संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| व्दादश: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - व्दादश: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत हस्तामलकादीनां शिष्यत्वेन ग्रहणम् Translation - भाषांतर अथैकदाऽसौ यतिसार्वभौमस्तीर्थानि सर्वाणि चरन् सतीर्थ्यै: ।घोरात् कलेर्गोपितधर्ममागाद्रोकर्णमभ्यर्णचलार्णबौधम् ॥१॥विरिश्चिनाम्भोरुहनाभवन्द्यं प्रपश्चनाटयद्भुतसूत्रधारम् ।तुष्टाव वामार्धवधूटिमस्तदुष्टावलेपं प्रणमन् महेशम् ॥२॥वपु: स्मरापि कचन स्मरारेर्बलाहकाव्दैतवदावदश्रि ।सौदामिनी साधितसम्प्रदायसमर्थनादेशिकमन्यतश्च ॥३॥वामाडसीमाकुरदंशुतृण्याचश्चन्मृगाश्चत्तरदक्षपाणि ।सव्यान्यशोभाकलमाग्रभक्षसाकांक्षकीरन्यकर महोऽस्मि ॥४॥महीध्रकन्यागलसंगतोऽपि माडल्यतन्तु: किल हालहालम् ।यत्कण्ठदेशेऽकृत कुण्ठशक्तिमैक्यानुभावादहमस्मि भूमा ॥५॥गुणत्तयातीतविभाव्यमित्थं गोकर्णनाथं वचसाऽर्चयित्वा ।तिस्र: स रात्रीस्त्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम् ॥६॥वैकुण्ठकैलासविवर्तभूतं हरन्नताघं हरिशकराख्यम् ।दिव्यस्थलं देशिकसार्वभौमस्तीर्थप्रवासी नचिरादयासीत् ॥७॥भ्रमापनोदाय भिदावदानामव्दैतमुद्रामिह दर्शयन्तौ ।आराध्य देवौ हरिशकरौ द व्दयर्थाभिरित्यर्चयति स्म वाग्भि: ॥८॥वन्द्य महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम् ।मैनं मह: किंचन दिव्यमडीकुर्वन् विभुर्पे कुशलानि कुर्यात् ॥९॥यो मन्दरागं दधदादितेयान् सुधाभुज: स्माऽऽतनुते विषादी ।स्वामद्रिलोलोचितचारुमूर्ते कृपामपारां स भवान् विधत्ताम् ॥१०॥उल्लासयन्यो महिमानमुचै: स्फुरव्दराहीशकलेवरोऽभूत् ।तस्मै विदध्म: करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥११॥समावहन् केसरितां वरां य: सुरव्दिषत्कुज्जरमाजघान ।प्रहलादमुल्लासितमादधानं पश्चाननं तं प्रणुम: पुराणम् ॥१२॥उदैत्तु बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसान: ।तपांसि कान्तारहितो व्यतानीदाद्योऽवतादाश्रमिणामयं न : ॥१३॥येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुन: संडररडाभूमौ ।नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथा: ॥१४॥विलासिनाऽलीकभवेन धाम्रा कामं व्दिषन्तं स दशास्यमस्यन् ।देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥१५॥उत्ताल्केतु ; स्थिरधर्ममूर्तिर्हालाहलस्वीकरणोग्रकण्ठ: ।स रोहिणीशानिशचुम्ब्यमाननिजोत्तमाडोऽवस्तु कोऽपि भूमा ॥१६॥विनायकेनाऽऽकलिताहिताप निषेदुषोत्सडभुवि प्रहृष्यन् ।य: पूतनामोहकचित्तवृत्तिरव्यादसौ कोऽपि कलापभूष: ॥१७॥पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीम्रे ।प्राय: क्रतुव्देषकृतादराय बोधैकधाम्रे स्पृहयामि भूम्रे ॥१८॥व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्ने ।भूम्रे सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥१९॥वृषाकपायीवरयो: सपर्या वाचाऽतिमोचारसयेति तन्वन् ।मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकाया: सदनं प्रतस्थे ॥२०॥अडे निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहु: प्ररुद्य ।तदेकपुत्रौ व्दिजदम्पती स दृष्टा दयाधीनतय शुशोच ॥२१॥अपारमश्चत्यथ शोकमस्मिन्नभूयतोचैरशरीरावा वा ।जायेत संरक्षितुमक्षमस्य जनस्य दु:खाय परं दयेति ॥२२॥आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म विज्ञ: ।जगत्तयीरक्षणदक्षिणय्स सत्यं तवैकस्य तु शोभते सा ॥२३॥इतीरयत्येव यतौ व्दिजाते: सुत: सुखं सुप्त इवोदतिष्ठत् ।समीपगै: सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥२४॥रम्योपशल्यं कृतमालसालरसालहिम्तालतमालशालै: ।सिध्दिस्थलं साधकसम्पदां तन्मूकाम्बिकाया: सदनं जगाहे ॥२५॥उच्चावचानन्दजबाष्पामुचैरुद्रीर्णरोमाश्चमुदारभक्ति: ।अम्बामिहापारकृपावलम्बां संभावयन्नस्तुत निस्तुलं स: ॥२६॥पारेपरार्ध पदपद्मभा:सु षष्टयुतरं ते त्रिशतं तु भास:।आविश्य वह्रयर्कसुधामरीचीनालोकवन्त्यादधते जगन्ति ॥२७॥अन्तश्चतु: षष्टयुपचारभेदैरन्तेवसत्काण्डपटप्रदानै:।आवहनाद्यैअस्तव देवि नित्यमाराधनामादधते महान्त: ॥२८॥अम्बोपारेष्वधिसिन्धुषष्टि शुध्दाज्ञयो: शुध्दिदमेकमेकम् ।सहस्रपत्रे व्दितये च साधु तन्वन्ति धन्यास्तव तोषहेतो: ॥२९॥आराधनं ते वहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव ।अन्ये परे त्वम्ब कदापि कुर्युर्नैव त्वदैक्यानुघवैकनिष्ठा: ॥३०॥अष्टोतरत्रिंशति या: कलास्ता: स्वर्ध्या: कला: पश्च निवृत्तिमुख्या: ।तासामुपर्यम्ब तवाड् घ्रिपद्मं विद्योतमानं विबुधा भजन्ते ॥३१॥कालाग्रिरुपेण जगन्ति दग्ध्वा सुधात्मनाऽऽपाव्य समुत्सृजन्तीम् ।ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥३२॥ये प्रत्यभिज्ञामतपारविज्ञा धन्यास्तु ते प्राग्विदितां गुरुक्त्या ।सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्यु: ॥३३॥आधारचक्रे च तदुत्तरस्मिन्नाराधयान्त्यैहिकह्बोगलुब्धा: ।उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराव्दहिस्ते ॥३४॥अनाहते देवि भजन्ति ये त्वामन्त:स्थितिस्त्वन्नगरे तु तेषाम् ।शुध्दाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥३५॥सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे त्वामनुसंदधान: ।चतुर्विधैक्यानुभवास्तमोह: सायुज्यमम्बाश्चति साधकेन्द्र: ॥३६॥श्रीचक्रषट्चक्रकयो: पुरोऽथ श्रीचक्रमन्वोरक्पि चिन्तितैक्यम् ।चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमादनुध्यायति साधकेन्द्र: ॥३७॥इति तां वचनै: प्रपूज्य भैक्षौदनामात्रेण स तुष्टिमान् कृतार्थ: ।बहुसाधकसंस्तुत: कियन्तं समयं तत्र निनाय शान्तचेता: ॥३८॥श्रयति स्म ततोऽग्रहारकं श्रीबलिसंज्ञं स कदाचन स्वशिष्यै: ।अनुगेहहुताग्रिहोत्रदुग्धप्रसरत्पावनगन्धलोभनीयम् ॥३९॥यतोऽपमृत्युर्बहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा ।दृष्टा व्दिजातीन्निकर्मनिष्ठान् दुरान्निषिध्दं त्यजतोऽप्रमत्तान् ॥४०॥यस्मिन् सहस्रव्दितयं जनानामग्न्याहितानां श्रुतिपाठकानाम् ।वस्त्यवश्यं श्रुतिचोदितासु क्रियासु दक्ष प्रथितानुभावम् ॥४१॥मध्ये वसन् यस्य करोति भूषां पिनाकपाणिर्गिरिजासहाय: ।हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरुढ: ॥४२॥तत्र व्दिज: कश्चन शास्त्रवेदी प्रभाकराख्य : प्रथितानुभाव: ।प्रवृत्तिशास्त्रैकरत: सुबुध्दिरास्ते क्रतून्मीलितकीर्तिबृन्द: ॥४३॥गावो हिरण्यं धरणी समग्रा सव्दान्धवा ज्ञातिजनाश्च तस्य ।सन्त्येव किं तैर्न हि तोष एभि: पुत्रो यदस्याजनि मुग्धचेष्ट: ॥४४॥न वक्ति किंचिन्न श्रृणोति किंचित् ध्यायान्निवास्ते किल मन्दचेष्टा: ।रुपेषु मारो महसा महस्वान् मुखेन चन्द्र: क्षमया महीसम: ॥४५॥ग्रहग्रहात् किं जडवव्दिचेष्टते किं वा स्वभावादुत पूर्वकर्मण:।संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥४६॥शिष्यै: प्रशिष्यैर्बहुपुस्तभारै: समागतं कश्चन पूज्यपादम् ।शुश्राव तं ग्राममनिन्दितात्मा निनाय सूनुं निकटं स तस्य ॥४७॥न शून्यहस्तो नृपमिष्टदैवं गुरुं च यायदिति शास्त्रवित् स्वयम् ।सोपायन: प्राप गुरुं व्यशिश्रणत् फलं ननामास्य च पादपकजे ॥४८॥अनीनमत्तं च तदीयपादयोर्जडाकृतिं भस्मनिगूढवह्रिवत् ।स नोदतिष्ठत् पतित : पदाम्बुजे प्राय: स्वजाडयं प्रकटं विधित्सति ॥४९॥उपात्तहस्त: शनकैरवाडमुखं तं देशिकेन्द्र: कृपयोदतिष्ठिपत् ।उत्थापिते स्वे तनये पिताब्रवीत् वद प्रभो जाडयममुष्य किंकृतम् ॥५०।वर्षाण्यतीय्रुर्भगवन्नमुष्य पश्चाष्ट जातस्य विनाऽवबोधम् ।नाध्यैष्ट वेदानलिखच नार्णानचीकरं चोपनयं कथश्चित् ॥५१॥क्रीडापर: क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति ।बाला: शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥५२॥भुडे कदाचिन्न तु जातु भुडे स्वेच्छाविहारी न करोति चोक्तम् ।तथापि रुष्टेन न ताडयतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥५३॥इतीरयित्वोपरते च विप्रे पप्रच्छ तं शकरदेशिकेन्द्र: ।कस्त्वं किमेवं जडवत् प्रवृत्त: स चाब्रवीव्दालवपुर्महात्मा ॥५४॥नाहं जड: किन्तु जड: प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो ।षडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥५५॥ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरुप्य विव्दन् ।पद्यै: परैर्व्दादशभिर्बभाषे चिदात्मतत्त्वं विधुतप्रपश्चम् ॥५६॥प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् ।श्लोकात्स्तु हस्तामलका: प्रसिध्दास्तत्कर्तुराख्यापि तथैव वृत्ता ॥५७॥विनोपदेशं स्वत एव जात: परात्मबोधो व्दिजवर्यसूनो : ।व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाडे ॥५८॥सुते निवृत्ते वचनं बभाषे स देशिकेन्द्र: पितरं तदीयम् ।वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन ॥५९॥पुराभवाभ्यासवशेन सर्व स वेत्ति सम्यड् न च वक्ति किंचित् ।नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्य : ॥६०॥न सक्तिरस्यास्ति गॄहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते ।तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु: ॥६१॥इतीरयित्वा भगवान् व्दिजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुन: ।विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्प्रदेशं स्थिरधीर्बहुश्रुत:॥६२॥तत: शतानन्दमहेन्द्रपूर्वै: सुपर्वबृन्दैरुपगीयमान:।पद्मामघ्रिमुख्यै: सममाप्तकामक्षोणीपति: श्रृडगिरिं र्पतस्थे ॥६३॥यत्राधुनाऽप्युत्तममृष्यश्रृडस्तपश्चरत्यात्मभृदन्तरड:।संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुडभद्रा ॥६४॥अभ्यागतार्चाल्पितक्ल्पशाखा: कूलंकषाधीतसमस्तशाखा: ।इज्याशतैर्यत्र समुल्लसन्त: शान्तन्तराया निवसन्ति सन्त: ॥६५॥अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् ।आकर्णनप्राप्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥६६॥मन्दाक्षनम्रं कलयन्नशेषं पराणुदत् प्राणितमांस्यशेषम् ।निरस्तजीवेश्वरयोर्विशेषं व्याचष्ट वाचस्पतिनिर्विशेषम् ॥६७॥प्रकल्प्य तन्त्रेन्द्रविमानकल्पं प्रासादमाविष्कृतसर्वशिल्पम् ।प्रवर्तयामास स देवताया: पूजामजद्यैरपि पूजिताया: ॥६८॥या शारदेत्यभिधां वहन्ती कृतां प्रतिज्ञां प्रतिपालयन्ती ।अद्यापि श्रृडेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥६९॥चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूति: ।कश्चिव्दिनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति: ॥७०॥स्रात्वा पुरा क्षिपति कम्बलवस्त्रमुख्यैरुचासनं मृदु समं स ददाति नित्यम् ।संलक्ष्य दन्तप्रिशोधनकाष्ठमग्र्यं बाह्यादिकं गतवते सलिलादिकं च ॥७१॥श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्न: ।श्रीपादपद्मयुगमर्दनकोविदश्च छायेव देशिकमसौ भृशमन्वयाद्य: ॥७२॥गुरो: समीपे न तु जातु जृम्भते प्रसारयन्नो चरणौ निषीदति ।नो पेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठत ॥७३॥तिष्ठन् गुरौ तिष्ठति संप्रयाते गच्छन् ब्रुवाणे विनयेन श्रृण्वन् ।अनुच्यमानोऽपि हितं विधते यचाहितं तच तनोति नास्य ॥७४॥तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगा:।व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एष: ॥७५॥शान्तिपाठमथ कर्तुमसंख्येषुवतेषु स विनेयवरेषु ।स्थीयतां गिरिरपि क्षणमात्नादेष्यतीति समुदीरयति स्म ॥७६॥तां निशम्य निगमान्तगुरुक्तिं मन्दधीरनधिकार्यपि शास्त्रे ।किं प्रतीक्ष्यत इति स्म ह भित्ति: पद्मपादमुनिना समदर्शि ॥७७॥तस्य गर्वमपहर्तुमखर्व स्वाश्रयेषु करुणातिशयाच ।व्यादिदेश स चतुर्दश विद्या: सद्य एव मनसा गिरिनाम्रे ॥७८॥सोऽधिगम्य तदनुग्रहमग्र्यं तत्क्षणेन विदिताखिलविद्य: ।ऐट्ट देशिकवरं परतत्त्वव्यज्जकैर्ललिततोटकवृत्तै: ॥७९॥श्रीमद्देशिकपादकजयुगीमूला तदेकाश्रया तत्कारुण्यसुधावसेकसहिता तद्भक्तिसव्दल्लरी ।हॄद्यं तोटकवृत्तवृन्तरुचिरं पद्यात्मक सत्फलं लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहु: ॥८०॥येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं नि:श्रेणि: पदमुन्नतं जिगमिषोर्व्योम स्पृशन्ती परम् ।वंश्या काप्यधरीकृतत्रिभुवनश्रेणी गुरुणां कथंसेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तम: ॥८१॥अतह तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोऽपि ।दययैव गुरोस्त्रयीशिरोऽर्थ स्फुटयन्नैक्षि विचक्षण: सतीर्थ्यै: ॥८२॥अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरीधुरीणम् ।जलजांघ्रिमुखा: सतीर्थ्यवर्या: स्मयमन्वस्य सविस्मया बभूवु: ॥८३॥भक्त्युत्कर्षात् प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति ।तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टा: शिष्टवंश्य मुनीन्द्रम् ॥८४॥अद्यापि तत्प्रकरणं प्रथित्म पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ।शिष्टैर्गृहीतमतिशिष्टपदानुविध्दं वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥८५॥तोटकाह्वयमवाप्य महर्षे: ख्यातिमाप स दिशासु तदादि ।पद्मपादसदृशप्रतिभावान् मुख्याशिष्यपदवीमपि लेभे ॥८६॥पुमर्थाश्चत्वार: किमुत निगमा ॠक्प्रभृतय: प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखरा:।मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा विदू: शिष्यान् हस्तामलकमुखराञ्छकरगुरो: ॥८७॥स्फारव्दारप्रघाणव्दिरदमदसमुल्लोलकल्लोलभृडी -सडीतोल्लासभडीमुखरितहरित : संपदोऽकिंपचानै: ।निष्ठीव्यन्तेऽतिव्दरादधिगत भगवत्पादसिध्दान्तकाष्ठा -निष्ठासम्पव्दिजृम्भन्निरवधिसुखद स्वात्मलामैकलोभै: ॥८८॥समिन्धानो मन्थाचलमथितसिन्धृदरभव -त्सुधाफेनाभेनामृतरुचि निभेनाऽऽत्मयशसा ।निरुन्धानो दृष्टया परमहह पन्थानमसतां पराधृष्यै: शिष्यैररमत विशिष्यैष मुनिराट् ॥८९॥इति श्रीमाधवीये तध्दस्तधात्र्यादिसंश्रय: ।संक्षेपशकरजये सर्गोऽयं व्दादशोऽभवत् ॥१२॥आदित: श्लोका: १३१२ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP