श्रीमच्छङ्करदिग्विजय: - षष्ठ: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


अथागमहाह्मणसूनुरादरादधीतवेदो दलयन्‍ स्वभासा ।
तेजांसि कश्चित्सरसीरुहाक्षो दिदृक्षमाण: किल देशिकेन्द्रम्‍ ॥१॥
आगत्य देशिकपदाम्बुजयोरपप्तत्‍ संसारवारिधिमनुत्तरमुत्तितीर्षु: ।
वैराग्यवानकृतदारपरिग्रहश्च कारुण्यनावमधिरुह्य दृढां दुरापाम्‍ ॥२॥
उत्थाप्य तं गुरुरुवाच गुरुर्व्दिजानां
कस्त्वं क धाम कुत आगत आत्तधैर्य: ।
बालोऽप्यबालधिषण: प्रतिभासि मे त्व -
मेकोऽप्यनेक इव नैकशरीरभाव: ॥३॥
पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्रापगा वहति तत्र कवेरकन्या
यस्या: पयो हरिपदाम्बुजभक्तिमूलम्‍ ॥४॥
अटाटयमानो महतो दिदृक्षु: क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन्‍ भववारिराशौ तत्पारगं मां कृपया विधेहि ॥५॥
अपाडैरुत्तुडैरमृतझरभडै: परगुरो
शुचा दूनं दीनं कलय दयया मामविमृशन ।
गुणं वा दोषं वा मम किमपि संचिन्तयसि चेत्‍
तदा कैव श्लाघा निरखधिक्रुपानीरधिरिति ॥६॥
स्यात्ते दीनदयालुताकृताकृयशोराशिस्त्रिलोकीगुरो
तूर्ण चेद्दयसे ममाद्य न तथा कारुण्यत: श्रीमति ।
वर्षन्‍ भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते
नैवं वर्षशतं पयोनिधिजले वर्षन्नपि स्तूयते ॥७॥
त्वत्सारस्वतसारसारससुधाकूपारसत्सारस -
स्रोत: संभृतसंततोज्ज्वलक्रीडा मतिर्मे मुने ।
चश्चत्पश्चशरादिवश्चनहतं न्यश्चं प्रपश्चं हित -
ज्ञानाकिश्चनमा विरिश्चमखिलं चालोचयन्त्यश्चतु ॥८॥
सौरं धाम सुधामरीचिनगरं पौरन्दरं मन्दिरं
कोंबेरं शिबिरं हुताशनपुरं सामीरसद्मोत्तरम्‍ ।
वैधं चाऽऽवसथं त्वदीयफणितिश्रध्दासमिध्दात्मन:
शुध्दव्दैतविदो न दोग्धि कुतुकं विरतिश्रीघातुकं कौतुकम्‍ ॥९॥
न भौमा रामाद्या: सुषमविषवल्लीफलसमा:
समारम्भन्ते न: किमपि कुतुकं जातु विषया: ।
न गण्यं न : पुण्यं रुचिरतरम्भाकुचतटी -
परीरम्भारंभोज्ज्वलमपि च पौरन्दरपदम्‍ ॥१०॥
न चश्चव्दैरिश्चं पदमपि भवेदादरपदं
वचो भव्यं नव्यं यदकृत कृती शकरगुरु: ।
चकोरालीचश्चूपुटदलितपूर्णेन्दुविगल -
त्सुधाधाराकारं तदिह वयमीहेमहि मुहु: ॥११॥
द्यावाभूमिशिवंकरैर्नवयश: प्रस्तावसौवस्तिकै:
पूर्वारवर्वतप: पचोलिमफलै: सर्वाधिमुष्टिंधयै: ।
दीनाढ्यकरणैर्भवाय नितरां वैरायमाणैरलं
कर्मीणं मसितं त्वदीयभजनै: स्यान्मामकीनं मन: ॥१२॥
संसारबन्धामयदु:खशान्त्यै स एव नस्त्वं भगवानुपास्य: ।
भिषक्तमं त्वां भिषजां श्रृणॊमीत्युक्तस्य योऽभूदुदितावतार: ॥१३॥
इत्युक्तवन्तं कृपया महात्मा व्यदीपयत्सेन्यसनं यथावत्‍ ।
प्राहुर्महान्त: प्रथमं विनेयं तं देशिकेन्द्रस्य सनन्दनाख्यम्‍ ॥१४॥
संसारघोरजलधेस्तरणाय शश्वत्सायात्रिकीभवनमर्दयमानमेनम्‍ ।
हन्तोत्तमाश्रमतरीमधिरोप्य पारं निन्ये निपातितकृपारसकेनिपात: ॥१५॥
येऽप्यन्येऽमुं सेवितुं देशतांशा यातास्तेऽपि प्राय एवं विरक्ता: ।
क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य प्रापु: स्पष्टं लोकरीत्याऽपि गन्तुम्‍ ॥१६॥
व्याख्या मौनमनुत्तरा: परिदलच्छकाकलकाकुरा
श्छात्रा विश्वपवित्रचित्रचारितास्ते वामदेवादय: ।
तस्यैतस्य विनीतलोकततिमुपगता धन्या: किलान्यादृशा: ॥१७॥
शेष: साधुभिरेव तोषयति नृञ्छब्दै:  पुमर्थार्थिनो
वाल्मीकि: कविराज एष वितथैरर्थैमुहु: कल्पितै: इ।
व्याचष्टे किल दीर्घसूत्रसरणिर्वाचं चिरादर्थदां
व्यास: शकरदेशिकस्तु कुरुते सद्य: कृतार्थानहो ॥१८॥
चक्रितुल्यमहिमानमुपासांचक्रिरे तमविमुक्तनिवासा: ।
वक्रसृत्यनुसृतामपि साध्वीं चक्रुरात्मघिषणां तदुपास्त्या ॥१९॥
चण्डभानुरिव भानुमण्डलै: पारिजात इव पुष्पजातत: ।
वृत्रशत्रुरिव नेत्रवारिजैश्छात्रपडिभिरलं ललास स: ॥२०॥
एकदा खलु विजत्त्रिपुरव्दिड‍भाललोचनहुताशनभानो: ।
विस्फुलिडपदवीं दधतीषु प्रज्ज्वलत्तपनकान्तिशिलासु ॥२१॥
दर्शयत्युरुपमरीचिसरस्वत्पूरसृज्यपरमायिनि भानौ ।
साधुनैकमणीकुट्टिममूर्च्छद्रश्मिजालकशिखावलपिच्छम्‍ ॥२२॥
पकजावलिविलीनमराले पुष्करान्तरभिगत्वरमीने ।
शाखिकोटरश्यालुशकुन्ते शैलकन्दरशरण्यमयूरे ॥२३॥
शकरो दिवसमध्यमभागे पकजोत्पलपरागकषायाम्‍ ।
जाह्रवीमभियैयौ सह शिष्यैराह्रिकं विधिवदेष विधित्सु: ॥२४॥
सोऽन्त्यजं पथि निरीक्ष्य चतुर्भिर्भीषणै: श्वभिरनुद्रुतमारात्‍ ।
गच्छ दुरमिति तं निजगाद प्रत्युवाच च स शकरमेनम्‍ ॥२५॥
अव्दितीयमनवद्यमसडं सत्यबोधसुखरुपमखण्डम्‍ ।
आमनन्ति शतशो निगमान्तास्तत्र भेदकलना तव चित्रम्‍ ॥२६॥
दण्डमण्डितकरा धृतकुण्डा: पाटलाभवसना: पटुवाच: ।
ज्ञानगन्धरहिता गृहसंस्थान्‍ वश्चयन्ति किल केचन वेषै: ॥२७॥
गच्छ दूरमिति देहमुताहो देहिनं परिजिहीर्षसि विव्दन्‍ ।
भिद्यतेऽन्नमयतोऽन्नमयं कि साक्षिणश्च यतिपुंगव साक्षी ॥२८।
ब्राह्मणश्वपचभेदविचार: प्रत्यगात्मनि कथं तव युक्त: ।
विम्बितेऽम्बरमणौ सुरनद्यामन्तरं किमपि नास्ति सुरायाम्‍ ॥२९॥
शुचिर्व्दिजोऽहं श्वपच व्रजेति मिथ्याग्रहस्ते मुनिवर्य कोऽयम्‍ ।
सन्तं शरीरेष्वशरीरमेकमुपेक्ष्य पूर्ण पुरुषं पुराणम्‍ ॥३०॥
अचिन्त्यमव्यक्तमनन्तमाद्यं विस्मृत्य रुपं विमलं विमोहात्‍ ।
कलेवरेऽस्मिन्करिकर्णलोलाकृतिन्यहंता कथमाविरास्ते ॥३१॥
विद्यामवाप्यापि विमुक्तिपद्यां जागर्ति तुच्छा जनसंग्रहेच्छा ।
अहो महान्तोऽपि महेन्द्रजाले मज्जन्ति मायाविवरस्य तस्य ॥३२॥
इत्युदीर्य वचनं विरतेऽस्मिन्‍ सत्यवाक्तदनु विप्रतिपन्न:
अत्युदारचरितोऽन्त्यजमेनं प्रत्युवाच स च विस्मितचेता: ॥३३॥
सत्यमेव भवता यदिदानीं प्रत्यवादि तनुभृत्प्रवरैतत्‍ ।
अन्त्यजोऽयमिति सम्पति बुध्दिं संत्यजामि वचसाऽऽत्मविदस्ते ॥३४॥
जानते श्रुतिशिरांस्यपि सर्वे मन्वते च विजितेन्द्रियवर्गा: ।
युज्जते हृदयमात्मनि नित्यं कुर्वते न धिषणामपभेदाम्‍ ॥३५॥
भाति यस्य तु जगद्‍ दृढबुध्दे: सर्वमप्यनिशमात्मतयैव ।
स व्दिजोऽस्तु भवतु श्वपचो वा वन्दनीय इति मे दृढनिष्ठा ॥३६॥
या चिति: स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम्‍ ।
नैव दृश्यमिति यस्य मनीषा पुल्कसो भवतु वा स गुरुर्मे ॥३७॥
यत्र यत्र च भवेदिह बोधस्तत्तदर्थसमवेक्षणकाले ।
बोधमात्नमवशिष्टमहं तद्यस्य धीरिति गुरु: स नरो मे ॥३८॥
भाषमाण इति तेन कलावानेष नैक्षत तमन्त्यजमग्रे ।
धूर्जटिं तु समुदैक्षत मौलिस्फूर्जदैन्दवकलं सह वेदै: ॥३९॥
भयेन भक्त्या विनयेन धृत्या युक्त: स हर्षेण च विस्मयेन ।
तुष्टाव शिष्टानुमत: स्तवैस्तं दृष्ट्रा दृशोर्गोचरमष्टमूर्तिम्‍ ॥४०॥
दासस्तेऽहं देहदृष्टयाऽस्मि शंभो जातस्तेंऽशो जीवदृष्टया त्रिदृष्टे ।
सर्वस्यात्मन्नात्मदृष्टया त्वमेवेत्येवं मे धीर्निश्चिता सर्वशास्त्रै: ॥४१॥
यदालोकादन्तर्बहिरपि च लोको वितिमिरो
न मज्जूषा यस्य त्रिजगति न शाणो न च खनि: ।
यतन्ते चैकान्तं रहसि यतयो यत्प्रणायिन:
नमस्तस्मै स्वस्मै निखिलनिगमोत्तंसमणये ॥४२॥
अहो शास्त्रं शास्त्रात्किमिह यदि न श्रीगुरुकृपा
चिता सा किं कुर्यान्ननु यदि न बोधस्य विभव: ।
किमालम्बश्चासौ न यदि परतत्त्वं मम तथा
नम: स्वस्मै तस्मै यदवधिरिहाश्चर्यधिषणा ॥४३॥
इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम्‍ ।
बाष्पपूर्णनयनं मुनिवर्य शकर: सबहुमानमुवाच ॥४४॥
अस्मदादिपदवीमभजस्त्वं शोधिता तव तपोधननिष्ठा ।
बादरायण इव त्वमपि स्या: सव्दरेण्य मदनुग्रहपात्रम्‍ ॥४५॥
संविभज्य सकळश्रुतिजालं ब्रह्मसूत्रमकरोदनुशिष्ट: ।
यत्न काणभुजसांख्यपुरोगाण्युध्दृतानि कुमतानि समूलस्‍ ॥४६॥
तत्र मूढमतय: कलिदोषाद्‍ व्दित्रवेदवचनोव्दलितानि ।
भाष्यकाण्यरचयन्‍ बहुबुध्दैर्दूष्यतामुपगतानि च कैश्चित्‍ ॥४७॥
तद्भवान्विदितवेदशिखार्थस्तानि दुर्ममितानि निरस्य ।
सूत्रभाष्यमधुना विदधातु श्रुत्युपोव्दलितयुक्त्यभियुक्तम्‍ ॥४८॥
एतदेव विबुधैरपि सेन्द्रैरर्चनीयमनवद्यमुदारम्‍ ।
तावकं कमलयोनिसभायामप्यवाप्स्यति वरां वरिवस्याम्‍ ॥४९॥
भास्कराभिनवगुप्तपुरोगान्नीलकण्ठगुरुमण्डनमुख्यान्‍ ।
पण्डितानथ विजित्य जगत्यां ख्यापयाव्दयमते परतत्वम्‍ ॥५०॥
मोहसंतमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान्‍ ।
पालनाय परतत्त्वसरण्या मामुपैष्यसि तत: कृतकृत्य: ॥५१॥
एवमेनमनुगृह्य कृपावानागमै: सह शिवोऽन्तरधत्त ।
विस्मितेन मनसा सह शिष्यै: शकरोऽपि सुरसिन्धुमयासीत्‍ ॥५२॥
संनिवर्त्य विधिमाह्रिकमीशं ध्यायतो गुरुमथाऽखिलभाष्यम्‍ ।
कर्तुमुद्यतमभूद गुणसिन्धोर्मानसं निखिललोकहिताय ॥५३॥
कर्तृत्वशक्तिमधिगम्य व विश्व्नाथात्‍ काशीपुरान्निरगमत्त्वविकासभाज: ।
प्रीत:  सरोजमुकुलादिव चश्चरीकनिर्वन्धत: सुखमवाप यथा व्दिजेन्द्र: ॥५४॥
अव्दैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम्‍ ।
अस्ताचले वहति चारु पुर: प्रकाशव्याजेन चामरमथादिव दिक्सुकान्ता ॥५५॥
शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताध्दा ।
तन्नत्यतीर्थानि निषेवमाणो गन्तुं मनोऽधाव्ददरीं क्रमात्स: ॥५६॥
तेनान्ववर्ति महता कचिदुष्णशालि शीतं कचित्कचिदृजु कचिदप्यरालम्‍ ।
उत्कण्कटकं कचिदकण्टाकवत्कचिच्च तव्दर्त्म मूर्खजनचित्तमिवाव्यवस्थम्‍ ॥५७॥
आत्मानमक्रियमपव्ययमीक्षितापि पान्थै: समं विचलित: पथि लोकरीत्या ।
आदत्फलानि मधुराण्यपिबत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत्‍ ॥५८॥
तेन व्यनीयत तदा पदवी दवीयस्यासादिता च बदरी वनपुण्यभूमि: ।
गौरीगुरुस्रवदमन्दझरीपरीता खेलत्सुरीयुतदरी परिभाति यस्याम्‍ ॥५९॥
स व्दादशे वयसि तत्र समाधिनिष्ठैर्ब्रह्मर्षिभ: श्रुतिशिरो बहुधा विचार्य ।
षड्‍ मिश्च सप्तभिरथो नवभिश्च खिन्नैर्भव्यं गभीरमधुरं फणति स्म भाष्यम्‍ ॥६०॥
करतलकलिताव्दयात्मतत्वं क्षपितदुरन्तचिरन्तनप्रमोहम्‍ ।
उपचितमुदितोदितैर्गुणौघैरुपनिषदामयमुज्जहार भाष्यम्‍ ॥६१॥
ततो महाभारतसारभूता: स व्याकरोद्भामवतीश्च गीता: ।
सनत्सुजातीयमसत्सुदुरं ततो नृसिंहस्य च तापनीयम्‍ ॥६२॥
ग्रन्थानसंख्यांस्तदनूपदेशसाहस्त्रिकादीन्व्यदधात्सुधीडय: ।
श्रुत्वाऽर्थविद्यानविवेकपाशान्मुक्ता विरक्ता यतयो भवन्ति ॥६३॥
श्रीशकराचार्यरवावुदेत्य प्रकाशमाने कुमतिप्रणीता: ।
व्याख्यान्धकारा प्रलयं समीयुर्दुर्वादिचन्द्रपमयाऽवियुक्तात ॥६४॥
अथ व्रतीन्दुर्विधिवव्दिनेयानध्यापयामास स नैजभाष्यम्‍ ।
तर्कै परेषां तरुणैर्विवस्वन्मरीचिभि: सिन्धुबदप्रशोष्यम्‍ ॥६५॥
निजशिष्यहृदब्जभास्वतो गुरुवर्यस्य सनन्दनादय: ।
शमपूर्वगुणैरशुश्रुवन्कतिचिच्छिष्यगणेषु मुख्यताम्‍ ॥६६॥
स नितरामितराश्रवतो लसन्नियममद्भुतमाप्य सनन्दन: ।
श्रुतनिजश्रुतिकोऽप्यभवत्पुन: पिपठिषुर्गहनार्थविवित्सया ॥६७॥
अव्दंव्दभक्तिममुमात्मपदारविन्दव्दव्दे नितान्तदयमानमना मुनीन्द्र: ।
आम्रायशेखररहस्यनिधानकोशमात्मीयकोशमखिलं त्रिरपाठयत्तम्‍ ॥६८॥
ईर्ष्याभराकुलहृदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम्‍ ।
अम्रापगापरतटस्थममुं कदाचिदाकारयन्निगमशेखरदेशिकेन्द्र: ॥६९॥
संतारिकाऽनवधिसंसृतिसागरस्य किं तारयेन्न सरितं गुरुपादभक्ति: ।
इत्यज्जसा प्रविशत: सलिलं द्युसिन्धु: पद्मान्युदश्चयति तस्य पदे पदे स्म ॥७०॥
पाथोरुहेषु विनिवेश्य पदं क्रमेण  प्राप्तोपकण्ठममुमप्रतिमानभक्तिम्‍ ।
आनन्दविस्मयनिरन्तनिरन्तरोऽसावाश्लिष्य पद्मपदनामपदं व्यतानीत्‍ ॥७१॥
तं पाठयन्तमनवद्यतमात्मविद्यां ये तु स्थिता: सदसि तत्वविदां सगर्वा: ।
आचिक्षिपु: कुमतपाशुपताभिमाना: केचिव्दिवेकविटपोग्रदवायमाना:॥७२॥
तव्दिकल्पनमनल्पमनीष: श्रुत्युदाहरणत: स निरस्य ।
ईषदस्तमितगर्वभराणामागमानपि ममन्थ परेषाम्‍ ॥७३॥
अव्दितीयनिरता सति भेदे मुक्तिरीशसमतैव कथं स्यात्‍ ।
ध्यानजा किमिति सा न विनश्येद्भावकार्यमखिलं हि न नित्यम्‍ ॥७४॥
किंच संक्रमणमीशगुणाना मिष्यते पशुषु मोक्षदशायाम्‍ ।
तन्न साध्यवयवैर्विधुराणां संक्रमो न घटते हि गुणानाम्‍ ॥७५॥
पद्मगन्ध इव गन्धवहेऽस्मिन्नात्मनीश्वरगुणोऽस्त्विति चेन्न ।
तत्र गन्धसमवायि नभस्वत्संयुतं दिशति गन्धधियं यत्‍ ॥७६॥
किंचैकदेशेन समाश्रयन्ते कार्त्स्न्येन वा शंभुगुणा विमुक्तान्‍ ।
पूर्वे तु पूर्वोदितदोषसडस्त्वन्तेऽज्ञतादि: परमेश्वरे स्यात्‍ ॥७७॥
इत्थं तर्कै: कुलिशकठिनै: पण्डितं मन्यमाना
भिद्यत्स्वार्था: स्मयभरमदं तत्यजुस्तान्त्रिकास्ते ।
पक्षाघातैरिव रयभरैस्ताडयमाना: फणासु
क्ष्वेडज्वालां खगकुलपते: पन्नगा: साभिमाना: ॥७८॥
व्याख्याजम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दीपयन्‍ ।
संख्यालघितशिष्यहृव्दनरुहेष्वादित्यतामुव्दहन्‍ ।
उव्देलस्वयश: सुमै: स भगवत्पादो जगद्भूषयन्‍
कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम्‍ ॥७९॥
वेदान्तकान्तारकृतप्रचार: सुतीक्ष्णसद्युक्तिनखाग्रदंष्ट्र: ।
भयकरो वादिमतंगजानां महर्षिकण्ठीरव उल्ललास ॥८०॥
अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सत: प्रभावम्‍ ।
अत्यन्तमाश्चर्ययुतान्तरडा: काशोपुरस्था जगदुस्तदेत्थम्‍ ॥८१॥
अस्मान्मुहुर्द्योतितसर्वतन्त्रात्पराभवं पण्डितपुण्डरीका: ।
प्रपेदिरे भास्करगुप्तमिश्रमुरारिविद्येन्द्रगुरुप्रधाना: ॥८२॥
अस्यात्मनिष्ठातिशयेन तुष्ट: प्रादुर्भवन्‍ कामरिपु: पुरस्तात्‍ ।
चोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम्‍ ॥८३॥
कुदृष्टितिमिरस्फुरत्कुमतपकमग्रां पुरा
पराशरभुवा चिराद्‍ बुधमुदे बुधेनोध्दृताम्‍ ।
अहो बत जरद्रवीमनघभाष्यसूक्तामृतै-
रपकयति शकर: प्रणतशकर: सादरम्‍ ॥८४॥
त्नैलोक्यं ससुखं क्रियाफलपयो भुडे: ययाऽविष्कृतं
यस्या वृध्दतरे महीसुरगृहे वास: प्रवृध्दाध्वरे ।
तां पकप्रसृते कुतर्ककुहरे घोरै: खरै: पातितां
निष्पकामकरोत्स भाष्यजलधे: प्रक्षाल्य सूक्तामृतै: ॥८५॥
मिथ्या वक्तीति कैश्चित्पुरुषमुपनिषद्दूरमुत्सारिताऽभू -
दन्यैरस्मिन्नियोज्यं परिचरितुमसावर्हतीति प्रणुन्ना ।
अर्थामासं दधानैर्मृदुभिरिव परैर्वश्चिता चोरितार्थै -
र्विन्दत्यानन्दमेषा सुचिरमशरणा शकरार्य प्रपन्ना ॥८६॥
हन्तुं बौध्दोऽन्वधावत्तदनु कथमपि स्वात्मलाभ: कणादा -
ज्जात: कौमारिलार्यैर्निजप्दगमने दर्शितं मार्गमात्रम्‍ ।
सांख्यैर्दु:खं विनीतं  परमथ रचिता प्राणधृत्यर्हताऽन्यै -
रित्थं खिन्नं पुमांसं व्यधित करुणया शकरार्य: परेशम्‍ ॥८७॥
ग्रस्तं भूतैर्न देवं कतिचन ददृशु: के च दृष्टाऽप्यधीरा:
केचिद्भूतैर्वियुक्तं व्यधुरथ कृतिन: केऽपि सर्वैर्विमुक्तम्‍ ।
किन्त्वेतेषामसत्वं न विदधुरजहान्नैव भीतिं ततोऽसो
तेषमुच्छिद्य सत्तामभयमकृत तं शकर: शकरांश: ॥८८॥
चार्वाकैर्निह्रुत: प्राग्बलिभिरथ मृषा रुपमापाद्य गुप्त:
काणादैर्हा नियोज्यो व्यरचि बलवताऽऽकृत्य कौमारिलेन ।
सांख्यैराकृष्य हृत्वा मलमपि रचितो य: प्रधानैकतन्त्र:
कृष्ट्रा सर्वेश्वरं तं व्यतनुत पुरुषं शकर: शकरांश: ॥८९॥
वाच: कल्पलता: प्रसूनसुमन: सन्दोहसन्दोहना:
भाष्ये भूष्यतमे समीक्षितवतां श्रेयस्करे शांकरे ।
भाष्याभासगिरो दुरन्वयगिराऽऽश्लिष्टा विसृष्टा गुणै -
रिष्टा: स्यु: कथमम्बुजासनवधूदौर्भाग्यगर्भीकृता: ॥९०॥
कामं कामकिरातकार्मुकलतापर्यायनिर्यातया
नाराचच्छटया विपाटितमनोधैर्यैर्धिया कल्पितान्‍ ।
आचार्याननवर्यनिर्यदभिदासिध्दान्तशुध्दान्तरो
धीरो नानुसरीसरीति विरसान्ग्रन्थानबन्धापहान्‍ ॥९१॥
सुधास्यन्दाहन्ताविजयिभगवत्पादरचना
समस्कन्धान्‍ ग्रन्थान्‍ रचयति निबध्दा यदि तदा ।
विशकां भडानां मृडमुकुटश्रृडाटसरित:
कृतौ तुल्या कुल्या नियतमुपशल्यादृतगति : ॥९२॥
यया दींनाधीना घनकनकधारा समरचि
प्रतीतिं नीताऽसौ शिवयुवतिसौन्दर्यलहरी ।
भुजडो रोद्रोऽपि श्रुतभयहृदाधायि सुगुरो
र्गिरां धारा सेयं कलयति कवे: कस्य न मुदम्‍ ॥९३॥
गिरां धारा कल्पद्रुमकुसुमधारा परगुरो -
स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका ।
अभडव्यडयौघ : सुरसुरभिदुग्धोर्मिदहभू -
र्दिवं भव्यै: काव्यै: सृजति विदुषां शकरगुरु: ॥९४॥
वाचा मोचाफलाभा: श्रमशमनविधौ ते  समर्थास्तदर्था
व्यडयं भडायन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीति: ।
मन्ये धन्यानि गाढं प्रशमिकुलपते: काव्यगव्यानि भव्या-
न्येकश्लोकोऽपि येषु प्रथितकविजनानन्दसन्दोहाकन्द:  ॥९५॥
वाग्गुम्भै: कुरुविन्दकन्दलनिभैरानन्दकन्दै: सता -
मर्थौघेररविन्दवृन्दकुहरस्यन्दन्मरन्दोज्ज्वलै: ।
व्यडयै: कल्पतरुप्रफुल्लसुमन: सौरभ्यगर्भीकृतै -
र्दत्ते कस्य मुदं न शकरगुरोर्भव्यार्थकाव्यावलि: ॥९६॥
तत्तादृग्यतिशेखरोध्दृतनिषद्भाष्यं निशम्येर्ष्यया
केचिद्देवनदीतटस्थविदुषामक्षांघ्रिपक्षश्रिता: ।
मौर्ख्यात्खण्डयितुं र्पयत्नमनुमानैकेक्षणा विक्षमा -
श्चकुर्भाव्यविचार्य चित्रकिरणं चित्रा: पतडा इव ॥९७॥
निघर्षणच्छेदनतापनाद्यैर्यथा सुवर्ण परभागमेति ।
विवादिभि: साधु विमथ्यमानं तथा मुनेर्भाष्यमदीपि भूय: ॥९८॥
स भाष्यचन्द्रो यतिदुग्धसिन्धोरुत्थाय दास्यन्नमृतं बुधेभ्य: ।
विधूय गोभि: कुमतान्धकारानतर्पयव्दिममनश्चकोरान्‍ ॥९९॥
अनादिवाक्सागरमन्थनोत्था सेव्या बुधैर्धिक्कृतदु:सपत्नै: ।
विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दो: ॥१००॥
सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती ।
प्रत्यर्थ्युलूकान्‍ प्रविलापयन्ती भाष्यप्रभाऽभाद्यतिवर्यभानो: ॥१०१॥
न्यायमन्दरविमन्थनजाता भाष्यनूतनसुधा श्रुतिसिन्धो:।
केवलश्रवणतो विबुधेभ्यश्चित्रमत्र वितरत्यमृतत्वम्‍ ॥१०२॥
पादादासीत्पद्मनाभस्य गडा शंभोर्वक्ताच्छांकरी भाष्यसूक्ति: ।
आद्या लोकान्दृश्यते मज्जयन्तीत्यन्या मग्रानुध्दरत्येष भेद: ॥१०३॥
व्यासो दर्शयति स्म सूतकलितन्यायौघरत्नावली -
रर्थालाभवशान्न कैरपि बुधैरेता गृहीताश्चिरम्‍ ।
अर्थाप्त्या सुलभाभिराभिरधुना ते मण्डिता: पण्डिता
व्यासश्चाऽऽप कृतार्थतां यतिपतेरौदर्यमाश्चर्यकृत्‍ ॥१०४॥
विव्दज्जालतप: फलं श्रुतिवधूधभ्मिक्लमल्लीस्रजं
सव्दैयासकसूत्रमुग्धमधुरागण्यातिपुण्योदयम्‍ ।
वाग्देवीचिरभोग्यभाग्यविभवप्राग्भारकोशालयं
भाष्य ते निपिबन्ति हन्त न पुनर्येषां भवे संभव: ॥१०५॥
मन्थानाद्रिधुरंधरा श्रुतिसुधासिन्धोर्यतिक्ष्मापते -
र्ग्रन्थानां फणिति: परावरविदामानन्दसंधायिनी ।
इन्धानै: कुमतान्धकारपटलैरन्धीभवच्चक्षुषां
पन्थानं स्फुटयन्त्यकाण्डकमभात्तकार्कविद्योतितै: ॥१०६॥
आ सीतानाथनेतु: स्थलकृतसलिलव्दैतमुद्रात्समुद्रा -
दारुद्रकर्षणाद्रागवनतशिखराद्भोगसान्द्रान्नगेन्द्रात्‍ ।
आ च प्राचीनभूमीधरमुकुटतटादा तटात्पश्चिमाद्रे -
रव्दैताद्यापवर्गा जयति यतिशरापोध्दृता ब्रह्मविद्या ॥१०७॥
इति श्रीमाधवीये तब्रह्मविद्याप्रतिष्ठिति: ।
संक्षेपशकरजये षष्ठ:  सर्ग उपारमत्‍  ॥६॥
आदित: श्लोका: ६६३

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP