संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|ब्रह्मखण्डः| अध्यायः ८ ब्रह्मखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ ब्रह्मखण्डः - अध्यायः ८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८ Translation - भाषांतर शौनक उवाच-समुद्रमथनं सूत पुरा कस्मात्कृतं गुरोहृदये कौतुकं जातं श्रोतुं मे वद चामरैः ॥१॥सूत उवाच-ब्रह्मन्वच्मि समासेन सिंधोर्मथनकारणम्दुर्वाससेंद्र संवादमितिहासं शृणुष्व तत् ॥२॥महातपा महातेजा दुर्वासा ईश्वरांशजःब्रह्मर्षिः प्रययौ स्वर्गमिन्द्रं द्रष्टुं स चैकदा ॥३॥तस्मिन्ददर्श काले तं गजारूढंv शचीपतिम्दृष्ट्वा स्रजं पारिजातां ददौ तस्मै महामुनिः ॥४॥गृहीत्वा तां स्रजं चेंद्रो विन्यस्य गजमूर्द्धनिदेवराट्प्रययौ ब्रह्मन्ससैन्यो नंदनं प्रति ॥५॥हस्ती चादाय तां मालां छित्त्वा तु धरणीतलेचिक्षेप च महाक्रुद्धस्तमित्याह महामुनिः ॥६॥त्रैलोक्यैकश्रियायुक्तो यस्मात्त्वमवमन्यसेतव त्रैलोक्यश्रीर्नष्टा भवत्येव न संशयः ॥७॥ततः शक्रो जगामाशु सुप्तश्च स्वपुरं पुनःददर्श जगतां माता चांतर्द्धानं गता स्वयम् ॥८॥नष्टमंतर्द्धानवत्यां तदा तस्यां जगत्त्रयम्क्षुत्पिपासान्विताः सर्वे चुक्रुशुर्वै निरंतरम् ॥९॥न ववर्षुर्वारिवाहाः शुष्काश्चैव जलाशयाःसर्वे ते शाखिनः शुष्काः फलपुष्पविवर्जिताः ॥१०॥क्षुत्पिपासार्दिताः सर्वे ब्रह्मणः सन्निधिं ययुःतं सर्वे कथयामासुः दुःखशोकं पितामहम् ॥११॥देवानां वचनं श्रुत्वा धाता देवगणैः सहभृग्वादिमुनिभिश्चैव प्रययौ क्षीरसागरम् ॥१२॥विष्णुं समर्चयामास क्षीराब्धेरुत्तरे तटेमंत्रमष्टाक्षरं वेधा जपन्ध्यायन्जगत्पतिम् ॥१३॥ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम्वैनतेयं समारुह्य चागतः सदयः प्रभुः ॥१४॥पीतवस्त्रं चतुर्बाहुं शंखचक्रगदाधरम्दृष्ट्वा तं जगतामीशं पुंडरीकनिभेक्षणम् ॥१५॥विष्णुं भवोदधेः पोतं वनमालाविभूषितम्श्रीवत्सकौस्तुभोरस्कमानंदाश्रुपरिप्लुताः ॥१६॥तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम्श्रीभगवानुवाच-वरं वृणीध्वं भो देवाः कस्माद्यूयं समागताःवरदोऽस्मि तद्वदत वो ददामि च नान्यथा ॥१७॥देवा ऊचुः-कृपालो ब्रह्मशापेन संपद्धीनं जगत्त्रयम्क्षुत्पिपासार्दितं नाथ सदेवासुरमानुषम् ॥१८॥रक्ष सर्वानिमाँल्लोकान्याताः स्म शरणं तवश्रीभगवानुवाच-इंदिरा ब्रह्मशापेन चान्तर्द्धानं गता सुराः ॥१९॥यस्याः कटाक्षमात्रेण जगदैश्वर्यसंयुतम्तदा यूयं सुराः सर्वे चोत्पाट्य स्वर्णपर्वतम् ॥२०॥मंदरं घर्घरं कृत्वा सर्पराजेन वेष्टितम्कुरुध्वं मथनं देवाः सदैत्याः क्षीरसागरम् ॥२१॥तस्मादुत्पत्स्यते लक्ष्मीर्जगन्माता च भोः सुराःतया हृष्टा महाभागा भविष्यथ न संशयः ॥२२॥धारयाम्यहमेवाद्रिं कूर्मरूपेण सर्वतःइत्युक्त्वा भगवान्विष्णुरंतर्द्धानं जगाम सःजग्मुः सुरासुराः सर्वे समुद्रमथनं द्विज ॥२३॥इति श्रीपाद्मे महापुराणे ब्रह्मखंडे समुद्रमथनोद्योगोनामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : October 30, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP