संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्| अध्यायः १३ उत्तरार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० उत्तरार्धम् - अध्यायः १३ वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे. Tags : puranvayu puranपुराणवायु पुराणसंस्कृत अध्यायः १३ Translation - भाषांतर ॥बृहस्पतिरुवाच॥पालाशं ब्रह्मगवर्चस्यमश्वत्थे राज्यभावना ।सर्वभूताधिपत्यं च प्लक्षे नित्यमुदाहृतम् ॥१॥पुष्टिकामं च न्यग्रोधं बुद्धिं प्रज्ञां धृतिं स्मृतिम् ।रक्षोघ्नं च यशस्यं च काश्मर्य्यं पात्रमुच्यते ॥२॥सौभाग्यमुत्तमं लोके मधुके समुदाहृतम् ।फल्गुपात्रे च कुर्वाणः सर्वान्कामानवाप्नुयात् ॥३॥परा द्युतिरथो कर्त्तुः प्राकाश्यं च विशेषतः ।बिल्वे लक्ष्मीस्तथा मेधा नित्यमायुष्यमेव च ॥४॥क्षेत्रारामतडागेषु सर्वसस्येषु चैव हि ।वर्षेदजस्रं पर्जन्यो वेणुपात्रेषु कुर्व्वतः ॥५॥एतेष्वेव सुपात्रेषु ये चैवाग्रयणं ददुः ।सकृदप्यत्र यज्ञानां सर्वेषां फलमुच्यते ॥६॥पितृभ्यो यस्तु माल्यानि सुगन्धीनि च सर्वशः ।सदा दद्याच्छ्रिया युक्तः स विभाति दिवाकरः ॥७॥गुग्गुलादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति ।संयुक्तान्मधुसर्पिर्भ्यां सोऽश्वमेधफलं लभेत् ॥८॥धूपं गन्धगुणोपेतं कान्तं पितृपरायणम् ।लभते स्त्रीष्वपत्यानि इह चामुत्र चोभयोः ।दद्यादेव पितृभ्यस्तु नित्यमेव ह्यतन्द्रितः ॥९॥दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति ।स लोकेऽप्रतिमं चक्षुः सदा च लभते शूभम् ॥१०॥तेजसा यशमा चैव कान्त्या चैव बलेन च ।भुवि प्रकाशो भवति भ्राजते च त्रिविष्टपे ।अप्सरोभिः परिवृतो विमानाग्रे स मोदते ॥११॥गन्धान्पुष्पाणि धूपांश्च दद्यादाज्यादुतीश्च वै ।फलमूलनमस्कारैः पिदॄणां प्रयतः शुचिः ।पूर्व कृत्वा द्विजान्पश्वात्पूजयेदन्नसम्पदा ॥१२॥श्राद्धकाले तु सततं वायुभूताः पितामहाः ।आविशन्ति द्विजान्दृष्ट्वा तस्मादेतद्ब्रवीमि ते ॥१३॥वस्त्रैरन्नैः प्रदानैस्तैर्भक्ष्यपेयैस्तथैव च ।गोभिरश्वैस्तथा ग्रामैः पूजयित्वा द्विजोत्तमान् ॥१४॥भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु ।तस्मादन्नेन विधिवत् पूजयेद्द्विजसत्तमान् ॥१५॥सव्योत्तराभ्यां पाणिभ्यां कुर्य्यादुल्लेखनं द्विजः ।प्रोक्षणञ्च तथा कुर्याच्छ्राद्धकर्म्मण्यतन्द्रितः ॥१६॥दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च ।गन्धदानमलङ्कारमेकैकं निर्वपेद्वुधः ॥१७॥पोषयित्वा जनं सम्यग्वैश्वः स्यादुत्तरो द्विजः ।अभ्यङ्ग दर्भपिञ्जालैस्त्रिभिः कुर्याद्यथाविधि ॥१८॥अपसव्यं पितृभ्यश्च दद्यादन्नमनुत्तमम् ।तमुच्चार्य्याथ सर्वेषां वस्त्रार्थं॥सूत्रमेव च ॥१९॥खण्डनं पोषणं चैव तथैवोल्लेखनं तथा ।सकृदेव हि देवानां पितॄणां त्रिभिरुच्यते ॥२०॥एकं पवित्रं हस्तेन पितॄन्सर्वान्सकृत्सकृत् ।चैलमन्त्रेण पिण्डेभ्यो दत्त्वा दर्शनजं हितम् ॥२१॥सदा सर्पिस्तिलैर्युक्तां स्त्रीन् पिण्डान्निर्वपेद्भुवि ।जानुं कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥२२॥पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ।आहूय च पितॄन् प्राञ्चान् पितृतीर्थेन यत्नतः ।पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ॥२३॥अन्नेनाद्भिश्च पुष्पैश्च भक्ष्यैश्चैव पृथग्विधैः ।पृथग् मातामहानान्तु केचिदिच्छन्ति मानवाः ॥२४॥त्रीन् पिण्डानानुपूर्व्व्येण साङ्गुष्ठान्पुष्टिवर्द्धनान् ।जान्वन्तराभ्यां यत्नेन पिण्डान् दद्याद्यथाक्रमम् ॥२५॥सव्योत्तराभ्यां पाणिभ्यां धर्मे मन्त्रे च पर्य्ययः ।नमो वः पितरः सूक्ष्मैः सदा ह्येवमतन्द्रितः ॥२६॥दक्षिणस्यान्तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत् ।नमो वः पितरः सौम्याः पठन्नित्यमतन्द्रितः ॥२७॥सव्योत्तराभ्यां पाणिभ्यां धर्मे सर्व्वमतन्द्रितः ।उलूखलस्य लेखाया मुदपात्राच्च सेवनम् ॥२८॥क्षौम॥सूत्रं नवं दद्याच्छोणं कार्पासिकं तथा ।पत्रोर्णं पितृ॥सूत्रञ्च कौशेयं परिवर्जयेत् ॥२९॥वर्जयेत्तद्दशां यज्ञे यदप्यहतवस्त्रजाम् ।न प्रीणन्ति तथैतानि दातुराप्यायतो भवेत् ॥३०॥श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च ।कृष्णेभ्यश्च तिलेभ्यश्च यत्तैलं परिरक्षितम् ॥३१॥चन्दनागुरुणी चोभे तमालोशीरपझकम् ।धूपं च गुग्गुलश्रेष्ठं तुरुष्कं धूपमेव च ॥३२॥शुक्लाः सुमनसः श्रेष्ठास्तथा पझोत्पलानि च ।गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ॥३३॥जवासुमनसो भण्डीरूपकामकुरण्डकाः ।पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥३४॥यानि गन्धादपेतानि उपगन्धीनि यानि च ।वर्जनीयानि पुष्पाणि भूतिमन्विच्छता तदा ॥३५॥द्विजातयस्तथान्विष्ठा नियताः स्युरुदङ्मुखाः ।पूजयेद्यजमानस्तु विधिवद्दक्षिणामुखः ॥३६॥तेषामभिमुखो दद्याद्दर्भान्पिण्डांश्च यत्नतः ।अनेन विधिना साक्षादर्च्चयेत् स्वान् पितामहान् ॥३७॥हरिता वै सपिञ्जल्याः पुष्पस्निग्धाः समाहिताः ।रत्निमात्रप्रदानेन पितृतीर्थेन संस्थिताः ॥३८॥उपमूले तथा नीलाः प्रस्तराद्यकुलोद्यमाः ।तथा श्मामाकनीवारा दुर्वाराः समुदाहृताः ॥३९॥पूर्व्वंकीर्त्तितवाञ्छ्रेष्ठो बभूवाथ प्रजापतिः ।तस्य वाला निपतिता भूमौ चाकाशमार्गतः ॥४०॥तस्मान्मेध्या समाकाशाः श्राद्धकर्मणि पूजिताः ।पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता ॥४१॥प्रजापुष्टिर्द्युतिः कीर्त्तिः प्रजाकान्तिसमन्विता ।भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः ॥४२॥सकृदेवास्तरेद्दर्भान् पिण्डार्थं दक्षिणामुखः ।प्राग्दक्षिणाग्रनियतो विधिञ्चाप्यनुवक्ष्यति ॥४३॥न दीनो वापि वा क्रुद्धो न चैवान्यमना नरः ।एकाग्रमाधाय मनः श्राद्धं कुर्य्यात्सदा बुधः ॥४४॥निहन्मि सर्व्वं यदमेध्यवद्भवेद् हताश्च सर्व्वे सुरदानवा मया ।रक्षांसि यक्षाश्च पिशाचसङ्घा हता मया यातुधानाश्च सर्व्वे ॥४५॥एवं पित्रे दृष्टमन्नं हि यस्य तस्यासुरा वर्जयन्तीह सर्व्वे ।यस्मिन्देशे पठ्यते एष मन्त्रस्तं वै देशं राक्षसा वर्जयन्ति ॥४६॥अनेन विधिना नित्यं श्राद्धं कुर्य्याद्द्विजः सदा ।मनसा काङ्क्षितं यद्यत्तत्तद्दद्युः पितामहाः ॥४७॥पितरो हृष्टमनसो रक्षांसि विमनांसि च ।भवन्त्येव कृते श्राद्धे नित्यमेव प्रयत्नतः ॥४८॥शूद्राः श्राद्धे क्षीरवाशु बल्वजास्तरवस्तथा ।वारणाश्च लवाश्चैव लववर्षाश्च नित्यशः ।एवमादीन्यथान्यानि तृणानि परिवर्जयेत् ॥४९॥अञ्जनाभ्यञ्जनागन्धामानुप्रलयनं तथा ।काशैः पुनर्भवैः कार्य्यं सर्व्वमेव फलं भवेत् ॥५०॥काशाः पुनर्भवा ये च बर्हणा उपबर्हणाः ।अथ ते पितरो देवा देवाश्च पितरः पुनः ॥५१॥पुष्पगन्धादिधूपानामेष मन्त्र उदाहृतः ।आहृत्य दक्षिणायान्तु होमार्थे विप्रयत्नतः ॥५२॥सोमाय वै पितृमते स्वधा अङ्गिरसे नमः ।अस्वर्ग्यं लौकिकं वापि जुहुयात्कर्म्मसिद्धये ॥५३॥अन्तराधाय समिधं तथा होमो विधीयते॥समाहितेन मनसा प्रयताग्निः प्रयत्नतः ॥५४॥अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः ।यमाय चैवाङ्गिरसे स्वधा नम इति ब्रुवन् ॥५५॥इत्येते वै होममन्त्रा मन्त्राणामनु पूर्व्वशः ।दक्षिणातोऽग्नये नित्यं सोमायान्तरतस्तथा ॥५६॥एतयोरन्तरं नित्यं जुहुयाद्वै विवस्वते ।उपचारं स्वधाकारं तथैवोल्लेखनञ्च यत् ॥५७॥होमजप्ये नमस्कारः प्रोक्षणञ्च विशेषतः ।अञ्जनाभ्यञ्जने चैव पिण्डसंवपनं तथा ॥५८॥अश्वमेधफलेनैव तत्स्मृतं मन्त्रपूर्व्वकम् ।क्रियाः सर्व्वा यथो द्दिष्टाः प्रयत्नेन समाचरेत् ॥५९॥बहुहव्यत्वमेवाग्नौ सुसमिद्धे विशेषतः ।विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥६०॥अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने ।यजमानो भवेदन्धः सोऽपुत्र इति नः श्रुतम् ॥६१॥अल्पेन्धनो वा रूक्षो वा विस्फुलिङ्गश्च सर्व्वशः ।ज्वाला धूमोपसेव्यश्च स तु वह्निर्न सिद्धये ॥६२॥दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः ।भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥६३॥अर्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसम्भवः ।स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्य्यसिद्धये ॥६४॥नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् ।अक्षयाः पूजितास्तेन भवन्ति पितरोऽव्ययाः ॥६५॥स्थाल्युदुम्बरपात्राणि फलानि समिधस्तथा ।श्राद्धे चातिपवित्राणि मेध्यानीति विशेषतः ॥६६॥पवित्रं वा द्विजश्रेष्ठ शुद्धये जन्मकर्म्मसु ।पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥६७॥तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् ।कृत्वा समाहितं चित्तमग्रये वै करोम्यहम् ॥६८॥अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः ।पत्नीमादाय पुत्रांश्च जुहुयाद्धव्यवाहनम् ॥६९॥समानप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः ।उदुम्बरास्तथा बिल्वचन्दना यज्ञियाश्च ते ॥७०॥सरलो देवदारुश्च शालश्च खदिरस्तथा ।समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥७१॥ग्राम्याः कम्टकिनश्चैव यज्ञिया येन केन च ।पूजिताः समिदर्थे तु पितॄणां वचनं तथा ॥७२॥समिद्भिः कल्कलेयाभिर्ज्जुहुयाद्यो हुताशनम् ।फलं यत् कर्मणस्तस्य तन्मे निगदतः श्रृणु ॥७३॥आयसं सर्व्वकामीयमश्वमेधफलं हि तत् ।श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ॥७४॥नीपो विभी तकश्चैव वल्लीभिश्च तथैव च ।शकुनानां निवासश्च वर्जयेच्च महीरुहान् ।अयज्ञीयाः स्मृता ये च वृक्षांश्चैव तु वर्जयेत् ॥७५॥स्वधेति चैव मन्त्रान्ते पितॄणां वचनं तथा ।स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥७६॥इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP