श्रीगुरूदत्त योगः - खेचरी

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


खेचरी --
कपालकुहरे जिव्हा प्रविष्टा विपरीतगा ।
भ्रुवोन्तरगता द्दष्टिर्म्रुद्रा भवति खेचरी ॥
छेदनचालनदोहै: कणं क्रमेणाथ वर्धयेत्तावन् ।
सा यावद् भ्रमध्यं स्पृशति तदा खेचरी सिद्धि: ॥(ह. प्र.)
जिव्हाधो नाडी संछिन्नां रसनां चालयेत् सदा ।
दोहयेन्नवनीतेन लोहयन्त्रेण कर्षयेत् ॥
एवं नित्यं समभ्यासाल्लम्बिका दीर्घतां व्रजेत् ।
याबद्‌गच्छेद भ्रवोर्मध्ये तदागच्छति खेचरी ॥
रसनां तालमध्ये तु शनै: शनै: प्रवेशयेत् ।
कपालकुहरे जिव्हा प्रविष्टा विपरीतगा ।
भ्रवोर्मध्ये गता द्दष्टिर्मुद्रा भवति खेचरी ॥
न च मूर्च्छा क्षुधा तृष्णा नैवालस्यं प्रजायते ।
न च रोगो जरा मृत्युर्देवदेह: स जायते ॥
नाग्निना दहयते गात्रं न शोषयति मारुत: ।
न देहं क्लेदयन्त्यापो दंशयेन्न भुजङ्गम: ॥
लाबणञ्च भवद्नात्रे समाधिर्जायते ध्रुवम्‌ ।
कपालवक्त्रसंयोगे रसना रसमाप्न्युयात् ॥
नानारससमुदभुतमानन्दं च दिने दिने ।
आदौ लवणक्षारञ्च ततस्तिक्तकषायकम् ॥
नवनीतं घृतं क्षीरं दधितक्रमधूनि च ।
द्राक्षारसं पीयूषं रसनोदकम् ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP