संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता| अध्यायः १७ कोटिरुद्रसंहिता विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ कोटिरुद्रसंहिता - अध्यायः १७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १७ Translation - भाषांतर ऋषय ऊचुः ॥महाकालसमाह्वस्थज्योतिर्लिंगस्य रक्षिणः ॥भक्तानां महिमानं च पुनर्ब्रूहि महामते ॥१॥सूत उवाच ॥शृणुतादरतो विप्रो भक्तरक्षाविधायिनः ॥महाकालस्य लिंगस्य माहात्म्यं भक्तिवर्द्धनम् ॥२॥उज्जयिन्यामभूद्राजा चन्द्रसेनाह्वयो महान् ॥सर्वशास्त्रार्थतत्त्वज्ञश्शिवभक्तो जितेन्द्रियः ॥३॥तस्याभवत्सखा राज्ञो मणिभद्रो गणो द्विजाः ॥गिरीशगणमुख्यश्च सर्वलोकनमस्कृतः ॥४॥एकदा स गणेन्द्रो हि प्रसन्नास्यो महामणिम् ॥मणिभद्रो ददौ तस्मै चिंतामणिमुदारधीः ॥५॥स वै मणिः कौस्तुभवद्द्योतमानोर्कसन्निभः ॥ध्यातो दृष्टः श्रुतो वापि मंगलं यच्छति ध्रुवम् ॥६॥तस्य कांतितलस्पृष्टं कांस्यं ताम्रमयं त्रपु ॥पाषाणादिकमन्यद्वा द्रुतं भवति हाटकम् ॥७॥स तु चिन्तामणिं कंठे बिभ्रद्राजा शिवाश्रयः ॥चन्द्रसेनो रराजाति देवमध्येव भानुमान् ॥८॥श्रुत्वा चिन्तामणिग्रीवं चन्द्रसेनं नृपोत्तमम् ॥निखिलाः क्षितिराजानस्तृष्णाक्षुब्धहृदोऽभवन् ॥९॥नृपा मत्सरिणस्सर्वे तं मणिं चन्द्रसेनतः ॥नानोपायैरयाचंत देवलब्धमबुद्धयः ॥१०॥सर्वेषां भूभृतां याञ्चा चन्द्रसेनेन तेन वै ॥व्यर्थीकृता महाकालदृढभक्तेन भूसुराः ॥११॥ते कदर्थीकृतास्सर्वे चन्द्रसेनेन भूभृता ॥राजानस्सर्वदेशानां संरम्भं चक्रिरे तदा ॥१२॥अथ ते सर्वराजानश्चतुरंगबलान्विताः ॥चन्द्रसेनं रणे जेतुं संबभूवुः किलोद्यताः ॥१३॥ते तु सर्वे समेता वै कृतसंकेतसंविदः ॥उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ॥१४॥संरुध्यमानां स्वपुरीं दृष्ट्वा निखिल राजभिः ॥तमेव शरणं राजा महाकालेश्वरं ययौ ॥१५॥निर्विकल्पो निराहारस्स नृपो दृढनिश्चयः ॥समानर्च महाकालं दिवा नक्तमनन्यधीः ॥१६॥ततस्स भगवाञ्छंभुर्महाकालः प्रसन्नधीः ॥तं रक्षितुमुपायं वै चक्रे तं शृणुतादरात् ॥१७॥तदैव समये गोपि काचित्तत्र पुरोत्तमे ॥चरंती सशिशुर्विप्रा महाकालांतिकं ययौ ॥१८॥पञ्चाब्दवयसं बालं वहन्ती गतभर्तृका ॥राज्ञा कृतां महाकालपूजां सापश्यदादरात् ॥१९॥सा दृष्ट्वा सुमहाश्चर्यां शिवपूजां च तत्कृताम् ॥प्रणिपत्य स्वशिविरं पुनरेवाभ्यपद्यत ॥२०॥तत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ॥कुतूहलेन तां कर्त्तुं शिवपूजां मनोदधे ॥२१॥आनीय हृद्यं पाषाणं शून्ये तु शिविरांतरे ॥अविदूरे स्वशिबिराच्छिवलिगं स भक्तितः ॥२२ ॥गन्धालंकारवासोभिर्धूपदीपाक्षतादिभिः ॥विधाय कृत्रिमैर्द्रव्यैर्नैवेद्यं चाप्यकल्पयत् ॥२३॥भूयोभूयस्समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ॥नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः ॥२४॥एतस्मिन्समये पुत्रं शिवासक्तसुचेतसम् ॥प्रणयाद्गोपिका सा तं भोजनाय समाह्वयत् ॥२५॥यदाहूतोऽपि बहुशश्शिवपूजाक्तमानसः ॥बालश्च भोजनं नैच्छत्तदा तत्र ययौ प्रसूः ॥२६॥तं विलोक्य शिवस्याग्रे निषण्णं मीलितेक्षणम् ॥चकर्ष पाणिं संगृह्य कोपेन समताडयत् ॥२७॥आकृष्टस्ताडितश्चापि नागच्छत्स्वसुतो यदा ॥तां पूजां नाशयामास क्षिप्त्वा लिंगं च दूरतः ॥२८॥हाहेति दूयमानं तं निर्भर्त्स्य स्वसुतं च सा ॥पुनर्विवेश स्वगृहं गोपी क्रोधसमन्विता ॥२९॥मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ॥देवदेवेति चुक्रोश निपपात स बालकः ॥३०॥प्रनष्टसंज्ञः सहसा स बभूव शुचाकुलः ॥लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत् ॥३१॥तदैव जातं शिबिरं महाकालस्य सुन्दरम् ॥ददर्श स शिशुस्तत्र शिवानुग्रहतोऽचिरात् ॥३२॥हिरण्मयबृहद्द्वारं कपाटवरतोरणम् ॥महार्हनीलविमलवज्रवेदीविराजितम् ॥३३॥संतप्तहेमकलशैर्विचित्रैर्बहुभिर्युतम् ॥प्रोद्भासितमणिस्तंभैर्बद्धस्फटिकभूतलैः ॥३४॥तन्मध्ये रत्नलिंगं हि शंकरस्य कृपानिधे ॥स्वकृतार्चनसंयुक्तमपश्यद्गोपिकासुतः ॥३५॥स दृष्ट्वा सहसोत्थाय शिशुर्विस्मितमानसः ॥संनिमग्न इवासीद्वै परमानंदसागरे ॥३६॥ततः स्तुत्वा स गिरिशं भूयोभूयः प्रणम्य च ॥सूर्ये चास्तं गते बालो निर्जगाम शिवालयात् ॥३७॥अथापश्यत्स्वशिबिरं पुरंदरपुरोपमम् ॥सद्यो हिरण्मयीभूतं विचित्रं परमोज्ज्वलम् ॥३८॥सोन्तर्विवेश भवनं सर्वशोभासमन्वितम् ॥मणिहेमगणाकीर्ण मोदमानो निशामुखे ॥३९॥तत्रापश्यत्स्वजननीं स्वपंतीं दिव्यलक्षणाम् ॥रत्नालंकारदीप्तांगीं साक्षात्सुरवधूमिव ॥४०॥अथो स तनयो विप्राश्शिवानुग्रहभाजनम् ॥जवेनोत्थापयामास मातरं सुखविह्वलः ॥४१॥सोत्थिताद्भुतमालक्ष्यापूर्वं सर्वमिवाभवत् ॥महानंदसुमग्ना हि सस्वजे स्वसुतं च तम् ॥४२॥श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ॥प्रभुं विज्ञापयामास यो भजत्यनिशं शिवम् ॥४३॥स राजा सहसागत्य समाप्तनियमो निशि ॥ददर्श गोपिकासूनोः प्रभावं शिवतोषणम् ॥४४॥दृष्ट्वा महीपतिस्सर्वं तत्सामात्यपुरोहितः ॥आसीन्निमग्नो विधृतिः परमानंदसागरे ॥४५॥प्रेम्णा वाष्पजलं मुञ्चञ्चन्द्रसेनो नृपो हि सः ॥शिवनामोच्चरन्प्रीत्या परिरेभे तमर्भकम् ॥४६॥महामहोत्सवस्तत्र प्रबभूवाद्भुतो द्विजाः ॥महेशकीर्तनं चक्रुस्सर्वे च सुखविह्वलाः ॥४७॥एवमत्यद्भुताचाराच्छिवमाहात्म्यदर्शनात् ॥पौराणां सम्भ्रमाच्चैव सा रात्रिः क्षणतामगात् ॥४८॥अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ॥राजानश्चारवक्त्रेभ्यश्शुश्रुवुश्चरितं च तत् ॥४९॥ते समेताश्च राजानः सर्वे येये समागताः ॥परस्परमिति प्रोचुस्तच्छ्रुत्वा चकित अति ॥५०॥राजान ऊचुः ॥अयं राजा चन्द्रसेनश्शिवभक्तोति दुर्जयः ॥उज्जयिन्या महाकालपुर्याः पतिरनाकुलः ॥५१॥ईदृशाश्शिशवो यस्य पुर्य्यां संति शिवव्रताः ॥स राजा चन्द्रसेनस्तु महाशंकरसेवकः ॥५२॥नूनमस्य विरोधेन शिवः क्रोधं करिष्यति ॥तत्क्रोधाद्धि वयं सर्वे भविष्यामो विनष्टकाः ॥५३॥तस्मादनेन राज्ञा वै मिलापः कार्य एव हि ॥एवं सति महेशानः करिष्यति कृपां पराम् ॥५४॥सूत उवाच ॥इति निश्चित्य ते भूपास्त्यक्तवैरास्सदाशयाः ॥सर्वे बभूवुस्सुप्रीता न्यस्तशस्त्रास्त्रपाणयः ॥५५॥विविशुस्ते पुरीं रम्यां महाकालस्य भूभृतः ॥महाकालं समानर्चुश्चंद्रसेनानुमोदिताः ॥५६॥ततस्ते गोपवनिता गेहं जग्मुर्महीभृतः ॥प्रसंशंतश्च तद्भाग्यं सर्वे दिव्यमहोदयम् ॥५७॥ते तत्र चन्द्रसेनेन प्रत्युद्गम्याभिपूजिताः ॥महार्हविष्टरगताः प्रत्यनंदन्सुविस्मिताः ॥५८॥गोपसूनोः प्रसादात्तत्प्रादुर्भूतं शिवालयम् ॥संवीक्ष्य शिवलिंगं च शिवे चकुः परां मतिम् ॥५९॥ततस्ते गोपशिशवे प्रीता निखिलभूभुजः ॥ददुर्बहूनि वस्तूनि तस्मै शिवकृपार्थिनः ॥६०॥येये सर्वेषु देशेषु गोपास्तिष्ठंति भूरिशः ॥तेषां तमेव राजानं चक्रिरे सर्वपार्थिवाः ॥६१॥अथास्मिन्नन्तरे सर्वैस्त्रिदशैरभिपूजितः ॥प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः ॥६२॥ते तस्याभिगमादेव राजानो जातसंभ्रमाः ॥प्रत्युत्थाय नमश्चकुर्भक्तिनम्रात्ममूर्तयः ॥६३॥तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ॥गोपात्मजं तमालिंग्य राज्ञो वीक्ष्येदमब्रवीत् ॥६४॥हनूमानुवाच ॥सर्वे शृण्वन्तु भद्रं वो राजानो ये च देहिनः ॥ऋते शिवं नान्यतमो गतिरस्ति शरीरिणाम् ॥६५॥एवं गोपसुतो दिष्ट्या शिवपूजां विलोक्य च ॥अमंत्रेणापि संपूज्य शिवं शिवमवाप्तवान् ॥६६॥एष भक्तवरश्शंभोर्गोपानां कीर्तिवर्द्धनः ॥इह भुक्त्वाखिलान्भोगानंते मोक्षमवाप्स्यति ॥६७॥अस्य वंशेऽष्टमो भावी नन्दो नाम महायशाः ॥प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारायणस्स्वयम् ॥६८॥अद्यप्रभृति लोकेस्मिन्नेष गोप कुमारकः ॥नाम्ना श्रीकर इत्युच्चैर्लोकख्यातिं गमिष्यति ॥६९॥सूत उवाच ॥एवमुक्त्वाञ्जनीसूनुः शिवरूपो हरीश्वरः ॥सर्वान्राज्ञश्चन्द्रसेनं कृपादृष्ट्या ददर्श ह ॥७०॥अथ तस्मै श्रीकराय गोपपुत्राय धीमते ॥उपादिदेश सुप्रीत्या शिवाचारं शिवप्रियम् ॥७१॥हनूमानथ सुप्रीतः सर्वेषां पश्यतां द्विजः ॥चन्द्रसेनं श्रीकरं च तत्रैवान्तरधी यत ॥७२॥तं सर्वे च महीपालास्संहृष्टाः प्रतिपूजिताः ॥चन्द्रसेनं समामंत्र्य प्रतिजग्मुर्यथागतम् ॥७३॥श्रीकरोपि महातेजा उपदिष्टो हनूमता ॥ब्राह्मणैस्सहधर्मज्ञैश्चक्रे शम्भोस्समर्हणम् ॥७४॥चन्द्रसेनो महाराजः श्रीकरो गोपबालकः ॥उभावपि परप्रीत्या महाकालं च भेजतुः ॥७५॥कालेन श्रीकरस्सोपि चन्द्रसेनश्च भूपतिः ॥समाराध्य महाकालं भेजतुः परमं पदम् ॥७६॥एवंविधो महाकालश्शिवलिंगस्सतां गतिः ॥सर्वथा दुष्टहंता च शंकरो भक्तवत्सलः ॥७७॥इदं पवित्रं परमं रहस्यं सर्वसौख्यदम् ॥आख्यानं कथितं स्वर्ग्यं शिवभक्तिविवर्द्धनम् ॥७८॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : October 12, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP