संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|ब्रह्मखण्डः| अध्यायः १२ ब्रह्मखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ ब्रह्मखण्डः - अध्यायः १२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२ Translation - भाषांतर शौनक उवाच-केन पुण्येन भो सूत चान्येन गतपातकःनरो याति हरेः स्थानं तद्वदस्वानुकंपया ॥१॥सूत उवाच-ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तमरक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति ॥२॥पुरा राजा दीननाथो द्वापरे संज्ञके युगेआसीदपुत्रो बलवान्वैष्णवः स तु याजकः ॥३॥एकदा गालवं राजा पप्रच्छ विनयान्वितःकेन पुण्येन जायेत पुत्रो वै करुणार्णव ॥४॥वदस्व मुनिशार्दूल करिष्यामि तवाज्ञयायेषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ॥५॥गालव उवाच-राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतःकथयामि समासेन पुत्रस्योद्भवकारणम् ॥६॥क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तमतदा ते संततिः स्याद्वै सर्वलक्षणसंयुता ॥७॥राजोवाच-नरमेधं महायज्ञं यज्ञानां प्रवरं द्विजकीदृशं नरमानीय करिष्यामि गुरो वद ॥८॥गालव उवाच-सुंदरांगः सुवदनः समस्तशास्त्रविद्भवेत्सत्कुले यदि जातः स तदा यज्ञाय कल्पते ॥९॥अंगहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहिइत्युक्ते गालवे विप्र स राजा मनुजेश्वरः ॥१०॥प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचःद्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान् ॥११॥यज्ञार्थे वरयामास समस्तशास्त्रपारगान्ततो राजाज्ञया दूताः देशं देशं मुदा गताः ॥१२॥ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताःकुत्रापि न प्राप्तवंतो गता जनपदं ततः ॥१३॥नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैःयत्र नारीः सुकेशीश्च मृगशावक चक्षुषः ॥१४॥दृष्ट्वा मुह्यंति पुरुषाश्चंद्रमुख्यश्च ता यतःतस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः ॥१५॥आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलयावैष्णवः प्रियवादी च विष्णुपूजारतः सदा ॥१६॥साग्निकः पितृभक्तश्च वैष्णवानां प्रियंकरःप्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम् ॥१७॥पुत्रं देहीति देहीति वद ब्राह्मणसत्तमनास्ति राज्ञो द्विजश्रेष्ठ पुत्रः संतापनाशनः ॥१८॥तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितःनेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ ॥१९॥सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितःसुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् ॥२०॥तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम्दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ ॥२१॥अभूतां विगतप्राणाविव संशयमानसौकिं धनेन सुवर्णेन जीवनेनापि सद्मनाप्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान् ॥२२॥ब्राह्मण उवाच-यदि दूताः समानेतुं पुत्रं शोकतमोपहम्आगता निश्चितं यूयं शृणुध्वं वचनं मम ॥२३॥स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छतिपुत्रं हित्वा किंतु यूयं वृद्धं मां नयत द्विजम् ॥२४॥इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताःबलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः ॥२५॥यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधाबद्धांजलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः ॥२६॥पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम्नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः ॥२७॥द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम्प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम ॥२८॥तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदापपात वात्यया सार्द्धं रंभेव भृशदुःखिनी ॥२९॥मुद्गरं सा समादाय मौलौ चाताडयद्बलात्कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ॥३०॥एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतःप्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ॥३१॥माता यदि विषं दद्यात्पित्रा विक्रीयते सुतःराजा हरति सर्वस्वं कस्तत्र पालको भवेत् ॥३२॥इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सहदूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ॥३३॥अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौरुदित्वा च रुदित्वा च अंधभावं प्रजग्मतुः ॥३४॥अथ ते पथ्यगच्छंत विश्वामित्रमुनेः किलआश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ॥३५॥स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम्के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम् ॥३६॥राजदूता ऊचुः-शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायतेतदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः ॥३७॥नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम्इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत् ॥३८॥प्राणा ममापि गच्छंतु सुखी भवतु बालकःबालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह ॥३९॥त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाःविमृश्येति मुनिः स्वांते स प्रोवाच द्विजर्षभः ॥४०॥यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम्हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः ॥४१॥संसारे जन्मसंप्राप्य न लब्धं सुखमत्र चअनेन बालकेनापि मरिष्यति कथं त्वयम् ॥४२॥आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौहतभाग्यौ गतो नूनं यमस्येव गृहं प्रति ॥४३॥एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम्भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर ॥४४॥नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम्एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा ॥४५॥स मुनिर्दूतसंघैश्च गतवान्यज्ञमंदिरम्राजानं कथयामासुर्दूता विप्रस्य चेष्टितम् ॥४६॥तच्छ्रुत्वाशंकितमनाः प्रोवाचेदं वचः स तम्मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति ॥४७॥बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय ॥४८॥मुनिरुवाच-यज्ञे त्वया कृते राजन्महापुत्रो भविष्यतिअत्र ते संशयो मा भूदमोघमपि दर्शनम् ॥४९॥इति तस्य वचः श्रुत्वा राजात्यंतसहर्षकःचक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ॥५०॥अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम्गृह्य दशपुरं नाम नगरं गतवांस्तदा ॥५१॥भवनं तस्य गत्वा च उक्तवान्वचनं मुनिःगृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने ॥५२॥राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम्पुत्रे गते च भो विप्र दंपत्योरावयोः पुनः ॥५३॥गतानि चांधभावं वै क्रंदनैर्लोचनान्यपिअथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ॥५४॥उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौपुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात् ॥५५॥मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोःआलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि ॥५६॥पुत्रस्य मुखपद्मं तौ लोचनैरलिसंनिभैःपीत्वा मुनिं चिरंतं च नमस्कृत्य पुनः पुनः ॥५७॥प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौअहो मुने जीवदानमावयोः सुकृतं किल ॥५८॥तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवःदत्वाशिषं च तौ विप्र जगाम निजमाश्रमम् ॥५९॥मुनिः करगतं चैव कृत्वा विष्णोः परं पदम्तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम् ॥६०॥किंचित्काले गते विप्र तस्य राज्ञोऽभवत्सुतःसुंदरो राजयोग्यश्च इंदुःक्षीरनिधाविवपुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै ॥६१॥बुभुजे देववद्भूम्यां विशोको जातकौतुकःविप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि ॥६२॥स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम्पठंति येऽत्र भक्त्या च शृण्वंति विप्रतः कथाम् ॥६३॥आख्यानं श्लोकमेकं वा गच्छंति विष्णुमंदिरम् ॥६४॥इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे ब्राह्मणपालनंनाम द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : October 30, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP