संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| चतुर्थ: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - चतुर्थ: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत कौमारचरितवर्णनम् Translation - भाषांतर अथ शिवो मनुजो निजमायया व्दिजगृहे व्दिजमोदमुपावहन् ।प्रथमहायन एव समग्रहीत्सकलवर्णमसौ निजभाषिकाम् ॥१॥व्दिसम एव शिशुर्लिखिताक्षरं गदितुमक्षमताक्षरवित्सुधी: ।अथ स काव्यपुराणमुपाश्रृणोत्स्वयमवैत्किमपि श्रवणं विना ॥२॥अजनि दु:खकरो न गुरोरसौ श्रवणत: सकृदेव परिग्रही ।सहनिपाठजनस्य गुरु: स्वयं स च पपाठ ततो गुरुणा विना ॥३॥रजसा तमसाऽप्यनाश्रितो रजसा खेलनकाल एव हि ।स कलाधरसत्तमात्मजो सकलाश्चापि लिपीविन्दत ॥४॥सुधियोऽस्य विदिद्युतेऽधिकं विधिवच्चौलविधानसंस्कृतम् ।ललितं करणं घृताहुतिज्वलितं तेज इवाशुशुक्षणे: ॥५॥उपपादननिर्व्यपेक्षधी: स पपाठाहृतिपूर्वकागमान् ।अधिकाव्यमरंस्त कर्कशेऽप्यधिकांस्तर्कनयेऽत्यवर्तत ॥६॥हरतस्त्रिदह्सेज्यचातुरीं पुरतस्तस्य न वक्तुमीश्वरा: ।प्रभवोऽपि कथासु नैजवाग्विभवोत्सारितवादिनो बुधा: ॥७॥अमुकक्रमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीम् ।मुमुहुर्निशमय्य वादिन: प्रतिवाक्योपहृतौ प्रमादिन: ॥८॥कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता ।स्वमतान्यपि तेन खण्डितान्यतियत्नैरपि साधितानि कै: ॥९॥अमुना तनयेन भूषितं यमुनातातसानवर्चसा ।तुलया रहितं निजं कुलं कलयामास स पुत्रिणां वर: ॥१०॥शिवगुरु: स जरंस्त्रिसमे शिशावमृत कर्मवश: सुतमोदित: ।उपनिनीषितसूनुरपि स्वयं न हि यमोऽस्य कृताकृतमीक्षते ॥११॥इह भवेत्सुलभं न सुतेक्षणं न सुतरां सुलभं विभवेक्षणम् ।सुतमवाप कथश्चिदयं व्दिजो न खलु वीक्षितुमैष्ट सुतोदयम् ॥१२॥मृतमदीदिहदात्मसनाभिभि: पितरमस्य शिशोर्जननी तत: ।समनुनीतवती धवखण्डितां स्वजनता मृतिशोकहरै: पदै: ॥१३॥कृतवती मृतचोदितमक्षमा निजजनैरपि कारितवत्यसौ ।उपनिनीषुरभूत्सुतमात्मन: परिसमाप्य च वत्सरदीक्षणम् ॥१४॥उपनयं किल पश्चमवत्सरे प्रवरयोगयुते सुमुहूर्तके ।व्दिजवधूर्नियता जननी शिशोर्व्यधित तुष्टमना: सह बन्धुभि: ॥१५॥अधिजगे निगमांश्चतुरोऽपि स क्रमत एव गुरो: सषडडकान् ।अजनि विस्मितमत्र महामतौ व्दिजसुतेऽल्पतनौ जनतामन: ॥१६॥सहनिपाठयुता बहव: समं पठितुमैशत न व्दिजसूनुना ।अपि गुरुर्विशयं प्रतिपेदिवान्क इव पाठयितुं सहसा क्षम: ॥१७॥अत्न किं स यदशिक्षत सर्वाश्चित्रमागमगणाननुवृत्त: ।व्दित्रिमासपठनादभवद्यस्तत्र तत्र गुरुणा समविद्य: ॥१८॥वेदे ब्रह्मसमस्तदडानिचये गार्ग्योपमस्तत्कथातात्पर्यार्थविवेचने गुरुसमप्तत्कर्मसंवर्णने ।आसीज्जैमिनिरेव तव्दचनजप्रोध्दोधाकन्दे समोव्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्वृत: ॥१९॥आन्वीक्षिक्यैक्षि तन्त्रे परिचितिरतुला कापिले काऽपि लेभे पीतं पातश्चलाम्भ: परमपि विदितं भाटटघट्टार्थरत्वम् ।यत्तै: सौख्यं तदस्यान्तरभवदमलाव्दैतविद्यासुखेऽस्मि न्कूपे योऽर्थ : स तीर्थे सुपयसि वितत्ते हन्त नान्तर्भवेत्किम् ॥२०॥स हि जातु गुरो: कुले वसन्सवयोभि: सह भैक्षलिप्सया ।भगवान्भवनं व्दिजन्मनो धनहीनस्य विवेश क्स्यचित् ॥२१॥तमवोचत तत्र सादरं यतिवर्य गृहिण: कुटुंबिनी ।कृतिनो हि भवादृशेषु ये वरिवस्यां प्रतिपादयन्ति ते ॥२२॥विधिना खलु वश्चिता वयं वितरीतुं वटवे न शुक्रुम: ।अपि भैक्षमकिश्चनत्वतो धिगिदं जन्म निरर्थकं गतम् ॥२३॥इति दीनमुदीरयन्त्यसौ प्रददावामलकं व्रतीन्दवे ।करुणं वचनं निशम्य सोऽप्यभवज्ज्ञाननिधिर्दयार्द्रधी: ॥२४॥स मुनिर्मुरभित्कृटुम्बिनीं पदचित्रैर्नवनीतकोमलै: ।मधुरैरुपतस्थिवांस्तवैर्व्दिजदारिद्रयदशानिवृत्तये ॥२५॥अथ कैटभजित्कुटुम्बिनी तटिदुद्दामनिजाडकान्तिभि: ।सकलाश्च दिश: प्रकाशन्त्यचिरादाविरभूत्तदग्रत: ॥२६॥अभिवन्द्य सुरेन्द्रवन्दितं पदयुग्मं पुरत: कृताज्जलिम् ।ललितस्तुतिभि: प्रहर्षिता तमुवाच स्मितपूर्वकं वच: ॥२७॥विदितं तव वत्स हृद्रते कृतमेभिर्न पुरा भवे शुभम् ।अधुना मदपाडपात्रतां कथमेते महितामवाप्नुयु: ॥२८॥इति तव्दचनं स शुश्रुवान्निजगादाम्ब मयीदमर्पितम् ।फलमद्य ददस्व तत्फलं दयनीयो यदि तेऽहमिन्दिरे ॥२९॥अमुना वचनेन तोषिता कमला तद्भवनं समन्तत: ।कनकामलकैरपूरयज्जनताया हृदयं च विस्मयै: ॥३०॥अथ चक्रभृतो वधूमये सुकृतेऽन्तर्धिमुपागते सति ।प्रशशंसुरतीव शकरं महिमानं तमवेक्ष्य विस्मिता: ॥३१॥दिवि क्ल्पतरुर्यथा तथा भुवि कल्याणगुणो हि शकर: ।सुरभूसुरयोरपि प्रिय: समभूदिष्टविशिष्टवस्तुद: ॥३२॥अमरस्पृहणीयसम्पदं व्दिजवर्यस्य निवेशमात्मवान् ।स विधाय यथापुरं गुरो: सविधे शास्त्रवराण्यशिक्षत ॥३३॥वरमेनमवाप्य भेजिरे परभागं सकला: कला अपि ।समवाप्य निजोचितं पतिं कमनीया इव वामलोचना: ॥३४॥सरहस्यसमग्रशिक्षिताखिलविद्यस्य यशस्विनो वपु: ।उपमानकथाप्रसडमप्यसहिष्णुश्रियमन्वपद्यत ॥३५॥जयति स्म सरोरुहप्रभमदकुण्ठीकरणक्रियाचरणम् ।व्दिजराजकरोपललितं पदयुग्मं परगर्वहारिण: ॥३६॥जलमिन्दुमणिं स्रवेद्यदि यदि पद्मं दृषद: तत: सर: ।यदि तत्र भवेत्कुशेशयं तदमुष्यांघ्रितुलामवाप्नुयात ॥३७॥पादौ पद्मसमौ वदन्ति करिचिच्छ्रिशकरस्यानघौ वक्तं च व्दिजराज -मण्डलनिभं नैतद् व्दयं साम्प्रतम् ।प्रेष्य: पद्मपद: किल त्रिजगति ख्यात: पदं दत्तवा-नम्भोजे व्दिजराजमण्डलशतै: प्रेष्यैरुपास्यं मुखम् ॥३८॥मुहु: सन्तो नैजं हृदयकमलं निर्मलतरं विधातुं योगीन्द्रा: पदकमलस्मिन्निदधति ।दुरापां शक्राद्यैर्वमति वदनं यन्नवसुधांततो मन्ये पद्यात्पदमधिकामिन्दोश्च वदनम् ॥३९॥तत्वज्ञानफलेग्रहिर्घनतरच्यामोहमुष्टिंधयोनि:शेषव्यसनोदरंभरिरघप्राग्भारकूलंकष: ।लुण्टाको मदमत्सरादिविततेस्तापत्रयारंतुद: पाद: स्यादमितंपच: करुणया भद्रंकर: शकर: ॥४०॥पादाघातस्फोटवरणकिणितकार्तान्तिकभुजंप्रघाणव्याघातप्रणतविमतद्रोहबिरुदम् ।परं ब्रह्मैवासौ भवति तत एवास्य सुपदं गतापस्मारार्तीज्जगति महतोऽद्यापि तनुते ॥४१॥प्राप्तस्याभ्युदयं नवं कलयत: सारस्वतोज्जम्भणंस्वालोकेन विधूतविश्वतिमिरस्यासन्नतारस्य च ।तापं नस्त्वरितं क्षिपन्ति घनतापन्नं प्रसन्ना मुने राह्लाद च कलाधरस्य मधुरा: कुर्वन्ति पादक्रमा: ॥४२॥नतिर्दत्ते मुक्तिं नतमुत पदं वेति भगव -त्पदस्य प्रागल्भ्याज्जगति विवदन्ते श्रुतिविद: ।वयन्तु ब्रूमस्तद्भजनरतपादाम्बुजरज: -परीरम्भारम्भ: सपदि हृदि निर्वाणशरणम् ॥४३॥लांशुकपल्लवावृतं विललासोरुयुगं विपश्चित: ।वृतार्णवफेनमज्जरीच्छुरितैरावतहस्तशस्तिभृत् ॥४४॥इदं हाटकवल्लरीत्रयीघटिता स्फाटिककूटभृत्तटी ।टमस्य तया कटीतटी तुलिता स्यात्कलितत्रिमेखला ॥४५॥आदाय पुस्तकवपु: श्रुतिसारमेकहस्तेन वादिकृततद्वकण्टकानाम् ।उध्दारमारचयतीव विबोधमुद्रामुव्दिभ्रता निजकरेण परेण योगी ॥४६॥सुधीराज: कल्पद्रुमकिसलयाभौ करवरौ करोत्येतौ चेतस्यमलकमलं यत्सहचरम् ।रुचेश्चोरावेतावहनि किमु रात्राविति भिया निशादेराप्रातर्निजदलकवाटं घटयति ॥४७॥रुचिरा तदुरस्थली बभावररस्फालविशालमांसला धरणीभ्रमणोदितश्रमात्पृथुशय्येव जयश्रियाऽश्रिता ॥४८॥परिघपथिमापहारिणौ शुशुभाते शुभलक्षणौ भुजौ ।बहिरन्तरशत्रुनिग्रहे विजयस्तंभयुगीधुरन्धरौ ॥४९॥उपवीतममुष्य दिद्युते बिसतन्तुक्रियमाणसौहृदम् ।शरदिन्दुमयूखपाण्डिमातिशयोल्लघनजाडिकप्रभम् ॥५०॥समराजत कण्ठकम्बुराड् भगवत्पादमुनेर्यदुद्भव;।निनद: प्रतिपक्षनिग्रहे जयशखध्वनितामविन्दत ॥५१॥अरुणाधरसंगताऽधिकं शुशुभे तस्य हि दन्तचन्द्रिका ।नवविद्रुमवल्लरीगता तुहिनांशोरिव शारदी छवि: ॥५२॥सुकपोलतले यशस्विन: शुशुभाते सितभानुवर्चस: ।वदनाश्रितभारतीकृते विधिसकल्पितदर्पणाविव ॥५३॥समाजीत्तस्यास्ये सुकृतजलधे: सर्वजगतांपय: पारावारादजनि रजनीशो बहुमतात् ।सुधाधारोद्रार: सुसदृगनयो: किन्तु शशभृ त्सतां तेज: पुज्जं हरति वदनं तस्य दिशति ॥५४॥पुरा क्षीराम्भोधेरहह तनया यव्दिषयता -जुषो दीनस्याग्रे घनकनकधारा: समकिरत् ।इदं नेत्रं पात्रं कमलनिलयाप्रीतिवितते -र्मुनीशस्य स्तोतुं कृतसुकृत एव प्रभवति ॥५५॥दुर्वारप्रतिपक्षदूषणसमुन्मेषक्षितौ कल्पनेसेतोरप्यनघस्य तापसकुलैणाकस्य लकारय: ।अपन्नानतिकायविभ्रममुष: संसारिशाखामृगान् पुष्णन्त्यच्छपयो ब्ववीचिव्दलकारा: कटाक्षाकुरा: ॥५६॥नि:शकक्षतिरुक्षकण्टककुलं मी नाकदावानलज्वालासंकुलमार्तिपडिलतरं व्यध्वं धृतिध्वंसिनम् ।संसाराकृतिमामयच्छलचलद्दर्वारदुर्वारणं मुष्णन्ति श्रममाश्रिता नवसुधावृष्टयायिता दृष्टय: ॥५७॥त्निपुण्ट्रं तस्याहु: सितभसितशोभि त्रिपथगांकृपापारावारं कतिचन मुनिं तं श्रितवतीम् ।वयं त्वेतद् ब्रूमो जगति किल तिस्र: सुरुचिरा स्रयीमौलिव्याकृत्युपकृतिभवा: कीर्तय इति ॥५८॥असौ शंभोर्लीलावपुरिति भृशं सुन्दर इतिव्दयं सम्पत्ये तज्जनमनसि सिध्दं च सुगमम् ।यदन्त: पश्यन्त: करणमदसीयं निरुपमं तृणीकुर्वन्येते सुषममपि कामं सुमतय: ॥५९॥अज्ञानान्तर्गहनपतितानात्मविद्योपदेशैस्त्रातुं लोकान्भवदवशिखातापपापच्यमानान् ।मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्तीशम्भोर्मूर्तिश्चरति भुवने शकराचार्यरुपा ॥६०॥उच्चण्डाहितवावदुककुहनापाण्डित्यवैतण्डिकंजाते देशिकशेखरे पदजुषां सन्तापचिन्तापहे ।कातर्यं हृदि भूयसाऽकृत पदं वैभाषिकादे: कथा -चातुर्य कलुषात्मनो लयमगाव्दैशेषिकादेरपि ॥६१॥अमुना क्रतव: प्रसाधिता: क्रतुविभ्रंशकर: स शकर; ।इयमेव भिदाऽनयोर्जितस्मरयो: सर्वविदोर्बुधेडययो: ॥६२॥कलयाऽपि तुलानुकारिणं कलयामो न वयं ज्गत्तूये ।विदुषां स्वसमो यदि स्वयं भविता नेति वदन्ति तत्र के ॥६३॥द्युवनान्त इवामरद्रुमा अमरद्रष्विव पुष्पसश्चया: ।भ्रमरा इव पुष्पसश्चयेष्वतिसंख्या: किल शकरे गुणा: ॥६४॥कामं वस्तुविचारतोऽच्छिनदयं पारुष्यहिंसाक्रुध: क्षान्त्या दैन्यपरिग्रहानृतकथालोभांस्तु सन्तोषत: ।मात्सर्य त्वनसूयया मदमहामानौ चिरं भावित -स्वान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥६५॥कामं यस्तु समूलघातमवधात्स्वार्गापवर्गापहं रोषं य: खलु चूर्णपेषमपिषन्नि: शेषदोषावहम् ।लोभादीनपि य: परांस्तृणसमुच्छेदं समुच्चिच्छदेस्वस्यान्तेवसतां सतां त भगवत्पाद: कथं वर्ण्यते ॥६६॥केऽपी कान्त दिवा निशाकरकरा धर्मस्य मर्मच्छिदोमुग्धे शम्भुनवावतारसुगुरो रेते गुणानां गणा: ।कस्मादुत्पलसन्ततिर्विकसिता विस्मेरदिग्योषिता -मेषाऽडझरीति दिग्गजवधूप्रश्नोत्तरे रेजतु: ॥६७॥नाक्ष्णा माक्षिकमीक्षितं क्षणमपि द्राक्षा मुहु: शिक्षिताक्षीरेक्षू स्मुपेक्षितौ भुवि यया सा शकरश्रीगुरो: ।कान्तानन्तदिगन्तलघनकलाजघालतत्तद्रुण -श्रेणी निर्भरमाधुरीमदधुरा धन्येति मन्यामहे ॥६८॥क्षान्तिश्चेव्दसुधा जहातु महतीं सर्वसहत्वप्रथांविद्याश्चेव्दिरहन्तु षण्मुखमुखा: स्वावर्गगर्वावलीम् ।वैराग्यं यदि बादरायणियश: कार्श्य परं गाहतां किं जल्पैर्मुनिशेखरस्य न तुलां कुत्रापि मन्यामहे ॥६९॥या मूर्ति: क्षमया मुनीश्वरीमयी गोत्रासगोत्रायते विद्याभिर्निरवद्यकीर्तिभिरलं भाषाविभाषयते ।भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायते कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥७०॥न बभूव पुरातनेषु तत्सदृशो नाद्यतनेषु दृश्यते ।भविता किमनागतेषु वा न सुमेरो: सदृशो यथा गिरि: ॥७१॥समशोभत तेन तत्कुलं स च शीलेन परं व्यरोचत ।अपि शीलमदीपि विद्यया ह्यपि विद्या विनयेन दिद्युते ॥७२॥सुयश: कुसुमोच्चय: श्रयव्दिबुधालिर्गुणपल्लवोद्रम: ।अवबोधफल: क्षमारस: सुरशाखीव रराज सूरिराट् ॥७३॥न च शेषभावी न कापिली गणिता काणभुजी न गीरपि ।फणितिष्वितरासु का कथा कविराजो गिरि चातुरीजुषि ॥७४॥भटटभास्करविमर्ददुर्दशामज्जदागमशिर: करग्रहा ।हन्त शकरगुरोर्गिर: क्षरन्त्यक्षरं किमपि तद्रसायनम् ॥७५॥जाटाटकजटाकुटीरविहरन्नैलिनी -क्षोणीशप्रियकृन्नवावतरणावष्टम्भगुम्फच्छिद: ।गर्जन्तोऽवतरन्ति शकरगुरुक्षोणीधरेन्द्रोदरा व्दाणीनिर्झरिणीझरा: क नु भयं दुर्भिक्षुदुर्भिक्षत: ॥७६॥वारी चित्तमतडजस्य नगरी बोधात्मनो भूपते र्दूरीभूतदुरन्तदुर्वदझरी हारीकृता सुरिभि: ।चिन्तासन्ततितूलवातलहरी वेदोल्लसचातुरी संसाराब्धितरीरुदेति भगवत्पादीयवग्वैखरी ॥७७॥कथादर्पोत्सर्पत्कथकबुधकण्डूलरसना -सनालाघ : पाते स्वयमुदयमन्त्रो व्रतिपते: ।निगुम्फ: सूक्तीनां निगमशिखराम्भोजसुरभि: जयत्यव्दैतश्रीजय बिरुदघण्टाघणघण: ॥७८॥कस्तूरीघनसारसौरभपरीरंभप्रियंभावुका -स्तापोन्मेषमुषो निशाकरकराहंकारकूलंकषा: ।द्राक्षामाक्षिकशर्करामधुरिमग्रामाविसंवादिनोव्याहारा मुनिशेखरस्य न कथंकारं मुदे कुर्वते ॥७९॥अव्दैते परिमुक्तकण्टकपथे कैवल्यघण्टापथे स्वाहंपूर्वकदुर्विकल्परहितप्राज्ञाध्वनीनाकुले ।मस्कन्दन्मकरन्दवृन्दकुसुमस्रक्तो रणप्रकिया -माचार्यस्य वितन्वते नवसुधासिक्ता: स्वयं सूक्तय: ॥८०॥दूरोत्सारितदुष्टपांसुपटलीदुर्नीतयोऽनीतयोवाता देशिकवाडया: शुभगुणग्रामालया मालया: ।मुष्णन्ति श्रममुल्लसत्परिमलश्री मेदुरा मे दुरा -यासस्याऽऽधिहविर्भुजो भावमये धीप्रान्तरे प्रान्तरे ॥८१॥नृत्यन्त्या रसनाग्रसीमनि गिरां देव्या: किमड् घ्रिकण न्मज्जीरोर्जितसिज्जितान्युत नितम्बालम्बिकाश्चीरवा: ।किं वल्गत्करपद्मकडणझणत्कारा इति श्रीमत:शकामकुरयन्ति शकरकवे: सद्युक्तय: सूक्तय: ॥८२॥वर्षारम्भविजम्भमाणजलमुग्गम्भीरघोषोपमो वात्यातूर्णविघूर्णदर्णवपय: कल्लोलदर्पापह: ।उन्मीलन्नवमल्लिकापरिमलाहंतानिहन्ता निरा -तक: शकरयोगिदेशिकगिरां गुम्फ: समुज्जम्भते ॥८३॥हृद्या पद्यविनाकृता प्रशमिताविद्याऽमृषोद्या सुधा -स्वाद्या माद्यदरातिचोद्यभिदुराऽभेद्या निषद्यायिता ।विद्यानामनघोद्यमा सुचरिता साद्यापदुद्यापिनीपद्या मुक्तिपदस्य साऽद्य मुनिवाड्नुद्यादनाद्या रुज: ॥८४॥आयासस्य नवाकुरं घनमनस्तापस्य बीजं निजं क्लेशानामपि पूर्वरडमलघुमस्तावनाडिण्डिमम् ।दोषाणामनृतस्य कार्मणमसचिन्ताततेर्निष्कुटंदेहादौ मुनिशेखरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥८५॥तथागतपथाहतक्षपणकप्रथालक्षण -प्रतारणहतानुवर्त्यखिलजीवसज्जीवनी ।हरत्यतिदुरत्ययं भवभयं गुरुक्तिर्नृणा -मनाधुनिकभारतीजरठशुक्तिमुक्तामणि : ॥८६॥झंझामारुतवेल्लितामरधुनीकल्लोलकोलाहल -प्राग्भारैकसागर्भ्यरजरीजम्भव्दचोनिर्झरा : ।नैकालीकमतालिधूलिपटलीमर्मच्छित: सद्रुरो -रुद्यद्दुर्मतिघमदुर्मति निकृन्तन्ति न: ॥८७॥उन्मीलन्नवमल्लिसौरभपरीरम्भप्रियंभावुका: मन्दारद्रुमरन्दबृन्दविलुठन्माधुर्यधुर्या गिर: ।उद्रीर्णा गुरुणा विपारकरुणावाराकरेणाऽऽदरात् सच्चेतो रमयन्ति हन्त मदयन्त्यामोदयन्ति द्रुतम् ॥८८॥धारावाहिसुखानुभूतिमुनिवाग्धरासुधाराशिषु क्रीडन्व्दैतिवच: सुक: पुनरनुक्रीडेत मूढेतर: ।चित्रं काश्चनम्बरं परिदधच्चिते विधत्ते मुहु: कच्चित्कच्चरदुष्पटचरजरत्कन्थानुबध्दादरम् ॥८९॥तत्तादृक्षमुनिक्षपाकरवच: शिक्षासपक्षाशय:क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकांक्षति ।रुक्षां क्षेपयति क्षितौ खलु सितां नेक्षुं क्षणं प्रेक्षते द्राक्षां नापि दिदृक्षते न कदलीं क्षुद्रां जिघृक्षत्यलम् ॥९०॥विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया क्षीरै: पात्रधियाऽर्पिता युधि जिताल्लब्धा बलदिक्षुत: ।न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्रिरां माधुर्यस्य समृध्दिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥९१॥कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितंमल्लीभिश्चिरसेवनादुपगतं क्रीतं तु काश्मीरजै: ।प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्रिरा मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृश: ॥९२॥अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्र:क्षमिक्षुंसाक्षाद्द्राक्षामचक्षं मधुरसमधयं प्रागविन्दं मरन्दम् ।मोचामाचाममन्यो मधुरिमगिरमा शकराचार्यवाचा -माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीम्रा ॥९३॥संतप्तानां भवदवथुभि: स्फारकर्पूरवृष्टि: मुक्तायष्टिई: प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्या: ।अव्दैतात्मानवधिकसुवासारकासारहंसीबुध्दे: शुध्दयै भवतु भगवत्पाददिव्योक्तिधारा ॥९४॥आम्रायान्तालवला विमलतरसुरेशादिसूक्ताम्बुसिक्ता कैवल्याशापलाशा विबुधजनमन: सालजालाधिरुढा ।तत्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया व्दिजैर्या सा मे सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ॥९५॥नृत्यद्भूरेशवल्गन्मुकुटतटरटत्स्वर्धुनीस्पर्धिनीभि -र्वाग्भिर्न्निर्भिन्नकूलोचलदमृतसर: सारिणीधोरणीभि: ।उव्देलद्व्दैतवादिस्वमतपरिणताहंक्रियाहुंक्रियाभि -र्भाति श्रीशकरार्य: सततमुपनिषव्दाहिनी गाहिनीभि: ॥९६॥साहकारसुरासुरावलिकराकृष्टभ्रमन्मदर-क्षुब्धक्षीरपयोब्धिवीचिसचिवै: सूक्तै: सुधावर्षणात् ।जडालैर्भवदावपावकशिखाजालैर्जटालात्मनां जन्तूनां जलद: कथं स्तुतिगिरां वैदेशिको देशिक: ॥९७॥कलशाब्धिकचाकचिक्षमं क्षणदाधीशगदागदिप्रियम् ।रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यश: स्म राजते ॥९८॥परिशुध्दकथासु निर्जितो यशसा तस्य कृताकन: शशी ।स्वकलकनिवृत्तयेऽधुनाऽप्यदधौ मज्जति सेवते शिवम् ॥९९॥धम्मिल्ले नवमल्लिवल्लिकुसुमस्रक्कल्पनाशिल्पिनोभद्रश्रीरसचित्रचित्रितकृत: कान्ते ललाटान्तरे ।तारावल्यनुहारिहारलतिकानिर्माणकर्माणुका: कण्ठे दिक्सुदृशां मुनीश्वरयश: पूरा: नभ; पूरका: ॥१००॥उत्सडेषु दिगडना निदधते तारा: कराकर्षिका: रागाद् द्यौरवलम्ब्य चुम्बति वियद्रडा समालिडति ।लोकालोकदरी प्रसीतति फणी शेषोऽस्य दत्ते रतिं त्रैलोक्ये गुरुराजकीर्तिश शिन: सौन्दर्यमत्यद्भुतम् ॥१०१॥संप्राप्ता मुनिशेखरस्य हरितामन्तेषु सांकाशिनं कल्लोला यशस: शशाककिराणानालक्ष्य सांहासिनम् ।कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसंलोपिनं सम्यग् घ्रन्ति च विश्वजांघिकतम: संघातसांघातिनम् ॥१०२॥सोत्कण्ठाकुण्ठकण्ठीरवनखवरक्षुण्णमत्तेभकुम्भ प्रत्यग्रोन्मुक्तमुक्तामणिगणसुषमाबध्ददोर्युध्दलीला । मन्थाद्रिक्षुब्धदुग्धार्णवनिकटासमुल्लोल्कल्ललमैत्नी-पात्रीभूता प्रभूता जयति यतिपते: कीर्तिमाला विशाल ॥१०३॥लोकालोकदरि प्रसीदसि चिरात्किं शकरश्रीगुरु -प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य संतुष्यसि ।त्वं चाप्युत्पलिनि प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो -रित्थं प्रश्नगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥१०४॥दुर्वाराखर्वगर्वाहितबुधजनतातूलवातूलवेगोनिर्बाधागाधबोधामृतकिरणसमुन्मेषदुग्धाम्बुराशि: ।निष्प्रत्यूहं प्रसर्पद्भवदवदहनोद्भूतसन्तापमेघोजागर्ति स्फीतकीर्तिर्जगति यतिपति: शकराचार्यवर्य: ॥१०५॥इतिहासपुराणभारतस्मृतिशास्त्राणि पुन: पुनर्मुदा ।विबुधै: सुबुधो विलोकयन्सकलज्ञात्वपदं प्रपेदिवान् ॥१०६॥स पुन: पुनरैक्षतादराव्दरवैयासिकशान्तिवाक्तती: ।समगादुपशान्तिसंभवां सकलज्ञत्ववदेव शुध्दताम् ॥१०७॥असत्प्रपज्जश्चतुराननोऽपि सन्नभोगयोगी पुरुषोत्तमोऽपि सन् ।अनडजेताऽप्यविरुपदर्शनो जयत्यपूर्वो जगदव्दयीगुरु: ॥१०८॥आलोक्याननपकजेन दधतं वाणीं सरोजासनं शश्वत्सन्निहितक्षमाश्रियममुं विश्वम्भरं पूरुषम् ।आर्याराधितकोमलाड् घ्रिकमलं कामव्दिषं कोविदा: शंकन्ते भुवि शकरं व्रतिकुलालकारमकागता: ॥१०९॥एकस्मिन् पुरुषोत्तमे रतिमतीं सत्तामयोन्युद्भवां मायाभिक्षुहृतामनेकपुरुषासाक्तिभ्रमान्निष्ठराम् ।जित्वा तान् बुधवैरिण: प्रियतया प्रत्याहरद्यश्चिता दास्ते तापसकैतवात् त्रिजगतां त्राता स न: शकर: ॥११०॥इति श्रीमाधवीये तदाशुध्दाष्टमवृत्तग: ।संक्षेपशकरजये चतुर्थ: सर्ग आभवत् ॥आदित: श्लोका: ३८४ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP