संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः १९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
नरनारायणाख्यौ याववतारौ हरेर्द्विजाः ॥
तेपाते भारते खण्डे बदर्याश्रम एव हि ॥१॥
ताभ्यां संप्रार्थितश्शंभुः पार्थिवे पूजनाय वै ॥
आयाति नित्यं तल्लिंगे भक्ताधीनतया शिव ॥२॥
एवं पूजयतोश्शंभुं तयोर्विष्ण्ववतारयोः ॥
चिरकालो व्यतीताय शैवयोर्धर्मपुत्रयोः ॥३॥
एकस्मिन्समये तत्र प्रसन्नः परमेश्वरः ॥
प्रत्युवाच प्रसन्नोस्मि वरो मे व्रियतामिति ॥४॥
इत्युक्ते च तदा
तेन नरो नारायणस्स्वयम् ॥
ऊचतुर्वचनं तत्र लोकानां हितकाम्यया ॥५॥
नरनारायणावूचतुः ॥
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ॥
स्थीयतां स्वेन रूपेण पूजार्थं शंकरस्स्वयम् ॥६॥
सूत उवाच ॥
इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ॥
स्वयं च शंकरस्तस्थौ ज्योतीरूपो महेश्वरः ॥७॥
ताभ्यां च पूजितश्चैव सर्वदुःखभयापहः ॥
लोकानामुपकारार्थं भक्तानां दर्शनाय वै ॥८॥
स्वयं स्थितस्तदा शंभुः केदारेश्वरसंज्ञकः ॥
भक्ताभीष्टप्रदो नित्यं दर्शनादर्चनादपि ॥९॥
देवाश्च पूजयंतीह ऋषयश्च पुरातनाः ॥
मनोभीष्ट फलं तेते सुप्रसन्नान्महेश्वरात् ॥१०॥
भवस्य पूजनान्नित्यं बदर्याश्रमवासिनः ॥
प्राप्नुवन्ति यतः सोऽसौ भक्ताभी ष्टप्रदः सदा ॥११॥
तद्दिनं हि समारभ्य केदारेश्वर एव च ॥
पूजितो येन भक्त्या वै दुःखं स्वप्नेऽति दुर्लभम् ॥१२॥
यो वै हि पाण्डवान्दृष्ट्वा माहिषं रूपमास्थितः ॥
मायामास्थाय तत्रैव पलायनपरोऽभवत् ॥१३॥
धृतश्च पाण्डवैस्तत्र ह्यवाङ्मुखतया स्थितः ॥
पुच्छ चैव धृतं तैस्तु प्रार्थितश्च पुनःपुनः ॥१४॥
तद्रूपेण स्थितस्तत्र भक्तवत्सलनामभाक् ॥
नयपाले शिरोभागो गतस्तद्रूपतः स्थितः ॥१५॥
स वै व पूजनान्नित्यमाज्ञां चैवाप्यदात्तथा ॥
पूजितश्च स्वयं शंभुस्तत्र तस्थौ वरानदात् ॥१६॥
पूजयित्वा गतास्ते तु पाण्डवा मुदितास्तदा ॥
लब्ध्वा चित्तेप्सितं सर्वं विमुक्तास्सर्वदुःखतः ॥१७॥
तत्र नित्यं हस्साक्षात्क्षेत्रे केदारसंज्ञके ॥
भारतीभिः प्रजाभिश्च तथेव परिपूज्यते ॥१८॥
तत्रत्यं वलयं यो वै ददाति हरवल्लभः ॥
हररूपांतिकं तच्च हररूपसमन्वितम् ॥१९॥
तथैव रूपं दृष्ट्वा च सर्वपापैः प्रमुच्यते ॥
जीवन्मुक्तो भवेत्सोपि यो गतो बदरीवने ॥२०॥
दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ॥
केदारेश्वरशंभोश्च मुक्तभागी न संशयः ॥२१॥
केदारेशस्य भक्ता ये मार्गस्थास्तस्य वै मृता ॥
गतेऽपि मुक्ता भवंत्येव नात्र कार्य्या विचारणा ॥२२॥
गत्वा तत्र प्रीतियुक्तः केदारेशं प्रपूज्य च ॥
तत्रत्यमुदकं पीत्वा पुन र्जन्म न विन्दति ॥२३॥
खण्डेस्मिन्भारते विप्रा नरनारायणेश्वरः ॥
केदारेशः प्रपूज्यश्च सर्वैर्जीवैस्सुभक्तितः ॥२४॥
अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ॥
सर्वकामप्रदश्शंभुः केदाराख्यो न संशय ॥२५॥
एतद्वचस्समाख्यातं यत्पृष्टमृषिसत्तमाः ॥
श्रुत्वा पापं हरेत्सर्वं नात्र कार्या विचारणा ॥२६॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां केदारेश्वरज्योतिर्लिगमा हात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP