श्रीमच्छङ्करदिग्विजय: - नवम: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


अथ संयमिक्षितिपतेर्वचनैर्निगमार्थनिर्णयकरै:  सनयै: ।
शमिताग्रहोऽपि पुनरप्यवदत्‍ कृतसंशय: सपदि कर्मजड: ॥१॥
यतिराज संप्रति ममाभिनवान्न विषादितोऽस्म्यप्रजयादपि तु ।
अपि जैमिनीयवचनान्यहहोन्मथितानि हीति भृशमस्मि कृश: ॥२॥
स हि वेत्त्यनागतमतीतमपि प्रियकृत्समस्तजगतोऽधिकृत: ।
निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्नपद: ॥३॥
इति संदिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक्‍ ।
प्रमिमीमहे न वयमेव मुनेर्हॄदयं यथावदनभिज्ञतया ॥४॥
यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भो: ।
यदि युक्तमत्न भवता कथितं हृदि कुर्महे दलदहंकृतय: ॥५॥
अभिसंधिमानपि परे विषयप्रसरन्मतीननुजिघृक्षुरसौ ।
तदवाप्तिसाधनतया सकलं सुकृतं न्यरुपयदिति स्म परम्‍ ॥६॥
वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया ।
तदपेक्षयैव स च मोक्षपरे निरधारयन्न परथेति वयम्‍ ॥७॥
श्रुतय: क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।
इति सूत्रयन्ननु कथं  मुनिराडपि सिध्दवस्तुपरतां मनुते ॥८॥
श्रुतिराशिरव्दयपरोऽपि परंपरयाऽऽत्मबोधफलकर्मणि च ।
प्रसरत्कटाक्ष इति कार्यपरत्वमसूचि तत्प्रकरणस्थगिराम्‍ ॥९॥
ननु सच्चिदात्मपरताऽभिमता यदि कृत्स्रवेदनिचयस्य मुने: ।
फलदातृतामपुरुषस्य वदन्‍ स कथं निराह परमेशमपि ॥१०॥
ननु कर्तृपूर्वकमिदं जगदित्यनुमानमागमवचांसि विना ।
परमेश्वरं प्रथयति श्रुतस्त्वनुवादमात्रमिति काणभुजा: ॥११॥
न कथंचिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवच: ।
कथयत्यवेदविदगोचरतां गमयेत्‍ कथं तमनुमानमिदम्‍ ॥१२॥
इति भावमात्मनि निधाय मुनि: स निराकरोन्निशितयुक्तिशतै: ।
अनुमानमीश्वरपरं जगत: प्रभवं लयं फलमपीश्वरत: ॥१३॥
तदिहास्मदुक्तविधया निषदा न विरुध्दमण्वपि मुनेर्वचसि ।
इति गूढ्भावमनवेक्ष्य बुधास्तमनीशवाद्ययमिति ब्रुवते ॥१४॥
किमु तावतैव स निरीश्वरवाद्यभवत्‍ परात्मविदुषां प्रवर: ।
न निशाटनाहिततम: कचिप्यदहनि प्रभां मलिनयेत्तरणे: ॥१५॥
इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।
मनसा ननन्द कविराण्णितरां सह शारदाश्च सदसस्पतय: ॥१६॥
विदिताशयोऽपि परिवर्तिमनाग्विशय: स जैमिनिमवाप हृदा ।
अवगन्तुमस्य वचसाऽपि पुन: स च संस्मृत:  सविधमाप कवे: ॥१७॥
अवदच्च श्रुण्विति स भाष्यकृति प्रजहाहि संशयमिमं सुमते ।
यदवोचदेष मम सूत्रततेर्हृदयं तदेव मम नापरथा ॥१८॥
न ममैव वेद हृदयं यमिराडपि तु श्रुते: सकलशास्त्रतते: ।
यदभूद्भविष्यति भवत्तदपि ह्ययमेव वेद न तथा त्वितर: ॥१९॥
गुरुणा चिदेकरसतत्परता निरणायि हि श्रुतिशिरोवचसाम्‍ ।
कथमेकसूत्रमपि तव्दिमतं कथयाम्यहं तदुपसादितधी: ॥२०॥
अलमाकलय्य विशयं सुयश: श्रृणु मे रहस्यमिममेव परम्‍ ।
त्वमवेहि संसृतिनिमग्रजनोत्तरणे गृहीतवपुषं पुरुषम्‍ ॥२१॥
आद्ये सत्वमुनि: सतां वितरति ज्ञानं व्दितीये युगे
दत्तो व्दापरनामके तु स्कुमतिर्व्यास: कलौ शकर: ।
इत्येवं स्फुटमीरतोऽस्य महिमा शैवे पुराणे यत
स्तस्य त्वं सुमते मते त्ववतरे: संसारवार्धि तरे: ॥२२॥
इति बोधितव्दिजवरोऽन्तरधान्मनसोपगुह्य यमिनामृषभम्‍ ।
स च यायजूकपरिषत्प्रमुख: प्रणिपत्य शकरमवोचदिदम्‍ ॥२३॥
विदितोऽस्ति संप्रति भवाज्जगत: प्रकृतिर्निरस्तसमतातिशय: ।
अवबोधमात्रवपुरप्यबुधोध्दरणाय केवलमुपात्ततनु: ॥२४॥
यदेकमुदितं पदं यतिवर त्नयीमस्तकै
स्तदस्य परिपालकस्त्वमसि तत्त्व्मस्यायुध: ।
परं गलितसौगतप्रलपितान्धकूपान्तरे
पतत्कथमिवान्यथा प्रलयमद्य नापत्स्यते ॥२५॥
प्रबुध्दोऽहं स्वप्रादिति कृतमति: स्वप्रमपरं
यथा मूढ: स्वप्रे कलयति तथा मोहवशगा: ।
विमुक्तिं मन्यन्ते कतिचिदिह लोकान्तरगतिं
हसन्त्येतान्‍ दासास्तव गलितमाया: परगुरो: ॥२६॥
मुहुर्धिग्विग्भेदिप्रलपितविमुक्तिं यदुदयेऽप्य
सार: संसारो विरमति न कर्तृत्वमुखर: ।
भृशं विव्दन्मोदे स्थिरतमविमुक्तिं त्वदुदितां
भवातीता येयं निरवधिचिदानन्दलहरी ॥२७॥
अविद्याराक्षस्या गिलितमखिलेशं परगुरो
पिचण्डं भित्त्वास्या: सरभसममुष्मादुदहर:।
वृतां पश्यन्‍ रक्षोयुवतिभिरमुष्य प्रियतमां
हनूमांल्लोकेडयस्तव तु कियती स्यान्महितता ॥२८॥
जगदार्तिहन्ननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम्‍ ।
तव यत्पुरोऽव्रवमसाम्प्रतमप्यखिलं क्षमस्व करुणाजलधे ॥२९॥
कपिलाक्षपदाकणभुक्प्रमुखा अपि मोहमीयुरमितप्रतिभा: ।
श्रुतिभावनिर्णयाविधावितर: प्रभवेत्कथं परशिवांशमृते ॥३०॥
समेतैरेतै: किं कपिलकणभुग्गौतमवच -
स्तमस्तोमैंश्चेतोमलिनिसममरम्भणचणै: ।
सुधाधारोद्रारप्रचुरभगवत्पादवदन
प्ररोहव्दयाहारमृतकिरणपुज्जे विजयिनि ॥३१॥
भिन्दानैर्देवमेतैरभिनवयवनै: सद्रवीभज्जनोत्कै-
र्व्याप्ता सर्वेयमुर्वी क जगति भजतां कैव मुक्तिप्रसक्ति: ।
यव्दा सव्दादिराजा विजितकलिमला विष्णुतत्त्वानुरक्ता
उज्जृम्भन्ते समन्ताद्दिशि दिशि कृतिन: किं तया चिन्तया मे ॥३२॥
कथमल्पबुध्दिविवृतिप्रचयप्रबलोरगक्षतिहता: श्रुतय: ।
न यदि त्वदुक्त्यमृतसेकधृता विहरेयुरात्मविधृतानुशया: ॥३३॥
भवदुक्तसूक्त्यमृतभानुकरा न चरेयुरार्य यदि क :  शमयेत्‍ ।
अतितीव्रदु: सहभवोष्णकरप्रचुरातपप्रभवतापमिमम्‍ ॥३४॥
बत कर्मयन्त्रमधिरुह्य तप: श्रुतगेहदारसुतभृत्यधनै: ।
अतिरुढमानभरित: पतितो भवतोध्दृतोऽस्मि भवकूपबिलात्‍ ॥३५॥
अहमचरं बहुतपोऽसुकरं ननु पूर्वजन्मसु न चेदधुना ।
जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ॥३६॥
शान्तिपाक्सुकृताकुरं दमसमुल्लासोल्लसत्पल्लवं
वैराग्यद्रुमकोरकं सहनतावल्लीप्रसूनोत्करम्‍ ।
ऐकाग्रीसुमनो म्रन्दविसृतिं श्रध्दासमुद्यत्फलं
विन्देयं सुगुरोर्गिरां परिचयं पुण्यैरगण्यैरहम्‍ ॥३७॥
त्रिदिवौकसामपि पुमर्थकरीमिह संसरज्जनविमुक्तिकरीम्‍ ।
करुणोर्मिलां तव कटाक्षझरीमवगाहतेऽत्र खलु धन्यतम: ॥३८॥
केचिचश्चललोचनाकुचतटीचेलाश्चलोचालन
स्पर्शद्राक्‍परिरंभसंभ्रमकलालीलासु लोलाशया: ।
सन्त्वेते कृतिनस्तु निस्तुलयश: कोंशादय: श्रीगुरु -
व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥३९॥
चिन्तासन्तानतन्तुग्रथितनवभवत्सुक्तिमुक्ताफलौघै
रुद्यव्दैशद्यसद्य:परिहृततिमिरैर्हारिणो हारिणोऽमी ।
सन्त: सन्तोषवन्तो यतिवर किमतो मण्डनं पण्डितानां
विद्या हृद्या स्वयं तान्‍ शतमखमुखरान्‍ वारयन्ती वृणीते ॥४०॥
सन्त: सन्तोषपोषं दधतु तव कृताम्रायशोभैर्यशोभि:
सौरालोकैरुलूका इव निखिलखला मोहमाहो वहन्तु ।
धीरश्रीशकरार्यप्रणतिपरिणतिभ्रश्यदन्तर्दुरन्त -
ध्वान्ता: सन्तो वयं तु प्रचुरतर निजानन्दसिन्धौ निमग्रा: ॥४१॥
चिन्तासन्तानशाखी पदसरसिजयोर्वन्दनं नन्दनं ते
सकल्प: कल्पवल्ली मनसि गुणनुतेर्वर्णना स्वर्णदीयम्‍ ।
स्वर्गो दृग्गोचरस्त्वत्पदभजनमत: संविचार्येदमार्या
मन्यन्ते स्वर्गमन्यं तृणवदतिलघुं शकरार्य त्वदीया: ॥४२॥
तदहं विसृज्य सुतदारगृहं द्रविनानि कर्म च गृहे विहितम्‍ ।
शरणं वृणोमि भगवचरणावनुशाघि किक्रममुं कृपया ॥४३॥
इति सूनृतोक्तिभिरुदीर्णगुण: सुधियाऽऽत्मवाननुजिघुक्षुरसौ ।
समुदैक्षतास्य सहधर्मचरीं विदिताशया मुनिमवोचत सा ॥४४॥
यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया ।
इह भावि तापसमुखादखिलं तदुदीर्यते श्रृणु ससभ्यजन: ॥४५॥
मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोचजट: ।
सितभूतिरुषितसमस्ततनु: श्रमणॊऽभ्ययादपरसूर्य इव ॥४६॥
परिगृह्य पाद्यमुखयाऽर्हणया रचिताज्जलिर्नमितपूर्वतनु: ।
जननी तदाऽऽत्तवरिवस्यममुं मुनिमन्वयुक्त मम भाव्यखिलम्‍ ॥४७॥
भगवन्न वेद्मि दुहिर्तुमम भाव्यखिलं च वेत्ति तपसा हि भवान्‍ ।
प्रणते जने हि सुधिय: कथयन्त्यपि गोप्यमार्यसदृशा: कृपया ॥४८॥
कियदायुरवाप्स्यति सुतान्‍ कति वा दयितं कथविधमुपैष्यति च ।
अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ॥४९॥
इति पृष्टभाविचरित: प्रसुवा क्षणमात्रमीलितविलोचनक: ।
सकलं क्रमेण कथयन्निदमप्यपरं जगाद सुरहस्यमपि ॥५०॥
निगमाध्वनि प्रबलबाह्यमतैरमितैरधिक्षिति खिले द्रुहिण: ।
पुनरुद्दिधीर्षुरवतीर्य खलु प्रतिभाति मण्डनकवीन्द्रमिषात्‍ ॥५१॥
तमवाप्य रुद्रमिव साऽद्रिसुता दुहिता तवाच्युतमिवाब्धिसुता ।
अनुरुपमाहृतसमस्तमखा ससुता भविष्यति चिरं मुदिता ॥५२॥
अथ नष्टमौपनिषदं प्रबलै: कुमतै: कृतान्तमिह साधयितुम्‍ ।
ननु मानुषं वपुरुपेत्य शिव: समलंकरिष्यति धरां स्वपदै: ॥५३॥
सह तेन वादमुपगम्य चिरं दुहितु: पतिस्तु यतिवेषजुषा ।
विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृह: ॥५४॥
इति गामुदीर्य स मुनि: प्रययौ सकलं यथातथामभूच्च मम ।
भवदीयशिष्यपदमस्य कथं वितथं भविष्यति मुनेर्वचसि ॥५५॥
अपि तु त्वयाऽद्य न समग्रजित: प्रथिताग्रणीर्मम पतिर्यदहम्‍ ।
वपुरर्धमस्य न जिता मतिमन्नपि मां विजित्य कुरु शिष्यमिमम्‍ ॥५६॥
यदपि त्वमस्य जगत: प्रभवो ननु सर्वविच परम: पुरुष: ।
तदपि त्वयैव सह वाद्कृते हृदयं बिभर्ति मम तूत्कलिकाम्‍ ॥५७॥
इति यायजऊकसहधर्मचरीकथितं वचोऽर्थव्दगर्ह्यपदम्‍ ।
मधुरं निशम्य मुदित: सुतरां प्रतिवक्तुमैहत यतिप्रवर: ॥५८॥
यदवादि कलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले ।
तदसांप्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम्‍ ॥५९॥
स्वमतं प्रभेत्तुमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितर: ।
यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन्‍ ॥६०॥
अत एव गार्ग्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत्‍ ।
जनकस्तथा सुलभयाऽबलया किममी भवन्ति न यशोनिधय: ॥६१॥
इति युक्तिमद्रदितमाकलयन्मुदितान्तर: श्रुतिसरिज्जलघि: ।
स तया विवादमधिदेवतया वचसामियेष विदुषां सदसि ॥६२॥
अथ सा कथा प्रववृत्ते स्म तयोरुभयो: परस्प्रजयोत्सुकयो: ।
मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृतविचक्षणयो: ॥६३॥
अनयोर्विचित्रपदयुक्तिभरैर्निशमय्य संकथनमाकलितम्‍ ।
न फणीशमयतुलयन्न पपीं न गुरुं कविं किमपरं जगति ॥६४॥
न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ।
इति जल्पतो: सममनल्पधियोर्दिवसाश्च सप्त दश चात्यगमन्‍ ॥६५॥
अथ शारदाऽकृतसंन्यसनो नियमै: परैरविधुरश्च सदा ।
तमजय्यमात्मनि विचिन्त्य मुनिं पुनरप्यचिन्तयदिदं तरसा ॥६६॥
अतिबाल्य एव कृतसंन्यसनो नियमै: परैरविधुरश्च सदा ।
मदनागमेष्वकृतबुध्दिरसौ तदनेन संप्रति जयेयमहम्‍ ॥६७॥
इति संप्रधार्य पुनरप्यमुना कथने प्रसंगमथ संगतित: ।
यमिनं सदस्यमुमपृच्छदसौ कुसुमास्त्रशास्त्रहृदयं विदुषी ॥६८॥
कला: कियन्त्यो वद पुष्पधन्वन: किमात्मिका: किंच पदं समाश्रिता: ।
पूर्वे च पक्षे कथमन्यथा स्थिति: कथं युवत्यां कथमेव पूरुषे ॥
नेतीरित: किंचिदुवाच शकरो विचिन्तयन्नत्र चिरं विचक्षण: ।
तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसंक्षय: ॥७०॥
इति संविचिन्त्य स हृदाऽऽशु तदाऽनवबुध्दपुष्पशरशास्त्र इव ।
विदितागमोऽपि सुरिरक्षयिषुर्नियमं जगाद व्रतिनाम्‍ ॥७१॥
इह मासमात्रवधि: क्रियतामनुमन्यते हि दिवसस्य गण: ।
तदनन्तरं सुदति हास्यासि भो: कुसुमास्त्रनिपुणत्वमपि ॥७२॥
उररीकृते सति तथेति तयाऽऽक्रमते स्म योगिमृगराड्‍ गगनम्‍ ।
श्रुतविग्रह: श्रुतविनेययुतो दधदभ्रचारमथ योगदृशा ॥७३॥
स ददर्श कुत्रचिदमर्त्यमिव त्रिदिवच्युतं विगतसत्त्वमपि ।
मनुजेश्वरं परिवृत्तं प्रलपत्प्रमदाभिरार्तिमदमात्यजनम्‍ ॥७४॥
अथो निशाखेटवशादटव्यां मूले तरोर्मोहवशात्परासुम्‍ ।
तं वीक्ष्य मार्गेऽमरुकं नृपालं सनन्दनं प्राह स संयमीन्द्र: ॥७५॥
सौन्दर्यसौभाग्यनिकेतसीमा: पर: शता यस्य पयोरुहाक्ष्य: ।
स एव रजाऽमरुकाभिधान: शेते गतासु: श्रमतो धरण्याम्‍ ॥७६॥
प्रविश्य कायं तमिमं परासोनृपस्य राज्येऽस्य सुतं निवेश्य ।
योगानुभावात्पुनरप्युपैतुमुत्कण्ठते मानसमस्मदीयम्‍ ॥७७॥
अन्यादृशानामदसीयनानाकुशेशयाक्षीकिलकिश्चितानाम्‍ ।
सर्वज्ञतानिर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥७८॥
इत्यूचिवांसं यतितल्लजं तं सनन्दन: प्राह ससान्त्वमेनम्‍ ।
सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥७९॥
मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाडगुप्त्यै ।
नृपस्य कस्यापि तनुं परासो: प्रविश्य तत्पत्तनमाससाद ॥८०॥
भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभवन्प्रजानाम्‍ ।
ववर्ष कालेषु वलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन्‍ ॥८१॥
विज्ञाय विज्ञा; सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम्‍ ।
समादिशन्नाजसरोरुहाक्षी: सर्वात्मना तस्य वशीक्रियायै ॥८२॥
संगीतलास्याभिनयादिकेषु संसक्तचेता ललितेषु तासाम्‍ ।
स एष विस्मृत्य पुन: समाधिं सर्वात्मना प्राकृतवव्दभूव ॥८३॥
गोरक्ष एषोऽथ गुरो: प्रवृत्तिं विज्ञाय रक्षन्‍  बहुधाऽस्य देहम्‍ ।
निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरड: ॥८४॥
तत्रैकदा तत्त्वनिबोधनेन निवृत्तरागं निजदेशिकं स: ।
योगानुपूर्वीमुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहम्‍ ॥८५॥
हन्तेदृशोऽयं विषयानुराग: किंचोर्ध्वरेतोव्रतखण्डनेन ।
किं नोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृतीं विवेक्तुम्‍ ॥८६॥
व्रतमस्मदीयमतुलं क महत‍ क च कामशास्त्रमतिगर्ह्यमिदम्‍ ।
तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिहैव भवेत्‍ ॥८७॥
अधिमेदिनि प्रथयितुं शिथिलं धृतककणस्य यतिधर्ममिमम्‍ ।
भवत: किमस्त्यविदितं तदपि प्रणयान्मयोदितमिदं भगवन्‍ ॥८८॥
स निशम्य पद्मचरणस्य गिरं गिरति स्म गीष्पतिसमप्रतिभ: ।
अविगीतमेव भवता फणितं श्रृणु सौम्य वच्मि परमार्थमिदम्‍ ॥८९॥
असडिनो न प्रभवन्ति कामा हरेरिवाभीरवधूसखस्य ।
वज्रोलियोगप्रतिभू: स एष वत्सावकीर्णित्वविपर्ययो न : ॥९०॥
सकल्प एवाखिलकाममूलं स एव मे नास्ति समस्य विष्णो: ।
तन्मूलहानौ भवपाशनाश: कर्तु: सदा स्याद्भवदोषदृष्टे: ॥९१॥
अविचार्य यस्तु वपुराद्यहमित्यभिमन्यते जडमित: सुदृढम्‍ ।
तमबुध्दतत्त्वमधिकृत्य विधिप्रतिषेधशास्त्रमखिलं सफलम्‍ ॥९२॥
कृतधीस्त्वनाश्रममवर्णमजात्यवबोधमात्रमजमेकरसम्‍ ।
स्वतयाऽवगत्य न भजेन्निवसन्निगमस्य मूर्घ्रि विधिकिकरताम्‍ ॥९३॥
कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम्‍ ।
परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्तिं खलु ॥९४॥
कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलै: ।
न फलाय हि स्वपनकालकृतं सुकृतादि जात्वनृतबुध्दिहतम्‍ ॥९५॥
तदयं करोतु हयमेधशतान्यमितानि विप्रहननान्यथवा ।
परमार्थविन्न सुकृतैर्दुरितैरपि लिप्यतेऽस्तमितकर्तृतया ॥९६॥
अवधीत्तिशीर्षमददाच यतीन्‍ वृकमण्डलाय कुपित: शतश: ।
बत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बह्‍ वृचगी: ॥९७॥
बहुदक्षिणैरयजत क्रतुभिर्विबुधानतर्पयदसंख्यधनै: ।
जनकस्तथाऽप्यभयमाप परं न तु देहयोगमिति काण्ववच: ॥९८॥
न विहीयतेऽहिरिपुवद्दुरितैर्न च वर्धते जनकवत्सुकृतै: ।
न स तापमेत्यकरवं दुरितं किमहं न साध्वकरवं त्विति च ॥९९॥
तदनडशास्त्रपरिशीलनमप्यमुनैव सौम्य करणेन कृतम्‍ ।
न हि दोषकृत्तदपि शिष्टसरण्यवनार्थमन्यवपुरेत्य यते ॥१००॥
इति सत्कथा: स कथनीययशा भवभीतिभज्जनकरी: कययन‍ ।
सुदुरासदं चरणचारिजनैर्गिरिश्रृडमेत्य पुनरेव जगौ ॥१०१॥
अधिसानु पश्यत विभाति गुहा पुरत: शिला समतला विपुला ।
सरसी च तत्परिसरेऽच्छजला फलभारनम्रतरुरम्यतटा ॥१०२॥
परिपाल्यतामिह वसद्भिरिदं वपुरप्रमादमनवद्यगुणा: ।
अहमास्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम्‍ ॥१०३॥
इति शिष्यवर्गमनुशास्य यतिप्रवरो विसृष्टकरणोऽधिगुहम्‍ ।
महिपस्य वर्ष्म गुरुयोगबलोऽविशदातिवाहिकशरीरयुत: ॥१०४॥
अडुष्ठमारभ्य समीरणं नयन्‍ करन्ध्रमार्गाव्दहिरेत्य योगवित्‍ ।
करन्ध्रमार्गेण शनै: प्रविष्टवान्‍ मृतस्य यावचरणाग्रमेकधी: ॥१०५॥
गात्रं गतासोर्वसुधाधिपस्य शनै: समास्पन्दत हृत्प्रदेशे ।
तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथापुरैव ॥१०६॥
आदौ तदडमुदयन्मुखकान्ति पश्चान्नासान्तनिर्यदनिलं शनकै: परस्तात्‍ ।
उन्मीलदंघ्रिचलनं तदनुद्यदक्षिव्याकोचमुत्थितमुपात्तबलं क्रमेण ॥१०७॥
तं प्राप्तजीवमुपलभ्य पतिं प्रभूतहर्षस्वना: प्रमुदिताननपकजास्ता : ।
नार्यो विरेजुररुणोदयसंप्रफुल्लपद्मा: ससारसरवा इव वारिजिन्य: ॥१०८॥
हर्ष तासामुदितमतुलं वीक्ष्य वामेक्षणाना -
मात्तप्राणं नृपमपि महामात्यमुख्या: प्रहृष्टा: ।
दध्मु: शखान्‍ पणवपटहान्‍ दुन्दुभीश्चाभिजघ्नु -
स्तेषां घोषा: सपदि बधिरिचक्रिरे द्यां भुवं च ॥१०९॥
इति श्रीमाधवीये तत्सार्वज्ञ्योपायगोचर: ।
संक्षेपशकरजये सर्गोऽयं नवमोऽभवत्‍ ॥९॥
आदित: श्लोका: १०२९

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP