ब्रह्मखण्डः - अध्यायः १०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः
धन्वंतरिः पारिजातः सुरभिश्चाप्सरोदयः ॥१॥
ततः प्रभातसमये द्वादश्यामुदिते रवौ
उत्पन्ना श्रीर्महालक्ष्मीः सर्वलक्षणशोभिता ॥२॥
ददृशुस्तां महादेवीं मातरं धर्मदेवताः
प्रहृष्टाः सर्वजंतूनां श्रीकृष्णहृदयालयाम् ॥३॥
लक्ष्मीभ्राता शीतरश्मिर्जातश्च सुधया ततः
उत्पन्ना सा हरेर्जाया तुलसी लोकपावनी ॥४॥
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः
समेत्य मातरं स्तुत्वा जेपुः श्रीसूक्तमुत्तमम् ॥५॥
ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः ॥६॥
देवा ऊचुः-
प्रसीद कमले देवि सर्वमातर्हरिप्रिये
त्वया विना जगच्छून्यं कुरु प्राणप्ररक्षणम् ॥७॥
इत्युक्ता सा महालक्ष्मीः प्राह नारायणप्रिया
इदानीं सर्वजंतूनां प्राणरक्षां करोम्यहम् ॥८॥
ततो नारायणः श्रीमाञ्छंखचक्रगदाधरः
आविर्बभूव सहसा दयालुर्जगदीश्वरः ॥९॥
ततस्ते तुष्टुवुर्देवाः प्रणम्य जगतां पतिम्
कृतांजलिपुटाः प्रोचुः हर्षगद्गदभाषिणः ॥१०॥
गृहाण मातरं विष्णो महिषीं वल्लभां तव
संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम्
यावत्प्रतिज्ञां नो चक्रे तावत्प्राहेंदिरा हरिम् ॥११॥
लक्ष्मीरुवाच-
अविवाह्य कथं ज्येष्ठामलक्ष्मीं मधुसूदन
तस्याः कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि
ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते ॥१२॥
सूत उवाच-
इति श्रुत्वा ततो विष्णुर्ददौ चोद्दालकाय च
वेदवाक्यानुरूपेण ह्यलक्ष्मीं निर्जरैः सह ॥१३॥
ततो नारायणः श्रीमान्लक्ष्मीमंगीचकार ह
ततः सुरगणाः सर्वे नमश्चक्रुः पुनःपुनः ॥१४॥
अथ ते चासुरान्सर्वान्जघ्नुः सर्वे बलाधिकाः
सर्वे ते क्रंदमानाश्च गताश्चैव दिशो दश ॥१५॥
सुधां तत्खादितुं चक्रुर्देवाः पंक्तिं यथाक्रमम्
श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम् ॥१६॥
त्वं च देहि त्वं च देहि त्वं च देहीति चाब्रुवन्
न शक्तोऽस्मि न शक्तोऽस्मि न शक्तोऽस्मीति चाब्रुवन् ॥१७॥
ततो विष्णुः समुत्तस्थौ स्त्रीरूपं च दधार ह
चकार स्वर्णपात्रे तत्पीयूषपरिवेषणम् ॥१८॥
पीयूषभक्षणं राहुर्यावत्कुर्याद्द्विजोत्तम
चंद्रसूर्यौ चोक्तवंतौ राक्षसोऽसौ छलागतः ॥१९॥
ततः क्रुद्धो जगन्नाथो जघान स्वर्णपात्रतः
शिरस्तस्य पपातोर्व्यां केतुर्नाम्ना बभूव ह ॥२०॥
राहुकेतू ततस्तूर्णं गतौ तौ भयविह्वलौ
इदानीं तद्दिने प्राप्ते चंद्रसूर्यौ स युध्यति ॥२१॥
कुर्याद्ग्रासं सैंहिकेयस्तत्क्षणं दुर्लभं भवेत्
सर्वं गंगासमं तोयं वेदव्याससमा द्विजाः ॥२२॥
स्नानं वायसतीर्थे यो गंगास्नानफलं लभेत्
दानमक्षयपुण्यं स्यात्कोटिजन्मार्जितं तथा ॥२३॥
पापं नश्येत्समूलं च किं पुनः क्रतुकोटिभिः
विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्यते ॥२४॥
मोक्षार्थी लभते मोक्षं मंत्रसिद्धिर्भवेद्ध्रुवम्
इति ते कथितं विप्र समुद्रमथनं तु तत् ॥२५॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकादिकसंवादे समुद्रमथनं
नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP