श्रीगुरूदत्त योगः -कुम्भकभेदाः

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


अथ कुम्भकभेदाः ।

सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा ।
मस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्ट कुम्भका: ॥
पूरकान्ते तु कर्तव्यो बन्धो जालंधराभिध: ।
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानक: ॥

टीप पुढें चालूं --

अधस्तात्कुञ्चनेनाशु कण्ठसंकोचन कृते ।
मध्ये पश्चिमतानेन स्यात्प्राणो ब्रम्हानाडिग: ॥
अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् ।
योगी जराविमुक्त: सन्षोडशाद्बवयाभवेत् ॥
आसने सुखदे योगी बद्ध्वा चैवासनं तत: ।
दक्षणाडया समाकृष्य बहि:स्थं पवनं शनै: ॥
आ केशादा नखाग्राच्च निरोधावधि कुम्भयेत् ।
तत: शनै: सव्यनाडया रेचयेत्पवनं शनै: ॥
कपालशोधनं वातदोषघ्नं कृमिदोषह्रत् ।
पुन: पुनरिदं कार्यं सूर्यभेदनमुत्तमम् ॥

अथोज्जयी ।

मुखं  संयम्य नाडीभ्यामाकृष्य पवनं शनै: ।
यथा लगति कण्ठात्तु ह्रदयावधि सस्वनम् ।
पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तत: ॥
श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ।
नाडीजलोदराधातुगतदोषविनाशनम् ।
गच्छता तिष्ठता कार्यमुज्जायाख्यं तु कुम्भकम् ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP