संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|कुमारखण्डः| अध्यायः १७ कुमारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० कुमारखण्डः - अध्यायः १७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १७ Translation - भाषांतर नारद उवाच ॥ब्रह्मन् वद महाप्राज्ञ तद्वृत्तान्तेखिले श्रुते ॥किमकार्षीन्महादेवी श्रोतुमिच्छामि तत्त्वतः ॥१॥ब्रह्मोवाच ॥श्रूयतां मुनिशार्दूल कथयाम्यद्य तद्ध्रुवम् ॥चरितं जगदंबाया यज्जातं तदनंतरम् ॥२॥मृदंगान्पटहांश्चैव गणाश्चावादयंस्तथा ॥महोत्सवं तदा चक्रुर्हते तस्मिन्गणाधिपे ॥३॥शिवोपि तच्छिरश्छित्वा यावद्दुःखमुपाददे ॥तावच्च गिरिजा देवी चुक्रोधाति मुनीश्वर ॥४॥किं करोमि क्व गच्छामि हाहादुःखमुपागतम् ॥कथं दुःखं विनश्येतास्याऽतिदुखं ममाधुना ॥५॥मत्सुतो नाशितश्चाद्य देवेस्सर्वैर्गणैस्तथा ॥सर्वांस्तान्नाशयिष्यामि प्रलयं वा करोम्यहम् ॥६॥इत्येवं दुःखिता सा च शक्तीश्शतसहस्रशः ॥निर्ममे तत्क्षणं क्रुद्धा सर्वलोकमहेश्वरी ॥७॥निर्मितास्ता नमस्कृत्य जगदंबां शिवां तदा ॥जाज्वल्यमाना ह्यवदन्मातरादिश्यतामिति ॥८॥तच्छुत्वा शंभुशक्तिस्सा प्रकृतिः क्रोधतत्परा ॥प्रत्युवाच तु तास्सर्वा महामाया मुनीश्वर ॥९॥देव्युवाच ॥हे शक्तयोऽधुना देव्यो युष्माभिर्मन्निदेशतः ॥प्रलयश्चात्र कर्त्तव्यो नात्र कार्या विचारणा ॥१०॥देवांश्चैव ऋषींश्चैव यक्षराक्षसकांस्तथा ॥अस्मदीयान्परांश्चैव सख्यो भक्षत वै हठात् ॥११॥ब्रह्मोवाच ॥तदाज्ञप्ताश्च तास्सर्वाश्शक्तयः क्रोधतत्पराः ॥देवादीनां च सर्वेषां संहारं कर्तुमुद्यताः ॥१२॥यथा च तृणसंहारमनलः कुरुते तथा ॥एवं ताश्शक्तयस्सर्वास्संहारं कर्तुमुद्यताः ॥१३॥गणपो वाथ विष्णुर्वा ब्रह्मा वा शंकरस्तथा ॥इन्द्रो वा यक्षराजो वा स्कंदो वा सूर्य एव वा ॥१४॥सर्वेषां चैव संहारं कुर्वंति स्म निरंतरम् ॥यत्रयत्र तु दृश्येत तत्रतत्रापि शक्तयः ॥१५॥कराली कुब्जका खंजा लंबशीर्षा ह्यनेकशः ॥हस्ते धृत्वा तु देवांश्च मुखे चैवाक्षिपंस्तदा ॥१६॥तं संहारं तदा दृष्ट्वा हरो ब्रह्मा तथा हरिः ॥इन्द्रादयोऽखिलाः देवा गणाश्च ऋषयस्तथा ॥१७॥किं करिष्यति सा देवी संहारं वाप्यकालतः ॥इति संशयमापन्ना जीवनाशा हताऽभवत् ॥१८॥सर्वे च मिलिताश्चेमे कि कर्त्तव्यं विचिंत्यताम् ॥एवं विचारयन्तस्ते तूर्णमूचुः परस्परम् ॥१९॥यदा च गिरिजा देवी प्रसन्ना हि भवेदिह ॥तदा चैव भवेत्स्वास्थ्यं नान्यथा कोटियत्नतः ॥२०॥शिवोपि दुःखमापन्नो लौकिकीं गतिमाश्रितः ॥मोहयन्सकलांस्तत्र नानालीलाविशारदः ॥२१॥सर्वेषां चैव देवानां कटिर्भग्ना यदा तदा ॥शिवा क्रोधमयी साक्षाद्गंतुं न पुर उत्सहेत् ॥ २२॥स्वीयो वा परकीयो वा देवो वा दानवोपि वा ॥गणो वापि च दिक्पालो यक्षो वा किन्नरो मुनिः ॥२३॥विष्णुर्वापि तथा ब्रह्मा शंकरश्च तथा प्रभुः ॥न कश्चिद्गिरिजाग्रे च स्थातुं शक्तोऽभवन्मुने ॥२४॥जाज्वल्यमानं तत्तेजस्सर्वतोदाहि तेऽखिलाः ॥दृष्ट्वा भीततरा आसन् सर्वे दूरतरं स्थिताः ॥२५॥एतस्मिन्समये तत्र नारदो दिव्यदर्शनः ॥आगतस्त्वं मुने देवगणानां सुखहेतवे ॥२६॥ब्रह्माणं मां भवं विष्णुं शंकरं च प्रणम्य साः ॥समागत्य मिलित्वोचे विचार्य कार्यमेव वा ॥२७॥सर्वे संमंत्रयां चक्रुस्त्वया देवा महात्मना ॥दुःखशांतिः कथं स्याद्वै समूचुस्तत एव ते ॥२८॥यावच्च गिरिजा देवी कृपां नैव करिष्यति ॥तावन्नैव सुखं स्याद्वै नात्र कार्या विचारणा ॥२९॥ऋषयो हि त्वदाद्याश्च गतास्ते वै शिवान्तिकम् ॥सर्वे प्रसादयामासुः क्रोधशान्त्यै तदा शिवाम् ॥३०॥पुनः पुनः प्रणेमुश्च स्तुत्वा स्तोत्रैरनेकशः ॥सर्वे प्रसादयन्प्रीत्या प्रोचुर्देवगणाज्ञया ॥३१॥सुरर्षय ऊचुः ॥जगदम्ब नमस्तुभ्यं शिवायै ते नमोस्तु ते ॥चंडिकायै नमस्तुभ्यं कल्याण्यै ते नमोस्तु ते ॥३२॥आदिशक्तिस्त्वमेवांब सर्वसृष्टिकरी सदा ॥त्वमेव पालिनी शक्तिस्त्वमेव प्रलयंकरी ॥३३॥प्रसन्ना भव देवेशि शांतिं कुरु नमोस्तु ते ॥सर्वं हि विकलं देवि त्रिजगत्तव कोपतः ॥३४॥ब्रह्मोवाच ॥एवं स्तुता परा देवी ऋषिभिश्च त्वदादिभिः ॥क्रुद्धदृष्ट्या तदा ताश्च किंचिन्नोवाच सा शिवा ॥३५॥तदा च ऋषयस्सर्वे नत्वा तच्चरणांबुजम् ॥पुनरूचुश्शिवां भक्त्या कृतांजलिपुटाश्शनैः ॥३६॥ऋषय ऊचुः ॥क्षम्यतां देवि संहारो जाय तेऽधुना ॥तव स्वामी स्थितश्चात्र पश्य पश्य तमंबिके ॥३७॥वयं के च इमे देवा विष्णुब्रह्मादयस्तथा ॥प्रजाश्च भवदीयाश्च कृतांजलिपुटाः स्थिताः ॥३८॥क्षंतव्यश्चापराधो वै सर्वेषां परमेश्वरि ॥सर्वे हि विकलाश्चाद्य शांतिं तेषां शिवे कुरु ॥३९॥ब्रह्मोवाच ॥इत्युक्त्वा ऋषयस्सर्वे सुदीनतरमाकुलाः ॥संतस्थिरे चंडिकाग्रे कृतांजलिपुटास्तदा ॥४०॥एवं श्रुत्वा वचस्तेषां प्रसन्ना चंडिकाऽभवत् ॥प्रत्युवाच ऋषींस्तान्वै करुणाविष्टमानसा ॥४१॥देव्युवाच ॥मत्पुत्रो यदि जीवेत तदा संहरणं नहि ॥यथा हि भवतां मध्ये पूज्योऽयं च भविष्यति ॥४२॥सर्वाध्यक्षो भवेदद्य यूयं कुरुत तद्यदि ॥तदा शांतिर्भवेल्लोके नान्यथा सुखमाप्स्यथ ॥४३॥ ॥ब्रह्मोवाच ॥इत्युक्तास्ते तदा सर्वे ऋषयो युष्मदादयः ॥तेभ्यो देवेभ्य आगत्य सर्वं वृत्तं न्यवेदयन् ॥४४॥ते च सर्वे तथा श्रुत्वा शंकराय न्यवेदयन् ॥नत्वा प्रांजलयो दीनाः शक्रप्रभृतयस्सुराः ॥४५॥प्रोवाचेति सुराञ्छ्रुत्वा शिवश्चापि तथा पुनः ॥कर्त्तव्यं च तथा सर्वलोकस्वास्थ्यं भवेदिह ॥४६॥उत्तरस्यां पुनर्यात प्रथमं यो मिलेदिह ॥तच्छिरश्च समाहृत्य योजनीयं कलेवरे ॥४७॥ ॥ब्रह्मोवाच ॥ततस्तैस्तत्कृतं सर्वं शिवाज्ञाप्रतिपालकैः ॥कलेवरं समानीय प्रक्षाल्य विधिवच्च तत् ॥४८॥पूजयित्वा पुनस्ते वै गताश्चोदङ्मुखास्तदा ॥प्रथमं मिलितस्तत्र हस्ती चाप्येकदंतकः ॥४९॥तच्छिरश्च तदा नीत्वा तत्र तेऽयोजयन् ध्रुवम् ॥संयोज्य देवतास्सर्वाः शिवं विष्णुं विधिं तदा ॥५०॥प्रणम्य वचनं प्रोचुर्भवदुक्तं कृतं च नः ॥अनंतरं च तत्कार्यं भवताद्भवशेषितम् ॥५१॥ब्रह्मोवाच ॥ततस्ते तु विरेजुश्च पार्षदाश्च सुराः सुखम् ॥अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन् ॥५२॥ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा ॥प्रणम्येशं शिवं देवं स्वप्रभुं गुणवर्जितम् ॥५३॥यस्मात्त्वत्तेजसस्सर्वे वयं जाता महात्मनः ॥त्वत्तेजस्तत्समायातु वेदमंत्राभियोगतः ॥५४॥ इत्येवमभिमंत्रेण मंत्रितं जलमुत्तमम् ॥स्मृत्वा शिवं समेतास्ते चिक्षिपुस्तत्कलेवरे ॥९५॥तज्जलस्पर्शमात्रेण चिद्युतो जीवितो द्रुतम् ॥तदोत्तस्थौ सुप्त इव स बालश्च शिवेच्छया ॥५६॥सुभगस्सुन्दरतरो गजवक्त्रस्सुरक्तकः ॥प्रसन्नवदनश्चातिसुप्रभो ललिताकृतिः ॥५७॥तं दृष्ट्वा जीवितं बालं शिवापुत्रं मुनीश्वर ॥सर्वे मुमुदिरे तत्र सर्वदुःखं क्षयं गतम् ॥५८॥देव्यै संदर्शयामासुः सर्वे हर्षसमन्विताः ॥जीवितं तनयं दृष्ट्वा देवी हृष्टतराभवत् ॥५९॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणेशजीवनवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP