श्रीमच्छङ्करदिग्विजय: - सप्तम: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


स जातु शारीरकसूत्रभाष्यमध्यापयन्नभ्रसरित्समीपे ।
शिष्यालिशका: शमयन्नुवास यावन्नभोमध्यमितो विवस्वान्‍ ॥१॥
श्रान्तेष्वथाधीत्य शनैर्विनेयेष्वाचार्य उत्तिष्ठति यावदेष: ।
तावद्‍ व्दिज: कश्चन वृध्दरुप: कस्त्वं किमध्यापयसीत्यपृच्छत्‍ ॥२॥
शिष्यास्तमूचुर्भगावानसौ नो गुरु: समस्तोपनिषत्स्वतन्त्र: ।
अनेन दुरीकृतभेदवादमकारि शारीरकसूत्नभाष्यम्‍ ॥३॥
स चाब्रवीद्भाष्यकृतं भवन्तमेते वदन्त्यद्भतमेतदास्ताम्‍ ।
अथैकमुच्चारय पारमार्ष यतेऽर्थतस्त्वं यदि वेत्थ सूत्रम्‍ ॥४॥
तमब्रवीद्भाष्यकृग्र्यवाचं सूत्रार्थविद्भयोऽस्तु नमो गुरुभ्य: ।
सूत्रज्ञताहंकृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तह्र्वीमि ॥५॥
पप्रच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम्‍ ।
‘तदन्तरे ’ त्यादिकमस्ति सूत्रं ब्रूह्येतदर्थ यदि वेत्थ किश्चित्‍ ॥६॥
स प्राह जीव: करणावसादे संवेष्टितो गच्छति भूतसूक्ष्मै: ।
ताण्डिश्रुतौ गौतमजैवलीयप्रश्नोत्तराभ्यां प्रथितोऽयमर्थ: ॥७॥
इत्युक्तमर्थं निशमय्य तेन स वावदूक: शतधा विकल्प्य ।
अखण्डयत्पण्डितकुज्जराणां मध्ये महाविस्मयमादधान: ॥८॥
अनुद्य सर्व फणितं तदीयं सहस्रधा तीर्थकरश्चखण्ड ।
तया: सुराचार्यफणीन्द्रवाचोर्दिनाष्टकं वाक्कलहो जजृम्भे ॥९॥
एवं वदन्तौ यतिराड्‍ व्दिजेन्द्रौ विलोक्य पार्श्वस्थितपद्मपाद: ।
आचार्यमाहेति महीसुरोऽयं व्यासो हि वेदान्तरहस्यवेत्ता ॥१०॥
त्वं शकर: शकर एव साक्षात्‍ व्यासस्तु नारायण एव नूनम्‍ ।
तयोर्विवादे सततं प्रसक्ते किं किकरोऽहं करवणी सद्य : ॥११॥
इतीदमाकर्ण्य वचो विचित्नं स भाष्यकृत्सूत्रकृतं दिदृक्षु: ।
कृताज्जलिस्तं प्रयत: प्रणम्य बभाण वाणीं नवपद्यरुपाम्‍ ॥१२॥
भवांस्तडिच्चारुजटाकिरीटप्रवर्षुकाम्भोधरकान्तिकान्त: ।
शुभ्रोपवीती धृतकृष्णचर्मा कृष्णो हि साक्षात्कलिदोषहन्ता ॥१३॥
भावत्कसूत्नप्रतिपाद्यतादृक्यपरापरार्थप्रतिपाद्कं सत्‍ ।
अव्दैतभाष्यं तव संमतं चेत्सोढ्‍वा ममाऽग: पुरतो भवाऽऽशु ॥१४॥
एवं व्दन्नयमथैक्षत कृष्णमाराच्चामीकरव्रततिचारुजटाकलापम्‍ ।
विद्युल्लतावलयवेष्टितवारिदाभं चिन्मुद्रया प्रकटयन्तमभीष्टामर्थम्‍ ॥१५॥
गाढोपगूढमनुरागजुषा रजन्या गर्हापदं विदधतं शरदिन्दुबिम्बम्‍ ।
तापिच्छरी तितनुकान्तिझरीपरीतं कान्तेन्दुकान्तघटितं करकं दधानम्‍ ॥१६॥
सप्ताधिकाच्छदरविंशतिमौक्तिकाढयां
सत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम्‍ ।
तत्तादृशस्वपतिवंशविवर्धनात्मा -
क्तारावलीमुपगतामिव चानुनेतुम्‍ ॥१७॥
शार्दूलचर्मोव्दहनेन भूतेरुध्दूलनेनापि जटाच्छटाभि: ।
रुद्राक्षमालावलयेन शम्भोरर्धासनाध्यासनसख्यपात्रम्‍ ॥१८॥
अव्दैतविद्यासृणितीक्ष्णधारावशीकृताहंकृतिकुज्जरेन्द्रम्‍ ।
स्वशास्त्रशड्‍कूज्ज्वलसूत्रदामनियान्त्रिताकृत्रिमगोसहस्रम्‍ ॥१९॥
तत्तादृगत्युज्ज्वलकीर्तिशालिशिष्यालिसंशोभितपार्श्वभागम्‍ ।
कटाक्षबीक्षामृतवर्षधारानिवारिताशेषजनानुतापम्‍ ॥२०॥
विलोक्य वाचंयमसार्वभौमं स शकरोऽशकितदर्शनं तम्‍ ।
गुरुं गुरुणामपि हृष्टचेता: प्रत्युद्ययौ शिष्यगणै: समेत: ॥२१॥
अत्यादराच्छात्रगणै: सहासौ प्रत्युद्रतस्तचरणौ प्रणम्य ।
यत्यग्रगामी विनयी प्रहृष्यन्नित्यब्रवीत्सत्यवतीसुतं स: ॥२२॥
व्दैपायन स्वगतमस्तु तुभ्यं दुष्ट्रा भवन्तं चरिता मयाऽर्था: ।
युक्तं तदेतत्त्वयि सर्वकालं परोपकारव्रतदीक्षितत्त्वात्‍ ॥२३॥
मुने पुराणानि दशाष्ट साक्षाच्छ्रुत्यर्थगर्भाणि सुदुष्कराणि ।
कृतानि पद्यव्दयमत्र कर्तु को नाम शक्रो ति सुसंगतार्थम्‍ ॥२४॥
वेदार्णवं व्यतियुतं व्यदधाश्चतुर्धा
शाखाप्रभेदनवशादपि तान्‍ विभक्तान्‍ ।
मन्दा: कलौ क्षितिसुरा जनितार एते
वेदान्‍ ग्रहीतुमलसा इति चिन्तयित्वा ॥२५॥
एष्याव्दिजानासि भवन्तमर्थ गतं च सर्व न न वेत्सि यत्तत्‍ ।
नो चेत्कथं भूतभवद्भविष्यत्कथाप्रबन्धान्‍ रचयेरजानन्‍ ॥२६॥
आभासयन्नन्तरमडमान्ध्यं स्थूलं च सूक्ष्मं बहिरन्तरं च ।
अपानुदन्‍ भारतशीतरश्मिरभूदपूर्वो भगवत्पयोधे: ॥२७॥
वेदा: षडडं निखिलं च शास्त्रं महन‍ महाभारतवारिराशि: ।
त्वत्त: पुराणानि च संबभूवु: सर्व त्वदीयं खलु वाडयाख्यम्‍ ॥२८॥
व्दीपे कचित्‍ सम्दुअयन्नृतमेव धाम शाखाशस्रसचिव: शुकसेव्यमान: ।
उल्लासयत्यहह यस्तिलको मुनीनामुच्चै: फलानि सुदृशां निजपादभाजाम्‍ ॥२९॥
धत्से सदाऽऽर्तिधमनाय हृदा गिरीशं गोपायसेऽधिवदनं च चिरन्तनीर्गा: ।
दूरीकरोषि नरकं च दयार्द्रदृष्टया कस्ते गुणान्‍ गदितुमद्भुतकृष्ण शक्त: ॥३०॥
यमामनन्ति श्रुतय: पदार्थ न सन्न चासन्न बहिर्न चान्त: ।
स सच्चिदानन्दघन: परात्मा नारायणस्त्व पुरुष: पुराण: ॥३१॥
इति स्तुतस्तेन यथाविधानमासेदिवान्‍ विष्ठरमात्मनिष्ठा: ।
व्दैपायन: प्रश्नयनम्रपूर्वकायं यतीशानमिदं ब्रभाषे ॥३२॥
त्वमस्मदादे: पदवीं गतोऽभूरखण्डपाण्डित्यमवोधयं ते ।
शुकर्षिवत्‍ प्रीतिकरोऽसि विव्दन्‍ पुरेव शिष्यै: सह मा भ्रमीस्त्वम्‍ ॥३३॥
कृतं त्वया भाष्यमितीन्दुमौले: सभाडणे सिध्दमुखान्निशम्य ।
हृदा प्रहॄष्टेन दिदृक्षया ते दृगध्वनीन: प्रशमिन्नभूवम्‍ ॥३४॥
इत्थं मुनीन्द्रवचनश्रवणोत्थहर्ष रोमाश्चपूरमिषतो बहिरुत्पवन्तम्‍ ।
बिभ्रत्तमभ्ररुचिमाख्यददभ्रशक्तिं श्रीशकर: शुकमताणवपूर्णचन्द्र: ॥३५॥
सुमन्तुपैलप्रथमा मुनीद्रा महानुभावा ननु यस्य शिष्या: ।
तृणाल्लघीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥३६॥
सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मे: ।
भाष्यप्रदीपेन महर्षिमान्य नीराजनं धृष्टतया न लज्जे ॥३७॥
अकारि यत्साहसमात्मबुध्दया भवत्प्रशिष्यव्यपदेशभाजा ।
विचार्य तत्सूक्तिदुरुक्तिजालमर्ह: समीकर्तुमिदं कृपालु : ॥३८॥
इत्थं निगद्योपरतस्य हस्ताध्दस्तव्दयेनाऽऽदरत: स भाष्यम्‍ ।
आदाय सर्वत्र निरैक्षतासौ प्रसादगांभीर्यगुणाभिरामम्‍ ॥३९॥
सूत्रानुकारिमृदुवाक्यनिवेदितार्थ स्वीयै: पदै: सह निराकृत्तपूर्वपक्षम्‌ ।
सिध्दान्तयुक्तिविनिवेशिततत्स्वरुपं दृष्ट्राऽभिनन्द्य परितोषवशादवो चत्‍ ॥४०॥
न साहसं तात भवानकार्षीद्यत्सूत्रभाष्यं गुरुणा विनीत: ।
विचार्यतां सूत्रदुरुक्तमत्रेत्येतन्महत्साहसमित्यवैमिं ॥४१॥
मीमांसकानामपि मुख्यभूतो वेत्थाखिलव्याकरणानि विव्दन्‍ ।
विनि: सरेत्ते व्दनाद्यतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम्‍ ॥४२।
न प्राकृतस्त्वं सकलार्थदर्शी महानुभाव: पुरुषोऽसि कश्चित्‍ ।
यो ब्रह्मचर्याव्दिषयान्निवार्य पर्यव्रज: सूर्य इवान्धकारान्‍ ॥४३॥
बह्वर्थगर्भाणि लघूनि यानि निगूढभावानि च मत्कृतानि ।
त्वामेवमित्थं विरहय्य नास्ति यस्तानि सम्यग्विवरीतुमीष्टे ॥४४॥
निसर्गदुर्ज्ञानतमानि को वा सूत्राण्यलं वेदितुमर्थत:  सन्‍ ।
क्लेशस्तु तावान्‍ विवरीतुरेषां यावान्‍ प्रणेतुर्विबुधा वदन्ति ॥४५॥
भावं मदीयमवबुध्य यथावदेवं
भाष्यं प्रणेतुमनलं भगवानपीश: ।
सांख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्त्मो -
ध्दर्तु कथं परशिवांशमृते प्रभु: स्यात्‍ ॥४६॥
रोषानुषडकलयाऽपि सुदूरमुक्तो
धत्सेऽधिमानसमहो सकला: कलाश्च ।
सर्वात्मना गिरिजयोपहिरतस्वरुप:
शक्यो न वर्णयितुमद्भुतशकरस्तवम्‍ ॥४७॥
व्याख्याप्यसंख्यै: कविभि: पुरैतव्दयाख्यास्यते कैश्चिदित: परं च ।
भवानिवास्मध्दृदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम्‍ ॥४८॥
व्याखाहि भूयो निगमान्तविद्यां विभेदवादान्‍ विदुषो विजित्य ।
ग्रन्थान्‍ भुवि ख्यापय सानुबन्धानहं गमिष्यामि यथाभिलाषम्‍ ॥४९॥
इत्युक्तवन्तं तमसाववोचत्‍ कृतानि भाष्याण्यपि पाठितानि ।
ध्वस्तानि सम्यक्कुमतानि धैर्यादित: परं किं  करणीयमस्ति ॥५०॥
मुहूर्तमात्रं मणिकर्णिकायां विधेहि सव्दत्सल सन्निधानम्‍ ।
चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावव्दपुरद्य हेयम्‍ ॥५१॥
इतीदमाकर्ण्य वचो विचिन्त्य स शकरं प्राह कुरुष्व मैवम्‍ ।
अनिर्जिता: सन्ति वसुन्धरायां त्वया बुधा: केचिदुदारविद्या: ॥५२॥
जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि ।
नो चेन्मुमुक्षा भुवि दुर्लभा स्यात्‍ स्थितिर्यथा मातृधुतस्य बाल्ये ॥५३॥
प्रसन्नगम्भीरभवत्प्रणीतप्रबन्धसन्दर्भभव: प्रहर्ष: ।
प्रोत्साहत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥५४॥
अष्टौ वयांसि विधिना तव वत्स दत्ता -
न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम्‍ ॥५५॥
त्वमायुषाऽनेन विरोधिवादिगर्वाकुरोन्मूलनजागरुकै: ।
वाक्यै: कुरुष्वोज्झितभेदबुध्दीनव्दैअविद्यापरिपन्थिनोऽन्यान्‍ ॥५६॥
इतीरयन्तं प्रति वाचमूचे स शकर: पावितसर्वलोक: ।
त्वत्सूत्रम्बन्धवशान्मदीयं भाष्यं प्रचारं भुवि यातु विव्दन्‍ ॥५७॥
इतीरयित्वा चरणौ ववन्दे यतिर्मुने: सर्वविदो महात्मा ।
प्रदाय संभाव्य वरं मुनीशो व्दैपायन:  सोऽन्तरधाद्यतात्मा ॥५८॥
इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन्नन्तर्विवेकनिधिरप्यथ विव्यथे स: ।
हॄत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमहो विरहो विषह्य: ॥५९॥
तत्पादपद्मे निजचित्तपद्मे पश्यन्‍ कथंचिव्दिरहं विषह्य ।
यतिक्षितीशोऽपि गुरोर्नियोगान्मनो दधे दिग्विजये मनीषी ॥६०॥
भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान्‍ मुनीन्द्र: ।
वन्ध्यायमानदरविन्धयमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे ॥६१॥
तत: स वेदान्तरहस्यवेत्ता भेत्ताऽमतानां तरसा मतानाम्‍ ।
प्रयागमागात्प्रथमं जिगीषु: कुमारिलं साधितकर्मजालम्‍ ॥६२॥
आमज्जतां किल तनूमसितां सितां च कर्तुं कलिन्दसुतया कलितानुषडाम्‍ ।
अह्राय जह्रुतनयामत निह्रुताघां मध्येप्रयागमगमन्मुनिरर्थमार्गम्‍ ॥६३॥
गडाप्रवाहैरुपरुध्दवेगा कलिन्दकन्या स्तिमितप्रवाहा ।
अपूर्वसख्यागतलज्जयेव यत्राधिकं भाति विचित्रपाथा: ॥६४॥
अन्तेवसद्भिरमलच्छविसम्मदायमध्येतुमाश्रितजलां कुहचिन्मरलै:
चक्रव्दयेन रजनीसहवाससौख्यसंशीलनाय किल संवलितां परत्र ॥६५॥
यत्राप्लुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम्‍ ।
संभुज्जते व्याधिकथानभिज्ञा: प्राहेममर्थ श्रुतिरेव साक्षात्‍ ॥६६॥
अज्ञातसंभवतिरोधिकथाऽपि वाणी यस्या: मितासिततयैव गृणाति रुपम्‍ ।
भागीरथीं यमुनया परिचर्यमाणामेतां विगाह्य मुदितो मुनिरित्यभाणीत्‍ ॥६७॥
सिध्दापगे पुरविरोधिजटोपरोधक्रुध्दा कुत: शतमद: सदृशान्‍ विधत्से ।
बध्दा न किं नु भवितासि जटाभिरेषामध्दा जडापकृतयो न विदन्ति भावि ॥६८॥
सन्मार्गवर्तनपराऽपि सुरापगे त्वमस्थीनि नित्यमशुचीनि किमाददासि ।
आ ज्ञातमम्ब हृदयं तव सज्जनानां प्राय: प्रसाधनकृते कृतमज्जनानाम्‍ ॥६९॥
स्वापानुषडाजडताभरिताज्जनौघान्‍ स्वापानुषड्‍जडाताविधुरान्विधत्से ।
दूरीभवव्दिषयरागहृदोऽपि तूर्णं धूर्तावतंसंयसि देवि क एष मार्ग: ॥७०॥
इति स्तुवंस्तापसराट्‍ त्रिवेणीं शाटया समाच्छाद्य कटीं कृपीटे ।
दोर्दण्डायुग्मोध्दृतवेणुदण्डोऽघमर्षणस्रानमना बभूव ॥७१॥
सस्रौ प्रयागे सह शिष्यसंघै: स्वयं कृतार्थो जनसंग्रहार्थी ।
अस्मारि माताऽपि च सा पुपोष दधार या दु:खमसोढ भूरि ॥७२॥
अनुष्ठितिं द्रागवसाय्य वातै: कल्हारशीतैरुपसेव्यमान: ।
तीरे विशश्राम तमालमालिन्यत्नान्तरेऽश्रूयत लोकवार्ता ॥७३॥
गिरेरवप्लुत्य गति: सतां य: प्रामाण्यमाम्रायगिरामवादीत्‍ ।
यस्य प्रसादात्तिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान्‍ ॥७४॥
सोऽयं गुरोरुन्मथनप्रसक्तं महत्तरं दोषमपाकरिष्णु: ।
अशेषवेदार्थविदास्तिकत्वात्तुषानलं प्राविशदेष धीर: ॥७५॥
अयं ह्यधीताखिलवेदमन्त्र: कूलेकषालोडितमर्वतन्त्र: ।
नितान्तदूरीकृतदुष्टतन्त्रस्त्रैलोक्यविभ्रामितकीर्तियन्त्न: ॥७६॥
श्रुत्वेति तां सत्वरमेष गच्छन्‍ व्यालोकयत्तं तुषराशिसंस्थाम्‍ ।
प्रभाकराद्यै: प्रथितप्रभावैरुपस्थितं साश्रुमुखैर्विनेयै: ॥७७॥
धूमायमानेन तुषानलेन संदह्यमानेऽपि वपुष्यशेषे ।
सन्दृश्यमानेन मुखे न वाष्पपरीतपद्मश्रियमादधानम्‍ ॥७८॥
दूरे विधूताघमपाडभडया तं देशिकं दृष्टिपथावतीर्णम्‍ ।
ददर्श भट्टा ज्वलदग्रिकल्पो जुगोप यो वेदपथं जितारि: ॥७९॥
अदृष्टपूर्व श्रुतपूर्ववृत्तं दृष्ट्राऽतिमोदं स जगाम भट्ट: ।
अचीकरच्छिष्यगणै: सपर्यामुपाददे तामपि देशिकेन्द्र: ॥८०॥
उपात्तभिक्ष: परितुष्टचित्त: प्रदर्शयामास स भाष्यमस्मै ।
सर्वो निबन्धो ह्यमलोऽपि लोके शिष्टेक्षित: संचरणं प्रयाति ॥८१॥
दृष्ट्रा भाष्यं हृष्टचेता: कुमार: प्रोचे वाचं शकरं देशिकेन्द्रम्‍ ।
लाके त्वल्पो मत्सरग्रामशाली सर्वज्ञानो नाल्पभावस्य पात्रम्‍ ॥८२॥
अष्टौ सह्स्राणि विभान्ति विव्दन्‍ सव्दार्तिकानां प्रथमेऽत्र भाष्ये ।
अहं यदि स्यामगृहीतदीक्षो ध्रुवं विधास्ये सुनिबन्धमस्य ॥८३॥
भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन्‍ सपये दुरापम्‍ ।
पुराऽऽर्जितै: पुण्यचयै: कथंचित्त्वमद्य मे दृष्टिपथं गतोऽभू: ॥८४॥
असारसंसारपयोब्धिमध्ये निमज्जतां सद्भिरुदारवृत्तै: ।
भवादृशै: संगतिरेव साध्या नान्यस्तदुत्तारविधावुपाय: ॥८५॥
चिरं दिदृक्षे भगवन्तमित्थं त्वमद्य मे दृष्टिपथं गतोऽभू: ।
नह्यत्र संसारपथे नराणां स्वेच्छाविधेयोऽभिमतेन योग: ॥८६॥
युनक्ति काल: कचिदिष्टवस्तुना कचित्त्वरिष्टेन च नीचवस्तुना ।
तथैव संयोज्य वियोजयत्यसौ सुखासुखे कालकृते प्रवेद्ययत्‍ : ॥८७॥
कृतो निबन्धो निरणायि पन्था निरासि नैयायिकयुक्तिजालम्‍ ।
तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥८८॥
निरास्थमीशं श्रुतिलोकसिध्दं श्रुते: स्वतोमात्वमुदाहरिष्यन्‍ ।
न निह्रुवे येन विना प्रपश्च: सौख्याय कल्पेत न जातु विव्दन्‍ ॥८९॥
तथागताक्रान्तमभूदशेषं स वैदिकोऽध्वा विरलीबभूव ।
परीक्ष्य तेषां विजयाय मार्ग प्रावर्तिषि त्रातुमना: पुराणम्‍ ॥९०॥
सशिष्यसडा: प्रविशन्ति राज्ञां गेहं तदादि स्ववशे विधातुम्‍ ।
राजा मदीयोऽजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गाम्‍ ॥९१॥
वेदोऽप्रमाणं बहुमानबाधात्‍ परस्परव्याहतवाचकत्वात्‍ ।
एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत्‍ ॥९२॥
अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमान: ।
तदीयसिध्दान्तरहस्यवार्धीन्निषेध्यबोधाध्दि निषेध्यबाध: ॥९३॥
तदा तदीयं शरणं प्रपन्न: सिध्दान्तमश्रौषमनुध्दतात्मा ।
अदूदुषव्दैदिकमेव मार्ग तथागतो जातु कुशाग्रबुध्दि: ॥९४॥
तदाऽपतन्मे सहसाऽश्रुबिन्दुस्तचाविदु: पार्श्वनिवासिनोऽन्ये ।
तदाप्रभृत्येव विवेश शका मय्याप्तभावं परिहृत्य तेषाम्‍ ॥९५॥
विपक्षपाठी बलवान्‍ व्दिजाति: प्रत्याददद्दर्शनमस्मदीयम्‍ ।
उचाटनीयिअ: कथमप्युपायैर्नैतादृश: स्थापयितुं हि योग्य: ॥९६॥
संमन्त्र्य चेत्थं कृतनिश्चयास्ते ये चापरेऽहिंसनवादशीला: ।
न्यपातयन्नुचतरात्‍ प्रमतं मामग्रसौधाव्दिनिपातभीरुम्‍ ॥९७॥
पतन्‍ पतन्‍ सौधतलान्यरोहं यदि प्रमाणं श्रुतयो भवन्ति ।
जीवेयमस्मिन्‍ पतितोऽसमस्थले मज्जीवने तच्छ्रुतिमानता गति: ॥९८॥
यदीह सन्देहपदयप्रयोगाव्दयाजेन शास्त्रश्रवणाच्च हेतो:।
ममोचदेशात्पततो व्यनंक्षीत्तदेकचक्षुर्विधिकल्पना सा ॥९९॥
एकाक्षरस्यापि गुरु: प्रदात शास्त्रोपदेष्टा किमु भाषणीयम्‍ ।
अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महाग: ॥१००॥
तदेवमित्थं सुगतादधीत्य प्राघातयं तत्कुलमेव पूर्वम्‍ ।
जैमिन्युपज्ञेऽभिनिविष्टचेता: शास्त्रे निरास्थं परमेश्वरं च ॥१०१॥
दोषव्दयस्यास्य चिकीर्षुरर्हन यथोदितां निष्कृतिमाश्रयाशम्‍ ।
प्राविक्षमेषा पुरुक्तभूता जाता भवत्पादनिरीक्षणेन ॥१०२॥
भाष्यं प्रणीतं भवतेति योगिन्नाकर्ण्य तत्रापि विधाय वृत्तिम्‍ ।
यशोऽधिगच्छेयमिति स्म वाञ्च्छा स्थिता पुरा सम्प्रति किं तदुक्त्या ॥१०३॥
जाने भवन्तमहमार्यजनार्थजातमव्दैतरक्षणकृते विहितावतारम्‍ ।
प्रागेव चेन्नयनवर्त्म कृतार्थयेथा: पापक्षयाय न तदेदृशमाचरिष्यम्‍ ॥१०४॥
प्रायोऽधुना तदुभयप्रभवाघशान्त्यै
प्राविक्षमार्य तुषपावकमात्तदीक्ष: ।
भाग्यं न मेऽजनि हि शाबरभाष्यवत्त्व -
द्भाष्येऽपि किंचन विलिख्य यशोऽधिगन्तुम्‍ ॥१०५॥
इत्यूचिवांसमथ भट्टकुमारिलं तमीषव्दिकस्वरमुखाम्बुजमाह मौनी ।
श्रुत्यर्थकर्मविमुखान्‍ सुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहन्तु जाने ॥१०६॥
संभावनाऽपि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय ।
उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रचय वार्तिकमडभव्यम्‍ ॥१०७॥
इत्यूचिवांसं विबुधावतंसं स धर्मविब्रह्मविदां वरेण्यम्‍ ।
विद्याधन: शान्तिधनाग्रगण्यं समश्रयं वाच्मुवाच भूय: ॥१०८॥
नार्हामि शुध्दमपि लोकविरुध्दकृत्यं कर्तु मयीडय महितोक्तिरियं तवार्हा ।
आजानतोऽतिकुटिलेऽपि जने महान्तस्त्वारोपयन्ति हि गुणं धनुषीव शूरा: ॥१०९॥
संजीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शकर दयोर्मिलदृष्टिपातै: ।
आरब्धमेतदधुना व्रतमागमोक्तं मुश्चन्‍ सतां न भविताऽस्मि बुधाविनिन्द्य: ॥११०॥
जाने तवाडं भगवन्‍ प्रभावं संहृत्य भूतानि पुनर्यथावत्‍ ।
सष्टुं समर्थोऽसि तथाविधो मामुज्जीवयेश्चेदिह किं विचित्रम्‍ ॥१११॥
नाभ्युत्सहे किन्तु यतिक्षितीन्द्र दकल्पितं हातुमिदं व्रताग्र्यम्‍ ।
तत्तारकं देशिकवर्य मह्यमादिश्य तब्रह्म कृतार्थयेथा: ॥११२॥
अयं च पन्था यदि ते प्रकाश्य: सुधीश्वरो मण्डनमिश्रशर्मा ।
दिगन्तविश्रान्तयशा विजेयो यस्मिज्जिते सर्वमिदं जितं स्यात्‍ ॥११३॥
सदा वदन्‍ योगपदं च साम्पतं स विश्वरुप: प्रथितो महीतले ।
महागृही वैदिककर्मतत्पर: प्रवृत्तिशास्त्रे निरत: सुकर्मठ: ॥११४॥
निवृत्तिशास्त्रे नकृतादर: स्वयं केनाप्युपायेन वशं स नीयताम्‍ ।
वशं गते तत्र भवेन्मनोरथस्तदन्तिकं गच्छतु मा चिरं भवान्‍ ॥११५॥
उंवेक इत्यभिहितस्य हि तस्य लोकैरुवेति बान्धवजनैरभिधीयमाना ।
हेतो: कुतश्चिदिह वाक्सुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूर्दूयभारतीति ॥११६॥
सर्वासु शास्त्रसरणीषु स विश्वरुपो मत्तोऽधिक : प्रियतमश्च मदाश्रवेषु ।
तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशगं विधेहि ॥११७॥
तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम्‍ ।
त्वं विश्वनाथ इव मे समये समागास्तत्तारकं समुपदिश्य कृतार्थयेथ:॥११८॥
निर्व्याजकारुण्य मुहूर्तमात्रमत्र त्वया भाव्यमहं तु यावत्‍ ।
योगीन्द्रहृत्पकजभाग्यमेतत्‍ ज्यजाम्यसून्‍ रुपमवेक्षमाण: ॥११९॥
इत्यूचिवांसमिममिध्दसुखप्रकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम्‍ ।
तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गाच्छ्रीमण्डनस्य निलयं स इयेष गन्तुम्‍ ॥१२०॥
अथ गिरमुपसंहृत्यादराद्भट्टपाद:  शमधनपतिनासौ बोधिताव्दैततत्व: ।
प्रशमितममत: संस्तत्प्रसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पेदे ॥१२१॥
इति श्रीमाधवीये तव्दयाससंदर्शचित्रग: ।
संक्षेपशकरजये सर्गोऽसौ सप्तमोऽभवत्‍ ॥७॥
आदित: श्लोका: ७८४

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP