संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| अष्टम: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - अष्टम: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत श्रीमदाचार्यमण्डनमिश्रसंवाद: Translation - भाषांतर अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् ।गच्छन् खसृत्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां स: ॥१॥अवातरद्रत्न विचित्रवप्रां विलोक्य तां विस्मितमानसोऽसौ ।पुराणवत्पुष्करवर्तनीत: पुरोपकण्ठस्थवने मनोज्ञे ॥२॥प्रफुल्लराजीववने विहारी तरडरिडत्कणशीकरार्द्र: ।रेवामरुत्कम्पितसालमाल : श्रमापहृद भाष्यकृतं सिषेवे ॥३॥तस्मिन् स विश्रम्य कृताह्रिक: सन् खस्वस्तिकारोहणशालिनीने ।गच्छन्नसौ मण्डनपण्डितौको दासीस्तदीया: स ददर्श मार्गे ॥४॥कुत्रालयो मण्डनपण्डितस्येत्येता: स पप्रच्छ जलाय गन्त्री: ।ताश्चापि दृष्ट्राऽद्भुतशकरं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥५॥स्वत:प्रमाणं कीराडना यत्न गिरं गिरन्ति ।व्दारस्थनीडान्तरसंनिरुध्दा जानीहि तन्मण्डनपण्डितौक: ॥६॥फलप्रदं कर्म फलप्रदोऽज: कीराडना यत्न गिरं गिरन्ति ॥व्दारस्थनीडाअन्तरसंनिरुध्दा जानीहि तन्मण्डनपण्डितौक: ॥७॥जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्कीराडना यत्र गिरं गिरन्ति ।व्दारस्थनीडान्तरसंनिरुध्दा जानीहि तन्मण्डनपण्डितौक: ॥८॥पीत्वा तदुक्तीरथ तस्य गेहाद्रत्वा बहि: सद्म कवाटगुप्तम् ।दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽवातरदडणान्त: ॥९॥तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुचश्चलकेतनाभम् ।समग्रामालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥१०॥सौधाग्रसंच्छन्ननभोवकाशं प्रविश्य तत्पाप्य कवे: सकाशम् ।विद्याविशेषात्तयश: प्रकाशं ददर्श तं पद्मजसन्निकाशम् ॥११॥तपोमहिम्रैव तपोनिधानं सजैमिनिं सत्यवतीतनूजम् ।यथाविधि श्राध्दविधौ निमन्त्र्य तत्पादपद्मान्यवनेजयन्तम् ॥१२॥तत्रान्तरिक्षादवतीर्य योगिवर्य: समागम्य यथार्हमेष: ।व्दैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष प्रतिनन्दितोऽभूत् ॥१३॥अथ द्युमार्गादवतीर्णमन्तिके मुन्यो: स्थितं ज्ञानशिखोपवीतिनम् ।संन्यास्यसावित्यवगत्य सोऽभवत्प्रवृत्तिशास्त्रैकरतोऽपि कोपन: ॥१४॥तदाऽतिरुष्टस्य गृहाश्रमेशितुर्यतीश्वरस्यापि कुतूहलंभृत: ।क्रमात्किलैवं बुधशस्तयोस्तयो: प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥१५॥कुतो मुण्डयागलान्मुण्डी पन्थास्ते पृच्छयते मया ।किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥१६॥पन्थानं त्वमपृच्छस्त्वां पन्था: प्रत्याह मण्डन ।त्वन्मातेत्यत्न शब्दोऽयं न मां ब्रूयादपृच्छकम् ॥१७॥अहो पीता किमु सुरा नैव श्वेता यत: स्मर ।किं त्वं जानासि तव्दर्णमहं वर्ण भवान् रसम् ॥१८॥मत्तो जात: कलज्जाशी विपरीतानि भाषते ।सत्यं ब्रवीति पितृवत्त्वत्तो जात: कलज्जभुक् ॥१९॥कन्थां वहासि दुर्बुध्दे गर्दभेनापि दुर्बहाम् ।शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ॥२०॥कन्थां वहामि दुर्बुध्दे तव पित्रापि दुर्बहाम् ।शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ॥२१॥त्यक्त्वा पाणिगृहीतीं स्वामशक्त्या परिरक्षणे ।शिष्यपुस्तकभारेच्छोर्व्याख्याता ब्रह्मनिष्ठता ॥२२॥गुरुशुश्रूषणालस्यात्समावर्त्य गुरो: कुलात् ।स्त्रिय: शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठाता ॥२३॥स्थितोऽसि योषितां गर्भे ताभिरेव विबर्धित: ।अहो कृतघ्रता मूर्ख कथं ता एव निन्दसि ॥२४॥यासां स्तन्यं त्वया पीतं यासां जातोऽसि योनित: ।तासु मूर्खतम स्त्रीषु पशुवद्रमसे कथम् ॥२५॥वीरहत्यामवाप्तोऽसि वह्रीनुव्दास्य यत्नत: ।आत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥२६॥दौवारिकान्वश्चयित्वा कथं स्तेनवदागत: ।भिक्षुभ्योऽन्नमदत्वा त्वं स्तेनवद्भोक्ष्यासे कथम् ॥२७॥कर्मकाले न संभाष्य अहं मूर्खेण सम्पति ।अहो प्रकटितं ज्ञानं यतिभडेन भाषिणा ॥२८॥यतिभडे प्रवृत्तस्य यतिभडो न दोषभाक् ।यतिभडे प्रवृत्तस्य पश्चम्यन्तं समस्यताम् ॥२९॥क ब्रह्म क च दुर्मेधा: क संन्यास: क वा कलि: ।स्वाव्दन्नभक्षकामेन वेषोऽयं योगिनां धृत: ॥३०॥क स्वर्ग: क दुराचार: काग्रिहोत्रं क वा कलि:।स्वाव्दन्नभक्षकामेन वेषोऽयं कर्मिणां धृत: ॥३१॥इत्यादिदुर्वाक्यगणं ब्रुवाणे रोषेण साऽहंकृतिविश्वरुपे ।श्रीशकरे वक्तरि तस्य तस्योत्तरं च कौतूहलतश्च चारु ॥३२॥तं मण्डनं सम्मितजैमिनीक्षितं व्यासोऽब्रवीज्जल्पसि वत्स दुर्वच: ।आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्त्व यमिनं धुतैषणम् ॥३३॥अभ्यागतोऽसौ स्वयमेव विष्णुरित्येव मत्वाऽऽशु निमन्त्रय त्वम् ।इत्याश्रवं ज्ञातविधिं प्रतीतं सुध्यग्रणी: साध्वशिषन्मुनिस्तम् ॥३४॥अथोपसंस्पृश्य जलं स शान्त: ससंभ्रमं मण्डनपण्डितोऽपि ।व्यासाज्ञया शास्त्रविदर्चयित्वा न्यमन्त्रयद्भैक्ष्यकृते महर्षिम् ॥३५॥स चाब्रवीत्सौम्य विवादभिक्षामिच्छन् भवत्संनिधिमागतोऽस्मि ।साऽन्योन्यशिष्यत्वपणा प्रदेया नास्त्यादर: प्राकृतभक्तभैक्ष्ये ॥३६॥मम न किंचिदपि ध्रुवमीप्सितं श्रुतिशिर: पथविस्तृतिमन्तरा ।अवहितेन मखेष्वधीरित: स भवता भवतापहिमद्युति: ॥३७॥जगति सम्प्रति तं प्रथयाम्यहं समभिभूय समस्तविवादिनम ।त्वमपि संश्रय मे मतमुत्तमं विगद वा वद वाऽस्मि जितस्त्वति ॥३८॥इति यतिप्रवरस्य निशम्य तव्दचन्दमर्थवदागतविस्मय: ।परिभवेन नवेन महायशा: स निजगौ निजगौरवमास्थित: ॥३९॥अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् ।न च विहाय मतं श्रुतिसम्मतं मुनिमते निपतेत्परिकल्पिते ॥४०॥अपि कदाचिदुदेष्यति कोविद: सरसवादकथाऽपि भविष्यति ।इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागत: ॥४१॥भवतु सम्प्रति वादकथाऽऽवयो: फलतु पुष्कलशास्त्रपरिश्रम: ।उपनता स्वयमेव न गृह्यते नवसुधा वसुधावसथेन किम् ॥४२॥अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्रिगम् ।सुकलहं कलहंसकलाभृतां दिश सुधाशुसुधामलसत्तनो ॥४३॥अपि तु दुर्हृदयस्मयकाननक्षतिकठोरकुठारधुरन्धरा ।न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥४४॥अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे य्दि वाददित्सुता ।गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ॥४५॥वादं करिष्यामि न संदिहेऽत्र जयाजयौ नौ वदिता न कश्चित् ।न कण्ठशोषैकफलो विवादो मिथो जिगीषू क्रुरुतस्तु वादम् ॥४६॥वादे हि वादिप्रतिवादिनौ व्दौ विपक्षपक्षग्रहणं विधत्त: ।का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद क: स्वभाव: ॥४७॥क: पार्ष्णिकोऽहं गृहमेधिसत्तमस्त्वं भिक्षुराजो वदतामनुत्तम: ।जयाजयौ नौ सुपणौ विधीयतां तत: परं साधु वदाव सुस्मितौ ॥४८॥अद्यातिधन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम् ।भविष्यते वादकथाऽपरेद्युर्माध्याह्रिकं सम्प्रति कर्म कुर्याम् ॥४९॥तथेति सूक्ते स्मितशकरेण भविष्यते वादकथा श्व एव ।तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयव्दादरजैमिनी स: ॥५०॥विधाय भार्यां विदुषीं सदस्यां विधीयतां वादकथा सुधीन्द्र ।इत्थं सरस्वत्यवतारताज्ञौ तध्दर्मपत्न्यास्तमभाषिषाताम् ॥५१॥अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्य: प्रकृतं चिकीर्षु: ।आनर्च दैवोपगतान्मुनीन्द्रानग्रीनिव त्रीन्मुनिशेखरांस्तान् ॥५२॥भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ ।अतिष्ठतां पार्श्वगतौ वटू व्दौ सचामरौ वीजनमाचरन्तौ ॥५३॥अथ क्रियान्ते किल सूपविष्टास्रय्यन्तवेद्यार्थविदस्रयोऽमी ।अमन्त्रयंश्चारु परस्परं ते मुहूर्तमात्रं किमपि प्रहृष्टा: ॥५४॥तेषां व्दिजेन्द्रालयनिर्गतानामदर्शनं ज्गमतुरज्जसा व्दौ ।रेवातटे रम्यकदम्बजाले देवालयेऽवस्थितवांस्तृतीय: ॥५५॥इति स यतिवरेण्यो दैवयोगाद्रुरु णामितरजनदुरापं दर्शनं प्राप्य हृष्ट: ।तदुदित्वचनानि श्रावयन्नात्मशि -ष्याननय्दमृततुल्यान्यात्मवित्तां त्रियामाम् ॥५६॥प्रात: शोणसरोजबान्धवरुचिप्रद्योतिते व्योमनि प्रख्यात: स विधाय कर्म नियतं प्रज्ञावतामग्रणी: ।साकं शिष्यवरै: प्रपद्य सदनं सन्मण्डितं माण्डनं वादायोपविवेश पण्डितसभामध्ये मुनिर्ध्येयवित् ॥५७॥तत: समादिश्य सदस्यतायां सधर्मिणीं मण्डनपण्डितोऽपि ।स शारदां नाम समस्तविद्याविशारदां वादसमुत्सुकोऽभूत् ॥५८॥पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ।तयोर्विवेक्तुं श्रुततारतम्यं समागता संसदि भारतीव ॥५९॥प्रवृध्दवादोत्सुकतां तदीयां विज्ञाय विज्ञ: प्रथमं यतीन्द्र: ।परावरज्ञ: स परावरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥६०॥ब्रह्मैकं परमार्थसच्चिदमलं बहलाज्ञानावृतं भासते ।तज्ञानान्निखिलप्रपश्चनिलया स्वात्मव्यवस्था परं निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥६१॥बाढं जये यदि पराजयभागहं स्यां संन्यासमड परिहृत्य कपायचेलम् ।शुक्लं वसीय वसनं व्दयभारतीयं वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥६२॥इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशकरे भिक्षुवरे स्वकीयाम् ।स विश्वरुपो गृहमेधिवर्यश्चके प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥६३॥वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र संगत्ययोगा -त्पूर्वो भाग: प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामाऽऽयुष: स्यात्समाप्ते: ॥६४॥वादे कृतेऽस्मिन्यदि मे जयान्यस्तवयोदितात्स्याव्दिपरीतभाव: ।येयं त्वयाऽभूद्र दिता प्रसाक्ष्ये जानाति चेत्सा भविता वधूर्मे ॥६५॥जेतु: पराजित इहाश्रममादददीतेत्येतौ मिथ: कृतपणौ यतिविश्वरुपौ ।अम्बामुदारधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥६६॥आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ ।एवं विजेतुमनसोरुपविष्टयोस्तां मालां गले न्यधित सोभयभारतीयम् ॥६७॥माला यदा मलिनभावमुपैति कण्ठेयस्यापि तस्य विजयेतरनिश्चय: स्यात् ।उक्त्वा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ॥६८॥अन्योन्यसज्जयफले विहितादरौ तौ वादं विवादपरिनिर्णयमातनिष्टाम् ।ब्रह्मादय: सुरवरा अपि वाहनस्था: श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ॥६९॥ततस्तयोरास महान्विंवाद: सदस्यविश्राणितसाधुवाद: ।स्वपक्षसाक्षी कृतसर्ववेद: परस्परस्यापि कृतप्रमोद: ॥७०॥दिने दिने चाधिगतपकर्षो भूरीमवत्पण्डितसन्निकर्ष: ।अन्योन्यभडाहिततीव्रतर्षस्तथाऽपि दूरीकृतजन्यमर्ष: ॥७१॥दिने दिने वासरमध्यमे सा ब्रूते पतिं भोजनकालमेव ।समेत्य भिक्षू समयं च भैक्ष्ये दिनान्यभूवन्निति पश्चषाणि ॥७२॥अन्योन्यधुत्तरमखण्डयतां प्रगल्भं बध्दासनौ स्मितविकासिमुखारविन्दौ ।न स्वेदकम्पगगनेक्षणशालिनों वा न क्रोधवाक्छलमवादि निरुत्तराभ्याम् ॥७३॥ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य चिचक्षणस्य ।चिक्षेप तं क्षोभितसर्वपक्षं विव्दत्समक्षाप्रतिभातकक्ष्यम् ॥७४॥तत: स्वसिध्दानसमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्य: ।जगाद वेदान्तवच:प्रसिध्दमव्दैअसिध्दान्तमपाकरिष्णु: ॥७५॥भो भो यतिक्ष्माधिपते भवद्भिर्जीवेशयोर्वास्तवमैकरुप्यम् ।विशुध्दमडीक्रियते हि तत्र प्रमाणमेवं न वयं प्रतीम: ॥७६॥स प्रत्यवादीदिदमेव मानं यच्छ्वेतकेतुप्रमुखान्विनेयान् ।उद्दालकाद्या गुरवो महान्त: संग्राहयन्त्यात्मतया परेशम् ॥७७॥वेदावसानेद्यु हि तत्त्वमादिवचांसि जप्तान्यघमर्पणानि ।हुंफण्मुखानीव वचांसि योगिन्नैषां विवक्षाऽस्ति कुहस्विदर्थे ॥७८॥अर्थाप्रतीतौ किल हुंफडादेर्जपोपयोगित्वमभाणि विज्ञै: ।अर्थप्रतीतौ स्फुटमत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ॥७९॥आपाततस्तत्त्वमसीति वाक्याद्यतीश जीवेश्वरयोरभेद: ।प्रतीयतेऽथाऽपि मखादिकर्तृप्रशंसया स्याव्दिधिशेष एव ॥८०॥क्रत्वडयूपादिकमर्यमादिदेवात्मना वाक्यगण: प्रशंसन् ।शेष: क्रियाकाण्डगतो यदि स्यात्काण्डान्तरस्थोऽपि भवेत्कथं स: ॥८१॥तर्ह्यस्तु जीवे परमात्मदृष्टिविधायक: कर्मसमृध्दयेऽर्हन् ।अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोऽन्नार्कनभस्वदादौ ॥८२॥संश्रूतयेऽन्यत्र यथा लिडादिर्विधायको ब्रह्मविभावनाय ।तथा विधेरश्रवणान्मनीषिन् संजाघटीत्यत्र कथं विधानम् ॥८३॥यव्दत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्निसत्रे ।प्रकल्प्यते तव्ददिहापि मुक्तिफलश्रुते: कल्पयितुं स युक्त: ॥८४॥तर्हि क्रियाजन्यतया विमुक्ति: स्वर्गादिवध्दन्त विनश्वरा स्यात् ।उपासना कर्तुमकर्तुमन्यथा वा कर्तुमर्हा मनस: क्रियैव ॥८५॥मा भूदिदं तत्त्वमसीति वाक्यमुपासनापर्यवसायि कामम् ।किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥८६॥किं चेतनत्वेन विवक्ति साम्यं सार्वज्ञ्यसार्वात्म्यमुखैर्गुणैर्वा ।आद्ये प्रसिध्दं न खलूपदेश्यमन्ते स्वसिध्दान्तविरुध्दता स्यात् ॥८७॥नित्यत्वमात्रेणं मुने परात्मगुणोपमानै: सुखबोधपूर्वै: ।गुणैरविद्यावृतितोऽप्रतीतै: साम्यं ब्रवीत्वस्य ततो न दोष: ॥८८॥यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रह: क: ।त्वयैव तस्य प्रतिभासशका विव्दन्नविद्यावरणान्निरस्ता ॥८९॥भोश्चेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्प्रसूते: ।चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेर्निरास: ॥९०॥हन्तैवमस्तीति तदा प्रयोग: स्यात्त्वन्मते तत्त्वमसीति न स्यात् ।तदैक्षतेत्यत्र जडत्वशकाव्यावर्तनाचात्र पुनर्न चोद्यम् ॥९१॥न त्वेवमप्यैक्यपरत्वमस्य प्रत्यक्षपूर्वप्रमितिप्रकोपात् ।न युज्यते तज्जपमात्रयोगिस्वाध्यायविध्याश्रितमभ्युपेयम् ॥९२॥अक्षेण चेद्भेदमितिस्तदा स्यादभेदवादिश्रुतिवाक्यबाध: ।असन्निकर्षान्न भवेध्दि भैदप्रमैव तेनास्य कुतो विरोध: ॥९३॥भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्मविशेषणत्वम् ।तत्संनिकर्षोऽस्त्वथ सम्प्रयोगाभावेऽपि भेदेन्द्रिययोर्मनीषिन् ॥९४॥अतिप्रसक्तेर्न तु केवलस्य विशेषणत्वस्य तदभ्युपेयम् ।भेदाश्रये हीन्द्रियसन्निकृष्टे न सन्निकृष्टत्वमिहात्मनोऽसित ॥९५॥भेदाश्रयात्मेन्द्रियसंनिकर्षो नेत्युक्तमेतचतुरं न यस्मात् ।चित्तात्मनोर्द्रव्यतया व्दयोरप्यस्त्येव संयोगसमाश्रयत्वम् ॥९६॥आत्मा विभु: स्वादथवाऽणुमात्र: संयोगिता नोभयथाऽपि युक्ता ।दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन योगिन् ॥९७॥मनोऽक्षमित्यभ्युपगम्य भेदासडित्वमुक्तं परमार्थतस्तु ।साहाय्यकृल्लोचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥९८॥भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरुपैव तथाऽपि योगिन् ।तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥९९॥प्रत्यक्षमात्मेश्वरयोरविद्यामाजायुजोर्द्योतयति प्रभेदम् ।श्रुतिस्तयो: केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोध: ॥१००॥स्याव्दा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् ।प्राबल्यवत्या चरमप्रवृत्त्या श्रुत्वा ह्यपच्छेदनयोक्तरीत्या ॥१०१॥नन्वेवमप्यस्त्यनुमानबाधोऽभेदश्रुते: संयमिचक्रवर्तिन् ।घटादिवब्रह्मनिरुपितेन भेदेन युक्तोऽयमसर्ववित्वात् ॥१०२॥किमेष भेद: परमार्थभूत: प्रसाध्यते काल्पनिकोऽथवाऽऽद्ये ।दृष्टान्तहानिश्चरमे तु विव्दन्नूरीकृतोऽस्माभिरसाधनीय: ॥१०३॥स्वप्रत्ययाबाध्यभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् ।त्वयाऽऽत्मबोधेन भिदा न बाध्येत्यनभ्युपेतेति न कोऽपि दोष: ॥१०४॥ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तव्दिधुरोऽथवाऽऽत्मा ।आद्योऽस्मदिष्टं ननु साध्यमन्त्ये दृष्टान्तहानि: पुनरेव ते स्यात् ॥१०५॥योगिन्ननौपाधिकभेदवत्त्वं विवक्षितं साध्यमिह त्वदिष्ट: ।औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥१०६॥घटेशभेदेऽप्युपधिर्ह्यविद्या तवानुमानेषु जडत्वमेव ।चित्वादभिन्न: परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतु ॥१०७॥धर्मिप्रमाबाध्यशरीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् ।त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्य: ॥१०८॥किं कृत्स्रधर्मिप्रमया न बाध्य: किं वा स यत्किंचनधर्मिबोधात् ।घटाधिके ब्रह्मणि चात्मभेदस्यैवयात् पुन: स्यान्ननु पूर्वदोष: ॥१०९॥किंचागुणो वा सगुणो मनीषिन्विवक्ष्यते धर्मिपदेन नान्त्य: ।भेदस्य तद्बुध्यविबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ॥११०॥किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिध्दिरथाद्यकल्पे ।शरीर्यभेदेन परस्य सिध्दे: प्राप्रोति धर्मग्रहमानकोप: ॥१११॥भो ‘व्दा सुपर्णा सयुज सखाये’ त्याद्या श्रुतिर्भेदमुदीरयन्ती ।जीवेशयो: पिप्पलभोक्तोस्तयोरभेदरश्रुतिबाधिकाऽस्तु ॥११२॥प्रत्यक्षसिध्दे विफले परात्मभेदे श्रुतिर्नो नयवित्प्रमाणम् ।स्यादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवाद: सकलोऽपि विव्दन् ॥११३॥स्मृतिप्रसिध्दार्थविबोधि वाक्यं यथेष्यते मूलतया प्रमाणम् ।प्रत्यक्षसिध्दार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥११४॥श्रुति: स्मृतेऽर्थे यदि वेदविद्भिर्भवेन्न तन्मूलतया प्रमाणम् ।कथं भवेव्देदकथानभिज्ञैर्ज्ञातेऽपि भेदे परजीवयो: सा ॥११५॥जीवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु ।विविच्य सत्वात्पुरुषं समस्तसंसारराहित्यममुष्य वक्ति ॥११६॥ यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ ।जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमहिन् कथमश्नुवीत ॥११७॥न चोदनीया वयमत्र विव्दन् यतस्त्वया पैडिरहस्यमेव ।अत्तीति सत्त्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥११८॥शरीरवाची ननु सत्त्वशब्द: क्षेत्रज्ञशब्द: परमात्मवाची ।तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैडयोदितवर्त्मनाऽपि ॥११९॥तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्ति: ।क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्र्ष्टरि तत्र विव्दन् ॥१२०॥येनेति हि स्वप्रदृशिक्रियाया: कर्तोच्यते तत्न स जीव एव ।क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वप्रदृक् सर्वविदीश्वरोऽपि ॥१२१॥तिड्प्रत्ययेनाभिहितोऽत्न कर्ता ततस्तृतीया करणेऽभ्युपेया ।द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वर: स्यात् ॥१२२॥वृत्ति: शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् ।तस्मिन् भवन् सर्वगतो महेश: कथं न शारीरपदाभिधेय: ॥१२३॥भवञ्छरीरादितरत्र चेश: कथं च शारीरपदाभिधेय: ।नभ: शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ॥१२४॥यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेध्दुशरीरभाजौ ।अत्तीति भोक्तृत्वमचेतनाया बुध्देर्वदेत्तार्हि कथं प्रमाणम् ॥१२५॥अदाहकस्याप्ययस: कृशानोराश्लेषणाद्दाहकता यथाऽऽस्ते ।तथैव भोक्तृत्वमचेतनाया बुध्देरपि स्याच्चिदनुप्रवेशात् ॥१२६॥छायातपौ यव्ददतीव भिन्नौ जीवेश्वरौ तव्ददिति ब्रुवाणा ।ॠतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥१२७॥भेदं वदन्ती व्यवहारसिध्दं न बाधतेऽभेदपरश्रुतिं सा ।एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुते: प्रत्युत बाधिका स्यात् ॥१२८॥मानान्तरोपोव्दलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य ।तव्दाधितुं सा प्रभवत्यभेदश्रुतिं प्रमाणान्तरबाधितार्थाम् ॥१२९॥प्राबल्यमपादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन् ।गतार्थतादानमुखेन तासां दौर्बल्यसम्पादकमेव किन्तु ॥१३०॥इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां देव्या तादृशविश्वरुप भसावष्टंभमुष्टिंधया ।भर्तृन्यासविलक्ष्यसूक्तिजननीसाक्षित्वकुक्षिंभरि: सश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥१३१॥इत्थं यतिक्षितिपते रनुमोद्य युक्तिं मालां च मण्डनगले मलिनामवेक्ष्य ।भिक्षार्थमुचलतमद्य युवामितीमावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥१३२॥कोपारितेकवशत: शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते ।साऽहं यथागतमुपैमि शमिप्रवीरेत्युक्त्वा ससंभ्रममुं निजधाम यान्तीम् ॥१३३॥बबन्ध नि:शकमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्र: ।जयोऽपि तस्या: स्वमतैक्यसिध्दयै सार्वज्ञत: स्वस्य न मानहेतो: ॥१३४॥जानामि देवीं भवतीं विधातुर्देवस्य भार्या पुरभित्सगर्भ्याम् ।उपात्तलक्ष्म्यादिविचित्ररुपां गुप्त्यै प्रपश्चस्य कृतावताराम् ॥१३५॥व्रज जननि तदा त्वं भक्तचूडामणिस्ते निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् ।इति निजवच्नेऽस्मिञ्छारदासंमतेऽसौ मुनिरथ मुदितोऽभून्माण्डनं हृव्दुभुत्सु: ॥१३६॥इति श्रीमाधवीये तन्मण्डनार्यकथापर: ।संक्षेपशकरजये सर्गोऽसावष्टमोऽभवत् ॥८॥आदित: ९२० N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP