संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| पंचम: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - पंचम: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत संन्यासग्रहणम् Translation - भाषांतर इति सप्तमहायनेऽखिलश्रुतिपारंगततां गतो वटु: ।परिवृत्य गुरो: कुलाद् गृहे जननीं पर्यचरन्महायशा: ॥१॥परिचरज्जननीं निगमं पठन्नपि हुताशरवीं सवनव्दयम् ।मनुवरैर्नियतं परिपूजयञ्छिशुरवर्तत संस्तरणिर्यथा ॥२॥शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृध्दतमोऽपि निजासनम् ।अपि करोति जन: करयोर्युगं वशगतो विहिताज्जलि तत्क्षणात् ॥३॥मृदु वचश्चरितं कुशलां मतिं वपुरनुत्तममास्पदमोजसाम् ।सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥४॥जातु मन्दगमनाऽस्य हि माता स्रातुमबुनिधिगां प्रतियाता ।आतपोग्रकिंरणे रविबिंबे सा तप: कृशतनुर्विललम्बे ॥५॥शकरस्तदनु शकितचित्त: पकजैर्विगतपकजलार्द्रै: ।वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥६॥सोऽथ नेतुमनवद्यचरित्र: सद्यनोऽन्तिकमृषीश्वरपुत्र: ।अस्तवीज्जलधिगां कविहृद्यैर्वस्तुत: स्फुरदलंकृतपद्यै: ॥७॥ईहितं तव भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये ।इत्यवाप्य स वरं तटिनीत: सत्यवाक् सदनमाप विनीत: ॥८॥प्रातरेव समलोकत लोक: शीतवातहृतशीकरपूत: ।नूतनामिव धुनीं प्रवहन्तीं माधवस्य समया सदनं ताम् ॥९॥एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् ।केरलक्षितिपतिर्हि दिदृक्षु: प्राहिणोत्सचिवमदृतभिक्षु: ॥१०॥सोऽप्यतन्दितमभीरुपदाभि: प्राप्य तं यदनु सव्दिरदाभि: ।उक्तिभि: सरसमज्जुपदाभि: शक्तिभृत्सममजिज्ञपदाभि: ॥११॥यस्य नैव सदृशो भुवि बोध्दा दृश्यते रणशिर:सु च योध्दा ।तस्य केरलनृपस्य नियोगाद् दृश्यसे मम च सत्कृतियोगात् ॥१२॥राजिताभ्रवसनैर्विलसन्त: पूजिता; सदसि यस्य वसन्त: ।पण्डिता : सरसवादकथाभि: खण्डितापरगिरोऽवितथाभि: ॥१३॥सोऽयमाजिजितसर्वमहिप: स्तूयमानचरण: कुलदीप: ।पादरेणुसपवनं भवभाजामादरेण तव विन्दतु राजा ॥१४॥एष सिन्धुरपरो मदपूर्णो दोषगन्धरहित: प्रवितीर्ण: ।अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥१५॥इत्युदीर्य परिसाधितदौत्यं प्रत्युदीरितसदुक्तिममात्यम् ।अत्युदारमृषिभि: परिशस्तं प्रत्युवाच वचनं क्रमशस्तम् ॥१६॥भैक्षमन्नमजिनं परिधानं रुक्षमेव नियमेन विधानम् ।कर्म दातृवर शास्ति वटूनां शर्मदायिनिगमाप्तिपटूनाम् ॥१७॥कर्म नैजमपहाय कुभोगै: कुर्महेऽह किमु कुम्भिपुरोगै: ।इच्छया सुखममात्य यथेतं गच्छ नाथममसकृत्कथयेत्थम् ॥१८॥प्रत्युत क्षितिभृताऽखिलवर्णा वृत्त्युपाहरणतो विगतर्णा: ।धर्मवर्त्मनिरता रचनीया: कर्म वर्ज्यमिति नो वचनीया: ॥१९॥इत्यमुष्य वचनाइकलक: प्रत्यगात्पुनरमात्यमृगाक; ।वृत्तमय स निशम्य धराप: सत्तमस्य सविधं स्वयमाप ॥२०॥भूसुरार्भकवरै: परिवीतं भासुरोडुपगभस्त्युपवीतम् ।अच्छजह्रुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम् ॥२१॥चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्रमुचितं विदधानम् ।नूतनाम्बुदनिभाम्बरवन्तं पूतनारिसहजं तुलयन्तम् ॥२२॥जातरुपरुचिमुज्जसुधाम्रा छातरुपकटिमद्भुतधाम्रा ।नाकग्भूजमिव सत्कृतिलब्धं पाकपीतलतिकापरिरब्धम् ॥२३॥सस्मितं मुनिवरस्य कुमारं विस्मितो नरपतिर्बहुवारम् ।संविधाय विनतिं वरदाने ते विधातृसदृशं भुवि मेने ॥२४॥तेन पृष्टकुशल: क्षितिपाल: स्वेन सृष्टमथ शात्रवकाल: ।हाटकायुतसमर्पणपूर्व नाटकत्रयमवोचदपूर्वम् ॥२५॥तद्रसार्द्रगुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम् ।संग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमूचे ॥२६॥तां नितान्तहृदयडमसारां गां निशम्य तुलितामृतधाराम् ।भूपति: स रचिताज्जलिबन्ध: स्वोपमं सुतभियेष सुसन्ध: ॥२७॥नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय ।ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदम् ॥२८॥राजवर्यकुलवृध्दिनिमित्तां व्याजहार रहसिश्रुतिवित्ताम् ।इष्टिमस्य सकलेष्टविधातुस्तुष्टिमाप हि तया क्षितिनेता ॥२९॥स विशेषविदा सभाजित: कविमुख्येन कलाभृतां वर; ।अगमत्कृतकृत्यधीर्निजां नगरीमस्य गुणानुदीरयन् ॥३०॥बहव: श्रुतिपारदृश्वन: कवयोऽध्यैषत शकराद्र्रो: ।महत: सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम् ॥३१॥पठितं श्रुतमादरात्पुन: पुनरालोक्य रहस्यनूनकम् ।प्रविभज्य निमज्जत: सुखे स विधेयान् विदधेतमां सुधी: ॥३२॥सर्वार्थतत्त्वविदपि प्रकृतो पचारै: शास्त्रोक्तभक्त्यतिशयेन विनीतशाली ।सन्तोषयन् स जननीअनयत्कियन्ति संमानितो व्दिजवरैर्दिवसानि धन्य: ॥३३॥सा शकरस्य शरणं स च तज्जनन्याअन्योन्ययोगविरहस्त्वनयोरसह्य: ।नो वोढुमिच्छति तथाऽऽप्यमनुष्यभावानामेरुं गत: किमपि वाञ्छति दुष्प्रदेशम् ॥३४॥कृतविद्याममुं चिकीर्षव: श्रितगार्हस्थ्यमथाप्तबन्धव: ।अनुरुपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम् ॥३५॥अथ जातु दिदृक्षव: कलाववतीर्ण मुनय: पुरव्दिषम् ।उपमन्युदधी चिगौतमत्रितलागस्त्यमुखा: समाययु: ॥३६॥प्रणिपत्य स भक्तिसंनत: प्रसवित्र्या सह तान्विधानवित् ।विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥३७॥विहिताज्जलिना विपश्चिता विनयोक्त्याऽर्पितविष्टरा अमी ।ऋषय: परमार्थसंश्रया अमुना साकमचीकरन् कथा: ॥३८॥निजगाद कथान्तरे मुनीज्जननी तस्य समस्तदर्शिन: ।वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान् ॥३९॥क कलिर्वहुदोषभाजनं क च युष्मचरणावलोकनम् ।तदलभ्यत चेत्पुराकृतं सुकृतं न: किमिति प्रपश्चये ॥४०॥शिशुरेष किलातिशैशवे यदशेषागमपारगोऽभवत् ।महिमाऽपि यदद्भुतोऽस्य तद व्दयमेतत्कुरुते कुतूहलम् ॥४१॥करुणार्द्रदृशाऽनुगृह्यते स्वयमागत्य भवद्भिरप्ययम् ।वदतास्य पुराकृतं तप: क्षममाकर्णयितुं मया यदि ॥४२॥इति सादरमीरितां तया गिग्याकर्ण्य महर्षिसंसदि ।प्रतिवक्तुमभिप्रचोदितो घटजन्मा प्रवया: प्रचक्रमे ॥४३॥तनयाय पुरा पतिव्रते तव पत्या तपसा प्रमादित: ।स्मितपूर्वमुपाददे वचो रजनीवल्लभखण्डमण्डन: ॥४४॥वरयस्व शतायुष: सुतानपिइइ वा सर्वमिदं मितायुषम् ।सुतमेकमितीरित: शिवं सति सर्वज्ञमयाचतात्मजम् ॥४५॥तदभीप्सितसिध्दये शिवस्तव भाग्यात्तनयो यशस्विनि ।स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यत: सुरेष्वपि ॥४६॥इति तव्दचनं निशम्य सा मुनिवर्य पुनरप्यवोचत ।कियदायुरमुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥४७॥शरदोऽष्ट पुनस्तथाऽष्ट ते तनस्यस्यास्य तथाऽप्यसौ पुन: ।निवसिष्यति कारणान्तराद्भुवनेऽस्मिन् दश षट् च वत्सरान् ॥४८॥इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम् ।ॠषय: सह तेन शकरं समुपामन्त्र्य ययुर्यथागतम् ॥४९॥सृणिना करिणीव साऽर्दिता शुचिना शैवलिनीव शोषिता ।मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत् ॥५०॥अथ शोकपरीतचेतनां व्दिजराडित्थमुवाच मातरम् ।अवगम्य च संसृतिस्थितिं किमकाण्डे परिदेवना तव ॥५१॥प्रबलानिलवेगवेल्लितध्वचीनांशुककोटिचश्चले ।अपि मूढमति: कलेबरे कुरुते क : स्थिरबुध्दिमम्बिके ॥५२॥कति नाम सुता न लालिता: कति वा नेह वधूरभुज्जि हि ।कनु ते कच ता: कवा वयं भवसंग: खलु पान्थसंगम: ॥५३॥भ्रमतां भव्रवर्त्मनि भ्रमान्न हि किंचित्सुखमम्ब लक्षये ।तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥५४॥इति कर्णकठोरभाषणश्रवणाव्दष्पपिनध्दकण्ठया ।व्दिगुणीकृतशोकया तया जगदे गद्रदवाक्यया मुनि: ॥५५॥त्यज बुध्दिमिमां श्रृणुष्व मे गृहमेधी भव पुत्नमाप्नुहि ।यज च क्रतुभिस्ततो यतिर्भवितास्यड सतामयं क्रम: ॥५६॥कथमेकतनूभवा त्वया रहिता जीवितुमुत्सहेऽबला ।अनयैव शुचौर्ध्वदेहिकं प्रमृतायां मयि क: करिष्यति ॥५७॥त्वमशेषविदप्यपास्य मां जरठाअं वत्स कथं गमिष्यसि ।द्रवते हृदयं कथं न ते न कथंकारमुपैति वा दयाम् ॥५८॥एवं व्यथां तां बहुधाऽऽश्रयन्तीमपास्तमोहैर्बहुभिर्वचोभि: ।अम्बामशोकां व्यदधाव्दिधिज्ञा: शुध्दाष्टमेऽचिन्तयदेतदन्त: ॥५९॥मम न मानसमिच्छति संसृतिं न च पुनर्जननी विजिहासति ।न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम् ॥६०॥इति विचिन्त्य स जातु मिमंक्षया बहुजलां सरितं समुपाययौ ।जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुष: ॥६१॥स च रुरोद जले जलचारिणा धृतपदो हियतेऽम्ब करोमि किम् ।चलितुमेकपदं न पारये बलवता विवृतोरुमुखेन ह ॥६२॥गृहगता जननी तदुपाश्रृणोत्परवशा द्रुतमाप सरित्तटम् ।मम मृते: प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत् ॥६३॥स च मरिष्यति नक्रवशं गत: शिव न मेऽजनि हन्त पुरा मृति: ।इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्तगतेक्षणा ॥६४॥त्यजति नूनमयं चरणं चलो जलचरोऽम्ब तवानुमतेन मे ।सकलसंन्यसने परिकल्पिते य्दि तवानुमति: परिकल्पये ॥६५॥इति शिशौ चकिता वदति स्फुटं व्यधित साऽनुमतिं द्रुतमम्बिका ।सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चय: ॥६६॥तदनु संन्यसनं मनसा व्यधादथ मुमोच शिशुं खलनक्रक: ।शिशुरुपेत्य सरित्तटमत्रसन् प्रसुवमेतदुवाच शुचाऽऽवृताम् ॥६७॥मातार्विधेयमनुशाधि यदत्र कार्यसंन्यासिना तदु करोमि न सन्दिहेऽहम् ।वस्त्राशने तव यथेष्टममी प्रदद्यु -गृह्णन्ति ये धनमिदं मम पैतृकं यत् ॥६८॥देहेऽम्ब रोगवशगे च सनाभयोऽमी द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसडे ।अर्थग्रहाज्जनभयाच यथाविधानं कुर्युश्च संस्कृतिममी न विभेयमीषत् ॥६९॥यज्जीवितं जलचरस्य मुखात्तदिष्टं संन्याससंगरवशान्मम देहपाते ।संस्कारगेत्य विधिवत्कुरु शकर त्वं नो चेत्प्रसूय मम किं फलमीरय त्वम् ॥७०॥अह्रयम्ब रात्रिसमये समयान्तरे वा संचिन्तय स्ववशगाऽवशगाऽथवा माम ।एष्यामि तत्र समयं सकलं विहाय विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥७१॥संन्यस्तवाञ्छिशुरयं विधवामनाथां क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।यावन्मया स्थितवता फलमापनीयंमातस्तत: शतगुणं फलमापयिष्ये ॥७२॥इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वा प्रोचे सनाभिजनमेष विचक्षणाग्र्य: ।संन्यासकल्पितमना व्रजितोऽस्मि दूरं तां निक्षिपामि जननीमधवां भवत्सु ॥७३॥एवं सनाभिजनमुत्तममुत्तमाग्र्य: श्रीमातृकार्यमभिभाष्य करव्दयेन ।सम्प्रार्थयन् स्वजननीं विनयेन तेषु न्यक्षेपयन्नयनजाम्बु निषिश्चमानाम् ॥७४॥आत्मीयमन्दिरसमीपगतामथासौ चक्रे विदूरगनदीं जननीहिताय ।तत्तीरसंश्रितयव्दव्दहधाम किंचित्सा निम्रागाऽऽरभत ताडयितुं तरडै: ॥७५॥वर्षासु वर्षति हरौ जलमेत्य किंचिदन्त:पुरं भगवतोऽपनुनोद मृत्स्राम् ।आरब्ध मूर्तिरनघा चलितुं क्रमेण देवोऽविभेदिव न मुश्चति भीरुहिंसाम् ॥७६॥प्रस्थातुकाममनघं भगवाननडवाचाऽवदत्कथमपि प्रणिपत्य मातु: । पादारविन्दयुगलं परिगृह्य चाज्ञां श्रीशकरं जनहितैकरसं स कृष्ण: ॥७७॥आनेष्ट दूरगनदीम कृपया भवान् यां सा माऽतिमात्रमनिशं बहुलोर्मिहस्तै: ।क्लिश्राति ताडनपरा वद कोऽभ्युपायो वस्तुं क्षमे न नितरां व्दिजपुत्र यासि ॥७८॥आकर्ण्य वाचमिति तामतनुं गुरुर्न: प्रोध्दत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।प्रातिष्ठिपन्निकट एव न यत्र बाधा नद्येत्युदीर्घ सुखमास्स्व चिराय चेति ॥७९॥तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा -मादाय संसृतिमहाब्धिविरक्तिमान् स: ।गन्तुं मनो व्यधित संन्यासनाय दूरं किं नौस्थित: पतितुमिच्छति वारिराशौ ॥८०॥इत्थं सुधी: स निरवग्रहमातृलक्ष्मी -शानुग्रहो घटजबोधितभाविवेदी ।एकान्ततो विगतभोगपदार्थतृष्ण : कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥८१॥यस्य त्रिनेत्रापरविग्रहस्य कामेन नास्थीयत दृक्पथेऽपि ।तन्मूलक: संसृतिपाशबन्ध: कथं प्रसज्येत महानुभावे ॥८२॥स्मरेण किल मोहितौ विधिविधू च जातून्पथौ तथाऽहमपि मोहिनीकुच्कचादिवी क्षापर: ।अगामहह मोहिनीमिति विमृश्य सोऽजागरीत् यतीशवपुषा शिव: स्मरकृतार्तिवार्तोज्झित: ॥८३॥निष्पत्राकुरुतासुरानपि सुरान् मार: सपत्राऽकरो -दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ।यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलंयस्तम्मिन्नशुशूरतैष मुनिभिर्वर्ण्य: कथं शकर: ॥८४॥शान्तिश्चावशयन्मनो गतिमुखा दान्तिर्न्यरुध्द क्रिया: आधात्ता विषयान्तरादुपरति: क्षान्तिर्मृदुत्वं व्यधात् ।ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रियाश्रध्दा हन्त वसुप्रथाऽस्य तु कुतो वैराग्यतो विद्मि नो ॥८५॥विजनतावनितपरितोषितो विधिवितीर्णकृतात्मतनुस्थिति: ।परिहरन् ममतां गृहगोचरां हॄदयगेन शिवेन समं ययौ ॥८६॥गच्छन्वनानि सरितो नगराणि शैलान् ग्रामाज्जनानपि पशून पथि सोऽपि पश्यन् ।नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालंब्रह्मैवमेव परिदर्श्यतीति मेने ॥८७॥वादिभिर्निजनिजाध्वकर्शितां वर्तयन् पथि जरद्रवीं निजे ।दण्डमेकमवहज्जगद्रुरुर्दण्डिताखिलकदध्वमण्डल: ॥८८॥सारडा इव विश्वकद्रुभिरहंकुर्वद्भिरुच्छृंखलै जल्पाकै: परमर्मभेदनकलाकण्डूलजिह्वाश्चलै: ।पाखण्डैरिह कान्दिशी कमनस: कं नाप्रुयुर्वैदिका: क्लेशं द्ण्डधरो यदि स्म न मुनिस्त्राता जगद्देशिक: ॥८९॥दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनाथवनमिन्दुभवातटस्थम् ।तेन प्रविष्टमजनिष्ठ दिनावसाने चण्डत्विषा च शिखरं चरमाचलस्य ॥९०॥तीरद्रुमागतमरुव्दिगतश्रम: सन् गोविन्दनाथवनमध्यतले लुलोके ।शंसन्ति यत्र तरवो वसतिं मुनीनां शाखाभिरुज्ज्वलमृगाजिनवल्कलाभि: ॥९१॥आदेशमेकमनुयोक्तुमयं व्यवस्यन् प्रादेशमात्रविव्रप्रतिहारप्रतिहारभाजम् ।तत्र स्थितेन कथितां यमिनां गप्पेन गोविन्ददेशिकगुहां कुतुकी ददर्श ॥९२॥यस्य प्रपन्नपरितोषदुहो गुहाया: स त्रि: प्रदक्षिणपरिक्रमणं विधाय ।व्दारं प्रति प्रणिपतज्जनतापुरोगं तुष्टाव तुष्टहॄदयस्तमपास्तशोकम् ॥९३॥पर्यकतां भजति य: पतगेन्द्रकेतो: पादाडदत्वमथवा परमेश्वरस्य ।तस्यैव मूर्ध्रि धृतसाब्धिमहीध्रभूमे: शेषस्य विग्रहमशेषमहं भजे त्वाम् ॥९४॥दृष्टा पुरा निजसहस्रमुखीमभैषुरन्तेवसन्त इति तामपहाय शान्त: ।एकाननेन भुवि यस्त्ववतीर्य शिष्यानन्वग्रहीन्ननु स एव पतज्जलिस्त्वम् ॥९५॥उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन ।प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ॥९६॥तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्यादधिगतपरमार्थ गौडपादान्महर्षे: ।अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां प्रसृमरमहिमनं प्रापमेकान्तभक्त्या ॥९७॥तस्मिन्निति स्तुवति कस्त्वमितिब्रुवन्तं दिष्टया समाधिपदरुध्दविसृष्टचित्तम् ।गोविन्ददेशिकमुवाच ततो वचोभि: प्राचीनपुण्यजनितात्मविबोधचिह्रै: ॥९८॥स्वामिन्नहं न पृथिवी न जलं न तेजो न स्पर्शनो न गगनं न च तद्रुणा वा ।नापीन्द्रियाण्यपि तु विध्दि ततोऽवशिष्टो य: केक्लोऽस्ति परम: स शिवोऽहमस्मि ॥९९॥आकर्ण्य शकरमुनेर्वचनं तदित्थ मव्दैतदर्शनसमुत्थमुपात्तहर्ष: ।स प्राह शकर स शकर एव साक्षा ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥१००॥तस्योपदर्शितवतश्चरणौ गुहायाव्दारे न्यपूजयदुपेत्य स शकरार्य: ।आचार इत्युपदिदेश स तत्र तस्मैगोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥१०१॥शकर: सविनयैरुपचारैर भ्यतोषयदसौ गुरुमेनम् ।ब्रह्म तव्दिदितमप्युपलिप्सु: सम्प्रदायपरिपालनबुध्दया ॥१०२॥भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्य: ।ब्रह्मतामुपदिदेश चतुर्भिर्वेदशेखरवचोभिरमुष्मै ॥१०३॥साम्प्रदायिकपराशरपुत्रप्रोक्तसूतमतगत्यनुरो घात् ।शास्त्रगूढहृदयं हि दयालो: कृत्स्रमप्ययमबुध्द सुबुध्दि: ॥१०४॥व्यास: पराशरसुत: किल सत्यवत्यांतस्यात्मज: शुकमुनि: प्रथितानुभाव: ।तच्छिष्यतामुपगत: किल गौडपादो गोविन्दनाथमुनिरस्य च शिष्यभूत: ॥१०५॥शुश्राव तस्य निकटे किल शास्त्रजालंयश्चाश्रृणोद्भुजगसद्मगतस्त्वनन्तात् ।शब्दाम्बुराशिमखिलं समयं विधाय यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्रा ॥१०६॥सोऽधिगम्य चरमाश्रममार्य: पूर्वपुण्यनिचयैरधिगम्यम् ।स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥१०७॥छन्नमूर्तिरतिपाटलशाटीपल्लवेन रुरुचे यतिराज: ।वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूट: ॥१०८॥एष धूर्जटिरबोधमहेभं संनिहत्य रुधिराप्लुतचर्म ।उद्यदुष्णकिरणारुणशाटीपल्लवस्य कपटॆन बिभर्ति ॥१०९॥श्रुतीनामाक्रीड: प्रथितपरहंसोचितगति र्निजे सत्ये धाम्रि त्रिजगदतिवर्तिन्यभिरत:।असौ ब्रह्मैवास्मिन्न खलु पिशये किन्तु कलये बृहेरर्थ साक्षादनुपचरितं केवलतया ॥११०॥मितं पादनैव त्रिभुवनमिहैकेन महसाविशुध्दं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।दशाकारातीतं स्वमहिमनि निर्वेदरमणं ततस्तव्दिष्णो: परमप्दमाख्याति निगम: ॥१११॥न भूतेष्वासड: कचन न गवा वा विहरणंन भूत्या संसर्गो न परिचितता भोगिभिरपि ।तदप्याम्रायान्तस्त्रिपुरदहनत्केवलदृशातुरीय्म निर्व्दन्व्दं शिवमतितरां वर्णयति तम् ॥११२॥न धर्म: सौवर्णो न पुरुषफलेषु प्रवणतान चैवाहोरात्रस्फुर्दरियुत: पार्थिवरथ: ।असाहाय्येनैवं सति विततपुयष्टकजये कथं तं न ब्रूयान्निगमनिकुरम्बं परशिवम् ॥११३॥दु:खासारदुरन्तदुष्कृतघनां दु:संसृतिप्रावृषंदुर्वारामिह दारुणां परिहरन्दूरदुदाराशय: ।उच्चण्डप्रतिपक्षपण्डितयशोनालीकनालाकुर ग्रासो हंसकुलावतंसपदभाक् सन्मानसे क्रीडति ॥११४॥क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतंदुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।येनाशेषविशेषदोषलहरीमासेदुषीं शेमुषींसोऽयं शीलवतां पुनाति परमो हंसो व्दिजात्यग्रणी: ॥११५॥नीरक्षीरनयेन तथ्यवितथे संपिण्डते पण्डितै दुर्बोधे सकलैर्विवेचयति य: श्रीशकराख्यो मुनि: ।हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ता: समस्ता: स्थिता: जृम्भान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥११६॥दृष्टिं य: प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां नालीकप्रियतां प्रयाति भजते मित्नत्वमव्याहतस् ।विश्वस्योपकृतेर्विलुम्पति सुहृचक्रस्य चार्ति घनाहंस: सोऽयमभिव्यनक्ति महतां जिज्ञास्यमर्थ मुहु: ॥११७॥हंसभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुक्त्यै ।संचचाल कथयन्निव मेघश्चाज्जलाचपलतां विषयेषु ॥११८॥एष न: स्पृशति निष्ठरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।अस्मदीयमपि पुष्पमनैषादित्यरोधि नलिनीपतिरब्दै: ॥११९॥वारिवाहनिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचि: ।अन्तरडगतबोधकलेव व्यापृतस्य विदुषो विषयेषु ॥१२०॥किं नु विष्णुपदसंश्रयतोऽब्दा ब्रह्मतामुपदिशन्ति सुहृद्भय: ।यन्निशम्य निखिला: स्वनमेषां विभ्रति स्म किल निर्भरमोदान् ॥१२१॥देवराजमपि मां न यजन्ति ज्ञानवर्गभरिता यतयोऽमी ।इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥१२२॥आववु: कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्या: ।सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलास: ॥१२३॥बभ्रमुस्तिमिरसच्छविगात्राश्चित्रकार्मुकभृत: खरघोषा: ।ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्या: ॥१२४॥उत्ससर्जुरसकृज्जलधारा वारिदा गगनधाम पिधाय ।शकरो हृदयमात्मनि कृत्वा संजहार सकलेन्द्रियवृत्ती: ॥१२५॥शनै: सान्त्वालापै: सनयमुपनीतोपनिषदांचिरायत्तं त्यक्त्वा सहजमधिमानं दृढतरम् ।तमेत्य प्रेयांसं सपदि परहंसं पुनरसा वधीरा संस्पष्टुं कनु सपदि तध्दोलयमगात् ॥१२६॥न सूर्यो नैवेन्दु: स्फुरति न च ताराततिरियं कुतो विद्युलेखा किय्दिह कृशानोर्विलमितम् ।नो विद्यो रोदस्यौ न च समयमस्मिन्न जलदे चिदाकाशे सान्द्रस्वसुखरसवर्ष्मण्यविरतम् ॥१२७॥किमादेयं हेयं किमिति सहजानन्दजलधावतिस्वच्छेतुच्छीकृतसकालमाये परशिवे ।तदेतस्मिन्नेव स्वमहिमनि विस्मापनपदे स्वत: सत्ये नित्ये रहसि परमे सोऽकृत कृती ॥१२८॥प्राप विष्णुपदभागपि मेघ: प्रावृडागमनतो मलिनत्वम् ।विद्युदुज्ज्वलरुचाऽनुसृतश्च कोऽध्यवन्यपि भजेन्न विरागम् ॥१२९॥आशये कलुषिते सलिलानां मानसोत्कहृदया: कलहंसा: ।कोऽन्यथा भवति जीवनलिप्सुर्नाश्रये भजति मानसचिन्ताम् ॥१३०॥अभ्रवर्त्मनि परिभ्रममिच्छञ्शुदीधितिरदभ्रपयोदे ।न प्रकाशनमवाप कलावान् कश्चकास्ति मलिनाम्बरवासी ॥१३१॥चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय ।प्राप्रुयादमृतमप्यभिवाञ्छन् कालतो वत घनाश्रयकारी ॥१३२॥इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततमाले ।प्राणभृत्प्रचरणप्रतिकूले नीडनीलघनशालिनि काले ॥१३३॥अग्रहारशतसंभृतशोभे सुग्रहाक्षतुरग: स महात्मा ।अध्युवास तटमिन्दुभवाया: सुध्युपास्यचरणं गुरुमर्चन् ॥१३४॥त्रस्तमर्त्यगणमस्तमिताशं हस्तिहस्तपृथुलोदकधारा: ।मुश्चति स्म समुदश्चितविद्युत्पश्चरात्रमहिशत्रुरजस्रम् ॥१३५॥तीरभ्रूरुहततीरपकर्षन्नग्रहारनिकरै: सह पूर: ।आययावधिकघोषमनल्प: कल्पवार्धिलहरीव तटिन्या: ॥१३६॥घोषवारिझरभीरुनराणां घोषमेव कलुषं स निशम्य ।देशिकं ध्रुवसामाधिविधानं वीक्ष्य च क्षणमभूदविवक्षु: ॥१३७॥सोऽभिमन्त्र्य करकं त्वरमाणस्तत्प्रबाहपुरत: प्रणिधाय ।कृत्स्रमत्र समवेशयदम्भ: कुम्भसंभव इव स्वकरेऽब्धम् ॥१३८॥तं निशम्य निखिलैरपि लोकैरुत्थितोऽम्य गुरुरुक्तमुदन्तम् ।योगसिध्दिमचिरादयमापेत्यभ्यपद्यततरां परितोषम् ॥१३९॥छात्रमुख्यममुमाह कियद्भिर्वासरैर्गतघने गगने स: ।पश्य सौम्य शरदा विमलं खं विद्ययेव विशदं परतत्वम् ॥१४०॥वारिदा यतिवराश्च सुपाथोधारया सदुपदेशगिरा च ।ओषधीरनुचरांश्च कृतार्थीकृत्य सम्प्रति हि यान्ति यथेच्छम् ॥१४१॥शीतदीधितिरसौ जलमुग्भिर्मुक्तपध्दतिरतिस्फुटकान्ति: ।भाति तत्वविदुपामिव बोधो मायिकावरणनिर्गमशुभ्र: ॥१४२॥वरिवाहनिवहे प्रतियाते भान्ति भानि शुचिभानि शुभानि ।मत्सरादिविगमे सति मैत्रीपूर्वका इव गुणा: परिशुध्दा: ॥१४३॥मत्स्यकच्छपमयी धृतचक्रा गर्भवर्तिभुवना नलिनाढया ।श्रीयुताऽद्य तटिनी परहंसै: सेव्यते मधुरिपोरिव मूर्ति: ।१४४॥नीरदा: सुचिरसंभृतमेते जीवनं व्दिजगणाय वितीर्य ।त्यक्तविद्युदबला: परिशुध्दा: प्रब्रजन्ति घनवीथिगृहेभ्य: ॥१४५॥चन्द्रिकाभसितचर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी ।बन्धुजीवकुसुमोत्करशाटीसंवृतो यतिरिवायमनेहा: ॥१४६॥हंससंगतिलसव्दिरजस्कं क्षोभवर्जितमपह्रुतपकम् ।वारि सारसमतीव गभीरं तावकं मन इव प्रतिभाति ॥१४७॥शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु ।लिप्तचन्दनरज: समुदश्चत्कौस्तुभं मुररिपोरिव वक्ष: ॥१४८॥पकजानि समुदूढहरीणि प्रोद्रतानि विकचानि कनन्ति ।सौम्य योगकलयेव विफुल्लान्यमुखानि हृदयानि मुनीनाम् ॥१४९॥रेणुभस्मकलितैर्दलशाटीसंवृतै: कुसुमालिडजपमालै: ।वृन्तकुड्मलकमण्ड्लुयुक्तैर्धायते क्षितिरुहैर्यतितौल्यम ॥१५०॥धारणादिभिरपि श्रवणाद्यैर्वार्षिकाणि दिवसान्यपनीय ।पादपद्मरजसाऽद्य पुनन्त: संचरन्ति हि जगन्ति महान्त: ॥१५१॥तद्भवान् व्रजतु वेदकदम्बदुद्भवां भवदवाम्बुदमालाम् ।तत्वपध्दतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम् ॥१५२॥अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ ।वृत्रशत्रुमुखदैवतजुष्टं सत्रमत्रिमुनिकर्तृकमास ॥१५३॥संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनु: ।इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्ततमं तम् ॥१५४॥आर्य वेदनिकर: प्रविभक्तो भारतं कृतमकारि पुराणम् ।योगशास्त्रमपि सम्यगभाषि ब्रह्मसूत्रमपि सूत्रितमासीत् ॥१५५॥अत्र केचिदिह विप्रतिपन्ना: कल्पयन्ति हि यथायथामर्थान् ।अन्यथाग्रहणनिग्रह्दक्षं भाष्यमस्य भगवन् करणीयम् ॥१५६॥मव्दच: स च निशम्य सभायां विव्ददग्रसर वाचमवोचत् ।पूर्वमेव दिविषद्भिरुदीर्ण: पार्वतीपतिसदस्ययमर्थ: ॥१५७॥वत्स तं श्रृणु समस्तविदेको मत्समस्तव भविष्यति शिष्य: ।कुम्भ एव सरित: सकलं य: संहरिष्यति महोल्बणमम्भ: ॥१५८॥दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् ।कीर्तयिष्यति यशस्तव लोक: कार्तिकेन्दुकरकौतुकि येन ॥१५९॥इत्युदीर्य मुनिराट् स वनान्ते पत्युराप सुगिरिं गिरिजाया: ।तन्मुखाच्छ्रुतमशेषमिदानीं सन्मुनिप्रिय मया त्वयि दृष्टम् ॥१६०॥स त्वमुत्तमपुमानसि कश्चित्तत्त्ववित्प्रवर नान्यसमान: ।तद्यतस्व निरवद्यनिबन्धै: सद्य एव जगदुध्दरणाय ॥१६१॥गच्छ वत्स नगरं शशिमौले: स्वच्छदेवतटिनीकमनीयम् ।तावता परमनुग्रहमाद्या देवता तव करिष्यति तस्मिन् ॥१६२॥एवमेनमनुशास्य दयालु: पावयन्निजदृशा विससर्ज ।भावत: स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम् ॥१६३॥पकजप्रतिभटं पदयुग्मं शकरोऽस्य निरगादसहिष्णु: ।तव्दियोगमभिवन्द्य कथंचितव्दिलोकनमयन् हृदयाब्जे ॥१६४॥प्राप तापसवर: स हि काशीं नीपकाननपरीतसमीपाम् ।आपगानिकटहाटकचश्चद्यूपपडिसमुदश्चितशोभाम् ॥१६५॥संददश स भगीरथतप्तामन्दतीव्रतपस: फलभूतामा ।योगिराडुचिततीरनिकुज्जां भोगिभूषणजटातटभूषाम् ॥१६६॥विष्णुपादनखराज्जननाव्दा शंभुमौलिशशिस्म्गमनाव्दा ।या हिमाद्रिशिखरात्पतनाव्दा स्फाटिकोपमजला प्रतिभाति ॥१६७॥गायतीव कलषट्पदनादैर्नृत्यतीव पवनोचलिताब्जै: ।मुश्चतीव हसितं सितफेनै: श्लिष्यतीव चपलोर्मिकरैर्या ॥१६८॥श्यामला कचिदपाडमयूरवैश्चित्रिता कचन भूषणभाभि: ।पाटला कुचतटीगलितैर्या कुडुमै: कचन दिव्यवधूनाम् ॥१६९॥सोऽवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्य: ।जाह्रवीसलिलवेगहृतस्तद्योगपुण्यपरिपूर्ण इवेन्दु: ॥१७०॥स्वर्णदीजलकणाहितशोभा मूर्तिरस्य सुतरां विललास ।चन्द्रपादगलदम्बुकणाका पुत्निका शशिशिलारचितेव ॥१७१॥विश्वेशश्चरणयुगं प्रणम्य भक्त्या हर्याद्यैस्त्रिदशवरै: समर्चितस्य ।सोऽनैषीत्प्रयतमना जगत्पवित्रे क्षेत्रेऽसाविह समयं कियन्तमार्य: ॥१७२॥इति श्रीमाधवीये तत्सुखाश्रमनिवासग: ।संक्षेपशकरजये सर्गोऽयं पश्चमोऽभवत् ॥५॥ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP