संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः १३

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥बृहस्पतिरुवाच॥
पालाशं ब्रह्मगवर्चस्यमश्वत्थे राज्यभावना ।
सर्वभूताधिपत्यं च प्लक्षे नित्यमुदाहृतम् ॥१॥

पुष्टिकामं च न्यग्रोधं बुद्धिं प्रज्ञां धृतिं स्मृतिम् ।
रक्षोघ्नं च यशस्यं च काश्मर्य्यं पात्रमुच्यते ॥२॥

सौभाग्यमुत्तमं लोके मधुके समुदाहृतम् ।
फल्गुपात्रे च कुर्वाणः सर्वान्कामानवाप्नुयात् ॥३॥

परा द्युतिरथो कर्त्तुः प्राकाश्यं च विशेषतः  ।
बिल्वे लक्ष्मीस्तथा मेधा नित्यमायुष्यमेव च ॥४॥

क्षेत्रारामतडागेषु सर्वसस्येषु चैव हि ।
वर्षेदजस्रं पर्जन्यो वेणुपात्रेषु कुर्व्वतः ॥५॥

एतेष्वेव सुपात्रेषु ये चैवाग्रयणं ददुः ।
सकृदप्यत्र यज्ञानां सर्वेषां फलमुच्यते ॥६॥

पितृभ्यो यस्तु माल्यानि सुगन्धीनि च सर्वशः  ।
सदा दद्याच्छ्रिया युक्तः स विभाति दिवाकरः ॥७॥

गुग्गुलादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति ।
संयुक्तान्मधुसर्पिर्भ्यां सोऽश्वमेधफलं लभेत् ॥८॥

धूपं गन्धगुणोपेतं कान्तं पितृपरायणम् ।
लभते स्त्रीष्वपत्यानि इह चामुत्र चोभयोः ।
दद्यादेव पितृभ्यस्तु नित्यमेव ह्यतन्द्रितः ॥९॥

दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति ।
स लोकेऽप्रतिमं चक्षुः सदा च लभते शूभम् ॥१०॥

तेजसा यशमा चैव कान्त्या चैव बलेन च ।
भुवि प्रकाशो भवति भ्राजते च त्रिविष्टपे ।
अप्सरोभिः परिवृतो विमानाग्रे स मोदते ॥११॥

गन्धान्पुष्पाणि धूपांश्च दद्यादाज्यादुतीश्च वै ।
फलमूलनमस्कारैः पिदॄणां प्रयतः शुचिः ।
पूर्व कृत्वा द्विजान्पश्वात्पूजयेदन्नसम्पदा ॥१२॥

श्राद्धकाले तु सततं वायुभूताः पितामहाः ।
आविशन्ति द्विजान्दृष्ट्वा तस्मादेतद्ब्रवीमि ते ॥१३॥

वस्त्रैरन्नैः प्रदानैस्तैर्भक्ष्यपेयैस्तथैव च ।
गोभिरश्वैस्तथा ग्रामैः पूजयित्वा द्विजोत्तमान् ॥१४॥

भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु ।
तस्मादन्नेन विधिवत् पूजयेद्द्विजसत्तमान् ॥१५॥

सव्योत्तराभ्यां पाणिभ्यां कुर्य्यादुल्लेखनं द्विजः ।
प्रोक्षणञ्च तथा कुर्याच्छ्राद्धकर्म्मण्यतन्द्रितः ॥१६॥

दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च ।
गन्धदानमलङ्कारमेकैकं निर्वपेद्वुधः ॥१७॥

पोषयित्वा जनं सम्यग्वैश्वः स्यादुत्तरो द्विजः ।
अभ्यङ्ग दर्भपिञ्जालैस्त्रिभिः कुर्याद्यथाविधि ॥१८॥

अपसव्यं पितृभ्यश्च दद्यादन्नमनुत्तमम् ।
तमुच्चार्य्याथ सर्वेषां वस्त्रार्थं॥सूत्रमेव च ॥१९॥

खण्डनं पोषणं चैव तथैवोल्लेखनं तथा ।
सकृदेव हि देवानां पितॄणां त्रिभिरुच्यते ॥२०॥

एकं पवित्रं हस्तेन पितॄन्सर्वान्सकृत्सकृत् ।
चैलमन्त्रेण पिण्डेभ्यो दत्त्वा दर्शनजं हितम् ॥२१॥

सदा सर्पिस्तिलैर्युक्तां स्त्रीन् पिण्डान्निर्वपेद्भुवि ।
जानुं कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥२२॥

पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ।
आहूय च पितॄन् प्राञ्चान् पितृतीर्थेन यत्नतः ।
पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ॥२३॥

अन्नेनाद्भिश्च पुष्पैश्च भक्ष्यैश्चैव पृथग्विधैः ।
पृथग् मातामहानान्तु केचिदिच्छन्ति मानवाः ॥२४॥

त्रीन् पिण्डानानुपूर्व्व्येण साङ्गुष्ठान्पुष्टिवर्द्धनान्  ।
जान्वन्तराभ्यां यत्नेन पिण्डान् दद्याद्यथाक्रमम् ॥२५॥

सव्योत्तराभ्यां पाणिभ्यां धर्मे मन्त्रे च पर्य्ययः ।
नमो वः पितरः सूक्ष्मैः सदा ह्येवमतन्द्रितः ॥२६॥

दक्षिणस्यान्तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत् ।
नमो वः पितरः सौम्याः पठन्नित्यमतन्द्रितः ॥२७॥

सव्योत्तराभ्यां पाणिभ्यां धर्मे सर्व्वमतन्द्रितः ।
उलूखलस्य लेखाया मुदपात्राच्च सेवनम् ॥२८॥

क्षौम॥सूत्रं नवं दद्याच्छोणं कार्पासिकं तथा ।
पत्रोर्णं पितृ॥सूत्रञ्च कौशेयं परिवर्जयेत् ॥२९॥

वर्जयेत्तद्दशां यज्ञे यदप्यहतवस्त्रजाम् ।
न प्रीणन्ति तथैतानि दातुराप्यायतो भवेत् ॥३०॥

श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च ।
कृष्णेभ्यश्च तिलेभ्यश्च यत्तैलं परिरक्षितम् ॥३१॥

चन्दनागुरुणी चोभे तमालोशीरपझकम् ।
धूपं च गुग्गुलश्रेष्ठं तुरुष्कं धूपमेव च ॥३२॥

शुक्लाः सुमनसः श्रेष्ठास्तथा पझोत्पलानि च ।
गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ॥३३॥

जवासुमनसो भण्डीरूपकामकुरण्डकाः ।
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥३४॥

यानि गन्धादपेतानि उपगन्धीनि यानि च ।
वर्जनीयानि पुष्पाणि भूतिमन्विच्छता तदा ॥३५॥

द्विजातयस्तथान्विष्ठा नियताः स्युरुदङ्मुखाः ।
पूजयेद्यजमानस्तु विधिवद्दक्षिणामुखः ॥३६॥

तेषामभिमुखो दद्याद्दर्भान्पिण्डांश्च यत्नतः ।
अनेन विधिना साक्षादर्च्चयेत् स्वान् पितामहान् ॥३७॥

हरिता वै सपिञ्जल्याः पुष्पस्निग्धाः समाहिताः ।
रत्निमात्रप्रदानेन पितृतीर्थेन संस्थिताः ॥३८॥

उपमूले तथा नीलाः प्रस्तराद्यकुलोद्यमाः  ।
तथा श्मामाकनीवारा दुर्वाराः समुदाहृताः ॥३९॥

पूर्व्वंकीर्त्तितवाञ्छ्रेष्ठो बभूवाथ प्रजापतिः  ।
तस्य वाला निपतिता भूमौ चाकाशमार्गतः ॥४०॥

तस्मान्मेध्या समाकाशाः श्राद्धकर्मणि पूजिताः  ।
पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता ॥४१॥

प्रजापुष्टिर्द्युतिः कीर्त्तिः प्रजाकान्तिसमन्विता ।
भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः ॥४२॥

सकृदेवास्तरेद्दर्भान् पिण्डार्थं दक्षिणामुखः ।
प्राग्दक्षिणाग्रनियतो विधिञ्चाप्यनुवक्ष्यति ॥४३॥

न दीनो वापि वा क्रुद्धो न चैवान्यमना नरः ।
एकाग्रमाधाय मनः श्राद्धं कुर्य्यात्सदा बुधः ॥४४॥

निहन्मि सर्व्वं यदमेध्यवद्भवेद् हताश्च सर्व्वे सुरदानवा मया ।
रक्षांसि यक्षाश्च पिशाचसङ्घा हता मया यातुधानाश्च सर्व्वे ॥४५॥

एवं पित्रे दृष्टमन्नं हि यस्य तस्यासुरा वर्जयन्तीह सर्व्वे ।
यस्मिन्देशे पठ्यते एष मन्त्रस्तं वै देशं राक्षसा वर्जयन्ति ॥४६॥

अनेन विधिना नित्यं श्राद्धं कुर्य्याद्द्विजः सदा ।
मनसा काङ्क्षितं यद्यत्तत्तद्दद्युः पितामहाः ॥४७॥

पितरो हृष्टमनसो रक्षांसि विमनांसि च ।
भवन्त्येव कृते श्राद्धे नित्यमेव प्रयत्नतः ॥४८॥

शूद्राः श्राद्धे क्षीरवाशु बल्वजास्तरवस्तथा ।
वारणाश्च लवाश्चैव लववर्षाश्च नित्यशः ।
एवमादीन्यथान्यानि तृणानि परिवर्जयेत् ॥४९॥

अञ्जनाभ्यञ्जनागन्धामानुप्रलयनं तथा  ।
काशैः पुनर्भवैः कार्य्यं सर्व्वमेव फलं भवेत् ॥५०॥

काशाः पुनर्भवा ये च बर्हणा उपबर्हणाः ।
अथ ते पितरो देवा देवाश्च पितरः पुनः ॥५१॥

पुष्पगन्धादिधूपानामेष मन्त्र उदाहृतः ।
आहृत्य दक्षिणायान्तु होमार्थे विप्रयत्नतः ॥५२॥

सोमाय वै पितृमते स्वधा अङ्गिरसे नमः ।
अस्वर्ग्यं लौकिकं वापि जुहुयात्कर्म्मसिद्धये ॥५३॥

अन्तराधाय समिधं तथा होमो विधीयते॥
समाहितेन मनसा प्रयताग्निः प्रयत्नतः ॥५४॥

अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः ।
यमाय चैवाङ्गिरसे स्वधा नम इति ब्रुवन् ॥५५॥

इत्येते वै होममन्त्रा मन्त्राणामनु पूर्व्वशः ।
दक्षिणातोऽग्नये नित्यं सोमायान्तरतस्तथा ॥५६॥

एतयोरन्तरं नित्यं जुहुयाद्वै विवस्वते ।
उपचारं स्वधाकारं तथैवोल्लेखनञ्च यत् ॥५७॥

होमजप्ये नमस्कारः प्रोक्षणञ्च विशेषतः ।
अञ्जनाभ्यञ्जने चैव पिण्डसंवपनं तथा ॥५८॥

अश्वमेधफलेनैव तत्स्मृतं मन्त्रपूर्व्वकम् ।
क्रियाः सर्व्वा यथो द्दिष्टाः प्रयत्नेन समाचरेत् ॥५९॥

बहुहव्यत्वमेवाग्नौ सुसमिद्धे विशेषतः ।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥६०॥

अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने ।
यजमानो भवेदन्धः सोऽपुत्र इति नः श्रुतम् ॥६१॥

अल्पेन्धनो वा रूक्षो वा विस्फुलिङ्गश्च सर्व्वशः  ।
ज्वाला धूमोपसेव्यश्च स तु वह्निर्न सिद्धये ॥६२॥

दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः ।
भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥६३॥

अर्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसम्भवः ।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्य्यसिद्धये ॥६४॥

नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् ।
अक्षयाः पूजितास्तेन भवन्ति पितरोऽव्ययाः ॥६५॥

स्थाल्युदुम्बरपात्राणि फलानि समिधस्तथा ।
श्राद्धे चातिपवित्राणि मेध्यानीति विशेषतः ॥६६॥

पवित्रं वा द्विजश्रेष्ठ शुद्धये जन्मकर्म्मसु ।
पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥६७॥

तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् ।
कृत्वा समाहितं चित्तमग्रये वै करोम्यहम् ॥६८॥

अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः ।
पत्नीमादाय पुत्रांश्च जुहुयाद्धव्यवाहनम् ॥६९॥

समानप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः ।
उदुम्बरास्तथा बिल्वचन्दना यज्ञियाश्च ते ॥७०॥

सरलो देवदारुश्च शालश्च खदिरस्तथा ।
समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥७१॥

ग्राम्याः कम्टकिनश्चैव यज्ञिया येन केन च ।
पूजिताः समिदर्थे तु पितॄणां वचनं तथा ॥७२॥

समिद्भिः कल्कलेयाभिर्ज्जुहुयाद्यो हुताशनम्  ।
फलं यत् कर्मणस्तस्य तन्मे निगदतः श्रृणु ॥७३॥

आयसं सर्व्वकामीयमश्वमेधफलं हि तत् ।
श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ॥७४॥

नीपो विभी तकश्चैव वल्लीभिश्च तथैव च ।
शकुनानां निवासश्च वर्जयेच्च महीरुहान् ।
अयज्ञीयाः स्मृता ये च वृक्षांश्चैव तु वर्जयेत् ॥७५॥

स्वधेति चैव मन्त्रान्ते पितॄणां वचनं तथा ।
स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥७६॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP