हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
षोडशमातृका पूजनम्

पूजा विधी - षोडशमातृका पूजनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


" षोडशमातृका पूजनम् "

गणपति

ॐ गणानां त्वा गणपति , हवामहे प्रियाणां त्वा प्रियपति , हवामहे निधीनां त्वा निधिपति , हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥

ॐ गणेशाय नमः आवाहयामि स्थापयामि ।

गौरी

हिमाद्रितनयां देवी वरदां भैरव प्रियाम् । लम्बोदरस्य जननीं गौरीं आवाहयाम्यहम् ॥

ॐ आंयगौ : पृश्निरक्रमीद सदन्मातरं पुर : । पितरंच प्रयन्त्स्व : ॥१॥ ॐ गौरीम् आ . स्था .

पद्‌मा

ॐ हिरण्य रूपा ऽ‍उषसो विरोक‍ऽउभाविंद्राऽउदिथ : सुर्यश्च । आरोहतं वरुण मित्र गर्तंततश्चक्षया मदितिं दितिं च मित्रोसि वरुणोऽसि ॥

सुवर्णाढयां पधहस्तां विष्णोर्वक्षस्थले स्थिताम् । त्रैलोक्यं पूजितां देवीं पद्मामावाहयाम्यहम् ॥ ॐ पद्‌मा आ० स्था०

शची

ॐ कदाचनस्तरीरसिनेन्द्र सश्च सिदाशुषे । उपो पेत्रु मघवन्भूयऽईत्रुतेदानं देवस्य पृच्यत ॥

उप्तलाक्षीं सुवदनां शचीं ( शशि ) कुंडल धारिणीम् । देवराज प्रियां भद्रां शचीमावाहयाम्यहम् ॥ ॐ शची आ० स्था०

मेधा

मेधां में वरुणो ददातु मेधामग्निः प्रजापति : । मेधामिन्द्रश्च वायुश्च मेधांधाताददातु में स्वाहा ॥

वैवस्वत प्रफुल्ला भाममलेंदीवर स्थिताम् ( सुगंधि पदवासिताम् ) बुद्धि प्रसादिनीं सौम्या मेधामावाहयाम्यहम् । ॐ मेधा आ० स्था०

सावित्री

ॐ तत्सवितुर्वरण्यं भर्गो देवस्य धीमहि । धियोयोन : प्रचोदयात् ॥ जगत्स्त्रष्टीं जगद्धात्रीं पत्नीं ( पक्षि ) रूपेण संस्थिताम् ।

ॐ काराक्षीं भगवतीं सावित्री माह्यायाम्यहम् ॥ ॐ सावित्री आ० स्था०

विजया

ॐ विज्यंधनुः कपर्दिनो विशल्यो बाणवां ३ उत । अनेशन्नस्य या ऽइषव ऽआभुरस्य निषङ्गधि : ॥ दैत्यपक्ष क्षयकरीं देवानां चाभयप्रदाम् । गीर्वाण वंदितां देवीं विजया मावाहयाम्यहम् ॥ ॐ विजया आ० स्था०

जया

ॐ या ते रुद्र शिवातनूर घोरा पापकाशिनी तयानस्तन्वा शंतमया गिरीशंताभि चाकशीहि । विश्व भद्रां जयां रक्तां रक्ताम्बरधरांसदा , त्रैलोक्य वंदितां देवीं जयामावाहयाम्यहम् ॥ ॐ जया आ० स्था०

देवसेना

ॐ देवानां भद्रा सुमतिऋजूयतां देवानां र्ठ रातिरभिनो निवर्त्तताम् । देवानां र्ठ सख्य मुपसेदिमा व्वयन्देवान ऽआयु : प्रतिरंतु जीवसे ॥ ॐ देवसेना आ० स्था०

स्वधा

ॐ पितृभ्य : स्वधायिभ्य : स्वधा : नमः । पितामहेभ्य : स्वधायिभ्य : स्वधानमः । प्रपितामहेभ्य : स्वधायिभ्य : स्वधानमः । अक्षन्नपितरो मीमदंतपितरो तीतृपंत पितर : पितर : शुन्धध्वम् ॥

कव्यमादाय सततं पितृभ्यो या प्रयच्छति पितृलोकार्चिता देवीं स्वधामावाहयाम्यहम् ॥ ॐ स्वधा आ० स्था०

स्वाहा

ॐ स्वाहायज्ञंमनस : स्वाहारोरंतरिक्षात्स्वाहा । धावा पृथिवीभ्या र्ठ स्वाहा वातादार भे स्वाहा ॥

हर्विर्गृहीत्वा सततं देवेभ्यो या प्रयच्छति । वह्रि प्रिया तु स्वाहा समगच्छतु मे ऽधवरे ॥ ॐ स्वाहा : आ० स्था०

मातर

ॐ आपोऽअस्मान्मातर : शुंद्ययंतु घृतेनो घृतप्व : पुनंतु । विश्व र्ठ हिरिप्रम्प्रवंहति देवीरुदिदाभ्य : शुचिरापूतऽएमि । दीक्षा तपसोस्तनूरसितान्त्वाशिवा र्ठ शग्माम्परि दधे भद्रंवर्णं पुष्यन् ॥

भूतग्राममिमं कृत्स्नं यया उत्पदितं पुरा । त्रैलोक्य पूजितां देवीं मातरं आवाहयाम्यहम् । ॐ मातर : आ० स्था०

लोकमातर

ॐ स्वाहा यज्ञं वरुण : सुक्षत्रो भेषजं करत् । अतिच्छंदा - ऽइन्द्रियं वृहदृष भोगौर्नवयोदधु : ॥

ॐ भवतन्न : समनसौ सचेत सावरे पसौ । मा यज्ञ र्ठ हि र्ठ सिष्टं मा यज्ञपितं जातवैदसौ शिवौभवतमधन : । आवाहयेल्लोकमातरं जगत्पालन संस्थिताम् । शक्राधैर्वंदिता देवीं स्तोत्रपाठाभिचारकै : ॥ ॐ लोकमातर : आ० स्था०

धृति

यत्प्रज्ञानमुत चेतो घृतिश्च यज्जोति रंतरमृतं प्रजासु । यस्मान्न ऽऋते किंचन कर्म क्रियते तन्मे मन : शिव संकल्प मस्तु ॥ नमस्तुष्टिकरीं देवीं लोकानुग्रह कारिणीम् । सर्वकाम समृद्धयर्थं धृति मावाहयाम्यहम् ॥ ॐ घृति आ० स्था०

पुष्टि

ॐ तत्वायामि ब्रह्मणा वंदमानस्तदाशास्ते यजमानो हविर्भि । अहेडमानो वरुणे हवोध्युरूश र्ठ समान ऽ आयु : प्रमोषी : । ॐ रयिश्चमें रायश्च में पुष्टं च में पुष्टिश्च में विभुच में पुभु च मे । पूर्णं च तें पूर्ण तरंच मे कुयवंच में ऽक्षित चमे ऽन्नं च में ऽक्षुच्च मे यज्ञेन कल्पन्ताम् ॥ प्रणतानां ( प्रणता या ) हि लोकेऽस्मिन् पुत्र पुष्टि सुख प्रदां । भक्तेभ्यश्चापि वरदां विधुज्ज्‌वालार्क कुण्डला । पुष्टि मावाहयाम्यहम् । ॐ पुष्टि : आ० स्था०

तुष्टि

ॐ बृहस्पते परीदिया रथेन रक्षोहा मित्रां २ अपबाध मान : प्रभजन्त्सेना : प्रमृणो जयन्नस्मा कमेध्यविता रथानाम् ॥ त्वष्टा तुरीपो ऽअद्भुत ऽइन्द्राणी ( ग्नी ) पुष्टि वर्द्धना । द्दिपदाच्छंद इन्द्रिय मुझागौर्नवयोदधु : ॥ आवहयामि तां तुष्टिं सर्वलोकेषु पूर्णताम् । संतोष भावनादीनां रक्षणायाध्वरे मम॥ ॐ तुष्टि आ . स्था .

आत्मकुलदेवता

प्राणाय स्वाहा , ऽपानाय स्वाहा :, व्यानाय स्वाहा । चक्षुषे स्वाहा श्रोत्राय स्वाहा वाचे स्वाहा मनसे स्वाहा । अम्बे अम्बिके ऽम्बालिके नमानयति कश्चन । सस्स्त्य श्वक : सुभद्रिकाङ्काम्पील - वासिनीम् ॥ त्वमात्मादिहितां ( त्वमात्मा देहिनां ) देवी सर्वकाम फल प्रदाम् । वंश रक्षा करी गोत्रीं ( कर्त्री ) देवीमावाहयाम्यहम् ॥ ॐ आत्मकुल देवता आ० स्था०

पुनः अक्षत पुष्प हाथ में लेकर ---

गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातर : ॥ धृति पुष्टिस्तथा तुष्टिरात्मन : कुल देवता : ।

गणेशेनाधिका ह्येता वृद्धौ पूज्याश्चषोडश ॥

तत्स्तासांप्रतिष्ठां कुर्यात् ॐ तदस्तु मित्रा वरुणा तदग्ने शंयोरस्म भ्यमिदमस्तु शस्तम् । अशी महिगाधमुत प्रतिष्ठान्नमो दिवे वृहते सादनाय ॥

मनोजूतिर्जुषतामाज्यस्य बृहस्पति र्यज्ञमिमं तनोत्वरिष्टं यज्ञ र्ठ समिमं दधातु । विश्वेदेवा सऽइहमादयंतामो ३ प्रतिष्ठ : ॥ एषवै प्रतिष्ठा नाम यज्ञो यत्रैतेन यज्ञेन यन्ते सर्वमेव प्रतिष्ठितं भवति ॥

यथा

ब्राह्मी माहेश्वरीं चैव कौमारी वैष्णवी तथा । वाराही चतर्थेद्राणी चामुंडा सप्तमातर : प्रथमं शैलपुत्री च द्वितीय ब्रह्मचारिणी । तृतीयं चन्द्र घण्टेति कुष्माण्डेति चतुर्थकम् ॥ पंचमं स्कंदमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् । नवम् सिद्धिदात्री च नवदुर्गा प्रकीर्तिता : ।

ॐ जयन्ती मंगला काली भद्रकाली कपालिनी । दुर्गाक्षमा शिवांधात्री स्वधा स्वाहा नमोऽस्तु ते ॥

अगर योगिनी क्षेत्रपाल का अन्य मण्डल नहीं बनाया हो तो इसी मण्डल पर आवाहन करा देना चाहिए ।

सर्वेषां मातृकेभ्यो मण्डल देवभ्यों गंद्यादिभि : संपूज्य । आवाहनार्थे पुष्पाणि समर्पयामि ।

आवाहन

आगच्छ त्वं महादेवि । स्थाने चात्र स्थिराभव । यावत् पूजा करिष्यामि तावत् त्वं संनिधौ भव ॥

आसन

अनेक रत्न संयुक्तं नानामणिगणान्वितम् । इदं हेममयं दिव्य आसनं प्रतिगृह्यताम् ॥ आसनार्थे पुष्पाणि समर्पयामि ।

पाद्यं

गङ्गदिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम् । पाद्यार्थं ते प्रदास्यामि गृहाण परमेश्वरी ॥ पादयो : पाद्यं समर्पयामि ।

अर्घ्य

गन्ध पुष्पाक्षतैर्युक्तमर्ध्य सम्पादितं मया । गृहाण त्वं महादेवी प्रसन्ना भव सर्वदा ॥ हस्तयो अर्घ्यं समपर्यामि ।

चन्दन , अक्षत , पुष्प , जल , फल से युक्त अर्घ्य दें ।

आचमन

कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् । तोयमाचमनीयार्थं गृहाण परमेश्वरी । आचमनं समर्पयामि । ( कर्पुर से सुवासित जल चढावें )

स्नानं

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । तदिदं कल्पितं देवि । स्नानार्थं प्रतिगृह्यताम् ॥ स्नानार्थ जलं समर्पयामि । ( गंगाजल चढावें )

स्नानाङ्ग आच०

स्नानान्ते पुनराचमनीयं जलं समर्पयामि ।

दुग्ध स्नान

कामधेनु समुत्पन्नं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥ दुग्ध स्नानं समर्पयामि ।

दधि

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देवि । स्नानार्थं प्रतिगृह्यताम् ॥ दधि स्नानं समर्पयामि ।

घृत

नवनीत समुत्पन्नं सर्व संतोष कारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ घृत स्नानं समर्पयामि ।

मधु

पुष्परेणु समुत्पन्नं सुस्वादु मधुरं मधु . तेज : पुष्टि समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ मधु स्नानं समर्पयामि ।

शर्करा

इक्षुसार - समुद्भूतां शर्करा पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ शर्करा स्नानं समर्पयामि ।

पञ्चामृत

पयो दधि घृतं चैव मधु च शर्करान्वितम् । पञ्चामृत मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ॥ पञ्चामृत स्नानं समर्पयामि ।

गंन्धोदक स्नानं

मलयाचल सम्भूतं चन्दनागरूमिश्रितम् । सलिलं देव देवेशि शुद्ध स्नानाय गृह्यताम् ॥ गंन्धोदक स्नानं समर्पयामि ।

शुद्धोदक स्नानं

शुद्धं यत् सलिलं दिव्यं गंगाजल समं स्मृतम् । समर्पित मया भक्त्या स्नानार्थं प्रतिगृह्यताम् ॥ शुद्धोदक स्नानं समर्पयामि ।

आचमन

शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि ।

वस्त्र

पट्टयुग्मं मया दत्तं कञ्चुकेन समन्वितम् । परिधेहि कृपां कृत्वा मातर्दुर्गातिनाशिनि ॥ वस्त्रोपवस्त्रं कञ्चुकीयं च समर्पयामि ।

आचमन

वस्त्रान्ते आचमनीयं जलं समर्पयामि ।

सौभाग्य सूत्रं

सौभाग्यं सूत्रं वरदे सुवर्णमणि संयुतम् । कण्ठे बध्नामि देवेशि सौभाग्यं देहि में सदा ॥ सौभाग्य सूत्र समर्पयामि ।

चन्दन

श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम् । विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥ चन्दनं समर्पयामि ॥

हरिद्राचूर्ण

हरिद्रारञ्जिते देवि ! सुख सौभाग्यदायिनी । तस्मात् त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ में ॥ हरिद्रां समर्पयामि ( हल्दी का चूर्ण चढावें )

कङ्कुम

कुङ्कुम कामदं दिव्यं कामिनीकाम सम्भवम् । कुङ्कुमेनार्चिता देवी कुङ्कुमं प्रतिगृह्यताम् ॥

सिन्दूर

सिन्दूरमरूणाभासं जपाकुसुम संनिभम् । अर्पितं ते मया भक्त्या प्रसीद परमेश्वरि ॥ सिन्दूरं समर्पयामि ।

काजल / कज्जल

चक्षुर्भ्या कज्जलं रम्यं सुभगे शान्तिकारकम् । कर्पूर ज्योति समुत्पन्नं गृहाण परमेश्वरि ॥ कज्जलं समर्पयामि ।

दुर्वाङ्कुर

तृणकान्तमणि प्रख्य हरिताभि : सुजातिभि : । दूर्वाभि राभिर्भवतीं पूजयामि महेश्वरी ॥ दुर्वाङ्कुरान् समर्पयामि ।

बिल्वपत्रं

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् । त्रिजन्म पाप सहारं बिल्वपत्रं शिवार्पणम् ॥ बिल्वपत्रं समर्पयामि ।

आभूषण

हार कङ्कण केयूर मेखला कुण्डलादिभि : । रत्नाढयं हीरकोपेतं भूषणं प्रतिगृह्यताम् ॥ आभूषणानि समर्पयामि ।

पुष्प / पुष्पमाला

माल्यादीनि सुगन्धीनि मालत्यादीनि : भक्तित : । मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ पुष्प / पुष्पमाला समर्पयामि ।

नाना परिमल द्रव्यं

अबीरं च गुलालं च हरिद्रादिसमन्वितम् । नाना परिमल द्रव्यं गृहाण परमेश्वरि ॥ नाना परिमल द्रव्याणि समर्पयामि ।

सौभाग्य पेटिका

हरिद्रां कुङ्कुम चैव सिन्दूरादि समन्विताम् । सौभाग्य पेटिकां मेतां गृहाण परमेश्वरी ॥

धूपं

वनस्पति रसोद्भूतो गन्धाढयो गन्ध उत्तम : । आघ्रेय : सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् । धूपमाघ्रापयामि ।

दीपं

साज्यं व वर्ति संयुक्तं वह्रिनां योजितं मया । दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥ दीपं दर्शयामि ।

नैवैधं

शर्कराखण्ड खाद्यानि दधिक्षीर घृतानि च । आहारार्थं भक्ष्य भोज्यं नैवेधं प्रतिगृह्यताम् ॥ नैवेधं समर्पयामि ।

आचमनीयम्

नैवेधान्ते ध्यानमाचमनीयं जलमुत्तरापोऽशनं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि ॥

ऋतुफलं

इदं फलं मया देवि स्थापितं पुरतस्तव । तेन में सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ऋतुफलानि समर्पयामि ।

ताम्बूलं

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलालवङ्ग संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ताम्बूलं समर्पयामि ।

दक्षिणा

दक्षिणां हेम सहितां यथाशक्ति समर्पिताम् । अनन्तफलदामेनां गृहाण परमेश्वरी ॥ दक्षिणा समर्पयामि ।

आरती

कदली गर्भ सम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मां वरदा भव ॥ कर्पूरारार्तिक्यं समर्पयामि ।

प्रदक्षिणा

यानि कानि च पापानि जन्मान्तर कृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ॥ प्रदक्षिणा समर्पयामि ।

पुष्पाञ्जलि

श्रद्धया सिक्तया भक्त्या हार्दप्रेम्णा समर्पित : । मन्त्र पुष्पाजलिश्चायं कृपया प्रतिगृह्यताम् ॥ पत्रं पुष्पं फलं तोयं रत्नानि विविधानि च ॥ गृहाणार्घ्यं मया दत्तं देहि में वाछितं फलम् ॥ रूपं देहि जयं देहि भाग्यं भगवति देहि में । पुत्रान् देहि धनं देहि सर्वान् कामान् प्रयच्छ में ॥

प्रार्थना

या देवी सर्वभूतेषु मातृरूपेण सांस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो : नमः ॥ या श्री : स्वयं सुकृतिनां भवनेष्वलक्ष्मी :, पापात्मनां कृतधियां ह्रदयेषु बुद्धि : । श्रद्धा सतां कुलजन प्रभवस्य लज्जा , त्वां त्वां नता : स्म परिपालय देवि विश्वम् । देवि प्रपन्नार्तिहरे प्रसीद , प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं , त्वमीश्वरी देवि चराचरस्य ॥

त्वं वैष्णवी शक्तिरनन्तवीर्या , विश्वस्य बीजं परमासि माया । सम्मोहितं देवी समस्त मेतत् , त्वं वै प्रसन्ना भुवि मुक्ति हेतु : ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP