संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| पंचदश: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - पंचदश: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत आचार्यकृतदिग्विजयवर्णनम् Translation - भाषांतर अथ शिष्यवरैर्युत: सहस्रैरनुयात: स सुधन्वना च राज्ञा ।ककुभो विजिगीषुरेष सर्वा: प्रथमं सेतुमुदारधी: प्रतस्थे ॥१॥अभवत् किल तस्य तत्र शाक्तैर्गिरिजार्चाकपटान्मधुप्रसक्तै: ।निकटस्थवितीर्णभूरिमोदस्फुटरिखत्पटुयुक्तिमान् विवाद: ॥२॥स हि युक्तिभरैर्विधाय शाक्तान् प्रतिवग्व्याहरणेऽपि तानशक्तान् ।व्दिजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥३॥अभिपूज्य स तत्र रामनाथं सह पाण्डैय: स्ववशे विधाय चोलान् ।द्रविडांश्च ततो जगाम काश्चीं नगरीं हस्तिगिरेर्नितम्बकाश्चीम् ॥४॥सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ।अपवार्य च तान्त्रिकानतानीद्भगवत्या: श्रुतिसम्मतां सपर्याम् ॥५॥निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् ।अनुगृह्य स वेकाचलेशसं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥६॥अभिगम्य स भक्तिपूर्वमस्यां कृतपूज: क्रथकैशिकेश्वरेण ।निजशिष्यनिरस्तदुष्टबुध्दीन् व्यदधाद्भैअरवतन्त्रसावलम्बान् ॥७॥अभिवाद्य विदर्भराडावादीदथ कर्णाटवसुन्धरामियासुम् ।भगवन् बहुभि: कपालिजालै: स हि देशो भवतामगम्यरुप: ॥८॥न हि ते भगवद्यश: सहन्ते निहितेर्ष्या: श्रुतिषु ब्रवीम्म्यतोऽहम् ।अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥९॥इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्य: ॥१०॥अथ तीर्थकराग्रणी: प्रतस्थे किल कापालिकजालकं विजेतुम् ।निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्र्य: ॥११॥पितृकाननभस्मनाऽनुलिप्त: करसंप्राप्तकरोटिरात्तशूल: ।सहितो बहुभि: स्वतुल्यवेषै: स इति स्माऽऽह महामना: सगर्व: ॥१२॥भसितं धृतमित्यदस्तु युक्तं शुचि संत्यज्य शिर: कपालभेतत् ।वहथाशुचि खर्परं किमर्थ न कथंकारमुपास्यते कपाली ॥१३॥नरशीर्षकुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।उमया समया सरोरुहाक्ष्या कथमाश्लिष्टवपुर्मुदं प्रयायात् ॥१४॥इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्द्य ।निरवासयदात्मवित्समाजात् पुरुषै: स्वैरधिकारिभि: सुधन्वा ॥१५॥भ्रुकुटीकुटिलाननश्चलोष्ठ: सितमुद्यम्य परश्वधं स मूर्ख: ।भवतां न शिरांसि चेव्दिभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ॥१६॥रुषितानि कपालिनां कुलानि प्रलयाम्भोधरभीकरारवाणि ।अमुना प्रहितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥१७॥अथ विप्रकुलं भयाकुलं तद्रुतमालोक्य महारथ: सुधन्वा ।कुपित: कवची रथी निषडी धनुरादाय ययौ शरान् विमुश्चन् ॥१८॥अवनीभृति योधयत्यरींस्तांस्त्वरयैकत्न ततोऽन्यतो नियुक्ता: ।क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधा: सहस्रम् ॥१९॥अवलोक्य कपालिसघमाराच्छमनानीकनिकाशमापतन्तम् ।व्यथिता: प्रतिपेदिरे शरण्यं शरणं शकरयोगिनं व्दिजेन्द्रा: ॥२०॥असितोमरपट्टिशत्रिशूलै: प्रजिघांसून् भृशमुज्झिताट्टहासान् ।यतिराट् स चकार भस्मसात्तान्निजहुकारभुवाऽग्रिना क्षणेन ॥२१॥नृपतिश्च शरै: सुवर्णपुडैर्विनिकृतै: प्रतिपक्षवक्तपद्मै: ।रणरडभुवं सहस्रसघै: समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥२२॥तदनु क्रकचो हतान् स्वकीयानरुजांश्च व्दिजपुडवानुदीक्ष्य ।अतिमात्रव्दिदूयमानचेता यतिराजस्य समीपमाप भूय: ॥२३॥कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।इति हस्ततले दधत्कपालं क्षणमध्यापदसौ निमील्य नेत्रे ॥२४॥सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे ।स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥२५॥अथ मर्त्यशिर: कपालमाली ज्वलनज्वालजटाछटस्रिशूली ।विकटप्रकटाट्टहासशाली पुरत: प्रादुरभून्महाकपाली ॥२६॥तव भक्तजनद्रहं दृशा सज्जहि देवेति कपालिना नियुक्त: ।कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्ट: ॥२७॥यमिनामृषभेण संस्तुत: सन्नयमन्तर्धिमवाप देववर्य: ।अखिलेऽपि खिले कुले खलानाममुमानर्चुरलं व्दिजा: प्रहृष्टा: ॥२८॥यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् व्दिजान् विमथ्नन् ।अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥२९॥विललास चलत्तरडहस्तैर्नदराजोऽभिनयन्निगूढमर्थम् ।अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान् महारेण ॥३०॥बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधी: प्रतस्थे ॥३१॥अवगाह्य सरित्पतिं स तत्र प्रियमासाद्य तुषारशैलपुत्र्या: ।स्तवसत्तममद्भुतार्थचित्रं रचयामास भुजडवृत्तरम्यम् ॥३२॥तदनन्तरमागमान्तविद्यां प्रणतेभ्य: प्रतिपादयन्तमेनम् ।हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं सडिरते स्म नीलकण्ठम् ॥३३॥भगवन्निह शकराभिधानो यतिरागत्य जीगीषुरार्यपादान् ।स्ववशीकृतभट्टमण्डनादि: सह शिष्यैर्गिरिशालये समास्ते ॥३४॥इति तव्दचनं निशम्य सम्यग्ग्रथितानेकनिबन्धरत्नहार: ।शिवतत्परसूत्नभाष्यकर्ता प्रहसन् वाचमुवाच शैववर्य: ॥३५॥सरितां पतिमेष शोषयेव्दा सवितारं वियत: प्रपातयेव्दा ।पटवत्सुरवर्त्म वेष्टयेव्दा विजये नैव तथाऽपि मे समर्थ: ॥३६॥परपक्षतमिस्रचश्चदर्कैर्मम तर्कैर्बहुधा विशीर्यमाणम् ।अधुनैव मतं निजं स पश्यत्विति जल्पन्निरगादनल्पकोप: ॥३७॥सितभूतितरडिताखिलाडै: स्फुटरुद्राक्षकलापकम्रकण्ठै: ।परिवीतमधीतशैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यै: ॥३८॥अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्षमेष: ।शुकतातकृतात्मशास्त्रत: प्राकपिलाचार्य इवाऽऽत्मशास्त्रपध्दा ॥३९॥भगवन् क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे ।इति देशिकपुडवं निवार्य व्यवदत्तेन सुरेश्वर: सुधीश: ॥४०॥सुमते तव कौशलं विजाने स्वयमेवैष मुनि: प्रतिब्रुवीतु ।इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसंमुख्यस्तदाऽऽसीत् ॥४१॥परपक्षबिसावलीमरालैर्वनैस्तस्य मतं चखण्ड दण्डी ।अथ नीलगल: स्वपक्षरक्षां जहदव्दैतमपाकरिष्णुरुचे ॥४२॥प्रशमिंस्तदसीति यस्त्रयीकै: कथितोऽर्थ: स न युज्यते त्वदिष्ट: ।अभिदा तिमिरप्रकाशयो: किं घटते हन्त विरुध्दधर्मवत्त्वात् ॥४३॥रवितत्प्रतिबिम्बयोरिवाभिध्दटतामित्यपि तत्त्वतो न वाच्यम् ।मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेर्व्योमशिवादिदेशिकोक्तया ॥४४॥मुकुरस्थमुखस्य बिम्बवक्ताद्भिदया पार्श्वगलोकलोकनेन ।प्रतिबिम्बतमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥४५॥न च मायिकजीवनिष्ठमौढयेश्वरसार्वज्ञविरुध्दधर्मबाधत् ।उभयोरपि चित्स्वरुपताया अविशेषादभिदैव वास्तवीति ॥४६॥न हि मानशतै: स्थितस्य बाधाऽपरथा दत्तजलाज्जलिर्भिदा स्यात् ।विपरीतहयत्वगोत्वबाधाध्दपश्वोर्निजरुपकैक्यघुक्तया ॥४७॥यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥४८॥इति युक्तिशतै: स नीलकण्ठ: कविरक्षोभयदव्दितीयपक्षम् ।निगमान्तवच: प्रकाश्यमानं कलभ: पद्मवनं यथा प्रफुल्लम् ॥४९॥अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।श्रृणु तत्त्वमसीति संप्रदायश्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५०॥ननु वाच्यगता विरुध्दताधीरिह सोऽसावितिवव्दिरोधहाने ।अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह को विरोध:॥५१॥यदिहोक्तमतिप्रसज्जनं भो न भवेन्नो हि गवाश्वयो: प्रमाणम् ।अभिदाघटकं तयोर्यत: स्यादुभयोर्लक्षणयाऽभिदानुभूति: ॥५२॥ननु मौढयसमस्तवित्त्वधर्मान्वितजीवेश्वररुपतोऽतिरिक्तम् ।उभयो: परिनिष्ठितं स्वरुपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥५३॥इति चेन्न समीक्ष्यमाणजीवेश्वररुपस्य च कल्पितत्वयुक्तया ।तदधिष्ठितसत्यवस्तुनोऽध्दा नियमेनैव सदाऽभ्युपेयताया: ॥५४॥भवताऽपि तथा हि दृश्यदेहाद्यहमन्तस्य जडत्वमभ्युपेयम् ।परिशिष्टमुपेयमेकरुपं ननु किश्चिध्दि तदेव तस्य रुपम् ॥५५॥जगतोऽसत एवमेव युक्तया त्वनिरुप्यत्वत एव कल्पितत्वात् ।तदधिष्ठितभूतरुपमेष्यं ननु किश्चिध्दि तदीश्वरस्य सत्यम् ॥५६॥तदिह श्रुतिगोभयस्वरुपे निरुपाधौ न हि मौढयसर्ववित्त्वे ।न जपाकुसुमात्तलोहितिम्र: स्फटिके स्यान्निरुपाधिके प्रसक्ति: ॥५७॥अपि भेदधियो यथार्थतायां न भयं भेददृश: श्रुतिर्ब्रवीतु ।विपरितदृशो ह्यनर्थयोगो न भिदाधीर्विपरीतधीर्यत: स्यात् ॥५८॥अभिदा श्रुतिगाऽप्यतात्त्विकी चेत्पुरुपार्थश्रवणं न तद्रतौ स्यात् ।अशिवोऽहमिति भ्रमस्य शास्त्राव्दिधुमानत्वगतेरिवास्ति बाध: ॥५९॥तदबाधितकल्पनाक्षतिर्नो श्रुतिसिध्दात्मपरैक्यबुध्दिबाध:।निगमात् प्रबलं विलोक्यते माकरणं येन तदीरितस्य बाध: ॥६०॥ऋषिभिर्बहुधा परात्मतत्त्वं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् ।तदपास्य निरुपितप्रकारो भवताऽसौ कथमेक एव धार्य: ॥६१॥प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेया: ।इति नीतिबलात्तयीविरुध्दं न ऋषीणां वचनं प्रमात्वमीयात् ॥६२॥ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि ।प्रतिदेहमसौ विभिन्न आत्मा सुखदु:खादिविचित्रतावलोकात् ॥६३॥यदि चाऽऽत्मन एकता तदानीमतिदु:खी युवराजसौख्यमीयात् ।अमुक: ससुखोऽमुकस्तु दु:खीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥६४॥अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।अत एव भुजेर्भवेत्स कर्ता परभोक्तत्वमतिप्रसडदुष्टम् ॥६५॥पुरुषार्थ इहैष दु:खनाश: सकलस्यापि सुखस्य दु:खयुक्तवात् ।अतिहेयतया पुमर्थता नो विषयपृक्तान्नवदित्यभेद्ययुक्ते : ॥६६॥इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।न कथश्चन युज्यते पुन: सा घटयेत्प्रत्युत मानसीयभेदम् ॥६७॥चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।तदभावत एव कर्तृता स्यान्न तृणादेरिति कल्पनं वरीय: ॥६८॥विषयोत्थसुखस्य दु:खयुक्तवेऽप्यलयं ब्रह्मसुखं न दु:खयुक्तम् ।पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदु:खनाशमात्रम् ॥६९॥इति युक्तिशतोपबृंहितार्थैर्वचनै: श्रुत्यवरोधमौविदल्लै: ।यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैरजैपीत् ॥७०॥विजितो यत्रिभूभूता स शैव: सह गर्वेण विसृज्य च स्वभाष्यम् ।शरणं प्रतिपेदिवान् महर्षि हरदत्तप्रमुखै: सहाऽऽत्मशिष्यै: ॥७१॥यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीपिधुर्यवर्यम् ।सहसोदयनादय: कवीन्द्रा: परमव्दैतमुपश्चकम्पिरे स्म ॥७२॥विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।बहुधा विबुधै: प्रशस्यमानो भगवान् व्दारवतीं पुरीं विवेश ॥७३॥भुजयोरतितप्तशख चक्राकृतिलोहाहतसंभृतव्रगाका: ।शरदण्डसहोदरोर्ध्वपुण्ड्रास्तुलसीपर्णसनाथकर्णदेशा: ॥७४॥शतश: समवेत्य पाश्चरात्रस्त्वमृतं पश्चभिदाविदां वदन्त: ।मुनिशिष्यवरैरतिप्रगल्भैर्मृगरजैरिव कुज्जरा: प्रभग्रा: ॥७५॥इति वैष्णवशैवशाक्तसौरप्रमुखानात्मवशंवदान्विधाय ।अतिवेलवचोझरीनिरस्तप्रतिवाद्युज्जयिनीं पुरीमयासीत् ॥७६॥सपदि प्रतिनादित: पयोदस्वनशककुलगेहकेकिजालै: ।शशभृन्मुकुटार्हणामृदडध्वनिरश्रूयत तत्र मूर्छिताश: ॥७७॥मकरध्वजविव्दिडाप्तिविव्दाञ्श्रमहृत्पुष्पसुगन्धवन्मरुद्भि: ।अगरुद्भवधूपधूपिताशं स महाकलनिवेशनं विवेश ॥७८॥भगवानभिवन्द्य चन्द्रमौलिं मुनिवृन्दरैरभिवन्द्यपादपद्म: ।श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभाव: ॥७९॥कवये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ।विससर्ज वशंवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥८०॥अभिरुपकुलावतंसभूतं बहुधाव्याकृतसर्ववेदराशिम् ।तमयत्ननिरस्तदु: सपत्नं प्रतिपद्येत्थमुवाच वावदृक: ॥८१॥जयति स्म दिगन्तगीतकीर्तिर्भगवाञ्शकरयोगिचक्रवर्ती ।प्रथयन् परमाव्दितीयतत्त्वं शमयंस्तत्परिपन्थिवादिदर्पम् ॥८२॥स जगाद बुधाग्रणीर्भवन्तं कुमतोत्प्रेक्षितसूववृत्तिजालम् ।अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥८३॥तदिदं परिगृह्यतां मनी षिन मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।अथवाऽस्मदुदग्रतर्कवज्रमतिघातात् परिरक्ष्यतां स्वपक्ष: ॥८४॥इति तामवहेलपूर्ववर्णा गिरमाकर्ण्य तदा स लब्धवर्ण: ।यशसां निधिरीषदात्तरोषस्तमुवाच प्रहसन् यतीन्द्रशिष्यम् ॥८५॥ध्रुवमेष न शुश्रुवानुदन्तं मम दुर्वादिवचस्ततीर्नुदन्तम् ।परकीर्तिबिसाकुरानन्दन्तं विदुषां मूर्धसु नानटत्पदं तम् ॥८६॥मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमम्पतामुपैति ।कपिलस्य पलायते प्रलाप: सुधियां कैव कथाऽधुनातनानाम् ॥८७॥इति वादिनमब्रवीत् सनन्द: कुशलोऽथैनमविज्ञ माऽवमंस्था : ।न हि दारितभूधरोऽपि टक: प्रभवेव्दज्रमणिप्रभेदनाय ॥८८॥स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सव्दिदग्र्य: ।सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥८९॥अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।बहुभिर्व्वनैरुदारवृत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥९०॥अनयोरतिचित्रशव्दशय्यां दधतोर्दुर्नयभेदशक्तयुक्तयो: ।पटुवादमृधेऽन्तरं तटस्था: श्रुतवन्तोऽपि न किश्चनान्वविन्दन् ॥९१॥अथ तस्य यति: समीक्ष्य दाक्ष्यं निजपक्षाब्जशरज्जाडाब्जभूतम् ।बहुधाऽऽक्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥९२॥अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्ग्मिवर: प्रगल्भयुक्तया ।श्रुतिशीर्षवच: प्रकाश्यमेवं कविरव्दैतमपाकरिष्णुरुचे ॥९३॥प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिर्जीवपरात्मभेदिकेति ।न भिनत्ति हि जीवगेशगा वोभयभावस्य तदुत्तरोद्भवत्वात् ॥९४॥मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्बविम्बभेदी ।कथमीरय वक्तमात्रगश्चेचितिमात्राश्रिदियं तथेति तुल्यम् ॥९५॥चितिमात्रगप्रकृत्युपाधेर्जहतो बिम्बपरात्मपक्षपातम् ।प्रतिबिम्बितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥९६॥अविकारिनिरस्तसडबोधैकरसात्माश्रयता न युज्यतेऽस्या: ।अत एव विशिष्टसंश्रितत्वं प्रकृते: स्यादिति नापि शकनीयम् ॥९७॥न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि ।अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्रुते तथा चेत् ॥९८॥अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्टनिष्ठता स्यात् ।अजडानुभवस्य नो जडान्त: करणस्थत्वमितीष्टता न तस्या: ॥९९॥ननु दाहकता यथाग्रियोगादधिकूटं व्यपदिश्यते तथैव ।अनुभूतिमदात्मयोगतोऽन्त: करणे सा व्यपदिश्यतेऽनुभूति: ॥१००॥इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचार: ।न पुनस्तदुपाधियोगतोऽन्त: करणस्येति समाऽन्यथागतिर्हि ॥१०१॥न च तत्र हि बाधकस्य सत्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् ।इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेश्च बाधकत्वात् ॥१०२॥अधिसुप्त्यपि चित्तवर्ति तत्स्याद्यदि चाज्ञानमिदं हृदाश्रितं स्यात् ।तदिहास्ति न मानह्वुक्तरीत्या प्रकृतेर्दृश्यविशिष्टनिष्ठतायाम् ॥१०३॥ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिद्रतेति ।प्रतिबन्धकशून्यता तु सुप्ते: प्रमात्मैक्यगत: सतेति वाक्यात ॥१०४॥न च तत्र च तत्स्थितिप्रतीति: सति संपद्य विदुर्न हीति वाक्यात् ।श्रुतिगीस्तसधिक्षिपत्यभावप्रतिपत्तेर्न च निह्रवोऽत्र नेति ॥१०५॥किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्तयभावात् ।अनिवर्तकसत्वतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाश: ॥१०६॥न च तच्छमयेज्जड प्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।तदिहाप्रतिबन्धकत्वमस्य प्रभवेत् किंत्विह तद् भ्रमाग्रहादि ॥१०७॥इति चेदिदमीरय भ्रम: को मनुजोऽहं त्विति शेमुषीति चेन्न ।अतिविस्मृतिशीलता तवाहो गदितु: सर्वपदार्थसकरस्य ॥१०८॥प्रमितित्वमुपाश्रयन् प्रतीतेरमुक: खण्ड इति स्वाशास्त्रसिध्दात् ।भिदभिदव्दयगोत्तरत्वहेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ।॥१०९॥अनुमानमिदं तथा च सिध्दं विमता धी: प्रमितिर्भिदाभिदत्वात् ।इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥११०॥ननु संहननात्मधी: प्रमाणं न भवत्येव निषिध्दयमानगत्वात् ।इदमिति प्रतिपन्नरुप्यधीवत्प्रबला सत्प्रतिपक्षतेति चेन्न ॥१११॥व्यभिचारयुतत्वतोऽस्य खण्ड : पशुरित्यत्र तदन्यधीस्थमुण्डे ।इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमत्त्वात् ॥११२॥ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।इति चेन्न विवक्षितस्य हेतोर्व्यभिचारात् पुनरप्यमुत्र चैव ॥११३॥ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेध: ।अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतो: ॥११४॥इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेध: ।उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसक्तयभावात् ॥११५॥न हि जात्वपि खण्डके प्रसक्त: परमुण्डास्त्विति संप्रसक्तयभाव: ।चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥११६॥स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।तदिहोदितहेतुसत्त्वतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥११७॥ननु भातितरामुपाधिरत्नादलदेतव्दयवहर्तृतेति चेन्न ।अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तंर च ॥११८॥ननु तव्दयवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ ।श्रुतिवाक्यगतेन संप्रतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥११९॥तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।तदबोधलये लयोपपत्तेर्जगत: सत्यतया छिदा न ते स्यात् ॥१२०॥ननु पश्चसु तु स्थलेषु भेदो हृभिदा नो तु शरीरदेहिनोस्ते ।प्रथितस्थलपश्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिध्दि: ॥१२१॥इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।उत वा पृथगेव तत्र नाऽऽद्यो मिलिता: पश्च न हि कचिद्यत: स्यु: ॥१२२॥चरमोऽपि न युज्यते तदाऽडाडिकभावस्य च तन्त्नता न किं स्यात् ।न च योजकगौरवं च दोष: प्रकृते तस्य तवापि सम्मतत्वात् ॥१२३॥अपि चान्यतमस्य जातितव्दत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।अपि सोऽत्र न दुर्लभश्चिदात्माडकयो: कारणकार्यभावभावात् ॥१२४॥न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।तदभेदत एव सर्वसस्याप्युपपत्तेरिह जीवकार्यताया : ॥१२५॥तदसिध्दिमुखानुदोषानुदयादुक्तनयस्य निर्मलत्वम् ।भ्रमधीप्रमितित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ॥१२६॥अपि च भ्रम एष किं तवान्त: करणस्येति चिदात्मनोऽथवाऽसौ ।परिणाम इहाऽऽदिमो न तस्याऽऽत्मगतत्वानुभवस्य भडपत्ते: ॥१२७॥ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिम्र : ।भ्रमसंयुतचित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥१२८॥इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शून्यकत्वात् ॥१२९॥चरमोऽपि न युज्यतेऽपरोक्षप्रथनस्यानुपपद्यमानताया: ।परिणामविशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्ष: ॥१३०॥असभागतयाऽऽत्मनो निरस्तेतरयुक्ते: परिणत्ययोग्यताया: ।परिणत्ययुजेश्च योग्यतायामपि बुध्दयाकृतितश्चिदात्मनोऽस्य ॥१३१॥न हि नित्यचिदाश्रयप्रतीच: परिणाम: पुनरन्यचित्स्वरुप: ।गुणयो: समुदायगत्ययोगाद्रुणतावान्तरजातित: सजात्यो: ॥१३२॥युगपत्समवैति नो हि शौक्लयव्दयकं यत्र च कुत्रचिद्यदेतत् ।ननु चिन्न गुणो गुणी तथा च प्रसरेन्नोदितदुष्टतेति चेन्न ॥१३३॥कटकाश्रयभूतदीप्तहेम्रो रुचकाधारकभाववत्तथैव ।अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥१३४॥न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्तयसंभवेऽपि ।भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादितसंस्कृतेरयोगात् ॥१३५॥अपि नाग्रहणं चितेरभावश्चितिरुपग्रहणस्य नित्यताया: ।तदसंभवतो न वृत्त्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥१३६॥न च भज्जकमीक्ष्यते न तस्योपगमे दु:खजडानृतात्मकस्य ।इति वाच्यमखण्डवृत्तिरुढेश्वरबोधस्य निवर्तकत्वयोगात् ॥१३७॥अपि चेष्टतदन्यहेतुधीजे जगत: कृत्यकृती न ते घटेते ।सकलव्यवहारसकरत्वात्तदलं जीवनिकाऽपि दुर्लभा ते ॥१३८॥इति युक्तिशतैरमर्त्यकीर्ति: सुमतीन्द्रं तमतन्द्रितं स जित्वा ।श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥१३९॥इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रसस्रे ।घनवार्षिकवारिवाहजाले विगते शारदचन्द्रचन्द्रिकेव ॥१४०॥स कथाभिरवन्तिषु प्रसिध्दान् विबुधान् बाणमयूरदण्डिमुख्यान् ।शिथिलीकृतदुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांश्चकार ॥१४१॥प्रतिपद्य तु बाह् लिकान् महर्षौ विनयिभ्य: प्रविवृण्वति स्वभाष्यम् ।अवदन्नसहिष्णव: प्रवीणा: समये केचिदथाऽऽर्हताभिधाने ॥१४२॥ननु जीवमजीवमास्रवं च श्रितवत्संवरनिर्जरौ च बन्ध: ।अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभडया ॥१४३॥कथयाऽऽर्हत जीवमस्तिकायं स्फुटमेवंविध इत्युवाच मौनी ।अवदत्स च देहतुल्यमनो दृढकर्माष्टकवेष्टतश्च विव्दन् ॥१४४॥अमहाननणुर्घटादिवत्स्यात्स न नित्योऽपि च मानुषाच देहात् ।गजदेहमयन्विशेन्न कृत्स्रं प्रविशेच प्लुषिदेहमप्यकृत्स्र: ॥१४५॥उपयान्ति च केचन प्रतीका महता संहननेन सडमेऽस्य ।अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसम: समश्रुतेश्च ॥१४६॥उपयन्त इमे तथाऽपयन्तो यदि वर्ष्मेव न जीवतां भजेयु: ।प्रभवेयुरनात्मन ;कथं ते कथमात्प्रावयवा: प्रयन्तु तस्मिन् ॥१४७॥जनितारहिता: क्षयेण हीना: समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ।अमुकोपचित: प्रयाति कृत्स्रं त्वमुकैश्चापचित: प्रयात्यकृत्स्रम् ॥१४८॥किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुध्दमत्या ।वपुरुन्मथितं भवेत्तु पूर्वे बत कार्त्न्येन वपुर्न चेतयेयु: ॥१४९॥चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीता: ।इतरेतरमडमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ॥१५०॥बहवोऽपि नियामकस्य सत्त्वात्सुमते तत्न भजेयुरैकमत्यम् ।कथमत्र नियामकस्य तव्दव्दिरहात् कस्यचिदप्यदो घटॆत ॥१५१॥उपयान्ति च चापयान्ति जीवावयवा: किन्तु महत्तरे शरीरे ।विकसन्ति च सकुलन्त्यनिष्टे यतिवर्यात्र निदर्शनं जलौका ॥१५२॥यदि चैवममी सविक्रियत्वाध्दटवते च विनश्वरा भवेयु: ।इति नश्वरताम प्रयाति जीवे कृतनाशाकृतसडमौ भवेताम् ॥१५३॥अपि चैवमलाबुवद्भवाब्धौ निजकर्माष्टकभारमग्रजन्तो: ।सततोर्ध्वगतिस्वरुपमोक्षस्तव सिध्दान्तसमर्थितो न सिध्येत् ॥१५४॥अपि साधनभूतसप्तभडिनयमप्यार्हत नाऽऽद्रियामहे ते ।परमार्थसतां विरोधभाजां स्थितिरेकत्र हि नैकदा घटेत ॥१५५॥इति माध्यमिकेषु भग्रदर्पेष्वथ भाष्याणि स नैमिशे वितत्य ।दरदान् भरतांश्च शूरसेनान् कुरुपाश्चालमुखान् बहूनजैषीत् ॥१५६॥पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुभटटोदयनादिकैरजय्यम् ।स हि खण्डनकारमूढदर्प बहुधा व्युद्य वशंवदं चकार ॥१५७॥तदनन्तरमेष कामरुपानधिगत्याभिनवोपशब्दगुप्तम् ।अजयत्किल शाक्तभाष्यकारं स च भग्रो मनसेदमालुलोचे ॥१५८॥निगमाब्जविकासिवालभानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।न कथश्चन मव्दशंवदोऽसौ तदमुं दैवतकृत्यया हरेयम् ॥१५९॥इति गूढमसौ विचिन्त्य पश्चात् सह शिष्यै: सहसा स्वशाक्तभाष्यम् ।परिहृत्य जनापवादभीत्या यमिन: शिष्य इवान्ववर्ततैष: ॥१६०॥निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यै: ।विहितापचितिस्तथाऽडवडेष्वयमास्तीर्थ यशो जगाम गौडान् ॥१६१॥अभिभूय मुरारिमिश्रवर्य सहसा चोदयनं विजित्य वादे ।अवधूय च धर्मगुप्तमिश्रं स्वयश: प्रौढमगापयत्स गौडान् ॥१६२॥पूर्व येन विमोहिता व्दिजवरास्तस्यासतोऽरीन् कलौ बुध्दस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।शास्त्रम्रायविनिन्दकेन कुधिया कूटप्रवादाग्रहा -न्निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥१६३॥शाक्तै: पाशुपतैरपि क्षपणकै: कापालिकैर्वैष्णवै -रप्यन्यैरखिलै: खिलं खलु खलैर्दुर्वादिभिर्वैदिकम् ।मार्ग रक्षितुमुग्रवादिविजयं नो मानहेतोर्व्यधा -त्सर्वज्ञो न यतोऽस्य संभवति सम्मानग्रहग्रस्तता ॥१६४॥दिष्टे पकजविष्टरेण जगतामाद्येन तत्सूनुभि -र्निर्दिष्टे सनकादिभि: परिचिते प्राचेतसाद्यैरपि ।श्रौताव्दैतपथे परात्मभिदुरान् दुर्वादिन: कण्टकान् प्रोध्दृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥१६५॥शान्तिर्दान्तिविरागते ह्युपरति: क्षान्ति: परैकाग्रता श्रध्देति प्रथिताभिरेधिततनौ षडवक्तवन्मातृभि: ।भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूचल -त्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुत: ॥१६६॥यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुत: काणा: यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुत: काणा: काण्भुजास्तु सैन्यरजसा सांख्यैर्धृताऽसांख्यधी: ।युध्दवा तेषु पलायितेषु सहसा योगा: सहैवाद्रवन् को वा वादिभट: पटुर्भुवि भवेव्दस्तुं पुरस्तान्मुने: ॥१६७॥उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापते: पूर्व मण्डनखण्डने समुदभूद्यो डिण्डिमाडम्बर: ।जाता: शब्दपरम्परास्तत इमा: पाखण्डदुर्वादिना मद्य श्रोत्रातटाटवीषु दधते दावानलज्वालताम् ॥१६८॥बुध्दो युध्दसमुद्यत: किल पुन: स्थित्वा क्षणाव्दिद्रुत: कोणे द्राकणभुग्व्यलीयत तम: स्तोमावृतो गौतम: ।भग्रोऽसौ कपिल : पलायत तत: पातज्जलाश्चाज्जलिं चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीय़ेत सा ॥१६९॥हस्तग्राहं गृहीता: कतिचन समरे वैदिका वादियोधा: काणादाद्या: परे तु प्रसभमभिहता हन्त लोकायताद्या: ।गाढं बन्दीकृतास्ते सुचिरमथ पुन: स्वस्वराज्ये नियुक्ता: सेवन्ते तं विचित्रा यतिधरणिपते: शूरता वा दया वा ॥१७०॥शान्त्याद्यर्णववाडवानलशिखा सत्याभ्रवात्या दया -ज्योत्स्रादर्शनिशाऽथ शान्तिनलिनीराकाशशाकद्युति : ।आस्तिक्यद्रुमदावपावकनवज्वालावली सत्कथा -हंसीप्रावृडखण्डि दण्डिपतिना पाखण्डवामण्डली ॥१७१॥अव्दैतामृतवर्षिभि : पग्गुरुव्याहारधाराधरै: कान्तैर्हन्त समन्तत: प्रसृमरैरुत्कृत्ततापत्रयै: ।दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं शान्तं संप्रति खण्डिताश्च निबिडा: पाखण्डचण्डातपा: ॥१७२॥शान्तानां सुभटा: कपालिकपतद्ग्रहव्यापृता: काणादप्रतिहारिण: क्षपणकक्षोणीशवैतालिका: ।सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशांकुरा नव्या: केचिदलं मुनीश्वरगिरा नीता: कथाशेषताम् ॥१७३॥इति सकलदिशासु व्दैतवार्तानिवृतौ स्वयमथ परितस्तारायमव्दैतवर्त्म ।प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं रविरिव तिमिरौघे संप्रशान्ते मह: स्वम् ॥इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।संक्षेपशकरजये मार्ग: पश्चदशोऽभवम् ॥१५॥आदित: श्लोका: १७३६. N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP