संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| प्रथम: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - प्रथम: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत उपोध्दात: Translation - भाषांतर प्रणम्य परमात्मानं श्रीविद्यातीर्थरुपिणम् ।प्राचीनशडरजये सार: संगॄह्नाते स्फ़ुटम् ॥१ ॥यद्वध्दटानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि ।तद्वन्मदीये लघुसंग्रहेऽस्मिन्नुदीक्ष्यतां शाडरवाक्यसार: ॥२॥यथाऽतिरुच्ये मधुरेऽपि रुच्युत्पादाय रुच्यान्तरयोजनाऽर्हा ।तथेष्यतां प्राक्कविह्नद्येष्वेषाऽपि मत्पद्यनिवेशभडी ॥३॥स्तुतोऽपि सम्यक्कविभि: पुराणै: कृत्याऽपि नस्तुष्यतु भाष्यकार: ।क्षीराब्धिवासी सरसीरुहाक्ष: क्षीरं पुन: किं चकमे न गोष्ठे ॥४॥पयोब्धिविवरीसुनि:सृतसुधाझरीमाधुरी-धुरीणभणिताधरीकॄतफ़णाधराधीशितु: ।शिवडरसुशडराभिघजगद्रुरो: प्रायशीयशो ह्नदयशोधकं कलयितुं समीहामहे ॥५॥क्केमे शडरसद्रुरोर्गुणगणा दिग्जालकूलडषा:कालोन्मीलितमालतीपरिमलावष्टंभमुष्टिंघया: ।काहं हन्त ताथऽपि सदुरुकृपापीयूषपारम्परी-मग्नोग्नकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥६॥धन्यंमन्यविवेकशून्यसुजनंमन्याब्धिकन्यानटी-नृत्योन्मत्तनराधमाधमकथांसंमर्ददुष्कर्दमै: ।दिग्धां मे गिरमद्य शडरगुरुक्रीडासमुद्यद्यश:-पारावारसमुच्चलज्जलझरै: संक्षालयामि स्फ़ुटम् ॥७॥बन्ध्यासूनुखरीविषाणसदृशक्षुद्रक्षितीन्द्रक्षमा-शौर्यौदार्यदयादिवर्णनकळादुर्वासनावासिताम् ।मद्वाणीमधिवासयामि यमिनस्त्रैलोक्यरड्स्थली-नॄत्यत्कीर्तिनटीपटीरपटली चूर्णैरर्विकीर्णै: क्षितौ ॥८॥पीयूषद्युतिखण्डमण्डनकृपारुपान्तरश्रीगुरु-प्रेम्स्थेमसमर्हणार्हमधुरव्याहारसूनोत्कर:-प्रौढोऽयं नवकालिदासकवितासन्तानसंतानकोदद्यादद्य समुद्यत: सुमनसामामोदपारम्परीम् ॥९॥सामोदैरनुमोदिता मॄगमदैरानन्दिता चन्दनै-र्मन्दारैरभिवन्दिता प्रियगिरा काश्मीरजै: स्मेरिता ।वागोषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि-व्रातैर्निष्करुणै: क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥१०॥यद्वा दीनदयालव: सह्नदया: सौजन्यकल्लोलिनी-दोलन्दोलनखेलनैकरसिकखान्ता: समन्तादमी ।सन्त: सन्ति परोक्तिकजुष: किं चिन्तयाऽनन्तयायद्वा तुष्यति शडर: परगुरु: कारुण्यरत्नाकर: ॥११॥उपक्रम्य स्तोतुं कतिचन गुणात्र्छडरगुरो:प्रभग्ना: श्र्लोकार्धे कतिचन तदर्धार्धरचने ।अहं तुष्टूषुस्तानहह कलये शीतकिरणंकराभ्यामाहर्तु व्यवसितमते: साहसिकताम् ॥१२॥तथाऽप्युज्जृम्भन्ते मयि विपुकदुग्धाब्धिहरी-ललत्कल्लोलालीलसितपरिहासैकरसिका: ।अमी मूकान्वाचालयितुमपि शत्त्का यतिपते:कटाक्षा: किं चित्रं भृशमघटिताभीष्टघटने ॥१३ ॥अस्म ज्जिह्नाग्रसिंहासनमुपनयतु खोक्तिधारामुदारा-मद्वैताचार्यपादस्तुतिकृतसुकृतोदारता शारदाम्बा ।नॄत्यन्मॄत्युत्र्जयोच्चैर्मुकुटतटकुटी नि-स्त्रवत्स्व:स्त्रत्रन्तीकल्लोलोद्वेलकोलाहलमदलहरीखण्डिपाण्डित्यह्नद्याम् ॥१४॥क्केदं शडकरसदुरो: सुचरितं काहं वराकी कथंनिर्बध्रासि चिरार्जितं मम यश: किं मज्जयस्यम्बुघौ ।इत्युक्तवा चपलां पलायितवतीं वाचं नियुडे: बलात्प्रत्याह्नत्य गुणस्तुतौ कविगणश्र्चित्रं गुरोर्गौरवम् ॥१५॥रुक्षैकाक्षरवाडनिघण्टुशरणैरौणादिकप्रत्यय-प्रायैर्हन्त यडन्तदन्तुरतरैर्दुर्बोधद्वरान्वयै: ।क्रराणां कवितावतां कतिपयै: कष्टेन कॄष्टै: पदै-र्हाहा स्याद्वशगा किरातविततेरेणीव वाणी मम ॥१६॥नेता यत्रोल्लसति भगवत्पादसंज्ञो महेश:शान्तिर्यत्र प्रकचति रस: शेषवानुज्वला द्यै: ।यत्राविद्याक्षतिरपि फ़लं तस्य काव्यस्य कर्ताधन्यो व्यासाचलकविवरस्तत्कॄतिजज्ञाश्र्च धन्या: ॥१७॥तत्रादिम उपोध्दातो द्वितेये तु तदुभ्दव: ।तृतीये तत्तदमॄतान्धोवतारनरुपणम् ॥१८॥चतुर्थसर्गे तच्छुध्दाष्टमप्रावचरितं स्थितम् ।पत्र्चमे तद्योग्यसुखाश्रमप्राप्तिनिरुपणम् ॥१९॥महताऽनेहसा यैषा सम्प्रदायागता गता ।तस्या: शुध्दात्मविद्याया: षष्ठे सर्गे प्रतिष्ठिति: ॥२०॥तद्वयासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् ।स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुने: ॥२१॥वाणीसाक्षिकसार्वज्ञनिर्वाहोपायाचिन्तनम् ।दशमे योगशक्तया भूपतिकायप्रवेशनम् ॥२२॥बुध्दवा मीनध्वजकलास्तत्प्रसडप्रपत्र्चनम् ।सर्ग एकादशे तूग्रभैरवाभिधनिर्जय: ॥२३॥द्वादशे हस्तधात्र्यार्यतोटको भयसंश्रय: ।वार्तिकान्तब्रह्नाविद्याचालनं तु त्रयोदशे ॥२४॥चतुर्दशे पद्यपादतीर्थयात्रानिरुपणम् ।सर्गे पत्र्चदशे तूक्तं तदाशाजयकौतुकम् ॥२५॥षोडशे शारदापीठवासस्तस्य महात्मन: ।इति षोडशभि: सगैर्व्युत्पाद्या शाडरी कथा ॥२६॥सैषा कलिमलच्छेत्री सकॄच्छ्रुत्याऽपि कामदा ।नानाप्रश्रोत्तरै रम्या विदामारभ्यते मुदे ॥२७॥एकदा देवता रुप्याचलस्थमुपतस्थिरे ।देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥२८॥प्रसादानुमितस्वार्थसिध्दय: प्रणिपत्य तम ।मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन् ॥२९॥विज्ञातमेव भगवन्विदद्यते यध्दिताय न: ।वत्र्चयन्सुगतान् बुध्दवपुर्धारी जनार्दन: ॥३०॥तत्प्रणीतागमालभ्बैर्बैर्दर्शनदूषकै: ।व्याप्तेदानीं प्रभो धात्री रात्रि: संतमसैरिव ॥३१॥वर्णाश्रमसमाचारान्द्विषन्ति ब्रह्मविद्विष: ।ब्रुवन्त्याम्नायवचसां जीविकामात्रतां प्रभो ॥३२॥न सन्ध्यादीनि कर्माणि न्यासं वा न कदाचन ।करोति मनुज: कश्र्चित्सर्वे पाखण्डतां गता: ॥३३॥*श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये ।क्रिया: कर्थ प्रवर्तेरन् कथं क्रतुभुजो वयम् ॥३४॥शिवविष्ण्त्रागमपरैर्लिड्रचक्रादिचिह्नितै: ।पाखण्डै: कर्म सैन्यस्तं कारुण्यमिव दुर्जनै: ॥३५॥अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् ।श्रुति: साध्वी मदक्षीबै: का वा शावयैर्न दूषिता ॥३६॥सद्य: कॄत्त द्विजशिर:पडजार्चितभैरवै: ।न ध्वस्ता लोकमर्यादा का वा कापालिकाधमै: ॥३७॥अन्येऽपि बहवो मार्गा: सन्ति भूमौ सकण्टका: ।जनैर्येषु पदं दत्त्वा दुरन्तं दु:खमाप्यते ॥३८॥तभ्दवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् ।वर्त्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥३९॥इत्युक्त्वोपरतान्देवानुवाच गिरिजाप्रिय: ।मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य व: ॥४०॥दुष्टाचारविनाशाय धर्मसंस्थापनाय च ।भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥४१॥मोहनप्रकृतिव्दैध्वान्तमध्याह्रभानुभि: ।चतुर्भि: सहित: शिष्यैश्चतुरैर्हरिवद्भुजै: ॥४२॥यतीन्द्र: शकरो नाम्रा भविष्यामि महीतले ।मव्दत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिता: ॥४३॥तं मामनुसरिष्यन्ति सर्वे त्रिदिववासिन: ।तदा मनोरथ :पूर्णो भवतां स्यान्न संशय: ॥४४॥ब्रुवन्नेवं दिविषद: कटाक्षानन्यदुर्लभान् ।कुमारे निदधे भानु: किरणानिव पकजे ॥४५॥क्षीरनीरनिधेर्वीचिसचिवान् प्राप्य तान् गुह: ।कटाक्षान्मुमुदे रश्मीनुदन्वानैन्दवानिव ॥४६॥अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखर: ।दन्तचन्द्रातपानन्दिवॄन्दारकचकोरक: ॥४७॥श्रृणु सौम्य वच: श्रेया जगदुध्दऽरगोचरम् ।काण्डत्रयात्मके वेदे प्रोध्दृते स्याद व्दिजोध्दृति: ॥४८॥तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् ।तदधीनात्वतो वर्णाश्रमधर्मततेस्तत: ॥४९॥इदानी मिदमुध्दार्यमितिवृत्तमत: पुरा ।मम गूढाशयविदौ विष्णुशेषौ समीपगौ ॥५०॥मध्यमं काण्डमुध्दर्तुमनुज्ञातौ मयैव तौ ।अवतीर्याशतो भूमौ सकर्षणपतज्जली ॥५१॥मुनी भूत्वा मुदोपास्तियोगकाण्डकृतौ स्थितौ ।अग्रिमं ज्ञानकाण्डं तूध्दरिष्यामीति देवता: ॥५२॥सम्प्रति प्रतिजाने स्म जानात्येव भवानपि ।जैमिनीयनयाम्भोधे: शरत्पर्वशशी भव ॥५३॥विशिष्टं कर्मकाण्डं त्वमुध्दर ब्रह्मण: कृते ।सुब्रह्मण्य इति ख्यातिं गमिष्यसि ततोऽधुना ॥५४॥नैगमीं कुरु मर्यादामवतीर्य महीतले ।निर्जित्य सौगतान्सर्वानाम्रायार्थविरोधिन: ॥५५॥ब्रह्माऽपि ते सहायार्थ मण्डनो नाम भूसुर: ।भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिप: ॥५६॥तथेति प्रतिजग्राह विधेरपि विधायिनीम् ।बुधानीकपतिर्वाणीं सुधाधारामिव प्रभो: ॥५७॥अथेन्द्रो नृपतिर्भूत्वा प्रज्ञा धर्मेण पालयन् ।दिवं चकार पृथिवीं स्वपुरीममरावतीम् ॥५८॥सर्वज्ञोऽप्यसतां शास्त्रे कृत्रिमश्रध्दयाऽन्वित: ।प्रतीक्षमाण: क्रौश्चारिं मेलयामास सौगतान् ॥५९॥तत: स तारकारातिरजनिष्ट महीतले ।भट्टपादाभिधा यस्य भूषा दिक्सुदृशामभूत् ॥६०॥स्फुटयन्वेदतात्पर्यमभाज्जैमिनिसूत्रितम् ।सहस्रांशुरिवानूरुण्यज्जितं भासयज्जगत् ॥६१॥राज्ञ: सुधन्वन: प्राप नगरीं स जयन्दिश: ।प्रत्युद्रभ्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत् ॥६२॥सोऽभिनन्द्याशिषा भूपमासीन: काश्चनासने ।तां सभां शोभयामास सुरभिर्द्यवनीमिव ॥६३॥सभासमीपविटपिटपिश्रितकोकिलकूजितम् ।श्रुत्वा जगाद तव्दयाजाद्राजानं पण्डिताग्रणी: ॥६४॥मलिनैश्चेन्न सडस्ते नीचै: काककुलै: पिक ।श्रुतिदूषकनिर्हादै: श्लाघनीयस्तदा भवे: ॥६५॥षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम् ।नितरां चरणस्पृष्टा भुजडा इव चुक्रुधु: ॥६६॥छित्त्वा युक्तिकुठारेण बुध्दसिध्दान्तशाखिनम् ।स तद्ग्रन्थेन्धनैश्चीर्णै: क्रोधज्वालामवर्धयत् ॥६७॥सा सभा वदनैस्तेषां रोषपाटालकान्तिभि: ।बभौ बालातपाताम्रै: सरसीव सरोरुहै: ॥६८॥उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम् ।तेषूदतिष्ठन्निर्घोषो भिन्दन्निव रसातलम् ॥६९॥अध: पेतुर्बुधेन्द्रेण क्षता: पक्षेषु तत्क्षणम् ।व्यूढकर्कशतर्केन तथागतधराधरा: ॥७०॥स सर्वज्ञपदं विज्ञोऽसहमान इव व्दिषाम् ।चकार चित्रविन्यस्तानेतान्मौनविभूषितान् ॥७१॥तत: प्रक्षीणदर्पेषु बौध्देषु वसुधाधिपम् ।बोधयन्बहुधा वेदवचांसि प्रशशंस स: ॥७२॥बभाषेऽथ धराधीशो विद्यायत्तौ जयाजयौ ।य: पतित्वा गिरे: श्रृडादव्यग्रस्तन्मतं ध्रुवम् ॥७३॥तदाकर्ण्य मुखान्यन्ये परस्परमलोकयन् ।व्दिजाग्र्यस्तु स्मरन्वेदानारुरोह गिरे: शिर: ॥७४॥यदि वेदा: प्रमाणं स्युर्भूयात्काचिन्न मे क्षति: ।इति घोषयता तस्मान्न्यपाति सुमहात्मना ॥७५॥किमु दौहित्नदत्तेऽपि पुण्ये विलयमास्थिते ।ययातिश्चयवते स्वर्गात्पुनरित्यूचिरे जना: ॥७६॥अपि लोकगुरु: शैलात्तूलपिण्ड इवापतत् ।श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम् ॥७७॥श्रुत्वा तदद्भुतं कर्म व्दिजा दिग्भ्य: समाययु: ।घनघोषमिवाकर्ण्य निकुज्जेभ्य: शिखावळा: ॥७८॥दृष्ट्रा तमक्षतं राजा श्रध्दां श्रुतिषु सन्दधे ।निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम् ॥७९॥सौगतास्त्वब्रुवन्नेदं प्रमाणं मतिनिर्णये ।मणिमन्त्रौषधैरेवं देहरक्षा भवेदिति ॥८०॥दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिव: ।भ्रुकुटीभीकरमुख: सन्धामुग्रतरां व्यधात् ॥८१॥पृच्छामि भवत: किश्चिव्दक्तुं न प्रभवन्ति ये ।यन्त्रोपलेषु सर्वास्तान्घातयिष्याम्यसंशयम् ॥८२॥इति संश्रुत्य गोत्रेशो घटमाशीविषान्वितम् ।आनीयात्र किमस्तीति पप्रच्छ व्दिजसौगतान् ॥८३॥वक्ष्यामहे वयं भूप श्व: प्रभातेऽस्य निर्णयम् ।इति प्रसाद्य राजानं जग्मुर्भूसुरसौगता: ॥८४॥पद्मा इव तपस्तेषु: कण्ठव्दयसपाथसि ।द्युमणिं प्रति भूदेवा: सोऽपि प्रादुरभृत्तत: ॥८५॥सन्दिश्य वचनीयांशमादित्येऽन्तर्हिते व्दिजा: ।आजग्मुरपि निश्चित्य सौगता: कलशस्थितम् ॥८६॥ततस्ते सौगता: सर्वे भुजंगोऽस्तीत्यवादिषु: ।भोगीशभोगशयनो भगवानिति भूसुरा: ॥८७॥श्रुतभूसुरवाक्यस्य वदनं पृथिवीपते: ।कासारशोषणम्लानसारसश्रियमाददे ॥८८॥अथ प्रोवाच दिव्या वाक् सम्राजमशरीरिणी ।तुदन्ती संशयं तस्य सर्वेषामेव श्रृण्वताम् ॥८९॥सत्यमेव महाराज ब्राह्मणा यव्दभाषिरे ।मा कृथा: संशयं तत्र भव सत्यप्रतिश्रव: ॥९०॥श्रुत्वाऽशरीरिणीं वाणीं ददर्श वसुधाधिप: ।मूर्तिं मधुव्दिष: कुम्भे सुधामिव सुराधिप: ॥९१॥निरस्ताखिलस्नदेहो विन्यस्तेतरदर्शनात् ।व्यधादाज्ञां ततो राजा वधाय श्रुतिविव्दिषाम् ॥९२॥आसेतोरातुषाराद्रेर्बौध्दानावृध्दबालकम् ।न हन्ति य: स हन्तव्यो भृत्यानित्यन्वशान्नृप: ॥९३॥इष्टोऽपि दृष्टदोषश्चेव्दध्य एव महात्मनाम् ।जननीमपि किं साक्षान्नावधीद्भुगुनन्दन: ॥९४॥स्कन्दानुसारिराजेन जैना धर्मव्दिषो हता: ।योगीन्द्रेणेव किं योगघ्रा विघ्रास्तत्त्वालम्बिना ॥९५॥हतेषु तेषु दुष्टेषु परितस्तार कोविद: ।श्रौतवर्त्म अमिस्त्रेषु नष्टेष्विव रविर्मह: ॥९६॥कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु ।निष्प्रत्यूहमवर्धन्त श्रुतिशाखा: समन्तत: ॥९७॥प्रागित्थं ज्वनलभुवा प्रवर्तितेऽस्मिन् कर्माध्वन्यखिलविदा कुमारिलेन ।उध्दर्तु भुवनमिदं भवाब्धिमग्रं कारुण्याम्बुनिधिरियेष चन्द्रचूड: ॥९८॥इति श्रीमाधवीये तदुपोध्दातकथापर: ।संक्षेपशकरजये सर्गोऽय़ं प्रथमोऽभवत् ॥आदित: श्लोका: ९८ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP