संस्कृत सूची|शास्त्रः|योग शास्त्रः|श्रीगुरूदत्त योगः| ध्यानयोग: श्रीगुरूदत्त योगः सूर्यभेदन सूर्यभेदकुम्भक: उज्जायीकुम्भक: शीतलीकुम्भक: भस्त्रिकाकुम्भक: भ्रामरीकुम्भक: मूर्च्छाकुम्भक: केवलीकुम्म्भक: हठयोगप्रदीपिका: श्रीगुरूदत्त योगः -कुम्भकभेदाः सीत्कारी भस्त्रिका योगबंध महामुद्रा महाबंध महावेध खेचरी उडिडयानबंध मूलबंध जालंधरबंध विपरीतकरणी वज्रोलि शक्तिचालन मुद्रा यम नियम ध्यानयोग: सूक्ष्मध्यानम् ध्यानम् निर्गुणध्यानम् श्रीगुरूदत्त योगः - ध्यानयोग: श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले. Tags : dattagurudattayogगुरूदत्तदत्तयोगशास्त्र ध्यानयोग: Translation - भाषांतर । अथ ध्यानयोग: ।घेरण्ड उवाच -स्थूलं ज्योतिस्तथा सूक्ष्मं ध्यानस्य त्रिविधं विदु: ।स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं तथा ॥सूक्ष्मं बिन्दुमयं ब्रम्हा कुंडलीपरदेवता ॥१॥। अथ स्थूलध्यानम् ।स्वकायह्रदये ध्यायेत् सुधासागरमुत्तमम् ।तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् ॥२॥चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम् ।नीपोपवनसंकुलैर्वेष्टितं परिखा इव ॥३॥मालतीमल्लिकाजातीकेशरैश्चम्पकैस्तथा ।पारिजातै: स्थलपदमैर्गन्धामोदितदिडमुखै: ॥४॥तन्मध्ये संस्मरेद्योगी कल्पवृक्षं मनोहरम् ।चतु: शाखाचतुर्वेदं नित्यपुष्पफलान्वितम् ॥५॥भ्रमरा: कोकिलास्तत्र गुञ्जन्ति निगदन्ति च ।ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् ॥६॥तन्मध्ये तु स्मरेद्योगी पर्यङ्कं सुमनोहरम् ।तत्रेष्टदेवतां ध्यायेद यद्ध्यानं गुरुभाषितम् ॥७॥यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।तद्रूपं ध्यायते नित्यं स्थूलध्यानमिदं विदु: ॥८॥। प्रकारान्तरम् ।सहस्रारे महापद्मे कर्णिकायां विचिन्तयेत् ।विलग्नसहितं पद्मं द्वादशच्छदसंयुतम् ॥९॥शुक्लवर्णं महातेजो द्वादशैर्वीजभाषितम् ।हसक्षममलवरयुं हसखफें यथाक्रमम् ॥१०॥तन्मध्ये कर्णिकायां तु अकखादि रेखालयम् ।हलक्षकोणसंयुक्तं प्रणवं तत्र वर्तते ॥११॥नादबिंदुमयं पीठं ध्यायेत्तत्र मनोहरम् ।तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते ॥१२॥घ्यायेत्तत्र गुरुं देवं द्विभुजं च त्रिलोचनम् ।श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् ॥१३॥शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम् ।एवंविधगुरुध्यानात् स्थूलध्यानं प्रसिध्यति ॥१४॥। अथ ज्योर्तिध्यानम् ।घेरण्ड उवाच -कथितं स्थूलध्यानं तु तेजोघ्यानं शृणुष्व मे ।यद्ध्यानेन योगसिद्धिरात्मप्रत्यक्षमेव च ॥१५॥मूलाधारे कुण्डलिनी भुजगाकाररूपिणी ।जीवात्मा तिष्ठति तत्र प्रदीपकलिकाकृति: ।घ्यायेत्तेजोमयं ब्रम्हा तेजोघ्यानं परापरम् ॥१६॥नाभिमूले स्थितं सूर्यमण्डलं वहिनसंयुतम् ।घ्यायेत्तेजो महद्वयाप्तं तेजोध्यानं तदेव हि ॥१७॥। प्रकारन्तरम् ।भ्रूमध्ये मनऊर्ध्वें च यत्तेज: प्रणवात्मकम् ।ध्यायेज्ज्वालावलीयुक्तं तेजोध्यानं तदेव हि ॥१८॥ N/A References : N/A Last Updated : December 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP