संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|कुमारखण्डः| अध्यायः ८ कुमारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० कुमारखण्डः - अध्यायः ८ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ८ Translation - भाषांतर ब्रह्मोवाच ॥इति ते वर्णितस्तात देवदानव सेनयोः ॥संग्रामस्तुमुलोऽतीव तत्प्रभ्वो शृणु नारद ॥१॥एवं युद्धेऽतितुमुले देवदानवसंक्षये ॥तारकेणैव देवेन्द्रश्शक्त्या रमया सह ॥२॥सद्यः पपात नागाश्च धरण्यां मूर्च्छितोऽभवत् ॥परं कश्मलमापेदे वज्रधारी सुरेश्वरः ॥३॥तथैव लोकपास्सर्वेऽसुरैश्च बलवत्तरैः ॥पराजिता रणे तात महारणविशारदैः ॥४॥अन्येऽपि निर्जरा दैत्यैर्युद्ध्यमानाः पराजिताः ॥असहंतो हि तत्तेजः पलायनपरायणाः ॥५॥जगर्जुरसुरास्तत्र जयिनस्सुकृतोद्यमाः ॥सिंहनादं प्रकुर्वन्तः कोलाहलपरायणाः ॥६॥एतस्मिन्नंतरे तत्र वीरभद्रो रुषान्वितः ॥आससाद गणैर्वीरैस्तारकं वीरमानिनम् ॥७॥निर्जरान् पृष्ठतः कृत्वा शिवकोपोद्भवो बली ॥तत्सम्मुखो बभूवाथ योद्धुकामो गणाग्रणीः ॥८॥तदा ते प्रमथास्सर्वे दैत्याश्च परमोत्सवाः ॥युयुधुस्संयुगेऽन्योन्यं प्रसक्ताश्च महारणे ॥९॥त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपट्टिशैः ॥निजघ्नुस्समरेऽन्योन्यं रणे रणविशारदाः ॥१०॥तारको वीरभद्रेण स त्रिशूलाहतो भृशम् ॥पपात सहसा भूमौ क्षणं मूर्छापरिप्लुतः ॥११॥उत्थाय स द्रुतं वीरस्तारको दैत्यसत्तमः ॥लब्धसंज्ञो बलाच्छक्त्या वीरभद्रं जघान ह ॥१२॥वीरभद्रस्तथा वीरो महातेजा हि तारकम् ॥जघान त्रिशिखेनाशु घोरेण निशितेन तम् ॥१३॥सोपि शक्त्या वीरभद्रं जघान समरे ततः ॥तारको दितिजाधीशः प्रबलो वीरसंमतः ॥१४॥एवं संयुद्ध्यमानौ तौ जघ्नतुश्चेतरेतरम् ॥नानास्त्रशस्त्रैस्समरे रणविद्याविशारदौ ॥१५॥तयोर्महात्मनोस्तत्र द्वन्द्वयुद्धमभूत्तदा ॥सर्वेषां पश्यतामेव तुमुलं रोमहर्षणम् ॥१६॥ततो भेरीमृदंगाश्च पटहानकगोमुखाः ॥विनेदुर्विहता वीरैश्शृण्वतां सुभयानकाः ॥१७॥युयुधातेतिसन्नद्धौ प्रहारैर्जर्जरीकृतौ ॥अन्योन्यमतिसंरब्धौ तौ बुधांगारकाविव ॥१८॥एवं दृष्ट्वा तदा युद्धं वीरभद्रस्य तेन च ॥तत्र गत्वा वीरभद्रमवोचस्त्वं शिवप्रियः ॥१९॥नारद उवाच ॥वीरभद्र महावीर गणानामग्रणीर्भवान् ॥निवर्तस्व रणादस्माद्रोचते न वधस्त्वया ॥२०॥एवं निशम्य त्वद्वाक्यं वीरभद्रो गणाग्रणीः ॥अवदत्स रुषाविष्टस्त्वां तदा तु कृतांजलिः ॥२१॥वीरभद्र उवाच ॥मुनिवर्य महाप्राज्ञ शृणु मे परमं वचः ॥तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम् ॥२२॥आनयंति च ये वीरास्स्वामिनं रणसंसदि ॥ते पापिनो महाक्लीबा विनश्यन्ति रणं गताः ॥२३॥असद्गतिं प्राप्नुवन्ति तेषां च निरयो धुवम् ॥वीरभद्रो हि विज्ञेयो न वाच्यस्ते कदाचन ॥२४॥शस्त्रास्त्रैर्भिन्नगात्रा ये रणं कुर्वंति निर्भयाः ॥इहामुत्र प्रशंस्यास्ते लभ्यन्ते सुखमद्भुतम् ॥२५॥शृण्वन्तु मम वाक्यानि देवा हरिपुरोगमाः ॥अतारकां महीमद्य करिष्ये स्वामिवर्जिताम् ॥२६॥इत्युक्त्वा प्रमर्थैस्सार्द्धं वीरभद्रो हि शूलधृक् ॥विचिंत्य मनसा शंभुं युयुधे तारकेण हि ॥२७॥वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः ॥महावीरस्त्रिनेत्रैश्च स रेजे रणसंगतः ॥२८॥कोलाहलं प्रकुर्वंतो निर्भयाश्शतशो गणाः ॥वीरभद्रं पुरस्कृत्य युयुधुर्दानवैस्सह ॥२९॥असुरास्तेऽपि युयुधुस्तारकासुरजीविनः ॥बलोत्कटा महावीरा मर्दयन्तो गणान् रुषा ॥३०॥पुनः पुनश्चैव बभूव संगरो महोत्कटो दैत्यवरैर्गणानाम् ॥प्रहर्षमाणाः परमास्त्रकोविदास्तदा गणास्ते जयिनो बभूवुः ॥३१॥गणैर्जितास्ते प्रबलैरसुरा विमुखा रणे ॥पलायनपरा जाता व्यथिता व्यग्रमानसाः ॥३२॥एवं भ्रष्टं स्वसैन्यं तद्दृष्ट्वा तत्पालकोऽसुरः ॥तारको हि रुषाविष्टो हंतुं देवगणान् ययौ ॥३३॥भुजानामयुतं कृत्वा सिंहमारुह्य वेगतः ॥पातयामास तान्देवान्गणांश्च रणमूर्द्धनि ॥३४॥स दृष्ट्वा तस्य तत्कर्म वीरभद्रो गणाग्रणीः ॥चकार सुमहत्कोपं तद्वधाय महाबली ॥३५॥स्मृत्वा शिवपदांभोजं जग्राह त्रिशिखं परम् ॥जज्वलुस्तेजसा तस्य दिशः सर्वा नभस्तथा ॥३६॥एतस्मिन्नन्तरे स्वामी वारयामास तं रणम् ॥वीरबाहुमुखान्सद्यो महाकौतुकदर्शकः ॥३७॥तदाज्ञया वीरभद्रो निवृत्तोऽभूद्रणात्तदा ॥कोपं चक्रे महावीरस्तारकोऽसुरनायकः ॥३८॥चकार बाणवृष्टिं च सुरोपरि तदाऽसुरः ॥तप्तोऽह्वासीत्सुरान्सद्यो नानास्त्ररणकोविदः ॥३९॥एवं कृत्वा महत्कर्म तारकोऽसुरपालकः ॥सर्वेषामपि देवानामशक्यो बलिनां वरः ॥४०॥एवं निहन्यमानांस्तान् दृष्ट्वा देवान् भयाकुलान् ॥कोपं कृत्वा रणायाशु संनद्धोऽभवदच्युतः ॥४१॥चक्रं सुदर्शनं शार्ङ्गं धनुरादाय सायुधः ॥अभ्युद्ययौ महादैत्यं रणाय भगवान् हरिः ॥४२॥ततस्समभवद्युद्धं हरितारकयोर्महत् ॥लोमहर्षणमत्युग्रं सर्वेषां पश्यतां मुने ॥४३॥गदामुद्यम्य स हरिर्जघानासुरमोजसा ॥द्विधा चकार तां दैत्यस्त्रिशिखेन महाबली ॥४४॥ततस्स क्रुद्धो भगवान्देवानामभयंकरः ॥शार्ङ्गच्युतैश्शरव्यूहैर्जघानासुरनायकम् ॥४५॥सोऽपि दैत्यो महावीरस्तारकः परवीरहा ॥चिच्छेद सकलान्बाणान्स्वशरैर्निशितैर्द्रुतम् ॥४६॥अथ शक्त्या जघानाशु मुरारिं तारकासुरः ॥भूमौ पपात स हरिस्तत्प्रहारेण मूर्च्छितः ॥४७॥जग्राह स रुषा चक्रमुत्थितः क्षणतोऽच्युतः ॥सिंहनादं महत्कृत्वा ज्वलज्ज्वालासमाकुलम् ॥४८॥तेन तञ्च जघानासौ दैत्यानामधिपं हरिः ॥तत्प्रहारेण महता व्यथितो न्यपतद्भुवि ॥४९॥पुनश्चोत्थाय दैत्येन्द्रस्तारकोऽसुरनायकः ॥चिच्छेद त्वरितं चक्रं स्वशक्त्यातिबलान्वितः ॥५०॥पुनस्तया महाशक्त्या जघानामरवल्लभम् ॥अच्युतोऽपि महावीरा नन्दकेन जघान तम् ॥५१॥एवमन्योन्यमसुरो विष्णुश्च बलवानुभौ ॥युयुधाते रणे भूरि तत्राक्षतबलौ मुने ॥५२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे देव दैत्यसामान्ययुद्धवर्णनं नामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP