव जुहुयुः सर्व एव ते ॥४५॥
पालाशीनां घृताक्तानां समिधां द्वादशोत्तरम् ।
शतं व्याहृतिभिः पश्चात् सर्वे ते जुहुयुस्ततः ॥४६॥
क्षीरेणाष्टशतं दध्ना मधुनाऽऽज्येन च क्रमात् ।
सावित्र्यैव तु ते सर्वे जुहुयुः सर्वशान्तये ॥४७॥
होमावसान एतेभ्यो यजमानः स्वशक्तितः ।
हिरण्यं दक्षिणां दद्यात् ततस्तैः स्वस्ति वाचयेत् ॥४८॥
स्नपनं च यथोत्साहं कुर्यादधमवर्जितम् ।
पादौ प्रक्षाल्य सम्पूज्य दद्यादाचार्यदक्षिणाम् ॥४९॥
शक्त्या हिरण्यं क्षेत्रं च गां च विष्णुं विचिन्तयन् ।
शतमष्टोत्तरं विप्रान् वैष्णवान् सम्यगर्चितान् ॥५०॥
प्रणम्योनातिरिक्तादिशान्त्यर्थं वाचयेच्छिवम् ।
चत्वारो मूर्तिपा हीने मध्येऽष्टौ द्वादशोत्तमे ॥५१॥
सवस्त्राभरणा योज्या यथादोषबलाबलम् ।
होमाध्ययनकर्त्तॄंश्च सदस्यान् वैष्णवान् द्विजान् ॥५२॥
स्वशक्त्या पूजयेत् सर्वानन्नपानादिभिः शुभैः ।
अद्भुतेष्वीशकोणेऽग्निं संस्कृत्य विधिवद् गुरुः ॥५३॥
कृत्वा प्रधानहोमान्तं कुर्यादाज्याहुतीः पुनः ।
पञ्चभिर्द्वादशाष्टार्णगायत्रीजितपौरुषैः ॥५४॥
चतुर्विंशतिशो हुत्वा शतशो वा सहस्रशः ।
अपामार्गसमिच्छिन्ना सहैन्द्री भद्रिकाञ्जलिः ॥५५॥
दूर्वा सिद्धार्थकव्रीहियवास्तिलहविर्घृतम् ।
इति हुत्वा ससम्पातं सगव्यं पञ्चमन्त्रितम् ॥५६॥
तोयशेषं हृदा सिञ्चेद् यत्र मध्वादिसम्भवः ।
स्नपनं च ततः कुर्यादष्टोत्तरशतादिकम् ॥५७॥
स्वस्पृष्टां शोधयित्वाऽर्चां बहुशे गव्यशोधिताम् ।
शुद्धाद्भिस्त्वग्रसैर्गन्धैस्तीर्थतोयैश्च शोधयेत् ॥५८॥
पञ्चरात्रं त्रिरात्रं वा गवां वासं च कल्पयेत् ।
ब्राह्मणान् भोजयेत् पश्चात् पुण्याहं चात्र वाचयेत् ॥५९॥
वेदैश्च नादयेदिष्ट्वा निवेद्यान्नं बलिं हरेत् ।
नादयेत् तूर्यघौषैश्च ततो होमादि कारयेत् ॥६०॥
अश्वत्थैः खदिरैः प्लक्षैः पलाशैः पाटलैर्वटैः ।
नारायणेन सूक्तेन श्रीसूक्तेन तथैव च ॥६१॥
अतो देवेति सूक्तेन नासदंहोमुचा तथा ।
संसमिद्भिद्रपादेन तथाऽरायीत्यनेन च ॥६२॥
गायत्र्या पञ्चभिश्चात्र होतव्यं विधिनैव तु ।
समाप्ते स्नपने दद्यात् पूर्ववच्चैव दक्षिणाम् ॥६३॥
अनिमित्तेन निष्क्रान्तं पुनराशु प्रवेश्य तु ।
शान्तिहोमं च कुर्वीत स्नपनं स्वस्तिवाचनम् ॥६४॥
उत्सवं तीर्थयात्रां च ब्राह्मणानां च भोजनम् ।
प्रसूते श्वसृगालाद्यैः शून्यं कृत्वा त्रिरात्रकम् ॥६५॥
पूर्वोक्तं कारयेच्छान्तिं स्थानशुद्धिं च भूयसीम् ।
दाहे पयस्विनीं धेनुं शान्तिनाम्ना समाह्वयेत् ॥६६॥
दूर्वादिकं निवेद्यास्यै पद्मपत्रे पयो दुहेत् ।
आतप्य दधि निर्मथ्य तत् संस्कृत्याज्यमाहरेत् ॥६७॥
अपरेद्युस्तथा दुग्ध्वा दधि चैवं प्रकल्पयेत् ।
तृतीयेऽह्नि शकृन्मूत्रं क्षीरं चैव तथाहरेत् ॥६८॥
पद्मपत्रेषु सम्पूज्य क्रमान्मूत्रादिपञ्कम् ।
पञ्चपत्रेषु संयोज्य मथित्वा प्रणवेन च ॥६९॥
सम्पूज्याष्टसहस्रं तु पञ्चोपनिषदो जपेत् ।
तेन सम्प्रोक्ष्य सर्वत्र स्नापयेत् प्रतिमां ततः ॥७०॥
हृत्वा भस्मादिकं तोयैः प्लावयित्वा समन्ततः ।
गोनिवासादि कर्तव्यं प्रायश्चित्तं यथाक्रमम् ॥७१॥
चलं वा निश्चलं कुर्यादावाह्य कलशे बुधः ।
अधिवास्य यथान्यायं कुर्याद्वाऽथ नवीक्रियाम् ॥७२॥
भग्नमुद्धृत्य वा बिम्बं तथान्यत् स्थापयेद् बुधः ।
सङ्क्रान्तमुद्धृते बिम्बे नवे संयोजयेत् पूनः ॥७३॥
उद्वास्य सुस्थितं कुर्याद् बिम्बं पच्छिलया सह ।
दुर्जनस्पर्शनादौ तु शुद्धिं कृत्वाऽस्य भूयसीम् ॥७४॥
होमादि सकलं कुर्यादुत्सवान्तं विशेषतः ।
चोराहृतिस्तु दोषाणामग्रणीः परिकीर्त्यते ॥७५॥
तत्र यत्नेन कर्तव्यं विधानमतिविस्तरम् ।
चोरैरपहृतं बिम्बं यदि यत्नेन लभ्यते ॥७६॥
शोधयित्वा विधानेन स्थाप्यं तत्र तदेव तु ।
अलब्धेऽपहृते भग्ने जीर्णे वाऽभिनवं पुनः ॥७७॥
योनिरूपविशेषं तु न्यूनमप्यत्र नेष्यते ।
प्रासादे सति तं ध्यात्वा सकलं बिम्बसंयुतम् ॥७८॥
संहृत्यावाहयेद् विद्वान् कलशे मन्त्रपूर्वकम् ।
गर्भगेहेऽस्य पीठे वा सत्यावाह्य तथैव तु ॥७९॥
पीठं गर्भगृहं वाऽपि यदा तस्य न लभ्यते ।
बिम्बस्थानात् तदावाह्य यथोक्तं विधिमाचरेत् ॥८०॥
संक्रान्तस्य विनाशेऽपि कर्तव्यं मूलनाशवत् ।
तदङ्गदेवतानाशे तद्वदेव प्रकीर्त्यते ॥८१॥
यतस्तु देवताः सर्वा मन्त्रात्मानः प्रकीर्तिताः ।
एवमेव विसर्गः स्यान्नाशे तासामिति स्थितिः ॥८२॥
कर्तव्या पञ्चभिः शान्तिरपूजायां तु भूयसी ।
शतहोमोऽष्टकेनाथ वैष्णवानां तु भोजनम् ॥८३॥
दशानां पायसेनात्र देया शक्त्या च दक्षिणा ।
द्वादशान्तमहःसंख्यागुणितः स्यादयं विधिः ॥८४॥
स्नपनं चाचतुर्मासान्महास्नानमतः परम् ।
वत्सरे शान्तिहोमेन युक्तं विप्रार्चनेन च ॥८५॥
अभिमन्त्र्य हविः स्कन्नं दक्षिणेन तु पाणिना ।
अष्टाक्षरेण होतव्यं शतमाज्येन पञ्चभिः ॥८६॥
दुःशॉताद्यप्सु निक्षिप्य तथा हुत्वा परं पचेत् ।
उषितेऽम्बुपयोमिश्रगव्यगन्धादिशोधनम् ॥८७॥
पुण्याहं शान्तिहोमं च बलिमन्नाद्यमाचरेत् ॥८८॥

॥इति विष्णुसंहितायां पञ्चविंशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP