संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|कुमारखण्डः| अध्यायः २ कुमारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० कुमारखण्डः - अध्यायः २ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः २ Translation - भाषांतर ॥ब्रह्मोवाच ॥तदाकर्ण्य महादेवो योगज्ञानविशारदः ॥त्यक्तकामो न तत्याज संभोगं पार्वतीभयात् ॥१॥आजगाम गृहद्वारि सुराणां निकटं शिवः ॥दैत्येन पीडितानां च शंकरो भक्तवत्सलः ॥२॥देवास्सर्वे प्रभुं दृष्ट्वा हरिणा च मया शिवम् ॥बभूबुस्सुखिनश्चाति तदा वै भक्तवत्सलम् ॥३॥इत्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः ॥प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा ॥४॥प्रणम्य सुमहाप्रीत्या नतस्कंधाश्च निर्जराः ॥तुष्टुवुः शंकरं सर्वे मया च हरिणा मुने ॥५॥देवा ऊचुः ॥देवदेव महादेव करुणासागर प्रभो ॥अन्तर्यामी हि सर्वेषां सर्वं जानासि शंकर ॥६॥देवकार्यं कुरु विभो रक्ष देवान् महेश्वर ॥जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभून् ॥७॥ ॥शिव उवाच ॥हे विष्णो हे विधे देवास्सर्वेषां वो मनोगतिः ॥यद्भावि तद्भवत्येव कोऽपि नो तन्निवारकः ॥८॥यज्जातं तज्जातमेव प्रस्तुतं शृणुताऽमराः ॥शिरस्तस्खलितं वीर्यं को ग्रहीष्यति मेऽधुना ॥९॥स गृह्णीयादिति प्रोच्य पातयामास तद्भुवि ॥अग्निर्भूत्वा कपोतो हि प्रेरितस्सर्वनिर्जरैः ॥१०॥अभक्षच्छांभवं वीर्यं चंच्वा तु निखिलं तदा ॥एतस्मिन्नंतरे तत्राऽऽजगाम गिरिजा मुने ॥११॥शिवागमविलंबे च ददर्श सुरपुंगवान् ॥ज्ञात्वा तद्वृत्तमखिलं महाक्रोधयुता शिवा ॥१२॥उवाच त्रिदशान् सर्वान् हरिप्रभृतिकाँस्तदा ॥१३॥देव्युवाच ॥रे रे सुरगणास्सर्वे यूयं दुष्टा विशेषतः ॥स्वार्थसंसाधका नित्यं तदर्थं परदुःखदाः ॥१४॥स्वार्थहेतोर्महेशानमाराध्य परमं प्रभुम् ॥नष्टं चक्रुर्मद्विहारं वंध्याऽभवमहं सुराः ॥१५॥मां विरोध्य सुखं नैव केषांचिदपि निर्जराः ॥तस्माद्दुःखं भवेद्वो हि दुष्टानां त्रिदिवौकसाम् ॥१६॥ ॥ब्रह्मोवाच ॥इत्युक्त्वा विष्णुप्रमुखान् सुरान्सर्वान् शशाप सा ॥प्रज्वलंती प्रकोपेन शैलराजसुता शिवा ॥१७॥ ॥पार्वत्युवाच ॥अद्यप्रभृति देवानां वंध्या भार्या भवन्त्विति ॥देवाश्च दुःखितास्संतु निखिला मद्विरोधिनः ॥१८॥ ॥ब्रह्मोवाच ॥इति शप्त्वाखिलान्देवान् विष्ण्वाद्यान्सकलेश्वरी ॥उवाच पावकं क्रुद्धा भक्षकं शिवरेतसः ॥१९॥पार्वत्युवाच ॥सर्वभक्षी भव शुचे पीडितात्मेति नित्यशः ॥शिवतत्त्वं न जानासि मूर्खोऽसि सुरकार्यकृत् ॥२०॥रे रे शठ महादुष्ट दुष्टानां दुष्टबोधवान् ॥अभक्षश्शिववीर्यं यन्नाकार्षीरुचितं हि तत् ॥२१॥ ॥ब्रह्मोवाच ॥इति शप्त्वा शिवा वह्निं सहेशेन नगात्मजा ॥जगाम स्वालयं शीघ्रमसंतुष्टा ततो मुने ॥२२॥गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः ॥अजीजनत्परं पुत्रं गणेशाख्यं मुनीश्वर ॥२३॥तद्वृत्तांतमशेषं च वर्णयिष्ये मुनेऽग्रतः ॥इदानीं शृणु सुप्रीत्या गुहोत्पत्तिं वदाम्यहम् ॥२४॥पावकादितमन्नादि भुंजते निर्जराः खलु ॥वेदवाण्येति सर्वे ते सगर्भा अभवन्सुराः ॥२५॥ततोऽसहंतस्तद्वीर्यं पीडिता ह्यभवन् सुराः ॥विष्ण्वाद्या निखिलाश्चाति शिवाऽऽज्ञा नष्टबुद्धयः ॥२६॥अथ विष्णुप्रभृतिकास्सर्वे देवा विमोहिताः ॥दह्यमाना ययुः शीघ्रं शरणं पार्वतीपतेः ॥२७॥शिवालयस्य ते द्वारि गत्वा सर्वे विनम्रकाः ॥तुष्टुवुस्सशिवं शंभुं प्रीत्या सांजलयस्सुराः ॥२८॥ ॥देवा ऊचुः ॥देवदेव महादेव गिरिजेश महाप्रभो ॥किं जातमधुना नाथ तव माया दुरत्यया ॥२९॥सगर्भाश्च वयं जाता दह्यमानाश्च रेतसा ॥तव शंभो कुरु कृपां निवारय दशामिमाम् ॥३०॥ब्रह्मोवाच ॥इत्याकर्ण्याऽमरनुतिं परमेशश्शिवापतिः ॥आजगाम द्रुतं द्वारि यत्र देवाः स्थिता मुने ॥३१॥आगतं शंकरं द्वारि सर्वे देवाश्च साच्युताः ॥प्रणम्य तुष्टुवुः प्रीत्या नर्तका भक्तवत्सलम् ॥३२॥ ॥देवा ऊचुः ॥शंभो शिव महेशान त्वां नतास्स्म विशेषतः ॥रक्ष नश्शरणापन्नान्दह्यमानांश्च रेतसा ॥३३॥इदं दुःखं हर हर भवामो हि मृता ध्रुवम् ॥त्वां विना कस्समर्थोऽद्य देवदुःखनिवा रणे ॥३४॥ ॥ब्रह्मोवाच ॥इति दीनतरं वाक्यमाकर्ण्य सुरराट् प्रभुः ॥प्रत्युवाच विहस्याऽथ स सुरान् भक्तवत्सलः ॥३५॥ ॥शिव उवाच ॥हे हरे हे विधे देवास्सर्वे शृणुत मद्वचः ॥भविष्यति सुखं वोऽद्य सावधाना भवन्तु हि ॥३६॥एतद्वमत मद्वीर्यं द्रुतमेवाऽखिलास्सुराः ॥सुखिनस्तद्विशेषेण शासनान्मम सुप्रभो ॥३७॥ ॥ब्रह्मोवाच ॥इत्याज्ञां शिरसाऽधाय विष्ण्वाद्यास्सकलास्सुराः ॥अकार्षुर्वमनं शीघ्रं स्मरंतश्शिवमव्ययम् ॥३८॥तच्छंभुरेतस्स्वर्णाभं पर्वताकारमद्भुतम् ॥अभवत्पतितं भूमौ स्पृशद् द्यामेव सुप्रभम् ॥३९॥अभवन्सुखिनस्सर्वे सुरास्सर्वेऽच्युतादयः ॥अस्तुवन् परमेशानं शंकरं भक्तवत्सलम् ॥४०॥पावकस्त्वभवन्नैव सुखी तत्र मुनीश्वर ॥तस्याज्ञां परमोऽदाद्वै शंकरः परमेश्वरः ॥४१॥ततस्सवह्निर्विकलस्सांजलिर्नतको मुने ॥अस्तौच्छिवं सुखी नात्मा वचनं चेदमब्रवीत् ॥४२॥ ॥अग्निरुवाच ॥देवदेव महेशान मूढोऽहं तव सेवकः ॥क्षमस्व मेऽपराधं हि मम दाहं निवारय ॥४३॥त्वं दीनवत्सल स्वामिञ्शंकरः परमेश्वरः ॥प्रत्युवाच प्रसन्नात्मा पावको दीनवत्सलम् ॥४४॥ ॥ब्रह्मोवाच ॥इत्याकर्ण्य शुचेर्वाणीं स शंभुः परमेश्वरः ॥प्रत्युवाच प्रसन्नात्मा पावकं दीनवत्सलः ॥४५॥शिव उवाच ॥कृतं त्वनुचितं कर्म मद्रेतो भक्षितं हि यत् ॥अतोऽनिवृत्तस्ते दाहः पापाधिक्यान्मदाज्ञया ॥४६॥इदानीं त्वं सुखी नाम शुचे मच्छरणागतः ॥अतः प्रसन्नो जातोऽहं सर्वं दुःखं विनश्यति ॥४७॥कस्याश्चित्सुस्त्रियां योनौ मद्रेतस्त्यज यत्नतः ॥भविष्यति सुखी त्वं हि निर्दाहात्मा विशेषतः ॥४८॥ ॥ब्रह्मोवाच ॥शंभुवाक्यं निशम्येति प्रत्युवाच शनैः शुचिः ॥सांजलिर्नतकः प्रीत्या शंकरं भक्तशंकरम् ॥४९॥दुरासदमिदं तेजस्तव नाथ महेश्वर ॥काचिन्नास्ति विना शक्त्या धर्तुं योनौ जगत्त्रये ॥५०॥इत्थं यदाऽब्रवीद्वह्निस्तदा त्वं मुनिसत्तम ॥शंकरप्रेरितः प्रात्थ हृदाग्निमुपकारकः ॥५१॥ ॥नारद उवाच ॥शृणु मद्वचनं वह्ने तव दाहहरं शुभम् ॥परमानंददं रम्यं सर्वकष्टनिवारकम् ॥५२॥कृत्वोपायमिमं वह्ने सुखी भव विदाहकः ॥शिवेच्छया मया सम्यगुक्तं तातेदमादरात् ॥५३॥तपोमासस्नानकर्त्र्यस्त्रियो यास्स्युः प्रगे शुचे ॥तद्देहेषु स्थापय त्वं शिवरेतस्त्विदं महत् ॥५४॥ब्रह्मोवाच ॥तस्मिन्नवसरे तत्रा ऽगतास्सप्तमुनिस्त्रियः ॥तपोमासि स्नानकामाः प्रातस्सन्नियमा मुने ॥५५॥स्नानं कृत्वा स्त्रियस्ता हि महाशीतार्द्दिताश्च षट् ॥गंतुकामा मुने याता वह्निज्वालासमीपतः ॥५६॥विमोहिताश्च ता दृष्ट्वारुन्धती गिरिशाज्ञया ॥निषिषेध विशेषेण सुचरित्र सुबोधिनी ॥५७॥ताः षड् मुनिस्त्रियो मोहाद्धठात्तत्र गता मुने ॥स्वशीतविनिवृत्त्यर्थं मोहिताः शिवमायया ॥५८॥तद्रेतःकणिकास्सद्यस्तद्देहान् विविशुर्मुने ॥रोमद्वाराऽखिला वह्निरभूद्दाहविवर्जितः ॥५९॥अंतर्धाय द्रुतं वह्निर्ज्वालारूपो जगाम ह ॥सुखी स्वलोकं मनसा स्मरंस्त्वां शंकरं च तम् ॥६०॥सगर्भास्ताः स्त्रियस्साधोऽभवन् दाहप्रपीडिताः ॥जग्मुस्स्वभवनं तातारुंधती दुःखिताऽग्निना ॥६१॥दृष्ट्वा स्वस्त्रीगतिं तात नाथाः क्रोधाकुला द्रुतम् ॥तत्यजुस्ताः स्त्रियस्तात सुसंमंत्र्य परस्परम् ॥६२॥अथ ताः षट् स्त्रियस्सर्वा दृष्ट्वा स्वव्यभिचारकम् ॥महादुःखान्वितास्ताताऽभवन्नाकुलमानसाः ॥६३॥तत्यजुश्शिव रेतस्तद्गर्भरूपं मुनिस्त्रियः ॥ता हिमाचलपृष्ठेऽथाभवन् दाहविवर्जिताः ॥६४॥असहञ्शिवरेतस्तद्धिमाद्रिः कंपमुद्वहन् ॥गंगायां प्राक्षिपत्तूर्णमसह्यं दाहपीडितः ॥६५॥गंगयाऽपि च तद्वीर्यं दुस्सहं परमात्मनः ॥निःक्षिप्तं हि शरस्तंबे तरंगैः स्वैर्मुनीश्वर ॥६६॥पतितं तत्र तद्रेतो द्रुतं बालो बभूव ह ॥सुन्दरस्सुभगः श्रीमांस्तेजस्वी प्रीतिवर्द्धनः ॥६७॥मार्गमासे सिते पक्षे तिथौ षष्ठ्यां मुनीश्वर ॥प्रादुर्भावोऽभवत्तस्य शिवपुत्रस्य भूतले ॥६८॥तस्मिन्नवसरे ब्रह्मन्न कस्माद्धिम शैलजा ॥अभूतः सुखिनौ तत्र स्वगिरौ गिरिशोऽपि च ॥६९॥शिवाकुचाभ्यां सुस्राव पय आनन्दसंभवम् ॥तत्र गत्वा च सर्वेषां सुखमासीन्मुनेऽधिकम् ॥७०॥मंगलं चाऽभवत्तात त्रिलोक्यां सुखदं सताम् ॥खलानामभवद्विघ्नो दैत्यानां च विशेषतः ॥७१॥अकस्मादभवद्व्योम्नि परमो दुंदुभिध्वनिः ॥पुष्पवृष्टिः पपाताऽशु बालकोपरि नारद ॥७२॥विष्ण्वादीनां समस्तानां देवानां मुनिसत्तम ॥अभूदकस्मात्परम आनन्दः परमोत्सवः ॥७३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे शिवपुत्रजननवर्णनं नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP