संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|ब्रह्मखण्डः| अध्यायः १९ ब्रह्मखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ ब्रह्मखण्डः - अध्यायः १९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १९ Translation - भाषांतर शौनक उवाचअज्ञानात्प्राश्य विण्मूत्रं सुरां संस्पृश्य वा पुनःयथा शुद्धिर्भवेत्तेषां कथयामि शृणु द्विज ॥१॥प्राजापत्यद्वयं कुर्य्यात्तीर्थाभिगमनं मुनेवृषैकादशगोदानं सशिखं वपनं ततः ॥२॥गत्वा चतुष्पथं सर्वं प्राजापत्यव्रतं तथागोद्वयं तु ततो दद्यात्पंचगव्यं पिबेत्ततः ॥३॥ब्राह्मणान्भोजयित्वा तु शुद्ध्यत्यत्र न संशयःचांडालान्नं जलं चैव ज्ञानतोऽपि विपत्तिषु ॥४॥यदि भुङ्क्ते नरः कश्चित्कृच्छ्रं चांद्रायणं चरेत्सशिखं वपनं कृत्वा पंचगव्यं ततः पिबेत् ॥५॥एकद्वित्रिचतुर्गावो देयाद्विप्रेष्वनुक्रमात्वृषलान्नं सूतकान्नं अभोज्यान्नं जलं च वै ॥६॥शूद्रोच्छिष्टं यदा भुंक्ते ज्ञानतो वा विपत्तिषुप्राजापत्यद्वयं कुर्याच्चांद्रायणत्रयं तथा ॥७॥गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेद्द्विजहुत्वा ह्यग्नौ बहून्विप्रान्भोज्यशुद्धो भवेद्ध्रुवम् ॥८॥आखुनकुलमार्ज्जारैरन्नं चेद्भक्षितं द्विजतिलदर्भोदकैः प्रोक्ष्य शुद्ध्यत्येव न संशयः ॥९॥पलांडुं लशुनं शिग्रुमलाबुं गृंजनं पलम्भुंक्ते यो वै नरो ब्रह्मन्व्रतं चांद्रायणं चरेत् ॥१०॥मद्यमांसप्रियं शूद्रं नीचकर्म्मानुवर्त्तनैःतं शूद्रं वर्जयेद्विप्र श्वपाकमिव दूरतः ॥११॥द्विजसेवानुरक्ता ये मद्यमांसविवर्जिताःदान स्वकर्म्मनिरतास्ते ज्ञेया वृषलोत्तमाः ॥१२॥अज्ञानाद्भुंजते विप्र सूतके मृतके यदिगायत्रीदशभिर्विप्रः सहस्रैश्च शुचिर्भवेत् ॥१३॥सहस्रैः क्षत्रियश्चैव वैश्यः पंचसहस्रकैःपंचगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन ॥१४॥आज्यं तु तोयं नीचस्य भांडस्थं दधि यः पिबेत्अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेत् ॥१५॥दानं बहुतरं दद्याच्छुद्धो ह्यग्नौ यथाविधिशूद्राणां नोपवासोऽपि दानेनैव विशुद्ध्यति ॥१६॥सशिखं वपनं कुर्यादहोरात्रोपवासतःनीचैर्दंडादिभिश्चैव ताडितो यो नरो द्विज ॥१७॥प्राज्ञापत्यव्रतं कुर्य्याच्चांद्रायणव्रतं तु वासशिखं वपनं चैव पंचगव्यं पिबेत्ततः ॥१८॥गोद्वयं तु ततो दद्यादग्नौ चान्नादिकं हुतम्मद्यपानं गृहे विप्र ज्ञानतोऽपि यदृच्छया ॥१९॥यदि भुंक्ते नरः कश्चित्पात्यः सोऽपि कुलान्नरःगोबीजहंता यो विप्रच्छेदकश्च दलस्य च ॥२०॥स्वर्णस्तेयी भवेत्कृच्छ्रं प्राजापत्यत्रयं चरेत्सशिखं वपनं कृत्वा पंचगव्यं तथा पिबेत् ॥२१॥यथाविधिहुतं चाग्नौ दद्याद्धेनुत्रयं तथातस्य भुक्तं जलं चैव ग्राह्यं स्याद्वै तपोधन ॥२२॥प्रातस्त्र्यहं तु चाश्नीयात्र्यहं सायमयाचितम्त्र्यहं चैव तु नाश्नीयात्प्राजापत्यमिदं व्रतम् ॥२३॥गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्दिनद्वयं पिबेद्विप्र चैकरात्रमुपोषितःसर्वपापहरं कृच्छ्रं मुने सांतपनं स्मृतम् ॥२४॥ग्रासं त्र्यहं तु चैकैकं प्रातःसायमयाचितम्अद्यात्त्र्यहं चोपवसेदतिकृच्छ्रमिदं व्रतम् ॥२५॥प्रतित्र्यहं पिबेदुष्णं जलं क्षीरं घृतं द्विजसकृत्स्नायी तप्तकृच्छ्रं स्मृतं पापहरं मुने ॥२६॥अभोजनं द्वादशाहं कृच्छ्रोऽयं पापनाशनःपराको नाम विज्ञेयः प्रसिद्धश्च तपोधन ॥२७॥एकैकं वर्द्धयेत्पिंडं शुक्ले कृष्णे च ह्रासयेत्इंदुक्षये न भुंजीत चांद्रायणव्रतं स्मृतम् ॥२८॥अश्नीयाच्चतुरः प्रातः पिंडान्विप्र समाहितःचतुरोऽस्तमिते चार्के शिशुचांद्रायणं स्मृतम् ॥२९॥कूष्मांडघाती या नारी पंचगव्यं पिबेत्त्र्यहम्कूष्मांडपंचकं दद्यात्ससुवर्णं सवस्त्रकम्तस्या वारि तथा भक्तं ग्राह्यं स्याद्वै तपोधन ॥३०॥इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : October 30, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP