संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ४४

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥नारद उवाच॥
गयासुरः कथं जातः किंप्रभावः किमात्मकः  ।
तपस्तप्तं कथं तेन कथं देहपवित्रता ॥१॥

॥सनत्कुमार उवाच॥
विष्णोर्नाभ्यम्बुजाज्जातो ब्रह्मा लोकपितामहः ।
प्रजाः ससर्ज संप्रोक्तः पूर्व्वं देवेन विष्णुना ॥२॥

आसुरेणैव भावेन ह्यसुरानसृजत्पुरा ।
सौमनस्येन भावेन देवान्सुमनसोऽसृजत् ॥३॥

गयासुरोऽसुराणाञ्च महाबलपराक्रमः ।
योजनानां सपादञ्च शतं तस्योच्छ्रयः स्मृतः ॥४॥

स्थूलः षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णवः स्मृतः ।
कोलाहलगिरिवरे तपस्तेपे सुदारुणम् ॥५॥

बहुवर्षसहस्राणि निरुच्छ्वासं स्थिरोऽभवत् ।
तत्तपस्तापिता देवाः संक्षोभं परमं गताः ॥६॥

ब्रह्मलोकं गता देवाः प्रोचुस्तेऽथ पितामहम् ।
गयासुराद्रक्ष देव ब्रह्मा देवांस्ततोऽब्रवीत् ॥७॥

व्रजामः शङ्करं देवा ब्रह्माद्याश्च गताः शिवम् ।
कैलासे चाब्रुवन्नत्वा रक्ष देव महासुरात् ॥८॥

ब्रह्माद्यानब्रवीच्छम्भुर्व्रजामः शरणं हरिम् ।
क्षीराब्धौ देवदेवेशः स नः श्रेयो विधास्यति ।
ब्रह्मा महेश्वरो देवा विष्णुं नत्वा प्रतुष्टुवुः ॥९॥

  देवा ऊचुः॥

ॐ नमो विष्णवो भर्त्रे सर्व्वेषां प्रभविष्णवे ।
रोचिष्णवे जिष्णवे च राक्षसादिग्रसिष्णवे ॥१०॥

धरिष्णवेऽखिलस्यास्य योगिनां पारयिष्णवे  ।
वर्द्धिष्णवे ह्यनन्ताय नमो भ्राज्ष्णिवे नमः ॥११॥

॥सनत्कुमार उवाच॥
एवं स्तुतो वासुदेवः सुराणां दर्शनं ददौ ।
किमर्थमागता देवा विष्णुनोक्तास्तमब्रुवन् ॥१२॥

गयासुरभयाद्देव रक्षास्मानब्रवीद्धरिम् ।
ब्रह्माद्या यान्तु तं दैत्यमागमिष्याम्यहं ततः ॥१३॥

केशवे गरुडारूढो वरं दातुं गयासुरे ।
सर्व्वे स्वं स्वं समास्थाय ययुर्वाहनमुत्तमम् ॥१४॥

ऊचुस्तं वासुदेवाद्याः किमर्थं तप्यते त्वया ।
सन्तुष्टाः स्वागताः सर्वे वरं ब्रूहि गयासुर ॥१५॥

 गयासुर उवाच॥
यदितुष्टाः स्थ मे देवा ब्रह्मविष्णुमहेश्वराः ।
सर्व्वदेवद्विजातिभ्यो यज्ञतीर्थशिलोच्चयात् ॥१६॥

देवेभ्योऽतिपरित्रोऽहमृषिभ्योऽपि शिवाव्ययात् ।
मन्त्रेभ्यो देवदेवेभ्यो योगिभ्यश्चापि सर्व्वशः ॥१७॥

न्यासिभ्यश्चापि कर्म्मिभ्यो धर्म्मिभ्यश्च तथा पुनः ।
ज्ञातिभ्योऽतिपवित्रेभ्यः पवित्रः स्यां सदा सुराः ॥१८॥

पवित्रमस्तु तं देवा दैत्यमुक्त्वा ययुर्दिवम् ।
दैत्यंदृष्ट्वा च स्पृष्ट्वा च सर्व्वे हरिपुरं ययुः ॥१९॥

शून्यं लोकत्रयं जातं शून्या यमपुरी ह्यभूत् ।
यम इन्द्रादिभिः सार्द्धं ब्रह्मलोकं ततोऽगमत् ॥२०॥

ब्रह्माणमूचिरे देवा गयासुरविलोपिताः ।
त्वया दत्तोऽधिकारो वै गृहाण त्वं पितामह ॥२१॥

ब्रह्माब्रवीत्ततो देवान्व्रजामो विष्णुमव्ययम् ।
ब्रह्मादयोऽब्रुवन्विष्णुं त्वया दत्तवरेऽसुरे ॥२२॥

तद्दर्शनाद्ययुः स्वर्गं शून्यं लोक त्रयं ह्यभूत् ।
देवैरुक्तो वासुदेवो ब्रह्माणं स वचोऽब्रवीत् ॥२३॥

गत्वासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम् ।
विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यन्महासुरम् ॥२४॥

गयासुरोऽब्रवीद्दृष्ट्वा ब्रह्माणं त्रिदशैः सहः ।
संपूज्योत्थाय विधिवत्प्रण्तः श्रद्धयान्वितः ॥२५॥

 ॥गयासुर उवाच॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यदागतोऽतिथिर्ब्रह्मा सर्व्वं प्राप्तं मयाद्य वै ॥२६॥

योगिन्योगाङ्गवित्सर्व्वलोकस्वामिन्पितर्गुरो ।
यदर्थमा गतो ब्रह्मन्स्तत्कार्य्यं करवाण्यहम् ॥२७॥

॥ब्रह्मोवाच॥
पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया ।
यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः ॥२८॥

त्वया देहे पवित्रत्वं प्राप्तं विष्णुप्रसादतः ।
अतः पवित्रं देहं त्वं यज्ञार्थं देहिमेऽसुर ॥२९॥

 ॥गयासुर उवाच॥
धन्योऽहं देव देवेश यद्देहं प्रार्थ्यते त्वया ।
पितृवंशः कृतार्थो मे देहे यागं करोषि चेत् ॥३०॥

त्वयैवोत्पादितो देहः पवित्रस्तु त्वया कृतः ।
सर्व्वेषामुपकाराय यागोऽवश्यं भवत्विति ॥३१॥

इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे गयासुरः ।
नैऋतीं दिशमाश्रित्य तदा कोलाहले गिरौ ॥३२॥

शिरः कृत्वोत्तरे दैत्यः पादौ कृत्वा तु दक्षिणे ।
ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् ॥३३॥

अग्निशर्माणम्मृतं शौनकं याञ्जलिं मृदुम् ।
कुमुथिं वेद कौण्डिल्यं हारीतं काश्यपं कृपम् ॥३४॥

गर्गं कौशिकवासिष्ठौ मुनिं भार्गवमव्ययम् ।
वृद्धं पाराशरं कण्वं माण्डव्यं श्रुतिकेवलम् ॥३५॥

श्वेतं सुतालं दमनं सुहोत्रं कङ्कमेव च ।
लौकाक्षिञ्च महाबाहुं जैगीषव्यं तथैव च ॥३६॥

दधिपञ्चमुखं विप्रमृषभं कर्कमेव च ।
कात्यायनं गोभिलञ्च मुनिमुग्रमगाव्रतम् ॥३७॥

सुपालकं गौतमञ्च तथा वेदशिरोव्रतम् ।
जटामालिनमव्यग्रं चाटुहासञ्च दारुणम् ॥३८॥

आत्रेयं चाप्यङ्गिरसमौपमन्युं महा व्रतम् ।
गोकर्णञ्च गुहावासं शिखण्डिनमुमाव्रतम् ॥३९॥

एतानन्यांश्च विप्रेन्द्रान्वेधा लोकपितामहः  ।
परिकल्प्याकरोद्यागं गयासुरशरीरके ॥४०॥

अग्निशर्मापि पञ्चाग्नीन्मुखादेतानथासृजत् ।
दक्षिणाग्निं गार्हपत्याहवनीयौ तपोऽव्ययः ॥४१॥

सत्यावसथ्यौ देवर्षे येषु यज्ञाः प्रतिष्ठिताः ।
यज्ञस्य च प्रतिष्ठार्थं विप्रेभ्यो दक्षिणां ददौ ॥४२॥

हुत्वा पूर्णाहुतिं ब्रह्ना स्नात्वा चावभृथेन तु ।
यज्ञयूपं सुरैः सार्द्धं समानीय व्यरोपयत् ॥४३॥

ब्रह्मणः सहसा श्रेष्ठे सरस्येवाश्रितं शुभम् ।
चलितश्चकितो ब्रह्मा धर्म्मराजमभाषत ॥४४॥

जाता गृहे तव शिला समानीयाविचारयन् ।
दैत्यस्य शीघ्रं शिरसि तां धारय ममाज्ञया ॥४५॥

निस्वलार्थं यमः श्रुत्वा धारयन्मस्तके शिलाम् ।
शिलायां धारितायान्तु सशिलश्चासुरोऽचलत् ॥४६॥

देवानूचेऽथ रुद्रादीञ्छिलायां निश्चलाः किल ।
तिष्ठन्तु देवाः सकलास्तथेत्युक्त्वा च ते स्थिताः ॥४७॥

देवाः पादैर्लक्षयित्वा तथापि चलितोऽसुरः ।
ब्रह्माथ व्याकुलो विष्णुं गतः क्षीराब्धिशायिनम् ।
तुष्टाव प्रणतो भूत्वा नत्वा चादृत्य तं प्रभुम् ॥४८॥

॥ब्रह्मोवाच॥
ब्रह्माण्डस्य पते नाथ नमामि जगतां पतिम् ।
कतिं कीर्त्तिमतां नॄणां बुक्तिमुक्तिप्रदायकम् ॥४९॥

विष्वक्सेनोऽब्रवीद्विष्णुं देव त्वां स्तौति पद्मजः ।
हरिराहानय त्वं तं विष्णूक्तः स तमानयत् ।
अजमूचे हरिः कस्मादागतोऽसि वदस्व तत् ॥५०॥

॥ब्रह्मोवाच॥
देवदेव कृते योगे प्रचचाल गयासुरः ।
शिलायां देवरूपिण्यां न्यस्तायां तस्य मस्तके ॥५१॥

रुद्रादिषु च देवेषु संस्थितेष्वसुरोऽचलत् ।
इदानीं निश्चलार्थं हि प्रसादं कुरु माधव ॥५२॥

ब्रह्मणो वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः  ।
मूर्त्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान्हरिः ॥५३॥

आनीय मूर्त्तिं ब्रह्मापि शिलायां समधारयत् ।
तथापि चलितं वीक्ष्य पुनर्देवमथाह्वयत् ॥५४॥

आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितोऽभवत् ।
जनार्द्दनाभिधानेन पुण्डरीकेति नामतः ।
शिलायांनिश्चलार्थं हि स्वयमादिगदाधरः ॥५५॥

निश्चलार्थं पञ्चधासीच्छिलायां प्रपितापहः ।
पितामहोऽथ फल्ग्वीशः केदारः कनकेश्वरः ॥५६॥

ब्रह्मा स्थितः स्वयं तत्र गजरूपी विनायकः ।
गयादित्यश्चोत्तरार्को दक्षिणार्कस्त्रिधा रविः ॥५७॥

लक्ष्मीः सीताभिधानेन गौरी च मङ्गलाह्वया ।
गायत्री चैव सावित्री त्रिसन्ध्या च सरस्वती ॥५८॥

इन्द्रो बृहस्पतिः पूषा वसवोऽष्टौ महाबलाः ।
विश्वेदेवाश्चाश्विनेयौ मारुतो विश्वनायकः ।
सयक्षोरगगन्धर्व्वास्तस्थुर्देवाः स्वशाक्तिभिः ॥५९॥

आद्यया गदया चासौ यस्माद्दैत्यः स्थिरीकृतः ।
स्थित इत्येव हरिणा तस्मादादिगदाधरः ॥६०॥

ऊचे गयासुरो देवान्किमर्थं वञ्चितो ह्यहम् ।
यज्ञार्थं ब्रह्मणे दत्तं शरीरममलं मया ।
विष्णोर्वचनमात्रेण किं न स्यां निश्चलो ह्यहम् ॥६१॥

यत्सुरैः पीडितोऽत्यर्थं गदया हरिणा तथा ।
पीडितो यद्यहं देवाः प्रसन्नाः सन्तु सर्वदा ॥६२॥

गदाधरादयस्तुष्टाः प्रोचुः सार्द्धं गयासुरम् ।
वरं ब्रूहि प्रसन्नाः स्मो देवानूचे गयासुरः ॥६३॥

यावत्पृथ्वी पर्वताश्च यावच्चन्द्रार्कतारकाः ।
तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः ।
अन्ये च सकला देवा मन्नाम्ना क्षेत्रमस्तु वै ॥६४॥

पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः  ।
तन्मध्ये सर्वतीर्थानि प्रयच्छन्तु हितं नृणाम् ॥६५॥

स्नानादितर्पणं कृत्वा पिण्डदानात्फलाधिकम् ।
महात्मा वै सहस्रञ्च कुलानां चोद्धरेन्नरः ॥६६॥

व्यक्ताव्यक्तस्वरूपेण यूयं तिष्ठत सर्वदा ।
गदाधरः स्वयं लोकाद्भूयात्सर्वाघनाशनात् ॥६७॥

श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ।
ब्रह्महत्यादिकं पापं विनश्यतु च सेविनाम् ॥६८॥

नैमिषं पुष्करं गङ्गा प्रयागश्चाविमुक्तिकम् ।
एतान्यन्यानि तीर्थानि दिवि भुव्यन्तरिक्षतः ।
समायान्तु सदा नॄणां प्रयच्छन्तु हितं सुराः ॥६९॥

किं बहूक्त्या सुरगणा युष्मास्वेकापि देवता ।
चेन्न तिष्ठेदहं चापि समयः प्रतिपाल्यताम् ॥७०॥

गयासुरवचः श्रुत्वा प्रोचुर्विष्ण्वादयःसुराः ।
त्वया यत्प्रार्थितं सर्व्वं तद्भविष्यत्यसंशयम् ॥७१॥

अस्मत्पादानर्च्चयित्वा यास्यन्ति परमां गतिम् ।
देवैर्दत्तवरो दैत्यो हर्षितो निश्चलोऽभवत् ॥७२॥

स्थितेषु चैव देवेषु ब्राह्मणेभ्यो ददावजः ।
ग्रामांश्च पञ्चपञ्चाशत्पञ्चक्रोशीं गयां तथा ।
गृहान्कृत्वा ददौ दिव्यान्सर्व्वोपस्करसंयुतान् ॥७३॥

कामधेनुं कल्पवृक्षं पारिजातादिकांस्तरून् ।
महानदीं क्षीरवहां घृतकुल्यास्तथैव च ॥७४॥

मधुश्रवां मधुकुल्यां दध्याद्याढ्यसरांसि च ।
सुवर्णदीर्घिकां चैव बहूनन्नादिपर्व्वतान् ॥७५॥

भक्ष्यभोज्यफलादींश्च सर्व्वं ब्रह्मा सृजन्ददौ ।
न याचयध्वं विप्रेन्द्रा अन्यानुक्त्वा ददावजः ॥७६॥

दत्त्वा ययौ ब्रह्मलोकं नत्वा ह्यादिगदाधरम्  ।
धर्म्मारण्ये तत्र धर्म्मं याजयित्वा ययाचिरे ॥७७॥

धर्म्मयागे च लोभाद्वै प्रतिगृह्य धनादिकम् ।
ततो ब्रह्मा समागत्य ब्राह्मणांस्ताञ्छशाप ह ॥७८॥

कृतवन्तो यतो लोभं मद्दत्तेष्वखिलेष्वपि ।
तस्मादृणाधिका यूयं भविष्यन्ति सदा द्विजः ॥७९॥

युष्माकं स्याद्वारिवहा नदी पाषाणपर्व्वताः ।
नद्यादयो वारिवहा मृन्मयाश्च यथा गृहाः ॥८०॥

कामधेनुः कल्पवृक्षो मल्लोकमुपतिष्ठताम् ।
एवं शप्ता ब्रह्मणा ते प्रार्थयन्तोऽब्रुवन्नजम् ॥८१॥

त्वया यद्दत्तमखिलं तत्सर्वं शापतो गतम् ।
जीवनार्थं प्रसादं नो भगवान्कर्त्तुमर्हसि ॥८२॥

तच्छ्रुत्वा ब्राह्मणान्ब्रह्मा प्रोवाचेदं दयान्वितः ।
तीर्थोपजीविका यूयमाचन्द्रार्कं भविष्यथ ॥८३॥

लोकाः पुण्या गयायां ये श्राद्धिनो ब्रह्मलोकगाः ।
युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥८४॥

आक्रान्तं दैत्यजठरं धर्म्मेण विरजाद्रिणा ।
नाभिकूपसमीपे तु देवी या विरजा स्थिता ।
तत्र पिण्डादिकं कृत्वा त्रिःसप्तकुलमुद्धरेत् ॥८५॥

महेन्द्रगिरिणा तस्य कृतौ पादौ सुनिश्चलौ ।
iतत्र पिण्डादिकृत्सप्त कुलान्युद्धरते नरः ॥८६॥

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP