संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| एकादश: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - एकादश: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत उग्रमैरववध: Translation - भाषांतर तत्रैकदाच्छादितनैजदोष: पौलस्त्यवत्कल्पितसाधुवेष: ।निर्मानमायं स्थितकार्यशेष: कापालिक: कश्चितनल्पदोष: ॥१॥असावपश्यन्मदनाद्यवश्यं वश्येन्दियाश्वैर्मुनिभिर्विमृग्यम् ।आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनिं रहस्यम् ॥२॥दृष्टैव हृष्ट: स चिरादभीष्टं निर्धार्य संसिध्दमिव स्वमिष्टम् ।महव्दिशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट कृत्यशिष्टम् ॥३॥गुणांस्तवाकर्ण्य मुनेऽनवद्यान्सार्वज्ञ्यसौशील्यदयालुताद्यान् ।द्रष्टुं समुत्कण्ठितचित्तवृत्तिर्भवन्तमागां विदितप्रवृत्ति: ॥४॥त्वमेक एवात्र निरस्तमोह: पराकृतव्दैतिवच : समूह: ।आभासि दूरीकृतदेहमान: शुध्दाव्दये योजितसर्वमान: ॥५॥परोपकृत्यै प्रगृहीतमूर्तिरर्त्यलोकेष्वपि गीतकीर्ति: ।कटाक्षलेशार्दितसज्जनार्ति: सदुक्तिसम्पादितविश्वपूर्ति: ॥६॥गुणाकरत्वाद्भुवनैकमान्य: समस्तवित्त्वादभिमानशून्य: ।विजित्वरत्वाद्रलहसिततान्य: स्वात्मप्रदत्वाच महावदान्य: ॥७॥अशेष कल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु ।कार्यार्थिन: काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ॥८॥तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविदा त्वयाऽद्य ।कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमत: करिष्ये ॥९॥अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् ।अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरब्दशतं समग्रम् ॥१०॥तुष्टोऽब्रवीन्मां गिरिश: पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् ।जुहोषि चेत्सर्वविद: शिरा वा हुताशने भूमिपते: शिरो वा ॥११॥एतावदुक्त्वाऽन्तरधान्महेशस्तदादि तत्संग्रहणे धृताश: ।चराम्यथापि क्षितिपो न लब्धो न सर्ववित्तत्र मयोपलब्ध: ॥१२॥दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् ।इत: परं सेत्स्यति मेऽनुबन्ध: संदर्शशान्तो हि जनस्य बन्ध: ॥१३॥मूर्धाभिपिक्तल्य शिर: कपालं मुनीशितुर्वा मम सिध्दिहेतु: ।आद्यं पुनर्मे मनसाऽप्यलभ्यं तत:परं तत्रभवान् प्रमाणम् ॥१४॥शिर: प्रदानोऽद्भुतकीर्तिलाभस्तवापि लोके मम सिध्दिलाभ: ।आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ॥१५॥तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वरशरीरमुज्झतु ।भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेह: ॥१६॥जना: परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ता: ।रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥१७॥दधीचिमुख्या: क्षणिकं शरीरं त्यक्तवा परार्थे स्म यश: शरीरम् ।प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनऽर्यै: किल रज्जयन्ति ॥१८॥वपुर्धरन्ते परतुष्टिहेतो: केचित्प्रयोजनं ते विधुतैषणस्य ।अस्मादृशा: कामवशास्तु युक्तायुक्ते विजानन्ति न हन्त योगिन् ॥२०॥जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मृदा ददान: ।आचन्द्रतारार्कमपायशून्यं प्राप्तौ यश: कर्णपथं गतौ हि ॥२१॥यदप्यदेयं ननु देहवद्भिर्मयाऽर्थितं गर्हितमेव सद्भि: ।तथाऽपि सर्वत्र विरागवद्भि: किमस्त्यदेयं परमार्थविद्भि: ॥२२॥अखण्डमूर्धन्यकपालमाहु: संसिध्दिदं साधकपुडवेभ्य: ।विना भवन्तं बहवो न सन्ति तव्दत्पुमांसो भगवन् पृथिव्याम् ॥२३॥प्रयच्छ शीर्ष भगवन्नम: स्तादितीरयित्वा पतितं पुरस्तात् ।तमब्रवीव्दीक्ष्य सुधीरधस्तात्कृपालुरावृत्तमना : समस्तात् ॥२४॥नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् ।को वाऽर्थिसात्प्राज्ञतमो नृकायं जानन्न कुर्यादिहि बह्वपायम् ॥२५॥पतत्यवश्यं हि विकृष्याणं कालेन यत्नादपि रक्ष्यमाणम् ।वर्ष्मामुना सिध्यति चेत्परार्थ: स एव मर्त्यस्य पर: पुमर्थ: ॥२६॥वर्ते विविक्तेऽधिसमाधि सिध्दिविन्मिथ: समायाहि करोमि ते मतम् ।नाहं प्रकाशं वितरीतुमुत्सहे शिर: कपालं विजनं समाश्रय ॥२७॥शिष्या विदन्ति यदि चिन्तितकार्यमेतत् योगिन् मदेकशरणा विहतिं विदध्यु: ।को वा सहेत वपुरेतदपोहितुं स्वं को वा क्षमेत निजनाथशरीरमोक्षम् ॥२८॥तौ संविदं वितनुतामिति संप्रहृष्टौ योगी जगाम मुदितो निलयं मनस्वी ।श्रीशकरोऽपि निजधामनि जोषमास प्रोचे न किंचिदपि भावमसौ मनोगम् ॥२९॥शूली त्रिपुण्ड्री पुरतोऽवलोकी कंकालमालाकृतगात्रभूष: ।संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ॥३०॥शिष्येषु शिष्टेषु विदूग्गेषु स्र नादिकार्याय विविक्तभाजि ।श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेह व्यवधाय गूढे ॥३१॥तं भैरवाकारमुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मन: ।आत्मानमात्मन्युदयुक्त यो जपन् समाहितात्मा करणानि संहरन् ॥३२॥तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् ।योगीशमासादितनिर्विकल्प सनत्सुजातप्रभृतेरल्पम् ॥३३॥जत्रुप्रदेशे चिबुकं निधाय व्यत्ताम्यमुत्तानकरौ निधाय ।जानुपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥३४॥आसीनमुचीकृतपूर्वगात्रं सिध्दासनं शेषितबोधमात्रम् ।चिन्मात्रविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥३५॥विलोक्य तं हन्तुमपास्तशक:स्वबुध्दिपूर्वार्जिततीव्रपक: ।प्रापोद्यतासि: सविधं स यावव्दिज्ञातवान् पद्मपदोऽपि तवात् ॥३६॥त्रिशूलमुद्य निहन्तुकामं गुरुं यतात्मा समुदैक्षतान्त: ।स्थितश्चुकोप ज्वलिताग्रिकल्प: स पद्मपाद" स्वगुरोर्हितैषी ॥३७॥स्मरन्नथैष स्मरदार्तिहारि प्रह्रादवश्यं परमं महस्तत् ।स मन्त्रसिध्दो नृहरेनृसिंहो भूत्वा ददर्शोग्रदुरीहचेष्टाम् ॥३८॥स तत्क्षणक्षुब्धनिजस्वभाव: प्रवृध्दरुड् विस्मृतमर्त्यभाव: ।आविष्कृतात्युग्रनृसिंहभाव: समुत्पपातातुलितप्रभाव: ॥३९॥सटाच्छटास्फोटितमेघसंघस्तीव्रारवत्रासितभूतसंघ: ।संवेगसंभूर्च्छितलोकसंघ: किमेतदित्याकुलदेवसंघ: ॥४०॥क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् ।ज्वलद्दिशान्तं प्रचलध्दरान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥४१॥जवादभिद्रुत्य शितस्वरुग्रैर्दैत्येश्वरस्येव पुरा नखाग्रै: ।क्षिपक्तिशूलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्ष: ॥४२॥तत्तादृगत्युग्रनखायूधाग्र्यो दंष्ट्रान्तरप्रोतदुरीहदेह: ।नित्ये तदानीं नृहरिर्विदीर्णद्युपट्टनाट्टालिकमट्टहासम् ॥४३॥आकर्णसंस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तय: ।व्यलोकयन् भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥४४॥प्रह्रदक्श्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति ।सविस्मयै: स्त्रिग्धजनै: स पृष्ट: सनन्दन: सस्मितमित्यवादीत् ॥४५॥पुरा किलाहं बलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् ।भक्तैकवश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥४६॥किमर्थमेको गिरिगह्ररेऽस्मिन् वाचंयम त्वं वससीति शश्वत् ।केनापि पृष्टोऽत्न किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥४७॥आकण्ठमत्यद्भुतमर्त्यमूर्ति: कण्ठीरवात्मा परतश्च कश्चित् ।मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपथे कदापि ॥४८॥इतीग्यत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् वनान्तम् ।निबध्य गाढं नृहरिं लताभि: पुण्यैरगण्यै: पुरतो न्यधान्मे ॥४९॥महर्षिभिस्त्वं मनसाप्यगभ्यो वनेचरस्यैव कथं वशेऽभू: ।इत्यद्भुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥५०॥एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातृमुखैर्न पूर्वै: ।नोपालभेथास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तिरोधिम् ॥५१॥आकर्ण्य तां पद्मपदस्य वाणीमानन्दमग्रैरखिलैरभावि ।जगर्ज चोचैर्जगदण्डभाण्डं भूम्रा स्वधाम्रा दलयन् नृसिंह: ॥५२॥ततस्तदार्भाटचलत्समाधि: स्वात्मप्रबोधोन्मथितत्र्युपाधि: ।उन्मील्य नेत्रे विकरालवक्तं व्यलोकयन्मानवपश्चवक्तम् ॥५३॥चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राब्जकनन्निटालम् ।सहोद्यदुष्णांशुसहस्रभासं विध्यण्डविस्फोटकृदट्टहासम् ॥५४॥नखाग्रनिर्भिन्नकपालिवक्ष: स्थलोचलच्छोणितापकिलाकम् ।श्रीवत्सवत्सं गलवैजयन्तीश्रीरत्नसंम्पर्धितदन्त्रमालम् ॥५५॥सुरासुरत्रासकरातिघोरस्वाकारसारव्यथिताण्डकोशम् ।दंष्ट्रकरालानननिर्यदग्रिज्वालालिसंलीढनभोवकाशम् ॥५६॥स्वरोमकूपोद्रतविस्फुलिडप्रचारसंदीपितसर्वलोकम् ।जम्भव्दिडुज्जम्भितशम्भुदमभसंस्तम्भनारम्भकदन्तपेषम् ॥५७॥मा भूदकाण्डे प्रलयो महात्मन् कोपं नियिच्छेति गृणद्भिरारात् ।ससाध्यसै: प्राज्जलिभि: सगात्रकम्पैर्विरिञ्च्यादिभिरर्थ्यमानम् ॥५८॥विलोक्य विद्युचपलोक्ग्रजिह्वं यतिक्षितीश: पुरतो नृसिंहम् ।अभीतिरैडिष्ट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनध्दकण्ठ: ॥५९॥नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते ।कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवदृशा ॥६०॥तव वपु:किल सत्वमुदाहृतं तव हि कोपनमण्वपि नोचितम् ।तदिह शान्तिमवाप्रुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥६१॥सकलभीतिषु दैवतम स्मरन् सकलभीतिमपोह्य सुखी पुमान् ।भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ॥६२॥स्मृतवतस्तव पादसरोरुहं मृतवत: पुरुषस्य विमुक्तता ।तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेष्यति ॥६३॥दितिजसूनुममुं व्यसनार्दितं सकृदरक्षदुदारगुणो भवान् ।सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुर: ॥६४॥सृजसि विश्वमिदं रजसाऽऽवृत: स्थितिविधौ श्रितसत्व उदायुध: ।अवसि तध्दरणे तमसाऽऽवृतो हरसि देव तदा हरसंज्ञित: ॥६५॥तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् ।तव पदं खलु वाड्मनसातिगं श्रुतिवचश्चकितं तव बोधकम् ॥६६॥नरहरे तव नामपरिश्रवात् प्रथमगुह्यकदुष्टपिशाचका: ।अपसरन्ति विभोऽसुरनायका न हि पुर: स्थितये प्रभवन्त्यमी ॥६७॥त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता नृहरेऽखिलस्य ।त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥६८॥हतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ ।एते हि देवा: शममर्थयन्ते निरीक्ष्य भीता: प्रतिखेदयन्ते ॥६९॥द्रष्टुं न शक्या हि तवानुकम्पाहीनैर्जनैर्निह्रुतकोटिशंपाम् ।मूर्ति तदात्मन्नुपसंहरेमां पाहि त्रीलोकीं समतीतसीमाम् ॥७०॥कल्पान्तोज्जृम्भमाणप्रमथपरिवृढप्रौढलालाटवह्रि -ज्ज्वालालीढत्निलोकीजनितचटचटाध्वानधिक्कारधुर्य: ।मध्ये ब्रह्माण्डाभाण्डोदरकुहरमनैकान्त्यदु:स्थामवस्थां स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीनृसिंहाट्टहास: ॥७१॥मध्ये व्यानध्दवातंधयवलनाधानमन्थान भूभृ न्मन्थेनोत्क्षिप्तदुग्धोदधिलहरिमिथ: स्फालनाचारघोर: ।कल्पान्तोन्निद्ररुद्रोचतरडमरुकध्वानबध्दाभ्यसूयो घोषोऽयं कर्णघोर: क्षपयतु नृहरे रंहसां संहतिं न : ॥७२॥क्षुन्दानो मंक्षु कल्पावधिसमयसमुज्जृम्भदम्भोदगुम्भ:-स्फूर्जद्दंभोलिसंघस्फुरदुरुरटिताखर्वगर्वप्ररोहान् ।क्रीडाक्रोडेन्द्रघोणासरभसविसरध्दोरघूर्घोरवश्री -र्गम्भीरस्तेऽट्टहासो हर हर नृहरे रहंसाऽहांसि हन्यात् ॥७३॥एवं विशिष्टनुतिभिर्नृहरौ प्रशान्ते स्वं भावमेत्य मुनिरेष बभूव शान्त: ।स्वप्रानुभूतमिव शान्तमना: स्मरंस्तमात्मानमात्मगुरवे प्रणतिं चकार ॥७४॥चारित्र्यमेतत्प्रयतस्रिसन्ध्यं भक्त्या पठेद्य: श्रृणुयादवन्ध्यम् ।तीर्त्त्वाऽपमृत्युं प्रतिपद्य भक्तिं स भुक्तभोग: समुपैति मुक्तिम् ॥७५॥इति श्रीमाधवीये तदुग्रभैरवनिर्जय: ।संक्षेपशकरजये सर्ग एकादशोऽभवत् ॥११॥आदित: श्लोका: १२२३ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP