संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः १७

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥ऋषय ऊचुः॥
अहो धीमंस्त्वया॥सूत श्राद्धकल्पस्तु कीर्तितः ।
श्रुतो नः श्राद्धकल्पो वै ऋषिभिः परिकीर्तितः ॥१॥

अतीव विस्तरो यस्य विशेषेण प्रकीर्तितः ।
वद शेषं महाप्राज्ञ ऋषेस्तस्य यथामतम् ॥२॥

 ॥सूत उवाच॥
कीर्तयिष्यामि ते विप्रा ऋषेस्तस्य मतन्तु तत् ।
श्राद्धं प्रति महाभागास्तन्मे श्रृणुत विस्तरात् ॥३॥

उक्तं श्राद्धं मया पूर्वं विधिश्च श्राद्धकर्म्मणि ।
परिशिष्टं प्रवक्ष्यामि ब्राह्मणानां यथाक्रमम् ॥४॥

न मीमांस्याः सदा विप्राः पवित्रं ह्येतदुत्तमम् ।
दैवे पित्र्ये च सततं श्रूयते वै परीक्षणम् ॥५॥

यस्मिन् दोषाः प्रदृश्येरन् सद्भिर्वा वर्जितस्तु यः ।
जानीयाद्वापि संवासाद्वर्ज्जयेत्तं प्रयत्नतः ॥६॥

अविज्ञातं द्विजं श्राद्धे परीक्षेत सदा बुधः  ।
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ॥७॥

तस्मादतिथिमायान्तमभिगच्छेत् कृताञ्जलिः ।
पूजयेच्चापि पाद्येन पादाभ्यञ्जनभोजनैः ॥८॥

उर्वीं सागरपर्यन्तां देवा योगेश्वरास्तथा ।
नाना रूपैश्चरन्त्येते प्रजा धर्म्मेण पालयन् ॥९॥

अर्चयित्वा ततो दद्याद्विप्रायातिथये नरः ।
व्यञ्जनानि च भक्ष्याणि फलं तेषां तथैव च ॥१०॥

आग्निष्टोमं तु पयसा प्राप्नुयाद्वै तथाश्रुतम् ।
सर्पिषा तु शुभं चक्षुः षोडशाहफलं लभेत् ।
मधुना त्वतिरात्रस्य फलं च समवाप्नुयात् ॥११॥

तत्प्राप्नुयाच्छ्रद्दधानो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान् ।
सर्वार्थदः सर्वविप्रातिथौ यः फलं भुङ्क्ते सर्वमेधस्य नित्यम् ॥१२॥

यस्तु श्राद्धेऽतिथिं प्राप्य दैवे वाप्यवमन्यते ।
तं वै देवा विश्वयन्ति होता यद्वत् परां वसुम् ॥१३॥

देवाश्च पितरश्चैव वह्निश्चैव हि तान् द्विजान्  ।
आविश्य भुञ्जते तद्वै लोकानुग्रहकारणात् ॥१४॥

अपूजिता दहन्त्येते दद्युः कामांश्च पूजिताः ।
सर्वस्वेनापि तस्माद्वै पूजयेदतिथीन् सदा ॥१५॥

वानप्रस्थो गृहस्थश्च गृहमभ्यागतोऽथवा ।
बालाः खिन्ना यतिश्चैव जानीयादतिथीन् सदा ॥१६॥

अभ्यागतो याचकः स्यादतिथिः स्यादयाचकः ।
अतिथेरतिथिः श्रेष्ठः सोऽतिथिर्योग उच्यते ॥१७॥

न घोरो नापि सङ्कीर्णो नाविद्यो न विशेषवित् ।
न च सन्तो न समृद्धो न सेवी नाचरोऽतिथिः ॥१८॥

पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते ।
तस्मै सत्कृत्य दातव्यं यज्ञस्य फलमिच्छता ॥१९॥

आरुह्य भृगुतुङ्गोषु गत्वा पुण्यां सरस्वतीम् ।
आपगां तु नदी पुण्यां गङ्गा देवी महानदी ॥२०॥

हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूजिताः  ।
सरस्तीर्थाभिसंवेद्या नदी नववहास्तथा ॥२१॥

गत्वैतान् मुच्यते पापैः स्वर्गे नित्यं महीयते ।
दशरात्रमशौचन्तु प्रोक्तं वै मृत॥सूतके ॥२२॥

ब्राह्मणस्य विशेषेण क्षत्रिये द्वादश स्मृतम् ।
अर्द्धं मासन्तु वैश्यस्य मासाच्छूद्रस्तु शुध्यति ॥२३॥

उदक्या सर्ववर्णानां त्रिरात्रेण तु शुद्धयति ।
उदक्यां॥सूतिकाञ्चैव श्वानमन्त्यावसायिनम् ॥२४॥

नग्नादीन् मृतहारांश्च स्पृष्ट्वाऽशौचं विधीयते ।
स्नात्वा सचैलो मृद्भिस्तु द्वादशभिस्तु शुध्यति ॥२५॥

एतदेव भवेच्छौचं मैथुने नवभिस्तथा ।
मृदा प्रक्षाल्य हस्तौ तु कुर्याच्छौचविधिन्नरः ॥२६॥

प्रक्षाल्य चाद्भिर्हस्तौ च स्नात्वा चैव मृदा पुनः ।
मृदं गुह्ये ततो द्विस्तु पुनरेव मृदं बुधः ॥२७॥

एवं शौच विधिर्दृष्टः सर्ववर्णेषु नित्यदा ।
परिदद्यान्मृदस्तिस्रो हस्तपादावसेचनम् ॥२८॥

आरण्यं शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम् ।
मृदस्तिस्रः पादयोस्तु हस्तयोस्तिस्र एव च ॥२९॥

मृदः पञ्चदशामेध्ये हस्तादीनां विभागशः ।
अनिर्णिक्ते मृदं दद्यान्मृदन्ते त्वद्भिरेव तु ॥३०॥

कण्ठं शिरो वा प्रावृत्य रथ्या पादगतस्तु वा ।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ॥३१॥

प्रक्षाल्य पात्रं निःक्षिप्य आचम्याभ्युक्षणं पुनः ।
द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं पुनः ॥३२॥

पुष्पादीनां तृणानाञ्च प्रोक्षणं हविषान्तथा ।
पराहृतानां द्रव्याणां निधायाभ्युक्षणं तथा ॥३३॥

प्रोक्षितन्तु हरेत् किञ्चि च्छ्राद्धे दैव तथा पुनः ।
उत्तरेण हरेद्वेद्यां दक्षिणेन विसर्जयेत् ॥३४॥

विच्छिन्नं स्याद्विपर्यासे दैवे पित्र्ये तथैव च ।
दक्षिणेन तु हस्तेन दक्षिणां वेदिमालिखेत् ॥३५॥

कराभ्यामेव देवानां पितॄणां विकरं शुभम् ।
क्षुभितस्वप्नयोश्चैव तथा मूत्रपुरीषयोः ॥३६॥

निष्ठीविते यथा व्यक्ते भुक्त्वा विपरिधाय च ।
उच्छिष्टस्य च संस्पर्शे तथा पादावसेचने ॥३७॥

उत्सृष्टस्य सुमम्भाषे ह्यशुचिं प्रयतस्य च ।
सन्देहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ॥३८॥

विना यज्ञोपवीतेन मोहात्तु यद्युपस्पृषेत् ।
औष्ठस्य दन्तसंस्पर्शे दर्शने चान्त्यवासिनाम् ॥३९॥

जिङ्वया चैव संस्पृश्य दन्तासक्तं तथैव च ।
सशब्दमङ्गुलीभिश्च प्रणतश्चावलो कयन् ॥४०॥

यश्चाधर्मे स्थितो मोहादायान्तोऽप्यशुचिर्भवेत् ।
उपविश्य शुचौ देशे प्रणतः प्रागुदङ्मुखः ॥४१॥

पादौ प्रक्षाल्य हस्तौ तु अन्तर्जानुरुप स्पृशेत् ।
प्रसन्नास्त्रिः पिबेच्चापः प्रयतः सुसमाहितः ॥४२॥

द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः ।
खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च ॥४३॥

अभ्युक्षणं तथा तस्य यद्यमीमांसितं भवेत् ।
एवमाचमनं तस्य वेदा यज्ञास्तपांसि च ॥४४॥

दानानि ब्रह्मचर्यञ्च भवन्ति सफलास्तथा ।
क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः ॥४५॥

भवन्ति च वृथा तस्य क्रिया ह्येता न संशयः ।
वाग्भावशुद्धनिर्णिक्तमदुष्टं वाप्यनिन्दितम् ॥४६॥

मेध्यान्येतानि ज्ञेयानि दुष्टमेभ्यो विपर्ययः ।
न वक्तव्यः सदा विप्रः क्षुधितो नास्ति किञ्चन ॥४७॥

तस्मै सत्कृत्य यो दद्यादयूपो यज्ञ उच्यते ।
अप्लुष्टान्नं श्रृतान्नन्तु कृशवृत्तिमयाचकम् ॥४८॥

एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजयेत्  ।
यो ददात्यान्तिमभ्येश्च स ब्रह्मघ्नो दुरात्मवान् ॥४९॥

अपि जातिशतं गत्वा न स मुच्येत किल्बिषात् ।
विषमं भोजयेद्विप्रानेकपंस्तया च यो नरः ॥५०॥

नियुक्तो वाऽनियुक्तो वा पंक्त्‌या हरति दुष्कृतम् ।
पापेन गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ॥५१॥

यतिस्तु सर्व्वविप्राणां सर्व्वेषामग्र्य उत्सवे ।
इतिहासपञ्चमान् वेदान् यः पठेत्तु द्विजोत्तमः ॥५२॥

अनन्तरं यथायोग्यं नियोक्तव्यो विजानता ।
त्रिवेदोऽनन्तरस्तस्य द्विवेदस्तदनन्तरः ॥५३॥

एकवेदस्तथा पश्चान्नयायाध्यायी ततः परम् ।
पावनायैव पंक्त्या वै तान् प्रवक्ष्ये निबोधत ॥५४॥

य एते पूर्व्वनिर्द्दिष्टाः सर्व्वे ते ह्यनुपूर्व्वशः ।
षडङ्गी विनयी योगी सर्व्वतन्त्रस्तथैव च ॥५५॥

यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः  ।
अष्टादशानां विद्यानामेकस्मिन् पारगोऽपि यः ॥५६॥

यथावद्वर्त्तमानश्च सर्वे ते पङ्क्तिपावनाः ।
त्रिणा चिकेतास्त्रैविद्यो यश्च धर्म्मान् पठेद्द्विजः ॥५७॥

बार्हस्पत्ये तथा शास्त्रे पारं यश्च द्विजो गतः ।
सर्व ते पावना विप्राः पङ्क्तीनां समुदाहृताः ॥५८॥

आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः ।
पितरस्तस्य तं मासं तस्य रेतसि शेरते ॥५९॥

श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो निषेवते ।
पितरस्तस्य तं मासं रेतःस्था नात्र संशयः ॥६०॥

तस्मादतिथये देयं भोजयेद्ब्रह्मचारिणम् ।
ध्याननिष्ठाय दातव्यं सानुक्रोशाय धार्मिकम् ॥६१॥

यतिं वा वालखिल्यान् वा भोजयेच्छ्राद्धकर्म्मणि ।
वानप्रस्थोपकुर्व्वाणः पूजामात्रेण तोषितः ॥६२॥

गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः ।
वानप्रस्थेन ॥ऋषयो वालखिल्यैः पुरन्दरः ॥६३॥

यतीनां पूजने चापि साक्षाद्ब्रह्मा तु पूजितः ।
आश्रमाः पावनाः पञ्च उपधाभिरनाश्रमाः ॥६४॥

चत्वार आश्रमाः पूज्याः श्राद्धे दैवे तथैव च ।
चतुराश्रमबाह्येभ्यः श्राद्धं नैव प्रदापयेत् ॥६५॥

स तिष्ठेद्वा बुभुक्षुस्तु चतुराश्रमबाह्यतः ।
अयति र्मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ ॥६६॥

वृथामुण्डाश्च जटिलाः सर्वे कार्प्पटिकास्तथा ।
निर्घृणान् भिन्नवृत्तांश्च सर्वभक्षान् विवर्जयेत् ॥६७॥

कारुकादीननाचारान् सर्ववेदबहिष्कृतान् ।
गायनान् देववृत्तांश्च हव्यकव्येषु वर्जयेत् ॥६८॥

द्विजेष्वपि कृतं नित्यं श्राद्धकर्म्मणि वर्जयेत् ॥६९॥

एतेषु वर्त्तते यश्च कृत्स्ववर्णं स गच्छति ।
योऽश्नाति सह शूद्रेण सर्वे ते पङ्क्तिदूषकाः ॥७०॥

व्यापादनं शक्तिनिबर्हणं कृषिर्वाणिज्यकार्य्यं पशुपालनं च ।
शुश्रूषणं वाप्यगुरो रहो वा कार्य्यं नैतद्विद्यते ब्राह्मणस्य ॥७१॥

ये तु विप्राः स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा ।
मिथ्यासङ्कल्पिनः सर्वे दुर्वृत्ता वा द्विजातयः ॥७२॥

मिथ्यातत्त्वविदो वर्ज्ज्यास्तथा दम्भविषूचकाः ।
उपपातकसंयुक्ताः पातकैश्च विशेषतः ॥७३॥

वेदे नियोगदातारो लोभमोहफलार्थिनः ।
ब्रह्मविक्रयिणश्चैव श्राद्धकर्म्मणि वर्जिताः ॥७४॥

न नियोगोऽस्ति वेदानां यो नियुङ्क्ते स पापकृत् ।
भोक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा ॥७५॥

भृतोऽध्यापयते यस्तु भृतकाध्यापितस्तु यः  ।
नार्हतस्तावपि श्राद्धं ब्रह्मणः क्रियविक्रयी ॥७६॥

क्रयविक्रयिणौ चैव जीवितार्थं विगर्हितौ ।
वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् ॥७७॥

प्राहुर्वेदान् वेदविदो वेदान् यश्चोपजीवति॥
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च ॥७८॥

वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरे ।
नार्हतस्तावपि श्राद्धं द्विजो यश्चैव नास्तिकः ॥७९॥

आत्मार्थं यः पचेदन्नं न देवातिथिकारकः ।
नार्हतस्तावपि श्राद्धं पतितौ ब्रह्मराक्षसौ ॥८०॥

स्त्रियो नक्तंपरा येषां परदाररताश्च ये ।
अर्थकाम रताश्चैव न तान् श्राद्धेषु भोजयेत् ॥८१॥

वर्णाश्रमाणां धर्म्मेषु विरुद्धाः श्राद्धकर्म्मणि ।
स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः ॥८२॥

यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः ।
न तदश्नन्ति पितरो यश्च वामं समश्नुते ॥८३॥

स्त्रीशूद्रायानुपेताय श्राद्धोच्छिष्टं न दापयेत् ।
यो दद्या द्रागमोहात्तु न तद्गच्छेत्पितॄन्सदा ॥८४॥

तस्मान्न देयमुच्छिष्टमन्नाद्यं श्राद्धकर्म्मणि ।
अन्यत्र दधिसर्पिर्भ्यां शिष्ये पुत्राय नान्यथा ॥८५॥

अनुच्छिष्टन्तु दातव्यमन्नाद्यं वै विशेषतः ।
पुष्पमूलफलैर्वापि तुष्टिं गच्छन्ति चान्नतः ॥८६॥

यावन्त्यन्नानि पूतानि यावदुष्णं न मुञ्चति ।
तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः ॥८७॥

दानं प्रतिग्रहो होमो भोजनं बलिरेव च ।
साङ्गुष्ठेन तथा कार्य्यं नासुरेभ्यो यथा भवेत् ॥८८॥

एतान्येव च सर्व्वाणि दानादीनि विशेषतः ।
अन्तर्जान्वविशेषेण तद्वदाचमनं भवेत् ॥८९॥

मुण्डाञ्जटिलकाषायान् श्राद्धकालेऽपि वर्ज्जयेत् ।
शिखिभ्यो वा त्रिदणिडभ्यः श्राद्धं यत्नात् प्रदापयेत् ॥९०॥

ये तु व्रते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा ।
देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ॥९१॥

सर्व्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं वै निरन्तरम्  ।
तस्मात् पश्यन्ति ते सर्वे यत्किञ्चिज्जगतीगतम् ॥९२॥

व्यक्ताव्यक्तं वशीकृत्य सर्व्वस्यापि च यत्परम् ।
सदसच्चेति यैर्दृष्टं सदसच्च महात्मनाम् ॥९३॥

सर्व्वज्ञानानि दृष्टानि मोक्षादीनि महात्मनाम् ।
तस्मात्तेषु सदासक्तः प्राप्नोत्यनुत्तमं शुभम् ॥९४॥

ऋचो हि यो वेद स वेद वेदान् यजूंषि यो वेद स वेद यज्ञम् ।
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्व्वम् ॥९५॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे ब्राह्मणपरीक्षा नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP