संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|ब्रह्मखण्डः| अध्यायः ५ ब्रह्मखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ ब्रह्मखण्डः - अध्यायः ५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५ Translation - भाषांतर शौनक उवाच-कथयस्व महाप्राज्ञ पुत्रहीनो जनो भवेत्कर्मणा केन वै सूत पुत्रो भवति केन च ॥१॥सूत उवाच-एतत्पृष्टः पुरा ब्रह्मा नारदेन महात्मनास यदाह तदा तं च शृणुष्व मुनिपुंगव ॥२॥नारद उवाच-पितामह महाप्राज्ञ सर्वतत्त्वार्थपारगअपुत्रो वै भवेन्मर्त्यः कर्मणा केन पद्मज ॥३॥वंध्या स्त्री वा भवेत्केन वृजिनेन ममाग्रतःकथय शृण्वतो वै मे सर्वप्राणिहिते रत ॥४॥दुहिता जायते केन कर्मणा वा नपुंसकःमृतवत्सो भवेत्केन मृतवत्सातिदुःखिताकेन पुण्येन भो ब्रह्मन्पुनः पुत्रो भवेद्वद ॥५॥ब्रह्मोवाच-कथयामि समासेन सावधानेन तच्छ्रणुवृत्तांतं पृच्छसि त्वं वै शृण्वतां विस्मयप्रदम् ॥६॥पूर्वजन्मनि यो मर्त्यो वर्तनं ब्राह्मणस्य चहरेद्वा हारयेदत्र पुत्रहीनो भवेत्किल ॥७॥इह जन्मनि यो मर्त्यः पुराणश्रवणं हि चससस्या भूमेर्दानं च कुर्याद्वै श्रद्धयान्वितः ॥८॥धेनुं बहुगुणां हैमीं बहुदुग्धां सदक्षिणाम्सुवर्णप्रतिमां चैव तस्य पुत्रो भवेद्ध्रुवम् ॥९॥पूर्वजन्मनि या नारी परबालकघातनम्करोति कपटेनैव बालहीना भवेद्ध्रुवम् ॥१०॥सौवर्णप्रतिमादानं या नारी श्रद्धयान्विताकुर्यात्पानं ब्राह्मणस्य भक्त्या वै चरणोदकम् ॥११॥पुराणश्रवणं चैव दद्याद्वै बहुदक्षिणाम्बह्वपत्या जीववत्सा भवेन्नास्त्यत्र संशयः ॥१२॥जले निमग्नं बालं यो दृष्ट्वा या न समुद्धरेत्इह जन्मन्यपुत्रो वै साऽपुत्री च भवेद्ध्रुवम् ॥१३॥वृषभं चैव कूष्मांडं ससुवर्णं सवस्त्रकम्दद्याद्दानं ब्राह्मणस्य कुर्याद्बालव्रतं शुभम् ॥१४॥गौरीं कन्यां तथा कुर्यात्पुराणश्रवणं हि यःपुत्रो वै जायते तस्य सर्वपातकनाशनम् ॥१५॥पूर्वजन्मनि यो मर्त्यो निराशं चातिथिं द्विजकुर्यात्क्रोधेन दंडं च पुत्रहीनो भवेद्ध्रुवम् ॥१६॥ब्राह्मणं चातिथिं चैव कुर्याद्भक्त्या प्रपूजनम्अन्नदानं जलं चैव तथा देवालयं शुभम् ॥१७॥पूर्वजन्मनि या नारी भ्रूणहत्यां च यो नरःकुर्यात्सा मृतवत्सा च मृतवत्सो भवेद्ध्रुवम् ॥१८॥या नारी स्वामिसहिता कुर्याच्च हरिवासरम्सुपुत्रा भर्तृसुभगा भवेत्सा प्रतिजन्मनि ॥१९॥यो नरो गोधनं कुर्याच्छूद्रः कुर्याद्विमोहितःब्राह्मणीहरणं वापि कर्मणा स नपुंसकः ॥२०॥इदं तु वृजिनं कृत्वा पश्चात्पुण्यं करोति यःइह पुण्यप्रभावेण दुहिता जायते द्विज ॥२१आसीत्त्रेतायुगे राजा श्रीधरो नामतो द्विजअपुत्रो धनवांस्तस्य जाया हेमप्रभावती ॥२२॥व्यासं सकलशास्त्रज्ञं सर्वलोकहितैषिणम्आगतं चैव पप्रच्छ चापुत्रोऽहं कथं द्विज ॥२३॥उवाच नृपतेः श्रुत्वा वचनं विनयान्वितम्राज्ञा दत्ते च पीठे च निर्मिते कनकादिभिः ॥२४॥राजाराज्ञी तस्य पादौ धौतं कृत्वा च हर्षितौपीत्वा पादोदकं द्वौ च सर्वपातकनाशनम् ॥२५॥व्यास उवाच-राजन्शृणुष्व यत्पृष्टमपुत्रो येन कर्मणातवेयं राज्ञी चापुत्री चैकपत्नीव्रतस्तथा ॥२६॥पूर्वजन्मनि चंद्रस्त्वं नाम्ना वरतनु स्मृतःभार्या तवापि शुभ्रांगी नाम्ना वै शंकरी स्मृता ॥२७॥एकदा पथियातौ च नीचपुत्रं जलेपि चमग्नं दृष्ट्वा हेलया च गतौ स पंचतां गतः ॥२८॥बहुपुण्यप्रभावेण राज्ञीराजा गतौ युवाम्तेन कर्मविपाकेन युवायोर्न भवेत्सुतः ॥२९॥राजोवाच-इदानीं केन पुण्येन सुतो वै जायते प्रभोअपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम् ॥३०॥व्यास उवाच-सवस्त्रं चैव कूष्मांडं वृषभं ससुवर्णकम्देहि दानं ब्राह्मणस्य कुरु बालव्रतं तथा ॥३१॥गौरीं कन्यां तथा देहि पुराणश्रवणं कुरुपुत्रो वै जायते तत्र सर्वपातकनाशनम् ॥३२॥ब्रह्मोवाच-इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमम्पुराणश्रवणं चैव चकार गतकिल्बिषः ॥३३॥ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितःअभूद्राजा सार्वभौमः सुंदरः कुलनायकः ॥३४॥सूत उवाच-य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम्अपुत्रो लभते पुत्रं संक्षेपात्कथितं मया ॥३५॥भक्त्या श्रुत्वा तु या नारी कुर्याद्ब्राह्मणपूजनम्सुपुत्रा सा भवेन्नित्यं शास्त्रोक्तविधिना द्विज ॥३६॥सुवर्णं रजतं वस्त्रं पुष्पमाल्यं च चंदनम्यो दद्यात्पुस्तके भक्त्या सर्वपापप्रणाशनम् ॥३७॥पूर्वजन्मनि यो मूढो ब्रह्मबालकघातकःतस्य क्रूरो भवेत्पुत्रः सप्तजन्मांतरैर्द्विजः ॥३८॥इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे कर्मविपाककथनंनाम पंचमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : October 30, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP