संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता| अध्यायः २७ कोटिरुद्रसंहिता विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ कोटिरुद्रसंहिता - अध्यायः २७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः २७ Translation - भाषांतर ऋषय ऊचुः ॥गंगा च जलरूपेण कुतो जाता वद प्रभो ॥तन्माहात्म्यं विशेषेण कुतो जात वद प्रभो ॥१॥यैर्विप्रैर्गौतमायेव दुःखं दत्तं दुरात्मभिः ॥तेषां किंच ततो जातमुच्यतां व्यास सद्गुरो ॥२॥सूत उवाच ॥एवं संप्रार्थिता गंगा गौतमेन तदा स्वयम् ॥ब्रह्मणश्च गिरेर्विप्रा द्रुतं तस्मादवातरत् ॥३॥औदुंबरस्य शाखायास्तत्प्रवाहो विनिस्सृतः ॥तत्र स्नानं मुदा चक्रे गौतमो विश्रुतो मुनिः ॥४॥गौतमस्य च ये शिष्या अन्ये चैव महर्षयः ॥समागताश्च ते तत्र स्नानं चक्रुर्मुदान्विताः ॥५॥गंगाद्वारं च तन्नाम प्रसिद्धमभवत्तदा ॥सर्वपापहरं रम्यं दर्शनान्मुनिसत्तमः ॥६॥गौतमस्पर्द्धिनस्ते च ऋषयस्तत्र चागताः ॥स्नानार्थं तांश्च सा दृष्ट्वा ह्यंतर्धानं गता द्रुतम् ॥७॥मामेति गौतमस्तत्र व्याजहार वचो द्रुतम् ॥मुहुर्मुहुः स्तुवन् गंगां सांजलिर्नतमस्तकः ॥८॥गौतम उवाच ॥इमे च श्रीमदांधाश्च साधवो वाप्यसाधवः ॥एतत्पुण्यप्रभावेण दर्शनं दीयतां त्वया ॥९॥सूत उवाच ॥ततो वाणी समुत्पन्ना गंगाया व्योममंडलात् ॥तच्छृणुध्वमृषिश्रेष्ठा गंगावचनमुत्तमम् ॥१०॥एते दुष्टतमाश्चैव कृतघ्नाः स्वामिद्रोहिणः ॥जाल्माः पाखंडिनश्चैव द्रष्टुं वर्ज्याश्च सर्वदा ॥११॥गौतम उवाच ॥मातश्च श्रूयतामेतन्महता गिर एव च ॥तस्मात्त्वया च कर्त्तव्यं सत्यं च भगवद्वचः ॥१२॥अपकारिषु यो लोक उपकारं करोति वै ॥तेन पूतो भवाम्यत्र भगवद्वचनं त्विदम् ॥१३॥सूत उवाच ॥इति श्रुत्वा मुनेर्वाक्यं गौतमस्य महात्मनः ॥पुनर्वाणी समुत्पन्ना गंगाया व्योममंडलात् ॥१४॥कथ्यते हि त्वया सत्यं गौतमर्षे शिवं वचः ॥तथापि संग्रहार्थ च प्रायश्चितं चरंतु वै ॥१५॥शतमेकोत्तरं चात्र कार्य्यं प्रक्रमणं गिरेः ॥भवच्छासनतस्त्वेतैस्त्वदधीनैर्विशेषतः ॥१६॥ततश्चैवाधिकारश्च जायते दुष्टकारिणाम् ॥मद्दर्शने विशेषेण सत्यमुक्तं मया मुने ॥१७॥सूत उवाच ॥इति श्रुत्वा वचस्तस्याश्चक्रुर्वै ते तथाऽखिलाः ॥संप्रार्थ्य गौतमं दीनाः क्षंतव्यो नोऽपराधकः ॥१८॥एवं कृते तदा तेन गौतमेन तदाज्ञया ॥कुशावर्तं नाम चक्रे गङ्गाद्वारादधोगतम् ॥१९॥ततः प्रादुरभूत्तत्र सा तस्य प्रीतये पुनः ॥कुशावर्तं च विख्यातं तीर्थमासीत्तदुत्तमम् ॥२०॥तत्र स्नातो नरो यस्तु मोक्षाय परिकल्पते ॥त्यक्त्वा सर्वानघान्सद्यो विज्ञानं प्राप्य दुर्लभम् ॥२१॥गौतमो ऋषयश्चान्ये मिलिताश्च परस्परम् ॥लज्जितास्ते तदा ये च कृतघ्ना ह्यभवन्पुरा ॥२२॥ऋषय ऊचुः ॥अस्माभिरन्यथा सूत श्रुतं तद्वर्णयामहे ॥गौतमस्तान्द्विजान् क्रुद्धश्शशापेति प्रबुध्यताम् ॥२३॥सूत उवाच ॥द्विजास्तदपि सत्यं वै कल्पभेदसमाश्रयात् ॥वर्णयामि विशेषेण तां कथामपि सुव्रता ॥२४॥गौतमोपि ऋषीन्दृष्ट्वा तदा दुर्भिक्षपीडितान् ॥तपश्चकार सुमहद्वरुणस्य महात्मनः ॥२५॥अक्षय्यं कल्पयामास जलं वरुणदां यया ॥ततो व्रीहीन्यवांश्चैव वापयामास भूरिशः ॥२६॥एवं परोपकारी स गौतमो मुनिसत्तमाः ॥आहारं कल्पयामास तेभ्यः स्वतपसो बलात् ॥२७॥कदाचित्तत्स्त्रियो दुष्टा जलार्थमपमानिताः ॥ऊचु पतिभ्यस्ताः क्रुद्धा गौतमेर्ष्याकरं वचः ॥२८॥ततस्ते भिन्नमतयो गां कृत्वा कृत्रिमां द्विजाः ॥तद्धान्यभक्षणासक्तां चक्रुस्तां कुटिलाशयाः ॥२९॥स्वधान्यभक्षणासक्तां गां दृष्ट्वा गौतमस्तदा ॥तृणेन ताडयामास शनैस्तां संनिवारयन् ॥३०॥तृणसंस्पर्शमात्रेण सा भूमौ पतिता च गौः ॥मृता ह्यभूत्क्षणं विप्रा भाविकर्मवशात्तदा ॥३१॥गौर्हता गौतमेनेति तदा ते कुटिलाशयाः ॥एकत्रीभूय तत्रत्यैः सकला ऋषयोऽवदन् ॥३२॥ततस्स गौतमो भीतो गौर्हतेति बभूव ह ॥चकार विस्मयं नार्यहल्याशिष्यैश्शिवानुगः ॥३३॥ततस्स गौतमो ज्ञात्वा तां गां क्रोधसमाकुलः ॥शशाप तानृषीन् सर्वान् गौतमो मुनिसत्तमः ॥३४॥गौतम उवाच ॥यूयं सर्वे दुरात्मानो दुःखदा मे विशेषतः ॥शिवभक्तस्य सततं स्युर्वेदविमुखास्सदा ॥३५॥अद्यप्रभृति वेदोक्ते सत्कर्मणि विशेषतः ॥मा भूयाद्भवतां श्रद्धा शैवमार्गे विमुक्तिदे ॥३६॥अद्यप्रभृति दुर्मार्गे तत्र श्रद्धा भवेत्तु वः ॥मोक्षमार्गविहीने हि सदा श्रुतिबहिर्मुखे ॥३७॥अद्यप्रभृति भालानि मृल्लिप्तानि भवन्तु वः ॥स्रसध्वं नरके यूयं भालमृल्लेपनाद्द्विजाः ॥३८॥भवंतो मा भविष्यंतु शिवैक परदैवताः ॥अन्यदेवसमत्वेन जानंतु शिवमद्वयम् ॥३९ ॥मा भूयाद्भवतां प्रीतिश्शिवपूजादिकर्मणि ॥शिवनिष्ठेषु भक्तेषु शिवपर्वसु सर्वदा ॥४०॥अद्य दत्ता मया शापा यावंतो दुःखदायकाः ॥तावंतस्संतु भवतां संततावपि सर्वदा ॥४१॥अशैवास्संतु भवतां पुत्रपौत्रादयो द्विजाः ॥पुत्रैस्सहैव तिष्ठंतु भवंतो नरके ध्रुवम् ॥४२॥ततो भवंतु चण्डाला दुःखदारिद्र्यपीडिताः ॥शठा निन्दाकरास्सर्वे तप्तमुद्रांकितास्सदा ॥४३॥सूत उवाच ॥इति शप्त्वा मुनीन् सर्वान् गौतमस्स्वाश्रमं ययौ ॥शिवभक्तिं चकाराति स बभूव सुपावनः ॥४४॥ततस्तैः खिन्नहृदया ऋषयस्तेखिला द्विजाः ॥कांच्यां चक्रुर्निवासं हि शैवधर्मबहिष्कृताः ॥४५॥तत्पुत्राश्चाभवन्सर्वे शैवधर्मबहिष्कृताः ॥अग्रे तद्वद्भविष्यंति कलौ बहुजनाः खलाः ॥४६॥इति प्रोक्तमशेषेण तद्वृत्तं मुनिसत्तमाः ॥पूर्ववृत्तमपि प्राज्ञाः श्रुतं सर्वैस्तु चादरात् ॥४७॥इति वश्च समाख्यातो गौतम्याश्च समुद्भवः ॥माहात्म्यमुत्तमं चैव सर्वपापहरं परम् ॥४८॥त्र्यंबकस्य च माहात्म्यं ज्योतिर्लिंगस्य कीर्तितम् ॥यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥४९॥अतः परं प्रवक्ष्यामि वैद्यनाथेश्वरस्य हि ॥ज्योतिर्लिंगस्य माहात्म्यं श्रूयतां पापहारकम् ॥५०॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यंबकेश्वरज्योतिर्लिंग माहात्म्यवर्णनं नाम सप्तविंशोध्यायः ॥२७॥ N/A References : N/A Last Updated : October 12, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP