संस्कृत सूची|शास्त्रः|योग शास्त्रः|श्रीगुरूदत्त योगः| यम नियम श्रीगुरूदत्त योगः सूर्यभेदन सूर्यभेदकुम्भक: उज्जायीकुम्भक: शीतलीकुम्भक: भस्त्रिकाकुम्भक: भ्रामरीकुम्भक: मूर्च्छाकुम्भक: केवलीकुम्म्भक: हठयोगप्रदीपिका: श्रीगुरूदत्त योगः -कुम्भकभेदाः सीत्कारी भस्त्रिका योगबंध महामुद्रा महाबंध महावेध खेचरी उडिडयानबंध मूलबंध जालंधरबंध विपरीतकरणी वज्रोलि शक्तिचालन मुद्रा यम नियम ध्यानयोग: सूक्ष्मध्यानम् ध्यानम् निर्गुणध्यानम् श्रीगुरूदत्त योगः - यम नियम श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले. Tags : dattagurudattayogगुरूदत्तदत्तयोगशास्त्र यम नियम Translation - भाषांतर यम -तत्राहिंसासत्यास्तेयब्रम्हाचर्यापरिग्रहा यमा: ॥“आणि जगाचेया सुखाचि दोसें । शरीर वाचा मानसें ।राहाटणें तें अहिंसे । रूप जाण ॥”सत्येन लभ्यस्तपसा हयेष आत्मा ।सम्यकज्ञानेन ब्रम्हाचर्येण नित्यम ॥अन्त:शरीरे ज्योतिर्मयो हि शुभ्रो ।यं पश्यन्ति यतय: क्षीणदोषा: ॥सत्यमेव जयति नानृतम् ।सत्येन पन्था विततो देवयान: ॥येनाक्रमन्त्यृषयो हयाप्तकामा: ।यत्र तत्सत्यस्य परभं निधानम् ॥(तृतीय मुण्डकोपनिषद, प्रथम खंड ५, ६)नियम -शौचसंतोषतप:स्वाध्यायेश्वरप्रणिधानानि नियमा: । (यो. सू. २.३२)अहिंसा सत्यमस्तेयं ब्रम्हाचर्यं क्षमा धृति: ।दयाऽऽर्जवं मिताहार: शौचं चैव यमा दश ॥तप: संतोष आस्तिक्यं दानमीश्वरपूजनम् ।सिद्धान्तवाक्यश्रवणं हरीमतिश्च तपो हुतम् ।नियमा दश संप्रोक्ता योगशास्त्रविशारदै: ॥ (ह. प्र.)देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।ब्रम्हाचर्यमहिंसा च शारीरं तप उच्चते ॥अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।स्वाध्यायाभ्यसनं चैव वाङमयं तप उच्यते ॥मन:प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह: ।भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: ।अफलाकांक्षिभिर्युक्तै: सात्विकं परिचक्षते ॥सत्कारमानपूजार्थं तपो दंभेन चैव यत् ।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।मूढग्राहेणात्मनो यत्पीडया क्रियते तप: ।परस्योत्सादनार्थं वा तत्तामसमुदाह्रतम् ॥(भ. गी. १७-१४. १९)अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्याग: ॥३५॥सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥ब्रम्हाचयप्रतिष्ठायां वीर्यलाभ: ॥३८॥अपरिग्रहस्थैर्ये जन्मकथन्ता संबोध: ॥३९॥शौचात्स्वाङ्गजुगुप्सा परैरसंसर्ग: ॥४०॥सत्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥४१॥संतोषादनुत्तमसुखलाभ: ॥४२॥कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपस: ॥४३॥स्वाध्यायादिष्टदेवतासंप्रयोग: ॥४४॥समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥पातञ्जलयोगसूत्रें - साधनपाद २शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: ।नात्युच्छितं नातिनीचं चैलाजिनकुशोत्तरम् ॥तत्रैकाग्रं मन: कृत्वा यतचित्तोन्द्रिंयक्रिय: ।उपविश्यासाने युञ्ज्याद्योगमात्मविशुद्धये ॥समं कायशिरोग्रीवं धारयन्नचलं स्थिर: ।संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥प्रशान्तात्मा विगतभी ब्रम्हाचारिव्रते स्थित: ।मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: ॥ (भ. गी. ६)ततो द्वन्द्वानभिघात: ॥ (यो. सू. साधनपाद ४८)तत: क्षीयते प्रकाशावरणम् ॥धारणासु च योग्यता मनस: ॥ (यो. सू. साधनपाद ५२-५३)स्वविषयाऽसंप्रयोगे चित्तस्वरूपानुकार इंद्रियाणां प्रत्याहार: ॥तत: परमा वश्यता इंद्रियाणाम् ॥ (यो. सू. साधनपाद ५४-५५)यदा संहरते चायं कूर्मोंऽगानीव सर्वश: ।इंद्रियाणींद्रियार्थेंभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ (भ. गी. २-५८)ध्यायतो विषयान्पुंस: संगस्तेषूपजायते ।संगात्संजायते काम: कामात्क्रोधोऽभिजायते ॥क्रोधादभवति संमोह: संमोहात्स्मृतिविभ्रम: ।स्मृतिभ्रंशादबुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥रागद्वेषवियक्तैस्तु विषयानिंद्रियैश्वरन् ।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥प्रसादे सर्वदु:खानां हानिरस्योपजायते ।प्रसन्नचेतसोहयाशु बुद्धि: पर्यवतिष्ठते ॥(भ. गी. २, ६२, ६३, ६४, ६५,)आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।बुद्धिं तु सारथिं विद्धि मन: प्रग्रहमेव च ॥इंद्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।आत्मेन्द्रियमनोयुक्तं भोक्तेत्यत्याहुर्मनीषिण: ॥(कठोपनिषद, अ. १, वल्ली ३, ३, ४,)येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ।एतेनैव विजानाति किमत्र परिशिष्यत एतद्वै तत् ॥(कठोपनिषद, अ २ वल्ली १, ३)अन्तर्लक्ष्यं बहिहष्टिर्निमेषोन्मेषवर्जिता ।एषा सा शांभवी मुद्रा वेदशास्त्रेषु गोपिता ॥ (ह. प्र.)तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद भ्रवौ ।पूर्वयोगं मनो युञ्जन्नुन्मनीकारक: क्षणात् ॥ (ह. प्र.)देशबन्धचित्तस्य धारणा ॥(यो. सू. विभूतिपाद सू. १)तत्र प्रत्ययैकतानता ध्यानम् ॥ (यो. सू. ३. २)अपक्रामन्तु भूतानि पिशाचा: सर्वतोदिशम् ।सर्वेषामविरोधेन ब्रम्हाकर्म समारभे ॥क्लेशोधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।अव्यवता हि गतिर्दु:खं देहवद्भिरवाप्यते ॥(भ. गी.१२, ५)घेरण्डसंहितें’ मध्यें ध्यानाचे प्रकार पुढील प्रमाणें वर्णिलेले आहेत. N/A References : N/A Last Updated : December 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP