श्रीगुरूदत्त योगः - हठयोगप्रदीपिका:

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


हठयोगप्रदीपिका: ।

प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति ।
आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥
उदरगतपदार्थमुद्वमन्ति पवनमपानमुदीर्य कण्ठनाले ।
क्रमपरिचयवश्यनाडिचक्रा गजकरणीति निगद्यते हठजै: ॥
ब्रम्हादयोऽपि त्रिदश: पवनाभ्यासतत्परा: ।
अभूवन्नन्तकभयात्तस्मात्पवनमभ्यसेत् ॥
यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् ।
यावद द्दष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुत: ॥
विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते ।
सुषुम्णावदनं भित्वा सुखाद्विशति मारुत: ॥
मारुते मध्यसंचारे मन: स्थैर्यं प्रजायते ।
यो मन:सुस्थिरिभाव: सैवावस्था मनोन्मनी ॥
तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् ।
विचित्रकुम्भकाभ्यासाद्वि चित्रां सिद्धिमाप्नुयात् ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP