संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| त्रयोदश: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - त्रयोदश: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत ब्रह्मविद्याविचार: Translation - भाषांतर तत: कदाचित् प्रणिपत्य भक्त्या सुरेश्वरार्यो गुरुप्रात्मदेशम् ।शारीरकेऽत्यन्तगभीरभावे वृत्तिं स्फुटं कर्तुमना जगाद ॥१॥मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।तदिदं पुरुषस्य जीवितं यदयं जोवति भक्तिमान् गुरौ ॥२॥इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेता: ।मत्कस्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्तिकनामधेयम् ॥३॥द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्ति: ।तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निबन्धनाय ॥४॥अस्त्वेवमित्यार्यपदाभ्यनुज्ञामादाय मूर्ध्रा स विनिर्जगाम ।अथाम्बुजाड्घ्रेर्दयिता: सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचु: ॥५॥योऽयं प्रयत्न: क्रियते हिताय हिताय नायं विफलत्वनर्थम् ।प्रत्येकमेवं गुरवे निवेद्य बोध्दा स्वयं कर्मणि तत्परश्च ॥६॥य: सार्वलौकिकमपीश्चरमीश्चराणां प्रत्यादिदेश भुयुक्तिभिरुत्तरज्ञ: ।कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥७॥प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ।व्यासो मुनिर्जैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी ॥८॥गुरोश्च शिष्यस्य च पक्षभेदे कथं तयो: स्याद्भुरुशिष्यभाव: ।तथाऽपि यद्यस्ति स पूर्वपक्ष:सिध्दान्तभावस्तु गुरुक्त एव ॥९॥आ जन्मन: स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इहानिशमेव कर्म ।ब्रूते परांश्च क्रुरुतावहिता: प्रयत्नात् स्वर्गादिकं सुखमवाप्स्यथ किं वृथाध्वे ॥१०॥एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।भष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलदापि वृध्दिमिच्छता ॥११॥संन्यसमप्येष अन बुध्दिपूर्वकं व्यधत्त वादे विदितो वशो व्यधात् ।तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥१२॥य: शक्रुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ।यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचर: ॥१३॥एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् ।एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्बन्धनमत्र किश्चन ॥१४॥पुरा किलास्मासु सुरापगाया: पारे परस्मिन् विचरत्सु सत्सु ।आकारयामास भवानशेषान् भक्तिं परिज्ञातुमिवास्मदीयाम् ॥१५॥तदा तदाकर्ण्य समाकुलेषु नावर्थमस्माप्सु परिभ्रमत्सु ।सनन्दनस्त्वेष वियत्तटिन्या झरीमभिप्रस्थित एव तूर्णम् ॥१६॥अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य ।तुष्टा त्रिवर्त्मा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ॥१७॥पदानि तेपु प्रणिधाय युष्मत्सकाशमागाद्यदयं महात्मा ।ततोऽतितुष्टो भगवांश्चकार नाम्रा तमेनं किल पद्मपादम् ॥१८॥स एव युष्मचरणारविन्दसेवाविनिर्धृतसमस्तभेद: ।आजानसिध्दोऽर्हति सूत्नभाष्येवृत्तिं विधातुं भगवन्नागाधे ॥१९॥यव्दाऽयमानन्दगिरिर्यदुग्रतप: प्रसन्ना परमेष्ठित्नी ।भवत्प्रबन्धेषु यथाभिसंधि व्याख्यानसामर्थ्यवरं दिदेश ॥२०॥कर्मैकतानमतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरुप: ।भाष्यस्य पद्मपद एव करातु टीकामित्यूचिरे रहसि योगिवरं विधेया: ॥२१॥अत्रान्तरेऽभ्यर्णगत: स तूर्ण सनन्दनो वाक्यमुदाजहार ।आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥२२॥यत: करस्थामलकाविशेशं जानाति सिध्दान्तमसावशेषम् ।अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥२३॥वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदाबभाषे ।नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहि; प्रवृत्ति: ॥२४॥अयं तु बाल्ये न पपाठ पित्रा नियोजित: सादरमक्षराणि ।न चोपनीतोऽपि गुरो: सकाशादध्यैष्ट वेदान् परमार्थनिष्ठा: ॥२५॥बालैर्न चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि ।निश्चित्य भूतोपहतं तमेनमानिन्यिरेऽस्मान्निकटं कदाचित् ॥२६॥अस्मानवेक्ष्यैव मुहु: प्रणम्य कृताज्जलौ तिष्ठति बालकेऽस्मिन् ।इमामपूर्वा प्रकृति विलोक्य विसिष्मिये तत्र जन: समेत: ॥२७॥कस्त्वं शिशो कस्य सुत: कुतो वेत्यस्माभिराचष्ट किलैष पृष्ट: ।आत्मानमानन्दघनस्वरुपं विस्मापयन् वृत्तयर्यैर्वचोभि: ॥२८॥तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।पिता प्रपद्यास्य परं प्रहर्ष सप्रश्रयां वाचमुवाच विज्ञ: ॥२९॥जनैर्जड्त्वेन विनिश्चितोऽपि ब्रवीति यद्येष परात्मतत्त्वम् ।प्रज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवत: प्रभाव: ॥३०॥आ जन्मन: संसृतिपाशमुक्त: शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।प्रफुल्लराजीववने विहारी कथं रमेत क्षुरके मराल: ॥३१॥विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदार: ।आ शैशवादात्मविलीनचेता: कथं प्रवर्तेत महाप्रबन्धे ॥३२॥श्रुत्वेति पप्रच्छुरमुं विनेया: स्वामिन् विनैव श्रवणाद्युपायै: ।अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥३३॥तानब्रवीत् संयमिचक्रवतीं कश्चित् पुरा यामुनतीरवर्ती ।बभूव सिध्द: किल साधुवृत्त: सांसारिकेभ्य: सुतरां निवृत्त: ॥३४॥तस्यान्तिके काचन विप्रकन्या व्दिहायनं जातु निवेश्य बालम् ।क्षणं प्रतीक्षस्व शिशुं व्दिजेति स्रातुं सखीभि: सह निर्जगाम ॥३५॥अत्रान्तरे दैववशात्स बालश्चड्क्रन्दुरुचै: पुरतो महर्षे: ॥३६॥आक्रोशमाकर्ण्य मुनि: स तेषामत्यन्तखिन्नो निजथोगभूम्रा ।पाविक्षदडं पृथुकस्य तस्य स एष हस्तामलकस्तपस्त्री ॥३७॥तस्मादयं वेद विनोपदेशं श्रुतीरनन्ता: सकला: स्मृतीश्च ।सर्वाणि शास्त्राणि परं च तत्त्वमज्ञातमेतेन न किश्चिदस्ति ॥३८॥तत्तादृगात्मा न बहि: प्रवृत्तौ नियोगमर्हत्ययमत्र वृतौ ।स मण्डनस्त्वर्हति बुध्दतत्त्व: सरस्वतीसाक्षिकसर्ववित्त्व: ॥३९॥तत्तादृशात्युज्ज्वलकीर्तिराशिई: समस्तशास्त्रार्णवपारदर्शी ।असादितो धर्महित : प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्य: ॥४०॥अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ।किंचात्र संशीतिरभून्ममातो यदेककार्ये बहव: प्रतीपा: ॥४१॥भवन्निदेशाद्भगवन् सनन्दन: करिष्यते भाष्यनिबन्धमीप्सितम् ।स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकर्षो विदितो हि सर्वत:॥४२॥सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नूत्नदीक्ष: ॥४३॥आदिश्येत्थं शिष्यसघं यतीन्द्र: प्रोवाचेत्थं नूत्नभिक्षुं रहस्तम् ।भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्या: सेहिरे दुर्विदग्धा: ॥४४॥तात्पर्य ते गेहिधर्मेषु दृष्ट्रा तत्संस्कारं सांप्रतं शकमाना: ।भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्यं प्राहु: स्वीयसिध्दान्तशेषम् ॥४५॥नास्त्येवासावाश्रमस्तुर्य इत्थं सिध्दान्तोऽयं तावको वेदसिध्द:।व्दारि व्दा:स्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥४६॥इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनल्पे ।स्वातन्त्र्यात्त्वं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥४७॥विव्दन् यव्दत्प्रत्यय: स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन ।इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये ना भूध्दाहेत्याप खेदं च किंश्चित् ॥४८॥शिष्योक्तिभि: शिथिलितात्ममनोरथोऽसा -वेनं स्वतन्त्रकृतिनिर्मितये न्ययुक्त ।नैष्कर्म्यसिध्दिमचिराव्दिदधत्स चेत्थं न्याय्यामविन्दत सुरेश्वरदेशिकाख्याम् ॥४९॥नैष्कर्म्यसिध्दिमथ तां निरवद्ययुक्तिं निष्कर्मतत्त्वविषयावगतिप्रधानाम् ।आद्यन्तहृद्यप्दबन्धवतीमुदारामाद्यन्तमैक्षततरां परितुष्टचेता: ॥५०॥ग्रन्थं दृष्ट्रा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।तेषां चाऽऽसीत्प्रत्ययस्तव्ददस्मिन् गव्दचान्यस्तत्त्वविद्य: स नेति ॥५१॥यत्राद्यापि श्रूयते मस्करीन्द्रैर्निष्कर्माऽऽत्मा यत्न नैष्कर्म्यसिध्दि: ।तन्नाम्राऽयं ववृधे ग्रन्थवर्यस्तन्माहात्म्यात् सर्वलोकादृतोऽभूत् ॥५२॥आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्रं यदन्ये व्यधुरुत्ससर्ज ।शापं कृतेऽस्मिन् कृतमप्युदारै: तव्दार्तिकं न प्रसरेत् पृथिव्याम् ॥५३॥नैष्कर्म्यसिध्दयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।विश्वासमुक्त्वाऽथ पुनर्बभाषे स विश्वरुपो गुरुमात्मदेवम् ॥५४॥न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहित: प्रबन्ध: ।नोल्लघनीयं वचनं गुरुणां नोल्लघने स्याद्रुरुशिष्यभाव: ॥५५॥पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।न यौवनं वृध्दमुपैति तव्दत् व्रजन् हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥५६॥अहं गृही नात्र विचारणीयं किं तेन पूर्व मन एव हेतु: ।बन्धे च मोक्षे च मनोविशुध्दो गृही भवेव्दाऽप्युत मस्करी वा ॥५७॥नास्त्येव चेदाश्रम उत्तमाऽऽदि: कथं च तत्प्राप्तिनिवृत्तिगामिनौ ।प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुध्दा ॥५८॥संभिक्षमाणा न लभन्त एव चेद्रुहप्रवेशं गुरुणा प्रवेशनम् ।कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायक: ॥५९॥तत्त्वोपदेशाव्दितितात्मतत्त्वो व्यधामहं संन्यसनं कृतात्मा ।विरागभावान्न पराजितस्तु वादो हि तत्त्वस्य विनिर्णयाय ॥६०॥पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्था: ।इत : परं मे हॄदयं चिकीर्षु त्वदड् घ्रिसेवाम न विलघय किश्चित् ॥६१॥श्रध्दामव्दैतबध्दादरबुधपरिषच्छेमुषीसंनिषण्णा -मर्वाग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् ।सिक्त्वा सूक्तामृतौघैरहह परिहसज्जीवयस्यद्य सद्य: को वा सेवापटु: स्याद्रणतरणविधौ सद्रुरोनैव जाने ॥६२॥इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके नो संभाव्यहहात्र वार्तिकमिति प्रौढं शु वग्रिं शनै: ।धीराग्र्य: शमयन्विवेकपयसा देवेश्वरेण त्रयी -भाष्ये कारयितुं स वार्तिकयुगं बध्दादरोऽभुन्मुनि: ॥६३॥भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयै: पदै: सह निराकुतपूर्वपक्षम् ।सिध्दान्तयुक्तिविनिवेशिततत्स्वरुपं दृष्ट्राऽभिनन्द्य परितोषवशादवोचत् ॥६४॥सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्यनिबन्ध इष्ट:।तव्दार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्रसिध्दम् ॥६५॥तव्दत्त्व्दीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।तव्दार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्ति: ॥६६॥तत्रोभयत्र क्रुरु वार्तिकमार्तिहारि कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् ।मा शकि पूर्वमित्र दु:शठवाक्यरोधो मव्दाक्यमेव शरणं व्रज मा विचारी: ॥६७॥इत्थं स उक्तो भगवत्पदेन श्रीविश्वरुपो विदुषां वरिष्ठ: ।चकार भाष्यव्दयवार्तिके व्दे ह्याज्ञा गुरुणां ह्यविचारणीया ॥६८॥आज्ञा गुरोरनु वरैर्न हि लघनीयेत्युक्त्वा तयोर्निगमशेखरयोरुदारम् ।निर्माय वार्तिकयुगं निजदेशिकाय नि:सीमनिस्तुलनधीरुपदां चकर ॥६९॥सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टोकां व्यधितेरित: पराम् ।यत्पूर्वभाग: किल पश्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥७०॥व्यासर्षिसूत्रनिचयस्य विवेचनाय टीकामिधं विजयडिण्डिममात्मकीर्ते: ।निर्माय पद्मचरणो निरवद्ययुक्तिदृब्धं प्रबन्धमकरोद्रुरुदक्षिणां स : ॥७१॥आलोचयन्नथ तदानुगतिं ग्रहाणामूचे सुरेश्व्व्रसमाह्वयमुपह्वरे स: ।पश्चैव वत्स चरणा: प्रथिता इह स्युस्तत्रापि सूत्रयुगलव्दयमेव भूम्रा ॥७२॥प्रारब्धकर्मपरीपाकवशात् पुनस्त्वंवाचस्पतित्वमधिगम्य वसुन्धरायाम् ।भव्यां विधास्यसितमां मम भाष्यटीका -माभूतसंलयमधिक्षिति सा च जीयात् ॥७३॥इत्येवमुक्त्वऽथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स हूत्वा ।कुरुध्वमव्दैतपरान्निबन्धान्नित्यन्वशा न्निर्ममसार्वभौम: ॥७४॥ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावा: ।आतेनुर्जगति यथास्वमात्मतत्त्वाम्भोजार्कान् विशदतरान् बहून्निबन्धान् ॥७५॥इति श्रीमाधवीये तव्दार्तिकान्तप्रवर्तन: ।संक्षेपशकरजये पूर्ण: सर्गस्रयोदश: ॥१३॥आदित: श्लोका : १३८७ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP