संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|ब्रह्मखण्डः| अध्यायः १६ ब्रह्मखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ ब्रह्मखण्डः - अध्यायः १६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १६ Translation - भाषांतर शौनक उवाचकर्मणा केन भोः सूत चैनसां संक्षयो भवेत्श्रीहरेश्च कृपा भूयात्तद्वदस्वानुकंपया ॥१॥सूत उवाचशृणु शौनक वक्ष्यामि शृण्वतां पापनाशनम्येन विष्णोः कृपा स्याद्वै वृजिनक्षयकारिणी ॥२॥पौर्णमास्यां तु यो विप्र भक्तिभावसमन्वितःकुर्य्यान्नानाविधानेन सपर्य्यां श्रीजगद्विभोः ॥३॥कलुषं तस्य नश्येत कोटिजन्मार्जितं मुनेतस्मिन्श्रीरमणस्यास्य कृपा जाता भवेद्ध्रुवम् ॥४॥द्वादश्यामन्नदानं यो भक्त्या कुर्याद्द्विजातयेतस्य नश्यंति पापानि तमांसी वारुणोदये ॥५॥यो नरः श्रीहरिं कुर्यात्स्नपनं पयसा द्विजतत्प्रीतिः श्रीहरेः सद्यो द्वादश्यां शर्करादिभिः ॥६॥मंत्रं विना तु यो विप्र दद्याच्छ्रीहरये किलपाषाणसदृशं पुष्पं दाता याति अधोगतिम् ॥७॥क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यत्दद्याद्दानं नरो यो वै तस्य पुण्यं न विद्यते ॥८विद्याहीनो द्विजो मोहाद्दानं गृह्णाति मूढधीःकालानलं यथा जीर्णं तेन स निरयं व्रजेत् ॥९॥यथा दारुमयो हस्ती मृगश्चित्रमयो यथाविद्याहीनो द्विजो विप्र त्रयस्ते नामधारकाः ॥१०॥यथाध्वनिस्थितं वारि पवनार्केण शुद्ध्यतिभक्त्या तु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषम् ॥११॥यो नरश्चाश्विने मासि सघृतान्पूर्णिमा दिनेदद्याच्छ्रीहरये लाजान्क्रीडार्थं तु वराटिकाम् ॥१२॥भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितःन दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः ॥१३॥वराटिकां यावतीं यो हरये पौर्णिमादिनेतावद्दिनं हरेः स्थानं चाश्विने संवसेद्ध्रुवम् ॥१४॥करवीरपुरे ह्यासीत्पुरा शूद्रोऽपि निर्द्दयःकालद्विजो द्विजश्रेष्ठ नाम्ना पापी भयंकरः ॥१५॥स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकःएकदा पंचतां यातो यमदूता भयंकराः ॥१६॥आगतास्तं समानेतुं यमस्यतु निकेतनम्बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः ॥१७॥यम उवाचअस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम्कथयस्व समूलं तु चित्रगुप्त विचक्षण ॥१८॥चित्रगुप्त उवाचअसौ पापी दुराचारः स्वामिकार्यप्रणाशकःनास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम् ॥१९॥शतमन्वन्तरं राजन्नागयोनौ च निष्ठुरःपाषाणे जन्म चासाद्य गृहे स्थातुं निरंतरम् ॥२०॥सूत उवाचतावत्कालं ततो विप्र निरये स पपात हततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः ॥२१॥एकदा चाश्विने मासि पौर्णमासीदिने द्विजलाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः ॥२२॥पतिता सा हरेरग्रे पापमस्य स्वयं हरिःतूर्णं तु नाशयामास दयालुर्दुःखनाशकः ॥२३॥कदाचित्प्राप्तकालस्तु पंचत्वं स जगाम हयमदूतास्तमानेतुं चागता बहुशो द्विज ॥२४॥बद्ध्वा नेतुं यदा चक्रुर्यमस्य सदनं प्रतितदागता विष्णुदूताः शंखचक्रगदाधराः ॥२५॥पाशं छित्त्वा रथे दिव्ये तमाशुगतकिल्बिषम्तत्र चारोपयामासुः यमदूताः पलायिताः ॥२६॥ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौतत्र तस्थौ हरेरग्रे पुनरावर्त्तिवर्जितः ॥२७॥भक्त्या यो हरये दद्याल्लाजांश्च सघृतान्द्विजवराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम् ॥२८॥य इमं शृणुयाद्विप्र चाध्यायं पापनाशनम्तस्य नश्यंति पापानि श्रीहरेः कृपयापि च ॥२९॥इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे सूतशौनकसंवादे षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : October 30, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP