संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः २३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः ॥
एवं वाराणसी पुण्या यदि सूत महापुरी ॥
तत्प्रभावं वदास्माकमविमुक्तस्य च प्रभो ॥१॥
सूत उवाच ॥
वक्ष्ये संक्षेपतस्सम्यग्वाराणस्यास्सुशोभनम् ॥
विश्वेश्वरस्य माहात्म्यं श्रूयतां च मुनीश्वराः ॥२॥
कदाचित्पार्वती देवी शङ्करं परया मुदा ॥
लोककामनयापृच्छन्माहात्म्यमविमुक्तयोः ॥३॥
पार्वत्युवाच ॥
अस्य क्षेत्रस्य माहात्म्यं वक्तुमर्हस्य शेषतः ॥
ममोपरि कृपां कृत्वा लोकानां हितकाम्यया ॥४॥
सूत उवाच ॥
देव्यास्तद्वचनं श्रुत्वा देवदेवो जगत्प्रभुः ॥
प्रत्युवाच भवानीं तां जीवानां प्रियहेतवे ॥५॥
परमेश्वर उवाच ॥
साधु पृष्टं त्वया भद्रे लोकानां सुखदं शुभम् ॥
कथयामि यथार्थं वै महा त्म्यमविमुक्तयोः ॥६॥
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ॥
सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वथा ॥७॥
अस्मिन्सिद्धास्सदा क्षेत्रे मदीयं व्रतमाश्रिताः ॥
नानालिंगधरा नित्यं मम लोकाभिकांक्षिणः ॥८॥
अभ्यस्यंति महायोगं जितात्मानो जितेन्द्रियाः ॥
परं पाशुपतं श्रौतं भुक्तिमुक्तिफलप्रदम् ॥९॥
रोचते मे सदा वासो वाराणस्यां महेश्वरि ॥
हेतुना येन सर्वाणि विहाय शृणु तद्ध्रुवम् ॥१०॥
यो मे भक्तश्च विज्ञानी तावुभौ मुक्तिभागिनौ ॥
तीर्थापेक्षा च न तयोर्विहिता विहिते समौ ॥११॥
जीवन्मुक्तौ तु तौ ज्ञेयौ यत्रकुत्रापि वै मृतौ ॥
प्राप्नुतो मोक्षमाश्वेव मयोक्तं निश्चितं वचः ॥१२॥
अत्र तीर्थे विशेषोस्त्यविमुक्ताख्ये परोत्तमे ॥
श्रूयतां तत्त्वया देवि परशक्ते सुचित्तया ॥१३॥
सर्वे वर्णा आश्रमाश्च बालयौवनवार्द्धकाः ॥
अस्यां पुर्यां मृताश्चेत्त्स्युर्मुक्ता एव न संशयः ॥१४॥
अशुचिश्च शुचिर्वापि कन्या परिणता तथा ॥
विधवा वाथ वा वंध्या रजोदोषयुतापि वा ॥१५॥
प्रसूता संस्कृता कापि यादृशी तादृशी द्विजाः ॥
अत्र क्षेत्रे मृता चेत्स्यान्मोक्षभाङ् नात्र संशयः ॥१६॥
स्वेदजश्चांडजो वापि द्युद्भिज्जोऽथ जरायुजः
मृतो मोक्षमवाप्नोति यथात्र न तथा क्वचित् ॥१७॥
ज्ञानापेक्षा न चात्रैव भत्तयपेक्षा न वै पुनः ॥
कर्मापेक्षा न देव्यत्र दानापेक्षा न चैव हि ॥१८॥
संस्कृत्यपेक्षा नैवात्र ध्यानापेक्षा न कर्हिचित् ॥
नामापेक्षार्चनापेक्षा सुजातीनां तथात्र न ॥१९॥
मम क्षेत्रे मोक्षदे हि यो वा वसति मानवः ॥
 यथा तथा मृतः स्याच्चेन्मोक्षमाप्नोति निश्चितम् ॥२०॥
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं प्रिये ॥
ब्रह्मादयोऽपि जानंति माहात्म्यं नास्य पार्वति ॥२१॥
महत्क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ॥
सर्वेभ्यो नैमिषादिभ्यः परं मोक्षप्रदं मृते ॥२२॥
धर्मस्योपनिषत्सत्यं मोक्षस्योपनिषत्समम् ॥
क्षेत्रतीर्थोपनिषदमविमुक्तं विदुर्बुधाः ॥२३॥
कामं भुंजन्स्वपन्क्रीडन्कुर्वन्हि विविधाः क्रियाः ॥
अविमुक्ते त्यजन्प्राणाञ्जंतुर्मोक्षाय कल्पते ॥२४॥
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ॥
न च क्रतुसहस्रत्वं स्वर्गे काशीं पुरीं विना ॥२५॥
तस्मात्सर्वप्रयत्नेन सेव्यते काशिका पुरी ॥
अव्यक्तलिंगं मुनिभिर्ध्यायते च सदाशिवः ॥२६॥
यद्यत्फलं समुद्दिश्य तपन्त्यत्र नरः प्रिये ॥
तेभ्यश्चाहं प्रय च्छामि सम्यक्तत्तत्फलं धुवम् ॥२७॥
सायुज्यमात्मनः पश्चादीप्सितं स्थानमेव च ॥
न कुतश्चित्कर्मबंधस्त्यजतामत्र वै तनुम् ॥२८॥
ब्रह्मा देवर्षिभिस्सार्द्धं विष्णुर्वापि दिवाकरः ॥
उपासते महात्मानस्सर्वे मामिह चापरे ॥२९॥
विषयासक्तचित्तोऽपि त्यक्त धर्मरुचिर्नरः ॥
इह क्षेत्रे मृतो यो वै संसारं न पुनर्विशेत् ॥३०॥
किं पुनर्निर्ममा धीरासत्त्वस्था दंभवर्जिताः ॥
कृतिनश्च निरारंभास्सर्वे ते मयि भाविताः ॥३१॥
जन्मांतरसहस्रेषु जन्म योगी समाप्नुयात् ॥
तदिहैव परं मोक्षं मरणादधिगच्छति ॥३२॥
अत्र लिंगान्यनेकानि भक्तैस्संस्थापितानि हि ॥
सर्वकामप्रदानीह मोक्षदानि च पार्वति ॥३३॥
पंचक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ॥
समंताच्च तथा जंतोर्मृतिकालेऽमृतप्रदम् ॥३४॥
अपापश्च मृतो यो वै सद्यो मोक्षं समश्नुते ॥
सपापश्च मृतौ यस्स्यात्कायव्यूहान्समश्नुते ॥३५॥
यातनां सोनुभूयैव पश्चान्मोक्षमवाप्नुयात् ॥
पातकं योऽविमुक्ताख्ये क्षेत्रेऽस्मिन्कुरुते ध्रुवम् ॥३६॥
भैरवीं यातनां प्राप्य वर्षाणामयुते पुनः ॥
ततो मोक्षमवाप्नोति भुक्त्वा पापं च सुन्दरि ॥३७॥
इति ते च समाख्याता पापाचारे च या गतिः ॥
एवं ज्ञात्वा नरस्सम्यक्सेवयेदविमुक्तकम् ॥३८॥
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥३९॥
केवलं चाशुभं कर्म नरकाय भवेदिह ॥
शुभं स्वर्गाय जायेत द्वाभ्यां मानुष्यमीरितम् ॥४०॥
जन्म सम्यगसम्यक् च न्यूनाधिक्ये भवेदिह ॥
उभयोश्च क्षयो मुक्तिर्भवेत्सत्यं हि पार्वति ॥४१॥
कर्म च त्रिविधं प्रोक्तं कर्मकाण्डे महेश्वरि ॥
संचितं क्रियमाणं च प्रारब्धं चेति बंधकृत् ॥४२॥
पूर्वजन्मसमुद्भूतं संचितं समुदाहृतम् ॥
भुज्यते च शरीरेण प्रारब्धं परिकीर्तितम् ॥४३॥
जन्मना यच्च क्रियते कर्म सांप्रतम् ॥
शुभाशुभं च देवेशि क्रियमाणं विदुर्बुधाः ॥४४॥
प्रारब्धकर्मणो भोगात्क्षयश्चैव चान्यथा ॥
उपायेन द्वयोर्नाशः कर्मणोः पूजनादिना ॥४५॥
सर्वेषां कर्मणां नाशो नास्ति काशीं पुरीं विना ॥
सर्वं च सुलभं तीर्थं दुर्ल्लभा काशिका पुरी ॥४६॥
पूर्वजन्मकृतं चेद्वै काशीदर्शनमादरात् ॥
तदा काशीं च संप्राप्य लभेन्मृत्युं न चान्यथा ॥४७॥
काशीं प्राप्य नरो यस्तु गंगायां स्नानमाचरेत् ॥
तदा च क्रियमाणस्य संचितस्यापि संक्षयः ॥४८॥
प्रारब्धं न विना भोगो नश्य तीति सुनिश्चितम् ॥
मृतिश्च तस्य संजाता तदा तस्य क्षयो भवेत् ॥४९॥
पूर्वं चैव कृता काशी पश्चात्पापं समाचरेत् ॥
तद्बीजेन बलवता नीयते काशिका पुनः ॥५०॥
तदा सर्वाणि पापानि भस्मसाच्च भवंति हि ॥
तस्मात्काशीं नरस्सेवेत्कर्मनिर्मूलनीं ध्रुवम् ॥५१॥
एकोऽपि ब्राह्मणो येन काश्यां संवासितः प्रिये ॥
काशीवासमवाप्यैव ततो मुक्तिं स विंदति ॥५२॥
काश्यां यो वै मृतश्चैव तस्य जन्म पुनर्नहि ॥
समुद्दिश्य प्रयागे च मृतस्य कामनाफले ॥५३॥
संयोगश्च तयोश्चेत्स्यात्काशीजन्यफलं वृथा ॥
यदि न स्यात्तयोर्योगस्तीर्थराजफलं वृथा ॥५४॥
तस्मान्मच्छासनाद्विष्णुस्सृष्टिं साक्षाद्धि नूतनाम् ॥
विधाय मनसोद्दिष्टां तत्सिद्धिं यच्छति ध्रुवम् ॥५५॥
सूत उवाच ॥
इत्यादि बहुमाहात्म्यं काश्यां वै मुनिसत्तमाः ॥
तथा विश्वेश्वरस्यापि भुक्तिमुक्तिप्रदं सताम् ॥५६॥
अतः परं प्रवक्ष्यामि माहात्म्यं त्र्यंबकस्य च ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥५७॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां काशीविश्वेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनंनामत्रयोविंशोध्याय. ॥२३॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP