संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| तृतीय: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - तृतीय: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत देवावतार: Translation - भाषांतर इति बालमृगाकशेखरे सति बालत्वमुपागते तत: ।दिविषत्प्रवरा: प्रजज्ञिरे भुवि षट् शास्त्रविदां सतां कुले ॥१॥कमलानिलय: कलानिधेर्विमलाख्यादजनिष्ट भूसुरात् ।भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यश: ॥२॥पवमानोऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डलात् ।गलहस्तितभेदवाद्यसौ किल हस्तामलकाभिधामघात् ॥३॥पवमानदशांशतोऽजनि पवमानाऽश्चति यद्यशोम्बुधौ ।धरणी मथिता विवादिवाक्तरणी येन स तोटकाह्वय: ॥४॥उदभावि शिलादसूनुना मदवव्दादिकदम्बनिग्रहै: ।समुदश्चितकीर्तिशालिनं यमुदकं ब्रुवते महीतले ॥५॥विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिर्व्यजायत ।अरुण: समभूत्सनन्दनो वरुणोऽजायत चित्सुरवाह्वय: ॥६॥अपरेऽप्यभवन्दिवौकस: स्वपरेर्ष्याप्रविव्दिष: प्रभो: ।चरणं परिसेवितुं जगच्छरणं भूसुरपुडवात्मजा: ॥७॥चार्वाकदर्शनविधानसरोषधातृ -शापेन गीष्पतिरभूद्भुवि मण्डनाख्य: ।नन्दीश्वर: करुणयेश्वरचोदित: स -न्नानन्दगिर्यभिधया व्यजनीति केचित् ॥८॥अथावतीर्णस्य विधे: पुरन्घ्री साऽभूद्यदाख्योभयभारती ति ।सरस्वती सा खलु वस्तृवृत्या लोकोऽपि तां वक्ति सरस्वतीति ॥९॥पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् ।वेदं तदा दुर्वसनोऽतिकोपनो वेदान्धीयन्कचिद्स्खलत्स्वरे ॥१०॥तदा जहासेन्दुमुखी सरस्वती यदडमर्णोद्भवशब्दसन्तति: ।चुकोप तस्यै दहनानुकारिणा निरैक्षताक्ष्णा मुनिरुग्रशासन: ॥११॥शशाप तां दुर्विनयेऽवनीतले जायस्व मर्त्येष्वबिभेत्सरस्वती ।प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥१२॥दृष्टा विषण्णां मुनय: सरस्वतीं प्रसादयांचक्रुरिमं तमादरात् ।कृतापराधा भगवन्क्षमस्व तां पितेव पुत्र विहितागसं मुने ॥१३॥प्रसादितोऽभूदथ सम्प्रसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।ददौ यदा मानुषशकरस्य संदर्शनं स्याद्भवितास्यमर्त्या ॥१४॥सा शोणतीरेऽजनि विप्रकन्या सर्वार्धवित्सर्वगुणोपपन्ना ।यस्या बभूवु: सहजाश्च विद्या: शिरोगतं के परिहर्तुमीशा: ॥१५॥सर्वाणि शास्त्राणी षडडवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूचित्रपदं जनानाम् ॥१६॥सा विश्वरुपं गुणिनं गुणज्ञा मनोऽभिरामं व्दिजपुडवेभ्य: ।शुश्राव तां चापि स विश्वरुपस्तस्मात्तयोर्दर्शनलालसाऽभूत् ॥१७॥अन्योन्यसंदर्श्नलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।अवाप्य संदर्शनभाषणानि पुन: प्रबुध्दौ विरहाग्रितप्तौ ॥१८॥दिदृक्षमाणावपि नेक्षमाणावन्योन्यवार्ताहॄतमानसौ तौ ।यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ॥१९॥दृष्ट्रा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताडौ ।वपु: कृशं ते मनसोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ॥२०॥इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दु:खानि शरीरभाजाम् ।वीक्षे न तौ व्दावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥२१॥न तेऽत्यगादुव्दहनस्य काल: परावमानो न च नि:स्वता वा ।कुटुम्बभारो मयि दु:सहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥२२॥न मूढभाव: परितापहेतु: पराजितिर्वा तव तन्निदानम् ।विव्दत्सु विस्पष्टतयाऽग्रपाठात्सुदुर्गमार्थादपि तर्कविद्भि: ॥२३॥आ जन्मनो विहितकर्मनिषेवणं ते स्वप्नेऽपि नास्ति विहितेतारकर्मसेवा ।तस्मान्न भेयमपि नारकयातनाभ्य: किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४॥निर्बन्धतो बहुदिनं प्रतिपाद्यमानौवक्तुं कृपाभरयुताविद्मूचतु: स्म ।निर्बन्धतस्तव वदामि मनोगतं मे वाच्यं न वाच्यमिति यव्दितनोति लज्जाम् ॥२५॥शोणाख्यपुंनदतटे वसतो व्दिजस्यकन्या श्रुतिं गतवती व्दिजपुडवेभ्य: ।सर्वज्ञतापदमनुत्तमरुपवेषां तामुव्दिवक्षति मनो भगवन्मदीयम् ॥२६॥पुत्रेण सोऽतिविनयं गदितोऽन्वशाद् व्दौ विप्रौ वधूवरणकर्मणि सम्प्रवीणौतावापतुर्व्दिजगृहृं व्दिजसंदिदूक्षूदेशानतीत्य बहुलान्निजकार्यसिध्दयै ॥२७॥भूभृन्निकेतनगत: श्रुतविश्वशास्त्र:श्रीविश्वरुप इति य: प्रथित: पृथिव्याम् ।तत्पादपद्मरजसे स्पृहयामि नित्यं साहाय्यमत्र यदि तात भवान्विदध्यात् ॥२८॥पुत्र्या वच: पिबति कर्णपुटेन ताते श्रीविश्वरुपगुरुणा गुरुणा व्दिजानाम् ।आजग्मतु: सुवसनौ विशदाभयष्टीसंप्रेषितौ सुतवरोव्दहनक्रियायै ॥२९॥तावार्च्य स व्दिजवरौ विहितोपचारैरायानकारणमथो शनकैरपृच्छत् ।श्रीविश्वरुपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकाया: ॥३०॥संप्रेषितौ श्रुतवय: कुलवृत्तधर्मै: साधारणीं श्रुतवता स्वसुतस्य तेन ।याचावहे तव सुतां व्दिज तस्य हेतोरन्योन्यसंघटनमेतु मणिव्दयं तत् ॥३१॥मह्यं तदुक्तमभिरोचत एव विप्रौ पृष्टा वधू मम पुन: करवाणि नित्यम् ।कन्याप्रदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयु: ॥३२॥भार्यामपृच्छदथ किं करवाव भद्रेविप्रौ वरीतुमनसौ खलु राजगेहात् ।एतां सुतां सुतनिभा तव याऽस्ति कन्या ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३॥दूरे स्थिति: श्रुतवय: कुलवृत्तजातं न ज्ञायते तदपि किं प्रवदामि तुभ्यम् ।वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥३४॥नैवं नियन्तुमनघॆ तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।प्रादात्स भीष्मकनृप: खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय ॥३५॥किं केन सडतमिदं सति मा विचारीर्यो वैदिकीं सरणिमप्रहतां प्रयत्नात ।प्रातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनम शिषत्स च भटट्पाद: ॥३६॥किं वर्ण्यते सुदति यो भविता वरो नो विद्याधनं व्दिजवरस्य न बाह्यवित्तम् ।याऽन्वेति सन्ततमनन्तदिगन्तभाजंयां राजचोरवनिता न च हर्तुमीशा: ॥३७॥वध्वर्जनावनपरिव्ययगानि तानिवित्तानि चित्तमनिशं परिखेदयन्ति ।चोरान्नपात्स्व्जनतश्च भयं धनानां शर्मेति जातु न गुण: खलु बालिशस्य ॥३८॥केचिध्दनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् ।अन्येन गोपितमथान्यजना हरन्ति तचेन्नदीपरिसरे जलमेव हर्तृ ॥३९॥सर्वात्मना दुहितरो न गृहे विधेयास्ताश्चेत्पुरा परिणयाद्रज उद्रतं स्यात् ।पश्येयुरात्मपितरौ बत पातयन्ति दु:खेषु घोरनरकेष्विति धर्मशास्त्रम् ॥४०॥मा भूदयं मम सुता कलह: कुमारींपृच्छाव सा वदति यं भविता वरोऽस्या :।एवं विधाय समयं पितरौ कुमार्या:अभ्याशमीयतुरितो गदितेष्टकार्यौ ॥४१॥श्रीविश्वरुपगुरुणा प्रहितौ व्दिजातीकन्यार्थिनौ सुतनु किं करवाव वाच्यम् ।तस्या: प्रमोदनिचयो न ममौ शरीरेरोमाश्चपूरमिषतो बहिरुज्जगाम ॥४२॥तेनैव सा प्रतिवच: प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् ।आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्व्दिजवरौ स्वनिकेतनाय ॥४३॥अस्माचतुर्दशदिने भविता दशम्यांजामित्रभादिशुभयोगयुतो मुहूर्त: ।एवं विलिख्य गणितादिषु कौशलास्याव्याख्यापराय दिशति स्म सरस्वती सा ॥४४॥तौ हृष्टपुष्टमनसौ विहितेष्टकार्यौश्रीविश्वरुपगुरुमुत्तममैक्षिषाताम् ।सिध्दं समीहितमिति प्रथितानुभावोदृष्ट्रैव तन्मुखमसावथ निश्चिकाय ॥४५॥अन्य: स्वहस्तगतपत्रमदात्स पत्रं दृष्ट्रा जहास सुखवारिनिधौ ममज्ज ।विप्रान्यथोचितमपूजयदागतांस्तान्नत्वांऽशुकदिभिरयं बहुवित्तलभ्यै: ॥४६॥पित्रानुशिष्टावसुधासुरशंतितेन विज्ञापित: सुखमवाप स विश्वरुप: ।कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रिय: परिणयोचितसाधनाय ॥४७॥मौहुर्तिकैर्बहुभिरेत्य मुहूर्तकाले संदर्शिते व्दिजवरैर्बहुविद्भिरिष्टै: ।माडल्यवस्तुसहितोऽखिलभूषणाढय: स प्रापदक्षततनु: पृथुशोणतीरम् ॥४८॥शोणस्य तीरमुपयातमुपाश्रृणोत्स जामातरं बहुविधं किल विष्णुमित्र: ।प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषै: ॥४९॥दत्त्वाऽऽसनं मृदुवच: समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्घपात्रे ।अर्घ्यं ददावहमियं तनया गृहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥५०॥अस्माकमद्य पवितं कुलमादृता: स्म: संदर्शनं परीणयव्यपदेशतोऽभूत ।नोचेद्भवान्बहुविदग्रसर: कचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥५१॥यद्यद्रहेऽत्र भगवन्निह रोचते ते तत्तन्निवेद्यमखिलं भवदीयमेतत् ।वक्ष्यामि सर्वमभिलाषदं त्वदीयं युक्तं हि सन्ततमुपासितवृध्दपूगे ॥५२॥एवं मिथ: परिनिगद्य विशेषमृव्दया वाचा युतौ मुदमवापतुरुत्तमां तौ ।अन्ये च संमुमुदिरे प्रियैसत्कथाभि: स्वेच्छाविहारहसनैरुभये विधेया: ॥५३॥कन्यावरौ प्रकृतिसिध्दसुरुपवेषौ दृष्टोभयेऽपि परिकर्म विलम्बमाना: ।चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शोभाविशेषमपि मडलवासरेऽस्मिन् ॥५४॥एतत्प्रभाप्रतिहतत्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने ।लोकप्रसिध्दिमनुसृत्य विधेयबुध्दया भूषां व्यधुस्तदुभये न विशेषबुध्दया ॥५५॥पश्चात्तदुक्ताशुभयोगयुते शुभांशे मौहूर्तिका: स्वमतितो जगृहुर्मुहूर्तम् ॥५६।जग्राह पाणिकमलं हिममित्रसूनु: श्रीविष्णुमित्रदुहितु: करपल्लवेन ।भेरीमृदडपटहाध्ययनाब्जघोषैर्दिडमण्डले सुपरिमूर्च्छति दिव्यकाले ॥५७॥यं यं पदार्थमभिकामयते पुमान्यस्तं ते प्रदाय समतूतुषतां तदीडयौ ।देवद्रुमाविव महासुमनस्त्वयुक्तौ संभूषितौ सदसि चेरतुरात्मलाभौ ॥५८॥आघाय वह्रिमथ तत्र जुहाव सम्य -ग्गृह्योक्तमार्गम्नुसृत्यज स विश्वरुप: ।लाजाज्जुहाव च वधू: परिजिघ्रति स्म धूमं प्रदक्षिणमथाकृत सोऽपिइ चाग्रिम् ॥५९॥होमावसानपरितोषितविप्रवर्य: प्रस्थापिताखिलसमागतबन्धुवर्ग: ।संरक्ष्य वह्रिमनया सममग्रिगेहे दीक्षाधरो दिनचतुष्कमुवास हृष्ट: ॥६०॥प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वराया: ।आभाषिषातां श्रृणु सावधानो बालेव बाला न तु वेत्ति किश्चित् ॥६१॥बालैरियं क्रिडति कन्दुकाद्यैर्जातक्षुधा गेहमुपैति दु:खात् ।एकेति बाल गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥६२॥बालेयमड वचनैर्मृदुभिर्विधेया कार्या न रुक्षवचनैर्न करोति रुष्टा ।केचिन्मृदूक्तिवशगा विपरीतभावा: केचिव्दिहातुमनलं प्रकृतिं जनो हि ॥६३॥कश्चिद् व्दिजातिरधिगम्य कदाचिदेनामुव्दीक्ष्य लक्षणमवोचदनिन्दितात्म ।मानुष्यमात्रजननं निजदेवभावेत्यस्माच्चा वो वचनमुग्रमयोज्यमस्याम् ॥६४॥सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिव्ददतो: कथायाम् ।तत्साक्षिभावं व्रजिताऽनवद्या संदिश्य नावेबमसौ जगाम ॥६५॥श्वश्रूर्वराया वचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम् ।निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनै: शनैस्ते ॥६६॥बाल्येषु बाल्यात्सुलभोऽपरध: स नेक्षणीयो गृहिणीजनेन ।वयं सुधीभूय हि सर्व एव पश्चाद्रुरुत्वं शनकै: प्रयाता: ॥६७॥दृष्ट्राऽभिधातुमनलं च मनोऽस्मदीयंगेहाभिरक्षणविधौ न हि दृश्यतेऽन्य: ।दृष्ट्राऽभिधानफलमेव यथा भवेन्नोब्रूयात्तथेष्टजनता जननीं वरस्य ॥६८॥वत्से त्वमद्य गमितऽसि दशामपूर्वा तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।कुर्यान्न बालविहृतिं जनतोहास्यां सा नाविवापरमियं परितोषयेत्ते ॥६९॥पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्या: पितरौ तत: परम् ।पतिस्तमेकं शरणं व्रजानिशं लोकव्दयं जेष्यसि येन दुर्जयम् ॥७०॥पत्यावभुक्तवति सुन्दरि मा स्म भुडक्ष्व याते प्रयातमपि मा स्म भवेव्दिभूषा ।पूर्वापरादिनियमोऽस्ति निमज्जनादौ वृध्दाडानाचरितमेव परं प्रमाणम् ॥७१॥रुष्टे धवे सति रुषेह न वाच्यमेकं क्षन्तव्यमेव सकलं स तु शाम्यतीत्थम् ।तस्मिन्प्रसन्नवदने चकितेव वत्से सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥७२॥भर्तु: समक्षमपि तव्ददनं समीक्ष्य वाच्यो न जातु सुभगे परपूरुषस्ते ।कि वाच्य एष रहसीति तवोपदेश:शका वधूपुरुषयो: क्षपयेध्दि हार्दम् ॥७३॥आयाति भर्तरि तु पुत्रि विहाय कार्य -मुत्थाय शीघ्रमुदकेन पदावनेक: ।कार्यो यथाभिरुचि हे सति जीवन वानोपेक्षणीयमणुमात्रमपीह कं ते ॥७४॥धवे परोक्षेऽपि कदाचिदेयुर्गृहं तदीया अपि वा महान्त: ।ते पूजनीया बहुमानपूर्व नो चेन्निराशा: कुलदाहका: स्यु: ॥७५॥पित्रोरिव श्वशुरयोरनुवर्तितव्यंतव्दन्मृगाक्षि सहजेष्वपि देवरेषु ।ते स्नेहिनो हि कुपिता इतरेतरस्ययोगं विभिद्युरिति मे मनसि प्रतर्क: ॥७६॥हितोपदेशए विनिविष्टमानसौ वधूवरौ राजगृहं समीयतु: ।लब्धानुमानौ गुरुबन्धुवर्गतो बभूव संज्ञोभयभारतींति ॥७७॥सा भारती दुर्वसनेन दत्त पुन: प्रसन्नेन पुराऽऽत्तहर्षा ।शापवधिं संसदि वर्त्स्यते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥७८॥स भारती साक्षिकसर्ववित्त्वोऽप्यात्मीयशक्त्या शिशुवव्दिभात: ।स्वशैशव्स्योचितमन्वकांक्षीत्स केशवो यव्ददुदारवृत्त: ॥७९॥शैशवे स्थितवता चपलाशे शार्डिणेव वटवृक्षपलाशे ।आत्मनीदमखिलं विलुलोके भाविभूतमपि यत्खलु लोके ॥८०॥तं ददर्श जनताऽद्भुतबालं लीलयाऽधिगतनूतनदोलम् ।वासुदेवमिव वामनलीलं लोचनैरनिमिषैरनुवेलम् ॥८१॥कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि ।केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥८२॥शाक्यै: पाशुपतैरपि क्षपणकै: कापालिकैर्वैष्णवै -रप्यन्यैरखिलै: खलै: खलु खिलं दुर्वादिभिर्वैदिकम् ।पन्थानं परिरक्षितुं क्षितितलं प्राप्त: परिक्रीडतेघोरे संसृतिकानने विचरतां भद्रंकर: शकर: ॥८३॥इति श्रीमाधवीये तत्तद्देवावतारार्थक: ।संक्षेपशकरजये तृतीय: सर्ग आभवत् ॥आदित: श्लोका: २७४ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP