TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ४

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ४
॥ऋषय ऊचुः॥

श्रुत्वा पादं द्वितीयन्तु क्रान्तं सूतेन धीमता ।
अतस्तृतीयं पप्रच्छ पादं वै शांशपायनः ॥१॥

पाद क्रान्तो द्वितीयोऽयमनु षङ्गेण यस्त्वया ।
तृतीयं विस्तरात्पादं सोपोद्वातं प्रकीर्त्तय ।
एवमुक्तोऽब्रवीत्सूतः प्रहृष्टेनान्तरात्मना ॥२॥

॥सूत उवाच॥
कीर्त्तयिष्ये तृतीयञ्च सोपोद्वातं सविस्तरम् ।
पादं समुदयाद्विप्रा गदतो मे निबोधत ॥३॥

मनोर्वैवस्वतस्येमं साम्प्रतस्य महात्मनः ।
विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ॥४॥

चतुर्युगैकसप्तत्या सङ्ख्यातः पूर्वमेव तु ।
सह देवगणैश्चैव ऋषिभिर्दानवैः सह ॥५॥

पितृगन्धर्वयक्षैश्च रक्षोभूतगणैस्तथा ।
मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ॥६॥

मन्वादिकं भविष्यान्तमाख्यानैर्बहुविस्तरम्  ।
वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ॥७॥

आद्ये मन्वन्तरेऽतीताः सर्गाः प्रावर्त्तकाश्च ये ।
स्वायम्भुवेऽन्तरे पूर्वं सप्तासन् ये महर्षयः ।
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ॥८॥

दक्षस्य च ऋषीणाञ्च भृग्वादीनां महौजसाम् ।
शापान्महेश्वरस्यासीत् प्रादुर्भावो महात्मनाम् ॥९॥

भूयः सप्तर्षयस्ते च उत्पन्नाः सप्त मानसाः ।
पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयम्भुवा ॥१०॥

प्रजासन्तानकृद्भिस्तैरुत्पद्यद्भिर्महात्मभिः ।
पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् ॥११॥

तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम् ।
समासव्यासयोगाभ्यां यथावदनुपूर्वशः ॥१२॥

येषामन्वयसम्भूतैर्लोकोऽयं सचराचरः ।
पुनः स पूरितः सर्गो ग्रह नक्षत्रमण्डितः ॥१३॥

एतच्छ्रुत्वा वचस्तस्य मुनीनां संशयोऽभवत्  ।
ततस्तं संशयाविष्टाः सूतं संशयनिश्चये ।
सत्कृत्य परिपप्रच्छुर्मुनयः शंसितव्रताः ॥१४॥

॥ऋषय ऊचुः॥
कथं सप्तर्षयः पूर्व्वमुत्पन्नाः सप्त मानसाः ।
पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम ।
ततोऽब्रवीन्महातेजाः सूत पौराणिकः शुभम् ॥१५॥

कथं सप्तर्षयः सिद्धा ये वै स्वायम्भुवेऽन्तरे ।
मन्वन्तरं समासाद्य पुनर्वैवस्वतं किल ॥१६॥

भवाभिशापात्संविद्धा ह्यप्राप्तास्ते तदा तपः ।
उपपन्ना जने लोके सकृदागामिनस्तु ते ॥१७॥

ऊचुः सर्वे ततोऽन्योन्यं जनलोके महर्षयः ।
ऊचुरेव महाभागा वारुणे वितते क्रतौ ॥१८॥

सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः ।
पितामहात्मजाः सर्वे ततः श्रेयो भविष्यति ॥१९॥

स्वायम्भुवेऽन्तरे शप्ताः सप्तार्थं ते भवेन तु ।
जज्ञिरे वै पुनस्ते ह जनलोकाद्दिवं गता ॥२०॥

देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ।
ब्रह्मणो जुह्वतः शुक्रमग्नौ पूर्वं प्रजेप्सया ।
ऋषयो जज्ञिरे पूर्वं द्वितीयमिति नः श्रुतम् ॥२१॥

भृगुरङ्गिरा मरीचिः पुलस्त्यः पुलहः क्रतुः ।
अत्रिश्चैव वसिष्ठश्च अष्टौ ते ब्रह्मणः सुताः ॥२२॥

तथास्य वितते यज्ञे देवाः सर्वे समागताः ।
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥२३॥

मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः ।
ऋग्वेद श्चाभवत्तत्र पदक्रमविभूषितः ॥२४॥

यजुर्वेदश्च वृत्ताढ्य ओङ्कारवदनोज्ज्वलः ।
स्थितो यज्ञार्थसंपृक्तसूक्तब्राह्मणमन्त्रवान् ॥२५॥

सामवेदश्च वृत्ताढ्यः सर्वगेयपुरःसरः ।
विश्वावस्वादिभिः सार्द्धं गन्धर्वैः सम्भृतोऽभवत् ॥२६॥

ब्रह्म वेदस्तथा घोरैः कृत्याविधिभिरन्वितः ।
प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत् ॥२७॥

लक्षणानि स्वराः स्तोभा निरुक्तस्वरभक्तयः ।
आश्रयस्तु वषट्‌कारो निग्रहप्रग्रहावपि ॥२८॥

दीप्ता दीप्तिरिलादेवी दिशः प्रदिशगीश्वराः  ।
देवकन्याश्च पत्न्यश्च तथा मातर एव च ॥२९॥

आयुः सर्वत एवैते देवस्य यजतो मुखे ।
मूर्त्तिमन्तः स्वरूपाख्या वरुणस्य वपुर्भृतः ॥३०॥

स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ।
ब्रह्मर्षेर्भावभूतस्य विधानाच्च न संशयः ॥३१॥

कृत्वा जुहाव स्रुग्भ्याञ्च स्रुवेण परिगृह्य च ।
आज्यवज्जुहुवाञ्जक्रे मन्त्रवच्च पितामहः ॥३२॥

ततः स जनयामास भूतग्रामं प्रजापतिः ।
तस्यार्वाक् तेजसस्तस्य यज्ञे लोकेषु तैजसम् ।
तमसाभावव्याप्यत्वं तथा सत्त्वं तथा रजः ॥३३॥

सगुणात्तेजसो नित्यमाकाशे तमसि स्थितम् ।
तमसस्तेजसत्वाच्च सर्वभूतानि जज्ञिरे ॥३४॥

यदा तस्मिन्नजायन्त काले पुत्रास्तु कर्मजाः ।
आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह ॥३५॥

शुक्रे हुतेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः ।
ज्वलन्तो वपुषा युक्ताः सप्त वै प्रसवैर्गुणैः ॥३६॥

हुते चाग्नौ सकृच्छुक्रे ज्वालाया निःसृतः कविः ।
हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिःसृतम् ।
भृगुस्त्वमिति होवाच यस्मात्तस्मात्स वै भृगुः ॥३७॥

महादेवस्तथोद्भूतं दृष्ट्वा ब्राह्मणमब्रवीत् ।
ममैष पुत्रकामस्य दीक्षितस्य त्वयं प्रभो ।
विजज्ञेऽथ भृगुर्द्देवो मम पुत्रो भवत्वयम् ॥३८॥

तथोति समनुज्ञातो महादेवः स्वयम्भुवा ।
पुत्रत्वे कल्पयामास महादेवस्तथा भृगुम् ।
वारुणा भृगवस्तस्मात्तदपत्यञ्च स प्रभुः ॥३९॥

द्वितीयन्तु ततः शुक्रमङ्गारेष्वपतत्प्रभुः ।
अङ्गारेष्वङ्गिरोऽङ्गानि संहितानि ततोऽङ्गिराः ॥४०॥

सम्भूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत् ।
रेतोधास्तुभ्यमेवाहं द्वितीयोऽयं ममास्त्विति ॥४१॥

एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः ।
तस्मादङ्गिरसश्चापि आग्नेया इति नः श्रुतम् ॥४२॥

षट्‌कृत्यस्तु पुनः शुक्रे ब्रह्मणा लोककारिणा ।
हुते समभवंस्तत्र षड्ब्रह्माण इति श्रुतिः ॥४३॥

मरीचिः प्रथमस्तत्र मरीचिभ्यः समुत्थितः ।
क्रतौ तस्मिन् सुतो जज्ञे यतस्तस्मात्स वै क्रतुः ॥४४॥

अहं तृतीय इत्यर्थस्तस्मादत्रिः स कीर्त्त्यते ।
केशैश्च निशितैर्भूतः पुलस्त्यस्तेन स स्मृतः ॥४५॥

केशैर्लम्बैः समुद्भूतस्तस्मात्तु पुलहः स्मृतः  ।
वसुमध्यात्समुत्पन्नो वसुमान् वसुधाश्रयः ॥४६॥

वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते व्रह्मवादिभिः  ।
इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः ॥४७॥

लोकस्य सन्तानकरास्तैरिमा वर्द्धिताः प्रजाः ।
प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणः सुताः ॥४८॥

अपरे पितरो नाम एतैरेव महर्षिभिः ।
उत्पादिता ऋषिगणाः सप्त लोकेषु विश्रुताः ॥४९॥

मारीचा भार्गवाश्चैव तथैवाङ्गिरसोऽपरे ।
पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः ।
आत्रेयाश्च गणाः प्रोक्ताः पितॄणां लोकविश्रुताः ॥५०॥

एते समासतस्तात पुरैव तु गुणास्त्रयः ।
अपूर्वश्च प्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः ॥५१॥

तेषां राजा यमो देवो यमैर्विहितकल्मषाः ।
अपरे प्रजानां पतयस्ताञ्छृणुध्वमतन्द्रिताः ॥५२॥

कर्द्दमः कश्यपः शेषो विक्रान्तः सुश्रुवास्तथा ।
बहुपुत्रः कुमारश्च विवस्वान् स शुचिश्रवाः ॥५३॥

प्रचेतसोऽरिष्टनेमिर्बहुलस्व प्रजापतिः ।
इत्येवमादयोऽन्येऽपि बहवश्च प्रजेश्वराः ॥५४॥

कुशोच्चया वालखिल्याः सम्भूताः परमर्षयः ।
मनोजवाः सर्वगताः सार्वभौमाश्च तेऽभवन् ॥५५॥

जाता भस्मव्यपोहिन्यां ब्रह्मर्षिगणसम्मताः ।
वैखानसा मुनिगणास्तपःश्रुतपरायणाः ॥५६॥

स्रोतोभ्यस्तस्य चोत्पन्नावश्विनौ रूपसम्मितौ ।
विदुर्जन्माक्षरजसो विमला नेत्रसम्भवाः ४.५७॥

ज्येष्ठाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे ।
ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः ॥५८॥

दारुणा हि रुते मासा निर्यासाः पक्षसन्धयः ।
वत्सरा ये त्वहोरात्राः पित्रं ज्योतिश्च दारुणम् ॥५९॥

रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम् ।
तन्मैत्रमिति विज्ञेयं धूमश्च पशवः स्मृताः ॥६०॥

येऽर्च्चिषस्तस्य ते रुद्रास्तथादित्याः समुद्भवाः ।
अङ्गारेभ्यः समुत्पन्ना ज्योतिषो दिव्यमानुषाः ॥६१॥

आदिमानस्य लोकस्य ब्रह्मा ब्रह्मसमुद्भवः ।
सर्वकामदमित्याहुस्तत्र कन्यामुदाहरन् ॥६२॥

ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसीदति ।
इमे वै जनयिष्यन्ति प्रजाः सर्वाः प्रजेश्वराः ॥६३॥

स्वे प्रजानां पतयः सर्वे चापि तपस्विनः ।
तत्प्रसादादिमाँल्लोकान्धारयेयुरिमाः क्रियाः ॥६४॥

द्वन्द्वं संवर्द्धयामास तव तेजोविवर्द्धनम् ।
देवेषु वेदविद्वांसः सर्वे राजर्षयस्तथा ॥६५॥

वेदमन्त्र पराः सर्वे प्रजापतिगुणोद्भवाः ।
अनन्तं ब्रह्म सत्यञ्च तपश्च परमं भुवि ॥६६॥

सर्वे हि वयमेते च तवैव प्रसवः प्रभो ।
ब्रह्म च ब्राह्मणाश्चैव लोकाश्चैव चराचराः ॥६७॥

मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह ।
अपत्यानीह सञ्चिन्त्य तेऽपत्यङ्कामयामहे ॥६८॥

तस्मिन् यज्ञे महाभागा देवाश्च ऋषिभिः सह ।
एतद्वंशसमुद्भूताः स्थानकालाभिमानिनः ॥६९॥

न च तेनैव रूपेण स्थापयेयुरिमाः प्रजाः ।
युगादिनिधनाच्चैव स्थापयेयुरिमाः प्रजाः ॥७०॥

ततोऽब्रवील्लोकगुरुः परमित्यविचारयन्  ।
एवं देवा विनिश्चित्य मया सृष्टा न संशयः ।
भवतां वंशसम्भूताः पुनरेते महर्षयः ॥७१॥

तेषां भृघोः कीर्तयिष्ये वंशं पूर्वमहात्मनः ।
विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः ॥७२॥

भार्या भृगोरप्रतिमे उत्तमेऽभिजने शुभे ।
हिरण्यकशिपोः कन्या दिव्या नाम परिश्रुता ।
पुलोम्नश्चापि पौलोमी दुहिता वर वर्णिनी ॥७३॥

भृगोस्त्वजनयद्दिव्या काव्यं वेदविदां वरम् ।
देवासुराणामाचार्यं शुक्रङ्कविसुतं ग्रहम् ॥७४॥

स शुक्रश्चोशना ख्यातः स्मृतः काव्योऽपि नामतः ।
पितॄणां मानसी कन्या सोमपानां यशस्विनी ।
शुक्रस्य भार्याङ्गी नाम विजज्ञे चतुरः सुतान् ॥७५॥

ब्राह्मेण तेजसा युक्तः स चातो ब्रह्मवित्तमः ।
तस्यामेव तु चत्वारः पुत्राः शुक्रस्य जज्ञिरे ॥७६॥

त्वष्टा वरूत्री द्वावेतौ शण्डामर्कौ च तावुभौ ।
ते तदादित्यसङ्काशा ब्रह्म कल्पाः प्रभावतः ॥७७॥

रञ्जनः पृथुरश्मिश्च विद्वान्यश्च बृहद्गिराः ।
वरूत्रिणः सुता ह्येते ब्रह्मिष्ठाः सुरयाजकाः ॥७८॥

इज्याधर्मविनाशार्थं मनुमेत्याभ्ययोजयन् ।
निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमब्रवीत् ॥७९॥

एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम् ।
श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद् देशादपाक्रमन् ॥८०॥

तिरोभूतेषु तेष्मिन्द्रो धर्मपत्नीञ्च चेतनाम् ।
ग्रहेण मोचयित्वा तु ततः सोऽनुससार ताम् ॥८१॥

तत इन्द्रविनाशाय यत मानान् यतींस्तु तान्  ।
तत्रागतान् पुनर्दृष्ट्वा दुष्टानिन्द्रः प्रहन्यतु ।
सुष्वाप देवदेवस्य वेद्यां वै दक्षिणे ततः ॥८२॥

तेषान्तु भक्ष्यमाणानां तत्र शालावृकैः सह ।
शीर्षाणि न्यपतंस्तानि खर्जूराण्यभवंस्ततः ॥८३॥

एवं वरूत्रिणः पुत्रा इन्द्रेण निहताः पुरा ।
यजन्यां देवयानी च शुक्रस्य दुहिताऽभवत् ॥८४॥

त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान् ।
विश्वरूपानुजश्चापि विश्वकर्मा यमः स्मृतः ॥८५॥

भृगोस्तु भृगवो देवा जज्ञिरे द्वादशात्मजाः ।
देव्यां तान्सुषुवे सर्वान्काव्यश्चैवात्मजान्प्रभुः ॥८६॥

भुवनो भावनश्चैव अन्यश्चान्यायतस्तथा ।
क्रतुःश्रवाश्च मूर्द्धा च व्यजयो व्यश्रुषश्च यः ।
प्रसव श्चाप्यजश्चैव द्वादशोऽधिपतिः स्मृतः ॥८७॥

इत्येते भृगवो देवाः स्मृता द्वादश याज्ञिकाः  ।
पौलोम्यजनयत्पुत्रं ब्रह्मिष्ठं वशिनं विभुम् ॥८८॥

व्याधितः सोऽष्टमे मासि गर्भक्रूरेण कर्मणा ।
च्यवनाच्च्यवनासोऽथ चेतनस्तु प्रचेतसः ।
प्राचेतसाच्च्यवनक्रोधादध्वानं पुरुषादजः ॥८९॥

जनयामास पुत्रौ द्वौ सुकन्यायाञ्च भार्गवः ।
आत्मवानं दधीचञ्च तावुभौ साधुसंमतौ ॥९०॥

सारस्वतः सरस्वत्यां दधीचाच्चोपपद्यते ।
रुची पत्नी महाभागा आत्मवानस्य नाहुषी ॥९१॥

तस्य ऊर्वोऋषिर्जज्ञे ऊरू भित्त्वा महायशाः  ।
और्वश्चासीदृचीकस्तु दीप्ताग्निसदृशप्रभः ॥९२॥

जमदग्निऋचीकस्य सत्यवत्यां व्यजायत ।
भृगोश्च रुचिपर्याये रौद्रवैष्णवयोस्तथा ॥९३॥

जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ।
रेणुका जमदग्नेस्तु शक्रतुल्यपराक्रमम् ।
ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् ॥९४॥

और्वस्यासीत्पुत्रशतं जमदग्निपुरागेमम्  ।
तेषां पुत्रसहस्राणि भार्गवाणां परस्परात् ॥९५॥

ऋष्यन्तरेषु वै बाह्या बहवो भार्गवाः स्मृताः  ।
वत्सो विश्वोऽश्विषेणश्च पाण्डः पथ्यः सशौनकः ।
गोत्रेण सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः ॥९६॥

श्रृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः ।
यस्यान्ववाये सम्भूता भारद्वाजाः सगौतमाः ।
देवाश्चाङ्गिरसो मुख्यास्त्विषुमन्तो महौजसः ॥९७॥

सुरूपा चैव मारीची कार्द्दमी च तथा स्वराट् ।
पथ्या च मानवी कन्या तिस्रो भार्यास्त्वथर्वणः ।
इत्येताङ्गिरसः पत्न्यस्तासु वक्ष्यामि सन्ततिम् ॥९८॥

अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः ।
उत्पन्ना महता चैव तपसा भावितात्मनाम् ॥९९॥

बृहस्पतिः सुरूपायां गौतमः सुषुवे स्वराट् ।
अवन्ध्यं वामदेवञ्च उतथ्यमुशिजन्तथा ॥१००॥

धिष्णुः पुत्रस्तु पथ्यायां संवर्तश्चैव मानसः ।
विचित्तश्च तथायस्यः शरद्वांश्चाप्युतथ्यजः ॥१०१॥

अशिजो दीर्घतमा बृहदुत्थो वामदेवजः ।
धिष्णुः पुत्राः सुध्न्वान ऋषभश्च सुधन्वनः॥४.१०२
रथकाराः स्मृता देवा ऋषयो ये परिश्रुताः ।
बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः ॥१०३॥

अङ्गिरसस्तु संवर्त्तो देवानङ्गिरसः श्रृणु ।
बृहस्पतेर्यवीयांसो देवा ह्यङ्गिरसः स्मृताः ॥१०४॥

औरसाङ्गिरसः पुत्राः सुरूपायां विजज्ञिरे ।
औदार्यायुर्दनुर्दक्षो दर्भः प्राणस्तथैव च ।
हविष्मांश्च हविष्णुश्च क्रतुः सत्यश्च ते दश ॥१०५॥

अयस्यस्तु उतथ्यश्च वामदेवस्तथोशिजः ।
भारद्वाजाः शांकृतिका गार्ग्यकाण्वरथीतराः ॥१०६॥

मुद्गला विष्णुवृद्धाश्च हरिता वायवस्तथा ।
तथा भाक्षा भरद्वाजा आर्षभाः किम्भयास्तथा ॥१०७॥

एते ह्यङ्गिरसः पक्षा विज्ञेया दश पञ्च च ।
ऋष्यन्तरेषु वै बाह्या बहवोऽङ्गिरसः स्मृताः ॥१०८॥

मारीचं परिवक्ष्यामि वंशमुत्तमपूरुषम् ।
यस्यान्ववाये सम्भूतं जगत्स्थावरजङ्गमम् ॥१०९॥

मरीचिरापश्चकमे ताभिध्यायन्प्रजेप्सया ।
पुत्रः सर्वगुणोपेतः प्रजावान् सुरुचिर्दितिः ।
संपूज्यते प्रशस्तायां मनसा भाविता प्रभुः ॥११०॥

आहूताश्च ततः सर्वा आपः समवसत्प्रभुः ।
तासु प्रणिहितात्मानमेकः सोऽजनयत्प्रभुः ॥१११॥

पुत्रमप्रतिमन्नाम्नारिष्टनेमिः प्रजापतिः ।
पुत्रं मरीचं सूर्याभं वधौवेशो व्यजीजनत् ॥११२॥

प्रध्यायन् हि सतां वाचं पुत्रार्थी सलिले स्थितः ।
सप्तवर्षसहस्राणि ततः सोऽप्रतिमोऽभवत् ॥११३॥

कश्यपः सवितुर्विद्वांस्तेन स ब्रह्मणः समः  ।
मन्वन्तरेषु सर्वेषु ब्राह्मणांशेन जायते ॥११४॥

कन्यानिमितमित्युक्ते दक्षेण कुपिताः प्रजाः  ।
अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते ॥११५॥

हाश्चेकसा हि विज्ञेया ब्रह्मणः कश्य उच्यते ।
कश्यं मद्यं स्मृतं विप्रैः कश्यपानात्तु कश्यपः ॥११६॥

करोति नाम यद्वाचो वाचं क्रूरमुदाहृतम् ।
दक्षाभिशप्तः कुपितः कश्यपस्तेन सोऽभवत् ॥११७॥

तस्माच्च कश्यपेनोक्तो ब्रह्मणा परमेष्ठिना ।
तस्माद्दक्षः कश्यपाय कन्यास्ताः प्रत्यपद्यत ।
सर्वाश्च ब्रह्मवादिन्यः सर्वास्ता लोकमातरः ॥११८॥

इत्येतमृषिसर्गन्तु पुण्यं यो वेद वारुणम् ।
आयुष्मान् पुण्यवान् शुद्धः सुखमाप्नोत्यनुत्तमम् ।
धारणात् श्रवणाच्चैव सर्वपापैः प्रमुच्यते ॥११९॥

अथाब्रुवन् पुनः सर्वे मुनयो रोमहर्षणम् ।
विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह  ।
निसर्गः सम्प्रवृत्तोऽयं मनोर्वैव स्वतस्य ह ॥१२०॥

  ॥सूत उवाच॥
प्रजाः सृजेति व्यादिष्टः स्वयं दक्षः स्वयम्भुवा ।
ससर्ज दक्षो भूतानि गतिमन्ति ध्रुवाणि च  ।
उपस्थितेऽन्तरे ह्यस्मिन् मनोर्वैवस्वतस्य ह ॥१२१॥

ततः प्रवृत्तो दक्षस्तुप्रजाः स्रष्टुञ्चतुर्विधाः ।
जरायुजा अण्डजाश्च उद्भिज्जाः स्वेदजास्तथा ॥१२२॥

दशवर्ष सहस्राणि तप्त्वा घोरं महत्तपः ।
सम्भावितो योगबलैरणिमाद्यैर्विशेषतः ॥१२३॥

आत्मानं व्यभजन् श्रीमान् मनुष्योरगराक्षसान् ।
देवासुरसगन्धर्वान् दिव्यसंहननप्रजान्  ।
ईश्वरानात्मनस्तुल्यान् रूपद्रविणतेजसा ॥१२४॥

तथैवान्यानि मुदितो गतिमन्ति ध्रुवाणि च ।
मानसान्येव भूतानि सिसृक्षुर्विविधाः प्रजाः ॥१२५॥

ऋषीन् देवान् सगन्धर्वान् मनुष्योरगराक्षसान् ।
यक्षभूतपिशाचांश्च वयःपशुमृगांस्तथा ॥१२६॥

यदास्य मनसा सृष्टा न व्यवर्द्धन्त ताः प्रजाः ।
अपध्याता भगवता महादेवेन धीमता ॥१२७॥

मैथुनेन च भावेन सिसृक्षुर्विविधाः प्रजाः ।
असिक्रीं चावहत् पत्नीं वीरणस्य प्रजापतेः ॥१२८॥

सुतां सुमहता युक्तां तपसा लोकधारिणीम् ।
यया धृतमिदं सर्वं जगत् स्थावरजङ्गमम् ॥१२९॥

अत्राप्युदा हरन्तीमौ श्लोकौ प्राचेतसं प्रति ।
दक्षस्योद्वहतो भार्यामसिक्नीं वीरिणीं पराम् ॥१३०॥

कूपानां नियुतं दक्षः सर्पिणां साभिमानिनाम् ।
नदीगिरिषु सर्ज्जंस्ताः पृष्ठतोऽनुययौ प्रभुः ॥१३१॥

तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः ।
प्रथमात्र द्वितीया तु दक्षस्येह प्रजापतेः ॥१३२॥

तथागच्छद्यथाकालं कूपानां नियुते तु सः ।
असिक्नीं वैरिणीं यत्र दक्षः प्राचेतसोऽवहत् ॥१३३॥

अथ पुत्रसहस्रं स वैरिण्याममितौजसा ।
असिवन्यां जनयामास दक्षः प्राचेतसः प्रभुः ॥१३४॥

तांस्तु दृष्ट्वा महातेजाः स विवर्द्धयिषून् प्रजाः.
देवर्षिः प्रियसंवादो नारदो ब्रह्मणः सुतः ।
नाशाय वचनं तेषां शापायैवात्मनोऽब्रवीत् ॥१३५॥

यः स वै प्रोच्यतेविप्रः कश्यपस्येति कृत्रिमः ।
दक्षशापभयाद्भीतो ब्रह्मार्षिस्तेन कर्मणा ॥१३६॥

यः कश्यपसुतस्याथ परमेष्ठी व्यजायत ।
मानसः कश्यपस्येह दक्षशापभयात् पुनः ॥१३७॥

तस्मात् स कश्यपस्याथ द्वितीयं मानसोऽभवत् ।
स हि पूर्वसमुत्पन्नो नारदः परमेष्ठिनः ॥१३८॥

येन दक्षस्य पुत्रास्ते हर्यश्वा इति विश्रुताः  ।
निन्दार्थं नाशिताः सर्वे विनष्टाश्च न संशयः ॥१३९॥

तस्योद्यतस्तदा दक्षः क्रुद्धो नाशाय वै प्रभुः  ।
ब्रह्मर्षीन् वै पुरस्कृत्य याचितः परमेष्ठिना ॥१४०॥

ततोऽभिसन्धितं चक्रे दक्षस्तु परमेष्ठिना ।
कन्यायां नारदो मह्यं तव पुत्रो भवत्विति ॥१४१॥

ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने  ।
तस्मात् स नारदो जज्ञे भूयः शान्तो भयादृषिः ॥१४२॥

तदुपश्रुत्य विप्रास्ते जातकौतूहलाः पुनः  ।
अपृच्छन् वदतां श्रेष्ठं सूतं तत्त्वार्थदर्शिनम् ॥१४३॥

॥ऋषय ऊचुः॥

कथं विनाशिताः पुत्रा नारदेन महात्मना ।
प्रजापतिसुतास्ते वै प्रजाः प्राचेतसात्मजाः ॥१४४॥

स तथ्यं वचनं श्रुत्वा जिज्ञासासम्भवं शुभम्  ।
प्रोवाच मधुरं वाक्यं तेषां सर्वगुणान्वितम् ॥१४५॥

दक्षपुत्राश्च हर्यश्वा विवर्द्धयिषवः प्रजाः ।
समागता महावीर्या नारदस्तानुवाच ह ॥१४६॥

बालिशा बल यूयं वै न प्रजानीथ भूतलम् ।
अन्तमूर्द्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥१४७॥

किं प्रमाणन्तु मेदिन्याः स्रष्टव्यानि तथैव च ।
अविज्ञायेह स्रष्टव्यमन्यथा किं नु स्रक्ष्यथ ।
अल्पं वापि बहुर्वापि तत्र दोषस्तु दृश्यते ॥१४८॥

ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् ।
वायुन्तु समनुप्राप्य गतास्ते वै पराभवम् ॥१४९॥

अद्यापि न निवर्त्तन्ते भ्रमन्तो वायुमिश्रिताः  ।
एवं वायुपथं प्राप्य भ्रमन्ते ते महर्षयः ॥१५०॥

स्वेषु पुत्रेषु नष्टेषु दक्षः प्राचेतसः पुनः ।
वैरिम्यामेव पुत्राणां सहस्रमसृजत् प्रभुः ॥१५१॥

प्रजा विवर्द्धयिषवः शबलाश्वाः पुनस्तु ते ।
पूर्वमुक्तं वचस्तत्र श्राविता नारदेन ह ॥१५२॥

तच्छ्रत्वा वचनं सर्वे कुमारास्ते महौजसः ।
अन्योऽन्यमूचुस्ते सर्वे सम्यगाह महानृषिः ।
भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ॥१५३॥

ज्ञात्वा प्रमाणं पृत्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ।
तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् ।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ॥१५४॥

ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ।
प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥१५५॥

नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽभवद्विभुः ।
नारदं नाशमेहीति गर्भवासं वसेति च ॥१५६॥

तथा तेष्वपि नष्टेषु महात्मसु पुरा किल ।
षष्टिकन्याऽसृजद्दक्षो वैरिण्यामेव विश्रुताः ॥१५७॥

तास्तदा प्रतिजग्राह पत्न्यर्थे कश्यपः प्रभुः ।
धर्मः सोमस्तु भगवांस्तथैवान्ये महर्षयः ॥१५८॥

इमा विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः ।
आयुष्मान् कीर्त्तिमान् धन्यः प्रजानांश्च भवत्युत ॥१५९॥

इति श्रीमहापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्त्तनं नाम चतुर्थो ऽध्यायः ॥४ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:02.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कुत्र्याच्या शेंपटीवर पाय देऊं नका

  • कुत्र्याच्या शेपटीवर पाय दिला असतां विनाकारण तो भुंकावयाचा किंवा वेळेवर चावायचाहि. तेव्हां चिडखोर किंवा क्षुद्र मनुष्‍याच्या विनाकारण वाटेस जाऊं नये. पाठभेद-सापाच्या शेपटीवर पाय देऊं नये. 
RANDOM WORD

Did you know?

तीन रस्ते एकत्र येऊन मिळतात, त्या ठिकाणास काय म्हणतात
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.