ब्रह्मखण्डः - अध्यायः २१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच
कथयस्व मुने सूत सर्वमासोत्तमस्य च
कार्तिकस्य विधिं सम्यङ्नियमान्वक्तुमर्हसि ॥१॥
सूत उवाच
आश्विनस्य द्विजश्रेष्ठ पौर्णमास्यां समाहितः
कार्तिकस्य व्रतं कुर्याद्यावदुद्बोधिनी भवेत् ॥२॥
दिवा विप्र नरः कुर्यान्मलमूत्रमुदङ्मुखः
भवेन्मौनी च सर्वज्ञ रात्रौ चेद्दक्षिणामुखः ॥३॥
पथ्यंभसि च गोष्ठेषु श्मशाने वल्मिके द्विज
कुर्यादुत्सर्जनं नैव व्रती मूत्रपुरीषयोः ॥४॥
अत्युत्तमेषु स्थानेषु मलमूत्रं न कारयेत्
शुद्धां मृदं गृहीत्वाथ वामं प्रक्षालयेत्करम् ॥५॥
अद्भिर्मृदापि शुद्ध्यर्थं पूर्वं विंशतिसंख्यया
एका लिंगे गुदे पंच तथा वामकरे दश ॥६॥
उभयोर्दश दातव्या पादयोश्च त्रिभिस्त्रिभिः
मुखशुद्धिं ततः कुर्य्यात्संकल्पं स्नपनस्य च ॥७॥
हृदि दामोदरं ध्यात्वा इमं मंत्रं ततो वदेत्
कार्तिकेहं करिष्यामि प्रातःस्नानं जनार्द्दन ॥८॥
दामोदरस्य प्रीत्यर्थं राधया पापनाशनं
नमः पंकजनाभाय श्रीकृष्णजलशायिने ॥९॥
नमस्ते राधया सार्द्धं गृहाणार्घं प्रसीद मे
स्नानं कुर्य्यात्ततो विप्र तिलकं तु यथाविधि ॥१०॥
ऊर्ध्वपुंड्रविहीनस्तु किंचित्कर्मकरोति यः
निष्फलं कर्म तत्सर्वं सत्यमेतन्मयोच्यते ॥११॥
यच्छरीरं मनुष्याणामूर्ध्वपुंड्रं विना कृतम्
तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥१२॥
ऊर्ध्वपुंड्रं मृदा शुभ्रं ललाटे यस्य दृश्यते
चांडालोऽपि विशुद्धात्मा पूज्य एव न संशयः
अच्छिद्रमूर्ध्वपुंड्रं तु ये कुर्वंति नराधमाः ॥१३॥
तेषां ललाटे सततं शुनःपादो न संशयः
प्रातःकालोदितं कर्म्म समाप्य हरिवल्लभाम् ॥१४॥
पूजयेद्भक्तितो विप्र तुलसीं पापनाशिनीम्
पौराणीं तु कथां श्रुत्वा श्रीहरेः स्थिरमानसः ॥१५॥
ततो विप्रं व्रती भक्त्या पूजयेत्तं यथाविधि
परासनं परान्नं च परशय्यां परांगनाम् ॥१६॥
सर्वदा वर्जयेद्विप्र कार्त्तिके च विशेषतः
सौवीरकं तथा माषानामिषं च तथा मधु ॥१७॥
राजमाषादिकं नित्यं वर्जयेत्कार्तिके व्रती
जंबीरमामिषं चूर्णमन्नं पर्य्युषितं द्विज ॥१८॥
धान्ये मसूरिका प्रोक्ता गवां दुग्धमनामिषम्
लवणं भूमिजं विप्र प्राण्यङ्गमामिषं खलु ॥१९॥
द्विजक्रीता रसाः सर्वे जलं चाल्पसरः स्थितम्
ब्रह्मचर्यं तुर्यकाले पत्रावल्यां च भोजनम् ॥२०॥
कुर्याद्वै द्विजशार्दूल तैलाभ्यंगं च वर्जयेत्
छत्राकं नालिकं हिंगुं पलांडुं पूतिकादलम् ॥२१॥
लशुनं मूलकं शिग्रुं तथैव तुंबिकाफलम्
कपित्थं चैव वृंताकं कूष्मांडं कांस्यभोजनम् ॥२२॥
द्विपाचितं सूतिकान्नं मत्स्यं शय्यां रजस्वलाम्
द्विस्त्रिश्चान्नं स्त्रियः संगं वर्जयेत्कार्तिकव्रती ॥२३॥
धात्रीफलं गृही विप्र रवौ तत्सर्वदा त्यजेत्
कूष्मांडे धनहानिः स्यात्बृहत्यां न स्मरेद्धरिम् ॥२४॥
पटोले तु न वृद्धिः स्याद्बलहानिश्च मूलके
कलंकी जायते बिल्वे तिर्यग्योनिश्च निंबुके ॥२५॥
ताले शरीरनाशः स्यान्नारिकेले च मूर्खता
तुंबी गोमांसतुल्या स्याद्गोवधं स्यात्कलिंदके ॥२६॥
शिंबी पापकरा प्रोक्ता पूतिका ब्रह्मघातिका
वार्ताक्यां सुतनाशः स्याच्चिररोगी च माषके ॥२७॥
मांसे च बहुपापं स्याद्वर्जयेत्प्रतिपदादिषु
यत्किंचिद्वर्जयेद्योऽन्नं श्रीहरे प्रीतये द्विज ॥२८॥
तत्पुनर्भूसुरे दत्वा व्रतांते तस्य भोजनम्
कार्तिकव्रतिनं विप्र यथोक्तकारिणं नरम् ॥२९॥
यमदूताः पलायंते सिंहं दृष्ट्वा यथा गजाः
श्रेष्ठं विष्णुव्रतं विप्र तत्तुल्या न शतं मखाः ॥३०॥
कृत्वा क्रतुं व्रजेत्स्वर्गं वैकुंठं कार्तिकव्रती
यत्किंचिद्दुष्कृतं विप्र मनोवाक्कायकर्मजम् ॥३१॥
दृष्ट्वा तु विलयं याति कार्तिकव्रतिनं क्षणात्
कार्त्तिकव्रतिनः पुण्यं ब्रह्मा चैव चतुर्मुखः ॥३२॥
न समर्थो भवेद्वक्तुं यथोक्तव्रतकारिणः
यत्कृत्वा कलुषं सर्वं व्रजेद्विप्र दशो दिशः ॥३३॥
क्व गच्छामि क्व तिष्ठामि कार्त्तिकव्रतिनो भयात्
पौर्णमास्यां यथाशक्ति चान्नवस्त्रादिकं द्विज ॥३४॥
दद्याद्वै श्रीहरेः प्रीत्यै ब्राह्मणानपि भोजयेत्
रात्रौ जागरणं कुर्यान्नृत्यगीतादिभिर्व्रती
य इदं शृणुयाद्भक्त्या तस्य पापं प्रणश्यति ॥३५॥
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे एकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP