संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३७

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
तुर्वसोस्तु सुतो वह्निर्वह्नेर्गोभानुरात्मजः ।
गोभानोस्तु सुतो वीरस्त्रिसानुरपराजितः ॥१॥

करन्धमस्त्रिसानोस्तु मरुत्तस्य न चात्मजः ।
अन्यस्त्ववीक्षितो राजा मरुत्तः कथितः पुरा ॥२॥

अनवत्यो मरुत्तस्तु स राजासीदिति श्रुतम् ।
दुष्कृतं पौरवं चापि सर्वे पुत्रमकल्पयन् ॥३॥

एवं ययादिशापेन जरायाः संक्रमेण तु  ।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥४॥

दुष्कृतस्य तु दायादः शरूथो नाम पार्थिवः ।
शरूथात्तु जनापीडश्चत्वारस्तस्य चात्मजाः ॥५॥

पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च ।
तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥६॥

द्रुह्योस्तु तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ ।
अरुद्धः सेतुपुत्रस्तु बाभ्रवो रिपुरुच्यते ॥७॥

यौवनाश्वेन समिति कृच्छ्रेण निहतो बली ।
युद्धं सुमहदासीत्तु मासान् परि चतुर्दश ॥८॥

अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः ।
ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥९॥

गान्धारदेशजाश्चापि तुरगा वाजिनां वराः ।
गान्धारपुत्रो धर्म्मस्तु घृतस्तस्य सुतोऽभवत् ॥१०॥

घृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चात्मजः  ।
प्रचेतसः पुत्रशतं राजानः सर्व एव ते ॥११॥

म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः ।
अनोः पुत्रा महात्मानस्त्रयः परमधार्म्मिकाः ॥१२॥

सभानरश्च पक्षश्च परपक्षस्तथैव च ।
सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ॥१३॥

कालानलस्य धर्म्मात्मा सृञ्जयो नाम धार्मिकः  ।
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ॥१४॥

जनमेजयो महा सत्वः पुरञ्जयसुतोऽभवत् ।
जनमेजयस्य राजर्षेर्महाशालोऽभवभृपः ॥१५॥

आसीदिन्द्रसमो राजा प्रतिष्ठितयशा दिवि ।
महामनाः सुतस्तस्य महा शालस्य धार्मिकः ॥१६॥

सप्तद्वीपेश्वरो राजा चक्रवर्त्ती महायशाः ।
महामनास्तु पुत्रौ द्वौ जनयामास विश्रुतौ ॥१७॥

उशीनरञ्च धर्मज्ञं तितिक्षुञ्चैव धार्मिकम् ।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥१८॥

मृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती ।
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ।
तपसा ते सुमहता जातवृद्धाश्च धार्मिकाः ॥१९ ।
मृगायास्तु मृगः पुत्रो नवाया नव एव तु ।
कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ॥२०॥

दृषद्वतीसुतश्चापि शिविरौशीनरो द्विजाः ।
शिवेः शिवपुरं ख्यातं यौधेयन्तु मृगस्य तु ॥२१॥

नवस्य नवराष्ट्रन्तु कृमेस्तु कृमिला पुरी ।
सुव्रतस्य तथा वृष्टा शिविपुत्रान्निबोधत ॥२२॥

शिवेस्तु शिवयः पुत्राश्चत्वारो लोकसम्मताः ।
वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ॥२३॥

तेषाञ्जनपदाः स्फीताः केकया माद्रकास्तथा ।
वृषदर्भाः सूचिदर्भास्तितिक्षोः श्रृणुत प्रजाः ॥२४॥

तैतिक्षुरभवद्राजा पूर्वस्यान्दिशि विश्रुतः ।
उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ॥२५॥

हेमस्य सुतपा जज्ञे सुतः सुतयशा बली  ।
जातो मनुष्ययोन्यां वै क्षीणे वंशे प्रजेप्सया ॥२६॥

महायोगी स तु बलिर्बद्धो यः स महामनाः ।
पुत्रानुत्पादयामास चातुर्वर्ण्यकरान् भुवि ॥२७॥

अङ्गं स जनयामास वङ्गं सुह्लं तथैव च ।
पुण्ड्रं कलिङ्गञ्च तथा बालेयं क्षत्रमुच्यते ॥२८॥

बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः ।
बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन धीमते ॥२९॥

महायोगित्वमायुश्च कल्पायुःपरिमाणकम् ।
संग्रामे चाप्यजेयत्वं धर्मे चैव प्रभावना ॥३०॥

त्रैलोक्यदर्शनञ्चैव प्राधान्यं प्रसवे तथा ।
बले चाप्रति मत्वं वै धर्मतत्त्वार्थदर्शनम् ॥३१॥

चतुरो नियतान् वर्णान् त्वं वै स्थापयितेति च ।
इत्युक्तो विभुना राजा बलिः शान्तिम्परां ययौ ॥३२॥

कालेन महता विद्वान् स्वं वै स्थानमुपागतः ।
तेषां जनपदाः स्फीता वङ्गाङ्गसुह्लकास्तथा ॥३३॥

पुण्ड्राः कलिङ्गाश्च तथा तेषां वंशं निबेधत ।
तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसम्भवाः ।
सम्भूता दीर्घतमसः सुदेण्णायां महौजसः ॥३४॥

॥ऋषय ऊचुः ।
कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो ।
ऋषिणा दीर्घतमसा एतन्नो ब्रूहि पृच्छताम् ॥३५॥

॥सूत उवाच॥
अशिजो नाम विख्यात आसीद्धीमा नृषिः पुरा ।
भार्या वै समता नाम बभूवास्य महात्मनः ॥३६॥

अशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् ।
बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥३७॥

उवाच ममता तन्तु बृहस्पतिमनिच्छती ।
अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्याष्टमिता इति ॥३८॥

अयं हि मे महागर्भो रोदतेऽति बृहस्पते ।
अशिजं ब्रह्मचाभ्यस्य षडङ्गं वेदमुद्गिरन् ॥३९॥

अमोघरेतास्त्वञ्चापि न मां भजितमर्हसि ।
अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो ॥४०॥

एवमुक्तस्तया सम्यग् बृहत्तेजा बृहस्पतिः ।
कामात्मानं महात्मा च नात्मानं सोऽभ्यधारयत् ॥४१॥

सम्बभूवैव धर्मात्मा तया सार्द्धं बृहस्पतिः ।
उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ॥४२॥

नो स्नातको न्यसेद्ध्यस्मिन् द्वयोर्नेहास्ति सम्भवः ।
अमोघरेतास्त्वञ्चापि पूर्वञ्चाहमिहागतः ॥४३॥

शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः ।
आशिजन्तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥४४॥

यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति ।
मामेवमुक्तवान् मोहात्तमो दीर्घं प्रवेक्ष्यसि ॥४५॥

ततो दीर्घतमा नाम शापादृषिरजायत ।
अथाशिजो बृहत्कीर्त्तिर्बृहस्पतिरिवौजसा ॥४६॥

ऊर्द्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे ।
गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान् प्रभो ॥४७॥

तस्य भ्राता पितृव्यस्तु चकार भवनं तदा ।
तस्मिन् हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥४८॥

दर्शार्थमाहृतान् दर्भांश्चचार सुरभीवृतः ।
जग्राह तं दीर्घतमा विस्फुरन्तञ्च श्रृङ्गयोः ॥४९॥

स तेन निगृहीतस्तु न चचाल पदात्पदम् ।
ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥५०॥

न मयासादितस्तात बलवंस्त्वद्विधः क्वचित् ।
त्र्यम्बकं वहता देवं यतो जातोऽस्मि भूतले ॥५१॥

मुञ्च मां बलिनां श्रष्ठ प्रीतस्तेऽहं वरं वृणु ।
एवमुक्तोऽब्रवीदेनं जीवस्त्वं मे क्व यास्यसि ॥५२॥

तेन त्वाहं न मोक्ष्यामि परस्वाहं चतुष्पदम् ।
ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥५३॥

नास्माकं विद्यते तात पातकं स्तेयमेव वा ।
भक्ष्याभक्ष्यं न जानीमः पेयापेयञ्च सर्वशः ॥५४॥

कार्याकार्यं न वै विझो गम्यागम्यं तथैव च ।
न पाप्मानो वयं विप्र धर्मो ह्येषां गवां स्मृतः ॥५५॥

गवां नाम स वै श्रुत्वा संभ्रान्तस्त्वनुमुच्य तम् ।
भक्त्या चानुश्रविकया गोषु तं वै प्रसाद यत् ॥५६॥

प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु तम् ।
मनसैव तदादत्ते तन्निष्ठस्तत्परायणः ॥५७॥

ततो यवीयसः पत्नीमौतथ्यस्याभ्यमन्यत ।
विचेष्टमानां रुदतीं दैवात् स मूढचेतनः ॥५८॥

अवलेपन्तु तं मत्वा शरद्वांस्तस्य नाक्षमत् ।
गोधर्मंवै बलं कृत्वा स्नुषां स सममन्यत ॥५९॥

विपर्ययन्तु तं दृष्ट्वा शरद्वान् प्रत्यचिन्तयत् ।
भविष्यमर्थं ज्ञात्वा च महात्मा च न मृत्युताम् ॥६०॥

प्रोवाच दीर्घतमसं क्रोधात् संरक्त लोचनः ।
गम्यागम्यं न जीनीषे गोधर्मात् प्रार्थयत् स्नुषाम् ॥६१॥

दुर्वृत्तस्त्वं त्यजाम्येव गच्छ त्वं स्वेन कर्मणा ।
यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः ।
तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतिः ॥६२॥

॥सूत उवाच॥
कर्मण्यस्मिस्ततः क्रूरे तस्य बुद्धिरजायत ।
निर्भत्स्य चैव बहुशो बाहुभ्यां परिगृह्य च ।
कोष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ॥६३॥

उह्यमानः समुद्रस्तु सप्ताहं स्रोतसा तदा ।
तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित् ।
अपश्यन्मज्जमानन्तु स्रोतसाभ्याशमागतम् ॥६४॥

तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा ।
अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ॥६५॥

प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम् ।
स च तस्माद्वरं वव्रे पुत्रार्थं दानवर्षभः ॥६६॥

॥बलिरुवाच॥
सन्तानार्थं महाभाग भार्यया मम मानद ।
पुत्रान् धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ॥६७॥

एवमुक्तस्तु तेनर्षिस्तथास्त्वित्युक्तवान् हि तम्  ।
सुदेष्णां नाम बार्यां वै राजास्मै प्राहिणोत्तदा ॥६८॥

अन्धं वृद्धञ्च तं दृष्ट्वा न सा देवी जगाम ह  ।
स्वाञ्च धात्रेयकीं तस्मै भूषयित्वा व्यसर्जयत् ॥६९॥

कक्षीवचक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी ।
जनयामास धर्मात्मा पुत्रावेतौ महोजसौ ॥७०॥

कक्षिवचक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा ।
प्राधीतौ विधिवत्सम्यगीश्वरौ ब्रह्मवादिनौ ॥७१॥

सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि ।
ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ॥७२॥

नेत्युवाच ततस्तन्तु ममैताविति चाब्रवीत् ।
उत्पन्नौ शूद्रयोनौ तु भवच्छद्मा सुरोत्तमौ ॥७३॥

अनधं बृद्धं च मां मत्वा सुदेष्णा महिषी तव ।
प्राहिणोदवमानाय शूद्रां धात्रेयकीं मम ॥७४॥

ततः प्रसादयामास पुनस्तमृषिसत्तमम् ।
बलिर्भार्यां सुदेष्णां च भर्त्सयामास वै प्रभुः ॥७५॥

पुनश्चैनामलंकृत्य ॥ऋषये प्रत्यपादयत् ।
तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ॥७६॥

दध्ना लवणमिश्रेण स्वब्य(व्य)क्तं नग्नकं तथा ।
लिहिष्यस्यजुगुप्सन्ती ह्यापादतलमस्तकम् ॥७७॥

ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान् ।
तस्य सा तद्वचो देवी सर्वं कृतवती तथा ॥७८॥

अपानञ्च समासाद्य जुगुप्सन्ती न्यवर्जयत् ।
तामुवाच ततः सर्षिर्यत्ते परिहृतं शुभे ।
विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम् ॥७९॥

ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह ।
नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥८०॥

॥ऋषिरुवाच॥
तवापराधो देव्येष नान्यथा भवितानु वै  ।
देवी दानीञ्च ते पुत्रमहं दास्यामि सुव्रते ॥८१॥

तस्यापानं विना चैव योग्याभावो भविष्यति ।
तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वेदमब्रववीत् ॥८२॥

प्राशितं दधि यत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते  ।
तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥८३॥

भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः ।
तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ॥८४॥

ततोङ्गस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत ।
वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रो ब्रह्मस्तथैव च ॥८५॥

वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा ।
इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥८६॥

प्रजास्त्वपहतास्तस्य ब्रह्मणा कारणं प्रति ।
अपत्या मात्यदारेषु स्वेषु मा भून्महात्मनः ॥८७॥

ततो मनुष्ययोन्यां वै जनयामास स प्रजाः ।
सुरभिर्दीर्घतमसमथ प्रीतो वचोऽब्रवीत् ॥८८॥

विचार्य यस्माद्गोधर्म्मं त्वमेवं कृतवानसि  ।
तेन न्यायेन मुमुचे ह्यहं प्रीतोस्मि तेन ते ॥८९॥

तस्मात्तव तमो दीर्घं निस्तुदाम्यद्य पश्य वै ।
बार्हस्पत्यञ्च यत्तेऽन्यत्पापं सन्तिष्ठते तनौ ॥९०॥

जरामृत्युभयञ्चैव आघ्राय प्रणुदामि ते ।
ह्याघ्रातमात्रः सोऽपश्यत सद्यस्तमसि नाशिते ॥९१॥

आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत् ।
गवा दीर्घतमाः सोऽथ गौतमः समपद्यत ॥९२॥

कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिप्रजाम् ।
यथोद्दिष्टं हि पित्रर्थे चचार विपुलं तपः ॥९३॥

ततः कालेन महता तमसा भावितः सवै ।
विधूय मनुजो दोषान् ब्रह्मण्यं प्राप्तवान् प्रभुः ॥९४ ।
ततोऽब्रवीत् पिता चैनं पुत्रवानस्म्यहं प्रभो ।
सत्पुत्रेण त्वया तात कृतार्थोऽस्मि यशस्विना ॥९५॥

युक्तात्मा हि ततः सोऽथ प्राप्तवान् ब्रह्मणा क्षयम् ।
ब्रह्मण्यं प्राप्य कक्षीवान् सहस्रमसृजत् सुतान् ॥९६॥

कृष्णाङ्गा गौतमास्ते वै स्मृताः कक्षीवतः सुताः ।
इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥९७॥

समागमः समाख्यातः सन्तानञ्चोभयोस्तयोः ।
बलिस्तानबिषिच्येह पञ्च पुत्रानकल्मषान् ॥९८॥

कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः ।
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चरत्युत ॥९९॥

तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः ।
सापराधसुदेष्णाया अनपानोऽभवनृपः ॥१००॥

अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः ।
पुत्रो दिविरथस्यासीद्विद्वान् धर्मरथो नृपः ॥१०१॥

स वै धर्मरथः श्रीमान् येन विष्णुपदे गिरौ ।
सोमः शक्रेण सह वै यज्ञे पीतो महात्मना ॥१०२॥

श्रृणु धर्म्मरथस्यापि राजा चित्ररथोऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत् ॥१०३॥

जज्ञे वै चण्डिकस्तस्य वारणः शक्रवारणः ।
आनयामास स महीं मन्धोर्वाहनमुत्तमम् ॥१०४॥

हर्य्यङ्गस्य तु दायादो राजा भद्ररथः किल ।
अथ भद्र रथस्यासीद्बृहत्कर्मा प्रजेश्वरः ॥१०५॥

बृहद्रथः सुतस्तस्य तस्माज्जज्ञे बृहन्मनाः ।
बृहन्मनास्तु राजेन्द्रं जनयामास वै सुतम् ॥१०६॥

नाम्ना जयद्रथं नाम तस्मादॄढरथो नृपः ।
आसीदॄढरथस्यापि विश्वजिज्जनमेजयः ॥१०७॥

दायादस्तस्य चाङ्गेभ्यो यस्मात् कर्णोऽभवन्नृपः ।
कर्णस्य शूरसेनस्तु द्विज स्तस्यात्मजः स्मृतः ॥१०८॥

॥ऋषय ऊचुः॥

॥सूतात्मजः कथं कर्णः कथं चाङ्गस्य वंशजः ।
एतदिच्छामहे श्रोतुमत्यर्थं कुशलो ह्यसि ॥१०९॥

॥सूत उवाच॥
बृहद्भानोः सुतो जज्ञे नाम्ना राजा बृहन्मनाः ।
तस्य पत्नीद्वयं चासीच्चैद्यस्योभे च ते सुते ॥११०॥

यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते ।
जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत ॥१११॥

ब्रह्मक्षत्रान्तरः सत्याविजयो नाम विश्रुतः ।
विजयस्य धृतिः पुत्र स्तस्य पुत्रो धृतव्रतः ॥११२॥

धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः ।
सत्यकर्मसुतश्चापि॥सूतस्त्वधिरथस्तु वै ॥११३॥

स कर्णं परिजग्राह तेन कर्णस्तु॥सूतजः ।
एतद्वः कथितं सर्वं कर्णे यद्वै प्रचोदितम् ॥११४॥

एतेऽङ्गवंशजाः सर्वे राजानः कीर्त्तिता मया ।
विस्तरेणानुपूर्व्या च पूरोस्तु श्रृणुत प्रजाः ॥११५॥

॥सूत उवाच॥
पूरोः पुत्रो महाबाहू राजासीज्जनमेजयः ।
अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ॥११६॥

अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः ।
राजाथो जयदो नाम मनस्योरभवत्सुतः ॥११७॥

दायादस्तस्य चाप्यासीद्धुन्धुर्नाम महीपतिः ।
धुन्धोर्बहु गवी पुत्रः सञ्जातिस्तस्य चात्मजः ॥११८॥

सञ्जातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत ।
रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥११९॥

रजेयुश्च कृते युश्च वक्षेयुः स्थण्डिलेयु च ।
घृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः ॥१२०॥

धर्मेयुः सन्नतेयुश्च वनेयुर्द्दशमस्तु सः ।
रुद्रा शूद्रा च मद्रा च शुभा जामलजा तथा ॥१२१॥

तला खला च सप्तैता या च गोपजला स्मृता ।
तथा ताम्ररसा चैव रत्नकूटी च तादृशी ॥१२२॥

आत्रेयो वंशतस्तासां भर्त्ता नाम्ना प्रभाकरः ।
अनादृष्टस्तु राजर्षी रिवेयुस्तस्य चात्मजः ॥१२३॥

रिवेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ।
यस्यां देव्यां स राजर्षी रन्तिं नाम त्वजीजनत् ॥१२४॥

रन्तिर्नारः सरस्वत्यां पुत्रानजनयच्छुभान् ।
त्रसुं तथा प्रतिरथं ध्रुवञ्चैवातिधार्मिकम् ॥१२५॥

गौरी कन्या च विख्याता मान्धातुर्जननी शुभा ।
धुर्यः प्रतिरथस्यापि कण्ठस्तस्याभवत् सुतः ॥१२६॥

मेधातिथिः सुरस्तस्य यस्मात् काण्ठायना द्विजाः ।
इतिनानुयमस्यासीत् कन्या साजनयत्सुतान् ॥१२७॥

त्रसुः सुदयितंपुत्रं मलिनं ब्रह्मवादिनम् ।
उपदातं ततो लेभे चतुरस्त्विति सात्मजान् ॥१२८॥

सुष्मन्तमथ दुष्यन्तं प्रवीरमनघन्तथा ।
चक्रवर्त्ती ततो जज्ञे दौष्यन्तिर्नृपसत्तमः ॥१२९॥

शकुन्तलायां भरतो यस्य नाम्ना तु भारतम् ।
दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ॥१३०॥

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यन्तं सत्यमाह शकुन्तला ॥१३१॥

रेतोधाः पुत्रं नयति नरदेव यमक्षयात् ।
त्वञ्चास्य धाता गर्भस्य मावमंस्थाः शकुन्तलाम् ॥१३२॥

भरतस्त्रिसृषु स्त्रीषु नव पुत्रानजीजनत् ।
नाभ्यनन्दच्च तान् राजा नानुरूपान्ममेत्युत ॥१३३॥

ततस्ता मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम् ।
ततस्तस्य नरेन्द्रस्य विततं पुत्रजन्म तत् ॥१३४॥

ततो मरुद्भिरानीय पुत्रस्तु स बृहस्पतेः ।
सङ्क्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ॥१३५॥

तत्रैवोदारहन्तीदं भरद्वाजस्य धीमतः ।
जन्मसङ्क्रमणञ्चैव मरुद्भिर्भरताय वै ॥१३६॥

पत्न्यामासन्नगर्भायामशिजः संस्थितः किलः ।
भ्रातुर्भार्यां स दृष्ट्वाथ ॥बृहस्पतिरुवाच ह ।
अलंकृत्य तनुं स्वान्तु मैथुनं देहि मे शुभे ॥१३७॥

एवमुक्ताऽब्रवीदेन मन्तर्वत्नी ह्यहं विभो ।
गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा ॥१३८॥

अमोघरेतास्त्वञ्चापि धर्मश्चैव विगर्हितः ।
एवमुक्तोऽब्रवीदेनां स्मयमानो बृहस्पतिः ॥१३९॥

विनयो नोपदेष्टव्यस्त्वया मम कथञ्चन ।
हर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे ॥१४०॥

ततो बृहस्पतिं गर्भो हर्षमाणमुवाच ह ।
सन्निविष्टो ह्यहं पूर्वमिह तात बृहस्पते ॥१४१॥

अमोघरेताश्च भवान्नावकाशोऽस्ति च द्वयोः ।
एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह ॥१४२॥

यस्मान्मामीदृशे काले सर्वभूतेप्सिते सति ।
प्रतिषेधसितत्तस्मात् तमो दीर्घं प्रवेक्ष्यसि ॥१४३॥

पादाभ्यान्तेन तच्छन्नं मातुर्द्वारं बृहस्पतेः ।
तद्रेतस्तु तयोर्मध्ये निवार्यः शिशुकोऽभवत् ॥१४४॥

सद्यो जातं कुमारन्तं दृष्ट्वाऽथ ममताऽब्रवीत् ।
गमिष्यामि गृहं स्वं वै भरद्वाजं बृहस्पते ॥१४५॥

एवमुक्त्वा गतायां स पुत्रन्त्यजति तत्क्षणात् ।
भरस्व बाढमित्युक्तो भरद्वाजस्ततोऽभवत् ॥१४६॥

मातापितृभ्यां संत्यक्तं दृष्ट्वाथ मरुतः शिशुम् ।
गृहीत्वैनं भरद्वाजं जग्मुस्ते कृपया ततः ॥१४७॥

तस्मिन् काले तु भरतो मरुद्भिः क्रतुभिः क्रमात् ।
काम्यनैमित्तिकैर्यज्ञैर्यजते पुत्रलिप्सया ॥१४८॥

यदा स यजमानो वै पुत्रान्नासादयत् प्रभुः  ।
यज्ञं ततो मरुत्सोमं पुत्रार्थे पुनराहरत् ॥१४९॥

तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः ।
भरद्वाजं ततः पुत्रं बार्हस्पत्यं मनीषिणम् ॥१५०॥

भरतस्तु भरद्वाजं पुत्रं प्राप्य तदाब्रवीत् ।
प्रजायां संहृतायां वै कृतार्थोऽहं त्वया विभो ॥१५१॥

पूर्वन्तु वितथं तस्य कृतं वै पुत्रजन्म हि ।
ततः स वितथो नाम भरद्वाजस्तथाऽभवत् ॥१५२॥

तस्माद्दिव्यो भरद्वाजो ब्राह्मण्यात् क्षत्रियोऽभवत् ।
द्विमुख्यायननामा स स्मृतो द्विपितृकस्तु वै ॥१५३॥

ततोऽथ वितथे जाते भरतः स दिवं ययौ ।
वितथस्य तु दायादो भुवमन्युर्बभूव ह ॥१५४॥

महाभूतोपमाश्चासंश्चत्वारो भुवमन्युजाः ।
बृहत्क्षत्रो महावीर्यो नरो गाग्रश्च वीर्यवान् ॥१५५॥

नरस्य सांकृतिः पुत्रस्तस्य पुत्रौ महौजसौ ।
गुरुवीर्यस्त्रिदेवश्च सांकृत्याववरौ स्मृतौ ॥१५६॥

दायादाश्चापि गाग्रस्य शिनिबद्धात् बभूव ह ।
स्मृताश्चैते ततो गाग्र्याः क्षात्रोपेता द्विजातयः ॥१५७॥

महावीर्यसुतश्चापि भीमस्तस्मादुभक्षयः ।
तस्य भार्या विशाला तु सुषुवे वै सुतांस्त्रयः ॥१५८॥

त्रय्यारुणिं पुष्करिणं तृतीयं सुषुवे कपिम् ।
कपेः क्षत्रवरा ह्येते तयोः प्रोक्ता महर्षयः ॥१५९॥

गाग्राः सांकृतयो वीर्याः क्षात्रोपेता द्विजातयः ।
संश्रिताङ्गिरसं पक्षं बृहत्क्षत्रस्य वक्ष्यति ॥१६०॥

बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः ।
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ।
तेनेदं निर्मितं पूर्वं नाम्ना वै हास्तिनं पुरम् ॥१६१॥

हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः ।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ॥१६२॥

अजमीढस्य पुत्रास्तु शभाः शुभकुलोद्वहाः ।
तपसोऽन्ते सुमहतो राज्ञो वृद्धस्य धार्मिकाः ॥१६३॥

भरद्वाजप्रसादेन श्रृणुध्वं तस्य विस्तरम् ।
अज मीढस्य केशिन्यां कण्ठः समभवत्किल ॥१६४॥

मेधातिथिः सुतस्तस्य तस्मात् कण्ठायना द्विजाः ।
अजमीढस्य धूमिन्यां जज्ञे बृहद्वसुर्नृपः ॥१६५॥

बृहद्वसोर्बृहद्विष्णुः पुत्रस्तस्य महाबलः ।
बृहत्कर्मा सुतस्तस्य पुत्रस्तस्य बृहद्रथः ॥१६६॥

विश्वजित्तनयस्तस्य सेनजित्तस्य चात्मजः ।
अथ सेनजितः पुत्राश्चत्वारो लोकविश्रुताः ॥१६७॥

रुचिराश्वश्च काव्यश्च रामो दृढधनुस्तथा ।
वत्सश्चावन्तको राजा यस्य ते परिवत्सराः ॥१६८॥

रुचिराश्वस्य दायादः पृथुषेणो महायशाः ।
पृथुषेणस्य पारस्तु पारान्नीपोऽथ जज्ञिवान् ॥१६९॥

यस्य चैकशतञ्चासीत् पुत्राणामिति नः श्रुतम् ।
नीपा इति समाख्याता राजानः सर्व एव ते ॥१७०॥

तेषां वंशकरः श्रीमान् राजासीत्कीर्त्तिवर्द्धनः ।
काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् ॥१७१॥

समरस्य परः पारः सत्वदश्च इति त्रयः ।
पुत्राः सर्वगुणोपेताः पारपुत्रो वृषुर्बभौ ॥१७२॥

वृषोस्तु सुकृतिर्नाम सुकृतेनेह कर्मणा ।
जज्ञे सर्वगुणोपेतो विब्राजस्तस्य चात्मजः ॥१७३॥

विभ्राजस्य तु दायादस्त्वणुहो नाम पार्थिवः ।
बभूव शुकजामाता ऋचीभर्त्ता महायशाः ॥१७४॥

अणुहस्य तु दायादो ब्रह्मदत्तो महातपाः ।
योगसूनुः सुतस्तस्य विष्वक्सेनोऽभवनृपः ॥१७५॥

विब्राजपुत्रा राजानः कुकृतेनेह कर्म्मणा ।
विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह ॥१७६॥

भल्लाटस्तस्य दायादो येन राजा पुराहतः ।
भल्लाटस्य तु दायादो राजासीज्जनमेजयः ।
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥१७७॥

॥ऋषय ऊचुः॥

उग्रायुधः कस्य सुतः कस्मिन् वंशे च कीर्त्यते ।
किमर्थञ्चैव नीपास्ते तेन सर्वे प्रणाशिताः ॥१७८॥

॥सूत उवाच॥
द्विमीढस्य तु दायादो विद्वान् जज्ञे यवीनरः ।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ॥१७९॥

अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान्  ।
दृढनेमिसुतश्चापि सुवर्मा नाम पार्थिवः ॥१८०॥

आसीत्सुवर्म्मणः पुत्रः सार्वभौमः प्रतापवान् ।
सार्वभौम इति ख्यातः पृथिव्यामेकराड्बभौ ॥१८१॥

तस्यान्वये च महति महत्पौरवनन्दनः ।
महत्पौरवपुत्रस्तु राजा रुक्मरथः स्मृतः ॥१८२॥

अथ रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः ।
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ॥१८३॥

सुमतेरपि धर्म्मात्मा राजा सन्नतिमान् प्रभुः ।
तस्यासीत्सनतिर्नाम कृतस्तस्य सुतोऽभवत् ॥१८४॥

शिष्यो हिरण्यनाभेस्तु कौथुमस्य महात्मनः ।
चतुर्विंशतिधा तेन प्रोक्तास्ताः सामसंहिताः ॥१८५॥

स्मृतास्ते प्राच्यनामानः कार्त्ताः साम्नान्तु सामगः  ।
कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ॥१८६॥

बभूव येन विक्रम्य पृषतस्य पितामहः ।
नीलो नाम महाबाहुः पञ्चालाधिपतिर्हतः ॥१८७॥

उग्रायुधस्य दायादः क्षेमो नाम महायशाः ।
क्षेमात्सु वीरः संजज्ञे सुवीरस्य नृपञ्जयः ।
नृपञ्जयाद्वीररथो इत्येते पौरवाः स्मृताः ॥१८८॥

अजमीढस्य नीलिन्यां नीलः समभवन्नृपः ।
नीलस्य तपसोग्रेण सुशान्तिरभ्यजायत ॥१८९॥

पुरुजानुः सुशान्तेस्तु रिक्षस्तु पुरुजानुजः ।
ततस्तु रिक्षदायादा भेदाश्च तनयास्त्विमे ॥१९०॥

मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तथा  ।
यवीयांश्चापि विक्रान्तः कम्पिल्यश्चैव पञ्चमः ॥१९१॥

पञ्चानां रक्षणार्थाय पितैतानभ्यभाषत ।
पञ्चानां विद्धि पञ्चैतान् स्फीता जनपदा युताः ॥१९२॥

अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ।
मुद्गलस्यापि मौद्गल्याः क्षात्रोपेतद्विजातयः ॥१९३॥

एते ह्यङ्गिरसः पक्षे संश्रिताः कण्ठमुद्घलाः  ।
मुद्घलस्य सुतो ज्येष्ठो ब्रह्मिष्ठः सुमहायशाः ॥१९४॥

इन्द्रसेना यतो गर्भं बध्यश्वं प्रत्यपद्यत ।
बध्यश्वान्मिथुनं जज्ञे मेनका इति नः श्रुतिः ॥१९५॥

दिवोदासश्च राजर्षिरहल्या च यशस्विनी ।
शारद्वतस्तु दायादमहल्या समसूयत ॥१९६॥

शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः ।
पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ॥१९७॥

अथ सत्यधृतेः शुक्रं दृष्ट्वाप्सरसमग्रतः ।
प्रचस्कन्दे शरस्तम्बे मैथुनं समपद्यत ॥१९८॥

कृपया तच्च जग्राह शन्तनुर्मृगयां गतः ।
कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा ॥१९९॥

एते शारद्वताः प्रोक्ताः ऋतथ्यो गौतमान्वयः ।
अत ऊर्द्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् ॥२००॥

दिवोदासस्य दायादो ब्रह्मिष्ठो मित्रयुर्नृपः ।
मैत्रेयस्तु ततो जज्ञे स्मृता एतेऽपि संश्रिताः ॥२०१॥

एतेऽपि संश्रिताः पक्षं क्षात्रोपेतास्तु भार्गवाः ।
राजापि च्यवनो विद्वांस्ततः प्रतिरथोऽभवत् ॥२०२॥

अथ वै च्यवनाद्धीमान् सुदासः समपद्यत ।
सौदासः सहदेवश्च सोमकस्तस्य चात्मजः ॥२०३॥

अजमीढः पुनर्जातः क्षीणे वंशे स सोमकः ।
सोमकस्य सुतो जन्तुर्हते तस्मिञ्छतं विभो ॥२०४॥

पुषाणामजमीढस्य सोमकत्वे महात्मनः ।
तेषां यवीयान् पृषतो द्रुपदस्य पितामहः ॥२०५॥

धृष्टद्युम्नः सुतस्तस्य धृष्टकेतुश्च तत्सुतः ।
महिषी चाजमीढस्य धूमिनी पुत्रगर्धिनी ॥२०६॥

पुनर्भवे तपस्तेपे शतं वर्षाणि दुश्चरम् ।
हुताग्न्यनिद्रा ह्यभवत् पवित्रमितभोजना ॥२०७॥

अहोरात्रं कुशेष्वेव सुष्वाप सुमहाव्रता ।
तस्यां वै धूम्रवर्णायामजमीढश्च वीर्यवान् ॥२०८॥

ऋक्षं संजनयामास धूम्रवर्ण सिताग्रजम् ।
ऋक्षात् संवरणो जज्ञे कुरुः संवरणादभूत् ॥२०९॥

यः प्रयागं पदाक्रम्य कुरुक्षेत्रञ्चकार ह ।
कृष्ट्वैनं सुमहातेजा वर्षाणि सुबहून्यथ ॥२१०॥

कृष्यमाणे तदा शक्रस्तत्रास्य वरदो बभौ ।
पुण्यञ्च रमणीयञ्च पुण्यकृद्भिर्निषेवितम् ॥२११॥

तस्यान्ववायजाः ख्याताः कुरवो नृपसत्तमाः ।
कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च ॥२१२॥

परिक्षितो महाराजः पुत्रकश्चारिमर्दनः ।
सुधन्वनस्तु दायादः सुहोत्रो मतिमान् स्मृतः ॥२१३॥

च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः ।
च्यवनस्य कृतः पुत्र इष्ट्वा यज्ञैर्महातपाः ॥२१४॥

विश्रुतं जनयामास पुत्रमिन्द्रसखं नृपः ।
विद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ॥२१५॥

विद्योपरिचराज्जज्ञे गिरिका सप्त सूनवः ।
महारथो भगधरो विश्रुतो यो बृहद्रथः ॥२१६॥

प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् ।
माथैल्यश्च ललित्थश्च मत्स्यकालश्च सप्तमः ॥२१७॥

बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ।
कुशाग्रस्यात्मजश्चैव ऋषभो नाम वीर्यवान् ॥२१८॥

ऋषभस्यापि दायादः पुष्पवान्नाम धार्मिकः ।
विक्रान्तस्तस्य दायादो राजा सत्यहितः स्मृतः ॥२१९॥

तस्य पुत्रः सुधन्वा च तस्मादूर्ज्जः प्रतापवान् ।
ऊर्ज्जस्य नभसः पुत्रस्तस्माज्जज्ञे स वीर्यवान् ॥२२०॥

शकले द्वे स वै जातो जरया सन्धितस्तु सः ।
जरासन्धो महाबाहुर्जरया सन्धितस्तु सः ॥२२१॥

सर्वक्षत्रस्य जेताऽसौ जरासन्धो महाबलः ।
जरासन्धस्य पुत्रस्तु सहदेवः प्रतापवान् ॥२२२॥

सहतेवात्मजः श्रीमान् सोमाधिः सुमहातपाः ।
श्रुतश्रुवस्तु सोमाधेर्मागधः परिकीर्तितः ॥२२३॥

॥सूत उवाच॥
परिक्षितस्य दायादो बभूव जनमेजयः ।
श्रुतसेनस्य दायादो भीमसेनोऽपि नामतः ॥२२४॥

जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम् ।
सुरथस्य तु दायादो वीरो राजा विदूरथः ॥२२५॥

विदूरथसुतश्चापि सार्वभौम इति श्रुतिः ।
सार्वभौमा ज्जयत्सेन आराधिस्तस्य चात्मजः ॥२२६॥

आराधितो महासत्त्व अयुतायुस्ततः स्मृतः  ।
अक्रोधनोऽयुतायोऽस्तु तस्माद्देवातिथिः स्मृतः ॥२२७॥

देवातिथेस्तु दायाद ऋक्ष एव बभूव ह ।
भीमसेनस्तथा ऋक्षाद्दिलीपस्तस्य चात्मजः ॥२२८॥

दिलीपसूनुः प्रतिपस्तस्य पुत्रास्त्रयः स्मृताः ।
देवापिः शन्तनुश्चैव बाह्लीकश्चैव ते त्रयः ॥२२९॥

बाह्लीकस्य तु विज्ञेयः सप्तबाह्लीश्वरो नृपः ।
बाह्लीकस्य सुतश्चैव सोमदत्तो महायशाः ॥२३०॥

जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः  ।
देवापिस्तु प्रवव्राज वनं धर्म्मपरीप्सया ॥२३१॥

उपाध्यायस्तु देवानां देवापिरभवन्मुनिः ।
च्यवनोऽस्य हि पुत्रस्तु इष्टकश्च महात्मनः ॥२३२॥

शन्तनुस्त्वभवद्राजा विद्वान् वै स महाभिषः  ।
इमं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषम् ॥२३३॥

यं यं राजा स्पृशति वै जीर्णं समयतो नरम् ।
पुनर्युवा स भवति तस्मात्ते शन्तनुं विदुः ॥२३४॥

ततोऽस्य शन्तनुत्वं वै प्रजास्विह परिश्रुतम् ।
स उपयेमे धर्म्मात्मा शन्तनु र्जाह्नवीं नृपः ॥२३५॥

तस्यां देवव्रतं भीष्मं पुत्रं सोऽजनयत्प्रभुः  ।
स च भीष्म इति ख्यातः पाण्डवानां पितामहः ॥२३६॥

काले विचित्रवीर्यन्तु शन्तनु र्जनयत्सुतम् ।
शन्तनोर्दयितं पुत्रं प्रजाहितकरम्प्रभुम् ।
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ॥२३७॥

धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् ।
धृतराष्ट्रात्तु गान्धारी पुत्राणां सुषुवे शतम् ॥२३८॥

तेषां दुर्योधनो ज्येष्ठः सर्व्वक्षत्रस्य स प्रभुः ।
माद्री राज्ञी पृथा चैव पाण्डोर्भार्ये बभूवतुः ॥२३९॥

देवदत्ताः सुतास्ताभ्यां पाण्डोरर्थे विजज्ञिरे ।
धर्म्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः ॥२४०॥

इन्द्राद्धनञ्जयो जज्ञे शक्रतुल्यपराक्रमः ।
अश्विभ्यां सह देवश्च नकुलश्चापि माद्रिजौ ॥२४१॥

पञ्चैव पाण्डवेभ्यश्च द्रौपद्यां जज्ञिरे सुताः ।
द्रौपद्यजनयज्ज्येष्ठं श्रुतिविद्धं युधिष्ठिरात् ॥२४२॥

हिडम्बा भीमसेनात्तु जज्ञे पुत्रं घटोत्कचम् ।
काश्याः पुनर्भीमसेनाज्जज्ञे सर्व्ववृकं सुतम् ॥२४३॥

सुहोत्रं विजया माद्री सहदेवादजायत ।
करेमत्यान्तु वैद्यायां निरमित्रस्तु लाङ्गलिः ॥२४४॥

सुभद्रायां रथी पार्थादभिमन्युरजायत ।
उत्तरायान्तु वैराट्यां परिक्षिदभिमन्युजः ॥२४५॥

परिक्षितस्तु दायादो राजासीज्जनमेजयः ।
ब्राह्मणान् स्थापयामास स वै वाजसनेयिकान् ॥२४६॥

असपत्नं तदामर्षाद्वैशम्पायन एव तु ।
न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि ॥२४७॥

यावत्स्था स्याम्यहं लोके तावन्नैतत्प्रशस्यते ।
अभितः संस्थितश्चापि ततः स जनमेजयः ॥२४८॥

पौर्णमास्येन हविषा देवमिष्ट्वा प्रजापतिम् ।
विज्ञाय संस्थितोऽपश्यत्तद्वधीष्टां विभोर्मखे ॥२४९॥

परिक्षित्तनयश्वापि पौरवो जनमेजयः  ।
द्विरश्वमेधमाहृत्य ततो वाजसनेयकम्  ।
प्रवर्त्तयित्वा तद्ब्रह्म त्रिखर्व्वी जनमेजयः ॥२५०॥

खर्व्वमश्वकमुख्यानां खर्व्वमङ्गनिवासिनाम् ।
सर्व्वञ्च मध्यदेशानां त्रिखर्व्वी जनमेजयः  ।
विषादाद्ब्राह्मणैः सार्द्धमभिशस्तः क्षयं ययौ ॥२५१॥

तस्य पुत्रः शतनीको बलवान् सत्यविक्रमः  ।
ततः सुतं शतानीकं विप्रास्तमभ्यषेचयत् ॥२५२॥

पुत्रोऽश्वमेध दत्तोऽभूच्छतानीकस्य वीर्य्यवान् ।
पुत्रोऽश्वमेधदत्ताद्वै जातः परपुरंजयः ॥२५३॥

अधिसामकृष्णो धर्मात्मा साम्प्रतोऽयं महायशाः ।
यस्मिन् प्रशासति महीं युष्माभिरिदमाहृतम् ॥२५४॥

दुरापं दीर्घसत्रं वै त्रीणि वर्षाणि दुश्चरम् ।
वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ॥२५५॥

॥ऋषय ऊचुः॥

श्रोतुं भविष्यमिच्छामः प्रजानां वै महामते  ।
॥सूत सार्द्धं नृपैर्भाव्यं व्यतीतं कीर्त्तितं त्वया ॥२५६॥

यत्तु संस्थास्यते कृत्यमुत्पत्स्यन्ति चे ये नृपाः ।
वर्षाग्रतोऽपि प्रब्रूहि नामतश्चैव तान्नृपान् ॥२५७॥

कालं युगप्रमाणञ्च गुणदोषान् भविष्यतः ।
सुखदुःखे प्रजानाञ्च धर्मतः कामतोऽर्थतः ॥२५८॥

एतत्सर्वं प्रसङ्ख्याय पृच्छतां ब्रूहि तत्वतः ।
स एवमुक्तो मुनिभिः॥सूतो बुद्धिमतां वरः ।
आचचक्षे यथावृत्तं यथादृष्टं यथाश्रुतम् ॥२५९॥

॥सूत उवाच॥
यथा मे कीर्त्तितं सर्वं व्यासेनाद्भुतकर्म्मणा ।
भाव्यं कलियुगञ्चैव तथा मन्वन्तराणि तु ॥२६०॥

अनागतानि सर्वाणि ब्रुवतो मे निबोधत ।
अत ऊर्द्ध्वं प्रवक्ष्यामि भविष्यन्ति वृपास्तु ये ॥२६१॥

ऐलांश्चैव तथेक्ष्वाकून् सौद्युम्नांश्चैव पार्थिवान् ।
येषु संस्थाप्यते क्षेत्रणैक्ष्वाकवमिदं शुभम् ॥२६२॥

तान् सर्वान् कीर्त्तयिष्यामि भविष्ये पठितान्नृपान् ।
तेभ्यः परे च ये चान्ये उत्पत्स्यन्ते महीक्षितः ॥२६३॥

क्षत्राः पारशवाः शूद्रास्तथा ये च द्विजातयः ।
अन्धाः शकाः पुलिन्दाश्च तूलिका यवनैः सह ॥२६४॥

कैवर्त्ताभीरशबरा ये चान्ये म्लेच्छजातयः ।
वर्षाग्रतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ॥२६५॥

अधिसामकृष्णः सोऽयं साम्प्रतं पौरवान्नृपः ।
तस्यान्ववाये वक्ष्यामि भविष्ये तावतो नृपान् ॥२६६॥

अधिसामकृष्णपुत्रो निर्वक्रे भविता किल ।
गङ्गयापहृते तस्मिन्नगरे नागसाह्वये ।
त्यक्त्वा च तं सुवासञ्च कौशाम्ब्यां स निवत्स्यति ॥२६७॥

भविष्यदुष्णस्तत्पुत्र उष्णाच्चित्ररथः स्मृतः ।
शुचिद्रथश्चित्ररथाद्‌वृतिमांश्च शुचिद्रथात् ॥२६८॥

सुषेणो वै महावीर्यो भविष्यति महायशाः ।
तस्मात्सुषेणाद्भविता सुतीर्थो नाम पार्थिवः ॥२६९॥

रुचः सुतीर्थाद्भविता त्रिचक्षो भविता ततः ।
त्रिचक्षस्य तु दायादो भविता वै सुखीबलः ॥२७०॥

सुखीबलसुतश्चापि भाव्यो राजा परिप्लुतः ।
परिप्लुतसुतश्चापि भविता सुनयो नृपः ॥२७१॥

मेधावी सुनयस्याथ भविष्यति नराधिपः ।
मेधाविनः सुतश्चापि दण्डपाणिर्भविष्यति ॥२७२॥

दण्डपाणेर्निरामित्रे निरामित्राच्च क्षेमकः ।
पञ्चविंशनृपा ह्येते भविष्याः पूर्ववंशजाः ॥२७३॥

अत्रानुवंशश्लोकोऽयं गीतो विप्रैः पुराविदैः ।
ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ॥२७४॥

क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
इत्येष पौरवो वंशो यथावदनुकीर्त्तितः ॥२७५॥

धीमतः पाण्डुपुत्रस्य ह्यर्जुनस्य महात्मनः ।
अत ऊर्द्ध्वं प्रवक्ष्यामि इक्ष्वाकूणां महात्मनाम् ॥२७६॥

बृहद्रथस्य दायादो वीरो राजा बृहत्क्षयः  ।
ततः क्षयः सुतस्तस्य वत्सव्यूहस्ततः क्षयात् ॥२७७॥

वत्सव्यूहात्प्रतिव्यूहस्तस्य पुत्रो दिवाकरः ।
यश्च सांप्रतमध्यास्त अयोध्यां नगरीं नृपः ॥२७८॥

दिवाकरस्य भविता सहदेवो महायशाः ।
सहदेवस्य दायादो बृहदश्वो भविष्यति ॥२७९॥

तस्य भानुरथो भाव्यः प्रतीताश्वश्च तत्सुतः ।
प्रतीताश्वसुतश्चापि सुप्रतीतो भविष्यति ॥२८०॥

सहदेवः सुतस्तस्य सुनक्षत्रश्च तत्सुतः ॥२८१॥

किन्नरस्तु सुनक्षत्राद्भविष्यति परंतपः ।
भविता चान्तरिक्षस्तु किन्नरस्य सुतो महान् ॥२८२॥

अन्तरिक्षात्सुपर्णस्तु सुपर्णाच्चाप्यमित्रजित् ।
पुत्रस्तस्य भरद्वाजो धर्मी तस्य सुतः स्मृतः ।
पुत्रः कृतञ्जयो नाम धर्मिणः स भविष्यति ।
कृतञ्जयसुतो व्रातो तस्य पुत्रो रणञ्जयः ॥२८३॥

भविता सञ्जयश्चापि वीरो राजा रणञ्जयात् ।
सञ्जयस्य सुतः शाक्यः शाक्याच्छुद्धोदनोऽभवत् ॥२८४॥

शुद्धोदनस्य भविता शाक्यार्थे राहुलः स्मृतः ।
प्रसेनजित्ततो भाव्यः क्षुद्रको भविता ततः ॥२८५॥

क्षुद्रकात्क्षुलिको भाव्यः क्षुलिकात्सुरथः स्मृतः ।
सुमित्रः सुरथस्यापि अन्त्यश्च भविता नृपः ॥२८६॥

एते ऐक्ष्वाकवाः प्रोक्ता भवितारः कलौ युगे ।
बृहद्बलान्वये जाता भवितारः कलौ युगे ।
शूराश्च कृतविद्याश्च सत्यसन्धा जितेन्द्रियाः ॥२८७॥

अत्रानुवंशश्लोकोऽयं भविष्यज्ञैरुदाहृतः ।
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ।
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
इत्येतन्मानवं क्षेत्रमैलञ्च समुदाहृतम् ॥२८८॥

अत ऊर्द्ध्वं प्रवक्ष्यामि मागधेयान्बृहद्रथान् ।
जरासन्धस्य ये वंशे सहदेवान्वये नृपाः ॥२८९॥

अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः ।
प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ॥२९०॥

संग्रामे भारते तस्मिन् सहदेवो निपातितः ।
सोमाधिस्तस्य तनयो राजर्षिः सगिरिव्रजे ॥२९१॥

पञ्चाशतं तथाष्टौ च समा राज्यमकारयत् ।
श्रुतश्रवाः चतुःषष्टिसमास्तस्य सुतोऽभवत् ।
अयुतायुस्तु षड्विंशं राज्यं वर्षाण्यकारयत् ।
समाः शतं निरामित्रो महीं भुक्त्वा दिवङ्गतः ॥२९२॥

पञ्चाशतं समाः षट् च सुकृत्तः प्राप्तवान्महीम् ।
त्रयोविंशं बृहत्कर्मा राज्यं वर्षाण्यकारयत् ॥२९३॥

सेनाजित्साम्प्रतं चापि एतां वै भुज्यते समाः ।
श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति ॥२९४॥

महाबाहुर्महाबुद्धिर्महाभीमपराक्रमः ।
पञ्चत्रिंशत्तु वर्षाणि महीं पालयिता नृपः ॥२९५॥

अष्टपञ्चा शतं चाब्दान् राज्ये स्थास्यति वै शुचिः ।
अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ॥२९६॥

भुवतस्तु चतुःषष्टीराज्यं प्राप्स्यति वीर्य्यवान् ।
पञ्चवर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ॥२९७॥

भोक्ष्यते नृपतिश्चैव ह्यष्टपञ्चाशतं समाः ।
अष्टात्रिंशत्समा राज्यं सुव्रतस्य भविष्यति ॥२९८॥

चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति ।
त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ॥२९९॥

द्वाविंशतिसमा राज्यं सुचलो भोक्ष्यते ततः ।
चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ॥३००॥

सत्यजित्पृथिवीराज्यं त्र्यशीतिं भोक्ष्यते समाः ।
प्राप्येमां वीरजिच्चापि पञ्चत्रिंशद्भविष्यति ॥३०१॥

अरीञ्जयस्तु वर्षाणि पञ्चाशत्प्राप्स्यते महीम् ।
द्वात्रिंशच्च नृपा ह्येते भवितारो बृहद्रथाः ॥३०२॥

पूर्णं वर्षसहस्रं वै तेषां राज्यं भविष्यति ।
बृहद्रथेष्वतीतेषु वीतहोत्रेषु वर्तिषु ॥३०३॥

मुनिकः स्वामिनं हत्वा पुत्रं समभिषेक्ष्यति ।
मिषतां क्षत्रियाणां हि प्रद्योतो मुनिको बलात् ॥३०४॥

स वै प्रणतसामन्तो भविष्ये नयवर्ज्जितः  ।
त्रयोविंशत्समा राजा भविता स नरोत्तमः ॥३०५॥

चतुर्विंशत्समा राजा पालको भविता ततः ।
विशाखयूपो भविता नृपः पञ्चाशतीं समाः ॥३०६॥

एकत्रिंशत्समा राज्यमजकस्य भविष्यति ।
भविष्यति समा विंशत्तत्सुतो वर्त्तिवर्द्धनः ॥३०७॥

अष्टात्रिंशच्छतं भाव्याः प्राद्योताः पञ्च ते सुताः ।
हत्वा तेषां यशः कृत्स्नं शिशुनाको भविष्यति ॥३०८॥

वाराणस्यां सुतस्तस्य संप्राप्स्यति गिरिव्रजम् ।
शिशुनाकस्य वर्षाणि चत्वारिंशद्भविष्यति ॥३०९॥

शकवर्णः सुतस्तस्य षट्‌त्रिंशच्च भविष्यति ।
ततस्तु विंशतिं राजा क्षेमवर्मा भविष्यति ॥३१०॥

अजातशत्रूर्भविता पञ्चविंशत्समा नृपः ।
चत्वारिंशत्समा राज्यं क्षत्रौजाः प्राप्स्यते ततः ॥३११॥

अष्टाविंशत्समा राजा विविसारो भविष्यति ।
पञ्चविंशत्समा राजा दर्शकस्तु भविष्यति ॥३१२॥

उदायी भविता तस्मात्त्रयस्त्रिंशत्समा नृपः ।
स वै पुरवरं राजा पृथिव्यां कुसुमाह्वयम् ।
गङ्गाया दक्षिणे कूले चतुर्थेऽब्दे करिष्यति ॥३१३॥

द्वाचत्वारिंशत्समा भाव्यो राजा वै नन्दिवर्द्धनः ।
चत्वारिंशत्त्रयञ्चैव महा नन्दी भविष्यति ॥३१४॥

इत्येते भवितारौ वै शैशुनाका नृपा दश ।
अतानि त्रीणि वर्षाणि द्विषष्ट्यभ्यधिकानि तु ॥३१५॥

शैशुनाका भविष्यन्ति तावत्कालं नृपाः परे ।
एतैः सार्द्धं भविष्यंति राजानः क्षत्रबान्धवाः ॥३१६॥

ऐक्ष्वाकवाश्चतुर्विंशत्पाञ्चालाः पञ्चविंशतिः ।
कालकास्तु चतुर्व्विंशच्चतुर्व्विंशत्तु हैहयाः ॥३१७॥

द्वात्रिंशद्वै कलिङ्गास्तु पञ्चविंशत्तथा शकाः ।
कुरवश्चापि षड्विंशदष्टाविंशति मैथिलाः ॥३१८॥

शूरसे नास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः ।
तुल्यकालं भविष्यन्ति सर्व एव महीक्षितः ॥३१९॥

महानन्दिसुतश्चापि शूद्रायां कालसंवृतः ।
उत्पत्स्यते महापद्मः सर्वक्षत्रान्तरे नृपः ॥३२०॥

ततःप्रभृति राजानो भविष्याः शूद्रयोनयः ।
एकराट् स महापद्म एकच्छत्रो भविष्यति ॥३२१॥

अष्टा विंशतिवर्षाणि पृथिवीं पालयिष्यति ।
सर्वक्षत्रहृतोद्धृत्य भाविनोऽर्थस्य वै बलात् ॥३२२॥

सहस्रास्तत्सुता ह्यष्टौ समा द्वादश ते नृपाः॥
महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात् ॥३२३॥

उद्धरिष्यति तान् सर्वान् कौटिल्यो वै द्विरष्टभिः ।
भुक्त्वा महीं वर्षशतं नन्देन्दुः स भविष्यति ॥३२४॥

चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति ।
चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ॥३२५॥

भविता भद्र सारस्तु पञ्चविंशत्समा नृपः ।
षड्विंशत्तु समा राजा ह्यशोको भविता नृषु ॥३२६॥

तस्य पुत्रः कुनालस्तु वर्षाण्यष्टौ भविष्यति ।
कुनाल सूनुरष्टौ च भोक्ता वै बन्धुपालितः ॥३२७॥

बन्धुपालितदायादो दशमानीन्द्रपालितः ।
भविता सप्तवर्षाणि देववर्म्मा नराधिपः ॥३२८॥

राजा शतधरश्चाष्टौ तस्य पुत्रो भविष्यति ।
बृहदश्वश्च वर्षाणि सप्त वै भविता नृपः ॥३२९॥

इत्येते नव भूपा ये भोक्ष्यन्ति च वसुन्धराम् ।
सप्तत्रिंशच्छतं पूर्णं तेभ्यस्तु गौर्भविष्यति ॥३३०॥

पुष्पमित्रस्तु सेनानीरुद्धृत्य वै बृहद्रथम् ।
कारयिष्यति वै राज्यं समाः षष्टिं सदैव तु ॥३३१॥

पुष्पमित्रसुताश्चाष्टौ भविष्यन्ति समा नृपाः ।
भविता चापि तज्ज्येष्ठः सप्तवर्षाणि वै ततः ॥३३२॥

वसुमित्रः सुतो भाव्यो दशवर्षाणि पार्थिवः ।
ततो ध्रुकः समा द्वे तु भविष्यति सुतश्च वै ॥३३३॥

भविष्यन्ति समास्तस्मात्तिस्र एव पुलिन्दकाः ।
राजा घोषसुतश्चापि वर्षाणि भविता त्रयः ॥३३४॥

ततो वै विक्रमित्रस्तु समा राजा ततः पुनः ।
द्वात्रिंशद्भविता चापि समा भागवतो नृपः ॥३३५॥

भविष्यति सुतस्तस्य क्षेमभूमिः समा दश ।
दशैते तुङ्गराजानो भोक्ष्यन्तीमां वसुन्धरम् ॥३३६॥

शतं पूर्णं दश द्वे च तेभ्यः किं वा गमिष्यति ।
अपार्थिवसुदेवन्तु बाल्याद्व्यसनिनं नृपम् ॥३३७॥

देवभूमिस्ततोऽन्यश्च श्रृङ्गेषु भविता नृपः ।
भविष्यति समा राजा नव कण्ठायनस्तु सः ॥३३८॥

भूतिमित्रः सुतस्तस्य चतुर्व्विंशद्भविष्यति ।
भविता द्वादश समास्तस्मान्नारायणो नृपः ॥३३९॥

सुशर्म्मा तत्सुतश्चापि भविष्यति समा दश ।
चतुरस्तुङ्गकृत्यास्ते नृपाः कण्ठायना द्विजाः ॥३४०॥

भाव्याः प्रणतसामन्ताश्चत्वारिंशच्च पञ्च च ।
तेषां पर्य्यायकाले तु तरन्धा तु भविष्यति ॥३४१॥

कण्ठायनमथोद्धृत्य सुशर्म्माणं प्रसह्य तम् ।
श्रृङ्गाणां चापि यच्छिष्टं क्षययित्वा बलं तदा ।
सिन्धुको ह्यन्ध्रजातीयः प्राप्स्यतीमां वसुन्धराम् ॥३४२॥

त्रयोविंशत्समा राजा सिन्धुको भविता त्वथ ।
अष्टौ भातश्च वर्षाणि तस्माद्दश भविष्यति ॥३४३॥

श्रीसातकर्णिर्भविता तस्य पुत्रस्तु वै महान् ।
पञ्चाशतं समाः षट् च सातकर्णिर्भविष्यति ॥३४४॥

आपादबद्धो दश वै तस्य पुत्रो भविष्यति ।
चतुर्व्विंशत्तु वर्षाणि षट् समा वै भविष्यति ॥३४५॥

भविता नेमिकृष्णस्तु वर्षाणां पञ्चविंशतिम् ।
ततः संवत्सरं पूर्णं हालो राजा भविष्यति ॥३४६॥

पञ्च सप्तक राजानो भविष्यन्ति महाबलाः ।
भाव्यः पुत्रिकषेणस्तु समाः सोऽप्येकविंशतिम् ॥३४७॥

सातकर्णिर्वर्षमेकं भविष्यति नराधिपः ।
अष्टाविंशत्तु वर्षाणि शिवस्वामी भविष्यति ॥३४८॥

राजा च गौतमीपुत्र एकविंशत्समा नृषु ।
एकोनविंशतिं राजा यज्ञश्रीः सातकर्ण्यथ ॥३४९॥

षडेव भविता तस्माद्विजयस्तु समा नृपः ।
दण्डश्रीः सातकर्णी च तस्य पुत्रः समास्त्रयः ॥३५०॥

पुलोवापि समाः सप्त अन्येषाञ्च भविष्यति  ।
इत्येते वै नृपास्त्रिंशदन्ध्रा भोक्ष्यन्ति ये महीम् ॥३५१॥

समाः शतानि चत्वारि पञ्च षड्वै तथैव च ।
अन्ध्राणां संस्थिताः पञ्च तेषां वंशाः समाः पुनः ॥३५२॥

सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः ।
सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः ॥३५३॥

यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश ।
त्रयोदश मरुण्डाश्च मौना ह्यष्टादशैव तु ॥३५४॥

अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतं च वै ।
शतानि त्रीण्यशीतिञ्च भोक्ष्यन्ति वसुधां शकाः ॥३५५॥

अशीतिञ्चैव वर्षाणि भोक्तारो यवना महीम् ।
पञ्चवर्षशतानीह तुषाराणां मही स्मृता ॥३५६॥

शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश ।
मरुण्डा वृषलैः सार्द्धं भाव्यान्या म्लेच्छजातयः ॥३५७॥

शतानि त्रीणि भोक्ष्यन्ति म्लेच्छा एकादशैव तु ।
तच्छन्नेन च कालेन ततः कोलिकिला वृषाः ॥३५८॥

ततः कोलिकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति ।
समाः षण्णवतिं त्रात्वा पृथिवीं च समेष्यति ॥३५९॥

वृषान् वै दिशकांश्चापि भविष्याश्च निबोधत ।
शेषस्य नागराजस्य पुत्रः स्वरपुरञ्जयः ॥३६०॥

भोगी भविष्यते राजा नृपो नागकुलोद्वहः ।
सदाचन्द्रस्तु चन्द्रांशो द्वितीयो नखवांस्तथा ॥३६१॥

धनधर्मा ततश्चापि चतुर्थो विंशजः स्मृतः ।
भूतिनन्दस्ततश्चापि वैदेशे तु भविष्यति ॥३६२॥

अङ्गानां नन्दनस्यान्ते मधुनन्दिर्भविष्यति ।
तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल ॥३६३॥

तस्यान्वये भविष्यन्ति राजानस्ते त्रयस्तु वै ।
दोहित्रः शिशुको नाम पुरिकायां नृपोऽभवत् ॥३६४॥

विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान्  ।
भोक्ष्यन्ति च समाः षष्टिं पुरीं काञ्चनकाञ्च वै ॥३६५॥

यक्ष्यन्ति वाजपेयैश्च समाप्तवरदक्षिणैः ।
तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ॥३६६॥

विन्ध्यकानां कुलेऽतीते नृपा वै बाह्लिका स्त्रयः ।
सुप्रतीको नभीरस्तु समा भोक्ष्यति त्रिंशतिम् ॥३६७॥

शक्यमा नाम वै राजा माहिषीनां महीपतिः ।
पुष्पमित्रा भविष्यन्ति पट्टमित्रास्त्रयोदश ॥३६८॥

मेकलायां नृपाः सप्त भविष्यन्ति च सत्तमाः ।
कोमलायान्तु राजानो भविष्यन्ति महाबलाः ॥३६९॥

मेघा इति समाख्याता बुद्धिमन्तो नवैव तु ।
नैषधाः पार्थिवाः सर्व्वे भविष्यन्त्यामनुक्षयात् ॥३७०॥

नलवंशप्र॥सूतास्ते वीर्यवन्तो महाबलाः ।
मागधानां महावीर्यो विश्वस्फानिर्भविष्यति ॥३७१॥

उत्साद्य पार्थिवान् सर्व्वान्सोऽन्यान् वर्णान् करिष्यति ।
कैवर्त्तान् पञ्चकांश्चैव पुलिन्दान् ब्राह्मणांस्तथा ॥३७२॥

स्थापयिष्यन्ति राजानो नानादेशेषु तेजसा ।
विश्वस्फानिर्महासत्त्वो युद्धे विष्णुसमो बली ॥३७३॥

विश्वस्फानिर्नरपतिः क्लीबा कृतिरिवोच्यते ।
उत्सादयित्वा क्षत्रन्तु क्षत्रमन्यत् करिष्यति ॥३७४॥

देवान् पितॄंश्च विप्रांश्च तर्पयित्वा सकृत्पुनः ।
जाह्नवीतीरमासाद्य शरीरं यस्यते बली ॥३७५॥

संन्यस्य स्वशरीरन्तु शक्रलोकं गमिष्यति ।
नवनाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ॥३७६॥

मथुराञ्च पुरीं रम्यां नागा भोक्ष्यन्ति सप्त वै ।
अनुगङ्गं प्रयागञ्च साकेतं मगधांस्तथा ।
एताञ्जनपदान् सर्व्वान् भोक्ष्यन्ते गुप्तवंशजाः ॥३७७॥

निषधान् यदुकांश्चैव शैशी तान् कालतोपकान् ।
एताञ्जनपदान् सर्व्वान् भोक्ष्यन्ति मणिधान्यजाः ॥३७८॥

कोशलांश्चान्ध्रपौण्ड्रांश्च ताम्रलिप्तान् ससागरान् ।
चम्पां चैव पुरीं रम्यां भोक्ष्यन्ति देवरक्षिताम् ॥३७९॥

कालिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये ।
एताञ्जनपदान् सर्व्वान् पालयिष्यति वै गुहः ॥३८०॥

स्त्रीराष्ट्रं भक्ष्यकांश्चैव भोक्ष्यते कनकाह्वयः ।
तुल्यकालं भविष्यन्ति सर्वे ह्येते महीक्षितः ॥३८१॥

अल्पप्रसादा ह्यनृता महाक्रोधाः ह्यधार्मिकाः ।
भविष्यन्तीह यवना धर्मतः कामतोऽर्थतः ॥३८२॥

नैव मूर्द्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः ।
युगदोषदुराचारा भविष्यन्ति नृपास्तु ते ॥३८३॥

स्त्रीणां बलवधेनैव हत्वा चैव परस्परम् ।
भोक्ष्यन्ति कलिशेषे तु वसुधां पार्थिवास्तथा ॥३८४॥

उदितोदितवंशास्ते उदितास्तमितास्तथा  ।
भविष्यन्तीह पर्याये कालेन पृथिवीक्षितः ॥३८५॥

विहीनास्तु भविष्यन्ति धर्म्मतः कामतोऽर्थतः ।
तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ॥३८६॥

विपर्य्ययेन वर्त्तन्ते नाशयिष्यन्ति वै प्रजाः ।
लुब्धानृतरताश्चैव भवितारस्तदा नृपाः ॥३८७॥

तेषां व्यतीते पर्याये बहुस्त्रीके युगे तदा ।
लवाल्लवं भ्रश्यमाना आयूरूपबलश्रुतैः ॥३८८॥

तथा गतास्तु वै काष्ठां प्रजासु जगतीश्वराः  ।
राजानः सम्प्रणश्यन्ति कालेनोपहतास्तदा ॥३८९॥

कल्किनोपहताः सर्वे म्लेच्छा यास्यन्ति सर्वशः ।
अधार्मिकाश्च तेऽत्यर्थं पाषण्डाश्चैव सर्वशः ॥३९०॥

प्रनष्टे नृपशब्दे च सन्ध्याश्लिष्टे कलौ युगे ।
किंञ्चिच्छिष्टाः प्रजास्ता वै धर्म्मे नष्टेऽपरिग्रहाः ॥३९१॥

असाधना हताश्वासा व्याधिशोकेन पीडिताः ।
अनावृष्टिहताश्चैव परस्परवधेन च ॥३९२॥

अनाथा हि परित्रस्ता वार्त्तामुत्सृज्य दुःखिताः ।
त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ॥३९३॥

एवं नृपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु ।
नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनाः ॥३९४॥

वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः ।
सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ॥३९५॥

सरितः सागरानूपान् सेवन्ते पर्वतानि च ।
अङ्गान् कलिङ्गान् वङ्गांश्च काश्मीरान् काशिकोशलान् ॥३९६॥

ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ।
कृत्स्नं हिमवतः पृष्ठं कूलं च लवणाम्भसः ॥३९७॥

अरण्यान्यभिपत्स्यन्ति ह्यार्य्या म्लेच्छजनैः सह ।
मृगैर्मीनैर्विहङ्गैश्च श्वापदैस्तक्षुभिस्तथा ।
मधुशाकफलैर्मूलैर्वर्त्तयिष्यन्ति मानवाः ॥३९८॥

चीरं पर्णञ्च विविधं वल्कलान्यजिनानि च ।
स्वयं कृत्वा विवत्स्यन्ति यथा मुनिजनास्तथा ॥३९९॥

बीजान्नानि तथा निम्नेस्वीहन्तः काष्ठशङ्कुभिः ।
अजैडकं खरोष्ट्रञ्च पालयिष्यन्ति यत्नतः ॥४००॥

नदीर्वत्स्यन्ति तोयार्थे कूलमाश्रित्य मानवाः ।
पार्थिवान् व्यवहारेण विबाधन्तः परस्परम् ॥४०१॥

बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः ।
एवं भविष्यन्ति नरास्तदाधर्म्मे व्यवस्थिताः ॥४०२॥

हीनाद्धीनांस्तथा धर्म्मान् प्रजाः समनुवर्त्तते ।
आयुस्तदा त्रयोविंशं न कश्चिदतिवर्त्तते ॥४०३॥

दुर्बला विषयग्लाना जरया संपरिप्लुताः ।
पत्रमूलफलाहाराश्चीरकृष्णाजिनाम्बराः ॥४०४॥

वृत्त्यर्थमभिलिप्सन्तश्चरिष्यन्ति वसुन्धराम् ।
एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके ॥४०५॥

क्षीणे कलियुगे तस्मिन् दिव्ये वर्षसहस्रके ।
निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु ।
ससन्ध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ॥४०६॥

यदा चन्द्रश्च सूर्य्यश्च तथा तिष्यबृहस्पती ।
एकरात्रे भरिष्यन्ति तदा कृतयुगं भवेत् ॥४०७॥

एष वंशक्रमः कृत्स्नं कीर्तितो वो यथाक्रमम् ।
अतीता वर्त्तमानाश्च तथैवानागताश्च ये ॥४०८॥

महादेवाभिषेकात्तु जन्म यावत्परिक्षितः ।
एतद्वर्षसहस्रन्तु ज्ञेयं पञ्चादशदुत्तरम् ॥४०९॥

प्रमाणं वै तथा चोक्तं महापद्मान्तरं च यत् ।
अन्तरं तच्छतान्यष्टौ षट्‌त्रिंशच्च समाः स्मृताः ॥४१०॥

एतत्कालान्तरं भाव्या अन्ध्रान्ता ये प्रकीर्त्तिताः ।
भविष्यैस्तत्र सङ्ख्याताः पुराणज्ञैः श्रुतर्षिभिः ॥४११॥

सप्तर्षयस्तदा प्राहुः प्रतीपे राज्ञि वै शतम् ।
सप्तविंशैः शतैर्भाव्या अन्ध्राणां ते त्वया पुनः ॥४१२॥

सप्तविंशतिपर्य्यन्ते कृत्स्ने नक्षत्रमण्डले ।
सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम् ।
सप्तर्षीणां युगं ह्येतद्दिव्यया सङ्ख्यया स्मृतम् ॥४१३॥

सा सा दिव्या स्मृता षष्टिर्दिव्याह्नाश्चैव सप्तभिः  ।
तेभ्यः प्रवर्त्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ॥४१४॥

सप्तर्षीणान्तु ये पूर्वा दृश्यन्ते उत्तरादिशि ।
ततो मध्येन च क्षेत्रं दृश्यते यत्समं दिवि ॥४१५॥

तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः ।
नक्षत्राणामृषीणाञ्च योगस्यैतन्निदर्शनम् ॥४१६॥

सप्तर्षयो मघायुक्ताः काले पारिक्षिते शतम् ।
अन्ध्रांशे स चतुर्व्विशे भविष्यन्ति मते मम ॥४१७॥

इमास्तदा तु प्रकृतिर्व्यापत्स्यन्ति प्रजा भृशम् ।
अनृतोपहताः सर्वा धर्मतः कामतोऽर्थतः ॥४१८॥

श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा ।
शङ्करं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहिताः ॥४१९॥

संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः ।
ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ॥४२०॥

उपस्थास्यन्ति तान् विप्रास्तदा वै वृत्तिलिप्सवः  ।
लवं लवं भ्रस्यमानाः प्रजाः सर्वाः क्रमेण तु ॥४२१॥

क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये ।
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा दिने ॥४२२॥

प्रतिपन्नः कलियुगस्तस्य सङ्ख्यां निबोधत ।
सहस्राणां शतानीह त्रीणि मानुषसङ्ख्यया ।
षष्टिं चैव सहस्राणि वर्षाणामुच्यते कलिः ॥४२३॥

दिव्ये वर्षसहस्रन्तु तत्सन्ध्यांशं प्रकीर्त्तितम् ।
निःशेषे च तदा तस्मिन् कृतं वै प्रतिपत्स्यते ॥४२४॥

ऐल इक्ष्वाकुवंशश्च सह भेदैः प्रकीर्त्तितौ ।
इक्ष्वाकोस्तु स्मृतः क्षत्रः सुमित्रान्तं विवस्वतः ॥४२५॥

ऐलं क्षत्रं क्षेमकान्तं सोमवंशविदो विदुः ।
एते विवस्वतः पुत्राः कीर्त्तिताः कीर्त्तिवर्द्धनाः ॥४२६॥

अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्वये स्मृताः ॥४२७॥

युगे युगे महात्मानः समतीताः सहस्रशः ।
बहुत्वान्नामधेयानां परिसंख्या कुले कुले ॥४२८॥

पुनरुक्ता बहुत्वाच्च न मया परिकीर्त्तिता ।
वैवस्वतेऽन्तरे ह्यस्मिन् निमिवंशः समाप्यते ॥४२९॥

एवायान्तु युगाख्यायां यतः क्षत्रं प्रपत्स्यते  ।
तथा हि कथयिष्यामि गदतो मे निबोधत ॥४३०॥

देवापिः पौरवो राजा इक्ष्वाकोश्चैव यो मतः ।
महायोगबलोपेतः कलापग्राममास्थितः ॥४३१॥

सुवर्च्चाः सोमपुत्रस्तु इक्ष्वाकोस्तु भविष्यति ।
एतौ क्षत्रप्रणेतारौ चतुर्विंशे चतुर्युगे ॥४३२॥

न च विंशे युगे सोमवंशस्यादिर्भविष्यति ।
देवापिरसपत्नस्तु ऐलादिर्भविता नृपः ॥४३३॥

क्षत्रप्रापर्त्तकौ ह्येतौ भविष्येते चतुर्युगे ।
एवं सर्वत्र विज्ञेयं सन्तानार्थे तु लक्षणम् ॥४३४॥

क्षीणे कलियुगे तस्मिन् भविष्ये तु कृते युगे ।
सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः ॥४३५॥

गोत्राणां क्षत्रियाणाञ्च भविष्येते प्रवर्त्तकौ ।
द्वापरांशे न तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥४३६॥

काले कृतयुगे चैव क्षीणे त्रेतायुगे पुनः ।
बीजार्थन्ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥४३७॥

एवमेव तु सर्वेषु तिष्ठन्तीहान्तरेषु वै  ।
सप्तर्षयो नृपैः सार्द्धं सन्तानार्थं युगे युगे ॥४३८॥

क्षत्रस्यैव समुच्छेदः सम्बन्धो वै द्विजैः स्मृतः ।
मन्वन्तराणां सप्तानां सन्तानाश्च श्रुताश्च ते ॥४३९॥

परम्परा युगानाञ्च ब्रह्मक्षत्रस्य चोद्भवः ।
यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥४४०॥

सप्तर्षयो विदुस्तेषां दीर्घायुष्ट्वाक्षयन्तु ते ।
एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः ॥४४१॥

उत्पद्यमानास्त्रेतायां क्षीयमाणे कलौ पुनः ।
अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः ॥४४२॥

जामदग्न्येन रामेण क्षत्रे निरवशेषिते ।
कृते वंशकुलाः सर्वाः क्षत्रियैर्वसुधाधिपैः ।
द्विवंशकरणाश्चैव कीर्त्तयिष्ये निबोधत ॥४४३॥

ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते ।
राजानः श्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः ॥४४४॥

ऐलवंशस्य ये ख्यातास्तथैवैक्ष्वाकवा नृपाः  ।
तेषामेकशतं पूर्णं कुलानामभिषेकिनाम् ॥४४५॥

तावदेव तु भोजानां विस्तारो द्विगुणः स्मृतः  ।
भजते त्रिंशकं क्षत्रं चतुर्धा तद्यथादिशम् ॥४४६॥

तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत ।
शतं वै प्रतिविन्ध्यानां शतं नागाः शतं हयाः ॥४४७॥

धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ।
शतञ्च ब्रह्मदत्तानां शीरिणां वीरिणां शतम् ॥४४८॥

ततः शतं पुरोमानां श्वेतकाशकुशादयः  ।
ततोऽपरे सहस्रं वै येऽतीताः शतबिन्दवः ॥४४९॥

ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः  ।
एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः ॥४५०॥

मनोर्वैवस्वतस्यास्मिन् वर्त्तमानेऽन्तरे तु ये  ।
तेषां निबोधतोत्पन्ना लोके सन्ततयः स्मृताः ॥४५१॥

नु शक्यं विस्तरं तेषां सन्तानानां परम्परा ।
तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ॥४५२॥

अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेऽन्तरे ।
एता राजर्षिभिः सार्द्धं शिष्टा यास्ता निबोधत ॥४५३॥

चत्वारिंशच्च ये चैव भविष्याः सह राजभिः ।
युगाख्यानां विशिष्टास्तु ततो वैवस्वतक्षये ॥४५४॥

एतद्वः कथितं सर्व्वं समासव्यासयोगतः ।
पुनरुक्तं बहुत्वाच्च न शक्यन्तु युगैः सह ॥४५५॥

एते ययातिपुत्राणां पञ्चविंशा विशां हिताः ।
कीर्त्तिताश्चामिता ये मे लोकान् वै धारयन्त्युत ॥४५६॥

लभते च वरेण्यञ्च दुर्लभानिह लौकिकान् ।
आयुः कीर्त्तिं धनं पुत्रान् स्वर्गं चानन्त्यमश्नुते ॥४५७॥

धारणाच्छ्रवणाच्चैव ते लोकान् धारयन्त्युत ।
इत्येष वो मयो पादस्तृतीयः कथितो द्विजाः ।
विस्तरेणानुपूर्व्वी च किम्भूयो वर्त्तयाम्यहम् ॥४५८॥

इति श्रीमहापुराणे वायुप्रोक्ते अनुषङ्गपादो नाम सप्तत्रिंशोऽध्यायः ॥३७॥

॥इत्यनुषङ्गपादः॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP