संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्| अध्यायः ३५ उत्तरार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० उत्तरार्धम् - अध्यायः ३५ वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे. Tags : puranvayu puranपुराणवायु पुराणसंस्कृत अध्यायः ३५ Translation - भाषांतर मनुष्यप्रकृतीन् देवान् कीर्त्यमानान्निबोधत ।सङ्कर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च ॥१॥अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः ।सप्तर्षयः कुबेरश्च यक्षो मणिवरस्तथा ॥२॥शालकी बदरश्चैव विद्वान् धन्वन्तरिस्तथा ।नन्दिनश्च महादेवः शालङ्कायन उच्यते ।आदिदेवस्तदा जिष्णुरेभिश्च सह दैवतैः ॥३॥॥ऋषय ऊचुः॥विष्णुः किमर्थं सम्भूतः स्मृताः सम्भूतयः कति ।भविष्याः कति वान्ये तु प्रादुर्भावा महात्मनः ॥४॥ब्रह्मक्षेत्रे युगान्तेषु किमर्थमिह जायते ।पुनः पुनर्म्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥५॥विस्तरेणैव सर्वाणि कर्म्माणि रिपुघातिनः ।श्रोतुमिच्छामहे सम्यग् देहैः कृष्णस्य धीमतः ॥६॥कर्म्मणामानुपूर्व्यञ्च प्रादुर्भावाश्च ये प्रभो ।या चास्य प्रकृतिः॥सूत ताश्चास्मान् वक्तुमर्हसि ॥७॥कथं स भगवान् विष्णुः सुरेष्वरिनिषूदनः ।वसुदेवकुले धीमान् वासुदेवत्वमागतः ॥८॥अमरैः॥सूत किं पुण्यं पुण्यकृद्भिरलंकृतम् ।देवलोकं समुत्सृज्य मर्त्यलोकमिहागतः ॥९॥देवमानुषयोर्नेता भूर्भुवःप्रसवो हरिः ।किमर्थं दिव्यमात्मानं मानुषे समवेशयत् ॥१०॥यश्चक्रं वर्तयत्येको मनुष्याणां मनोमयम् ।मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥११॥गोपायनं यः कुरुते जगतां सार्व्वलौकिकम् ।स कथं गां गतो विष्णुर्गोपमन्वकरोत्प्रभुः ॥१२॥महाभूतानि भूतात्मा यो ददार चकार ह ।श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥१३॥येन लोकान् क्रमैर्जित्त्वा त्रिभिस्त्रींस्त्रिदशेप्सया ।स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ॥१४॥योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः ।लोकमेकार्णवं चक्रे दृश्यादृश्येन वर्त्मना ॥१५॥यः पुराणे पुराणात्मा वाराहं वपुरास्थितः ।ददौ जित्त्वा वसुमतीं सुराणां सुरसत्तमः ॥१६॥येन सैंहं वपुः कृत्वा द्विधाकृत्वा च यत्पुनः ।पूर्व्वदैत्यो महावीर्य्यो हिरण्यकशिपुर्हतः ॥१७॥यः पुरा ह्यनलो भूत्वा और्व्वः संवर्त्तको विभुः ।पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ॥१८॥सहस्रचरणं देवं सहस्रांशुं सहस्रशः ।सहस्रशिरसं देवं यमाहुर्वै युगे युगे ॥१९॥नाभ्यारण्याः समुद्भूतं यस्य पैतामहं गृहम् ।एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ॥२०॥येन ते निहता दैत्याः संग्रामे तारकामये ।सर्व्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥२१॥गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः ।उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः ।यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥२२॥पुराणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम् ।शक्रञ्च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ॥२३॥यदानिलो लोकपदानि हृत्वा चकार दैत्यान् सलिलेशयांस्तान् ।कृत्वादिदेवस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव ॥२४॥गार्हपत्येन विधिना अन्वाहार्य्येण कर्म्मणा ।अग्निमाहवनीयञ्च वेदिञ्चैव कुशस्रवम् ॥२५॥प्रोक्षणीयं स्रुवञ्चैव अवभृथं तथैव च ।अथ त्रीनिह यश्चक्रे हव्यभाग प्रदान्मखे ॥२६॥हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि ।भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्म्मणि ॥२७॥यूपान् समित्स्रुवं सोमं पवित्रं परिधीनपि ।यज्ञियानि च द्रव्याणि यज्ञीयांश्च तथानलान् ॥२८॥सदस्यान् यजमानांश्च अश्वमेधान् क्रतूत्तमान् ।विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्म्मणा ॥२९॥युगानुरूपं यः कृत्वा त्रील्लोँकान् हि यथाक्रमम् ।क्षणा निमेषाः काष्ठाश्च कलास्त्रैकालमेव च ॥३०॥मुहूर्त्तास्तिथयो मासा दिनसंवत्सरास्तथा ।ऋतवः कालयोगाश्च प्रमाणं त्रिविधन्तथा ॥३१॥आयुः क्षेत्राण्युपचयं लक्षणं रूपसौष्ठवम् ।मेधा वित्तं च शौर्य्यञ्च शास्त्रस्यैव च पारणम् ॥३२॥त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः ।त्रैकाल्यं त्रीणि कर्म्माणि तिस्रो मायास्त्रयो गुणाः ॥३३॥सृष्टा लोकाः सुराश्चैव येनात्यन्तेन कर्म्मणा ।सर्व्वभूतगणाः सृष्टाः सर्व्वभूतगणात्मना ॥३४॥नृणामिन्द्रियपूर्व्वेण योगेन रमते च यः ।गतागतानां यो नेता सर्व्वत्र विविधेश्वरः ॥३५॥यो गतिर्धर्मयुक्तानामगतिः पापकर्म्मणाम् ।चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥३६॥चातुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः ।दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ॥३७॥चन्द्रसूर्य्यद्वयं ज्योतिर्युगेशः क्षणदाचरः ।यः परः श्रूयते देवो यः परं श्रूयते तपः ॥३८॥यः परन्तपसः प्राहुर्यः परम्परमात्मवान् ।आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ॥३९॥युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः ।सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्म्मणाम् ॥४०॥वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् ।सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ॥४१॥मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् ।विनयो नयतृप्तानां तेजस्तेजस्विनामपि ॥४२॥विग्रहो विग्रहाणां यो गतिर्गतिमतामपि ।आकाश प्रभवो वायुर्वायुप्राणा हुताशनः ॥४३॥दिवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः ।रसोऽभवच्छोणितं वै शोणितान्मांसमुच्यते ॥४४॥मांसात्तु मेदसो जन्म मेदसोऽस्थि निरूप्यते ।अस्थ्ना मज्जा समभवन्मज्जातः शुक्रसम्भवः ॥४५॥शुक्राद्घर्भः समभवद्रसमूलेन कर्म्मणा ।तत्रापि प्रथमञ्चापस्ताः सौम्यराशिरुच्यते ॥४६॥गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिरुच्यते ।शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम् ॥४७॥भावौ रसानुगावेतौ वीर्य्ये च शशिपावकौ ।कफवर्गेऽभवच्छुक्रं पित्तवर्गे च शोणितम् ॥४८॥कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् ।देहस्य मध्ये हृदयं स्थानन्तु मनसः स्मृतम् ॥४९॥नाबिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः ।मनः प्रजापतिर्ज्ञेयं कफः सोमो विभाव्यते ॥५०॥पित्तमग्निः स्मृतावेतावग्निसोमात्मकं जगत् ।एवं प्रवर्त्तितो गर्भो वर्त्ततेऽम्बुदसन्निभः ॥५१॥वायुः प्रवेशनं चक्रे सङ्गतः परमात्मना ।स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत् पुनः ॥५२॥प्राणापानौ समानश्च उदानो व्यान एव च ।प्राणोऽस्य परमात्मानं वर्द्धयन् परिवर्त्तते ॥५३॥अपानः पश्चिमं कायमुदानोर्द्ध्वशरीरगः ।व्यानो व्यानस्यते येन समानः सर्व्वसन्धिषु ॥५४॥भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा ।पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥५५॥सर्व्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे ।पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ॥५६॥छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते ।तेजश्चक्षुःष्विता ज्योत्स्ना तेषां यन्नामतः स्मृतम् ।सङ्ग्रामा विषयाश्चैव यस्य वीर्य्यात्प्रवर्त्तिताः ॥५७॥इत्येतान् पुरुषः सर्व्वान् सृजँल्लोकान् सनातनः ।नैधनेऽस्मिन् कथं लोके नरत्वं विष्णुरागतः ॥५८॥एष नः संशयो धीमन्नेष वै विस्मयो महान् ।कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ॥५९॥श्रोतुमिच्छामहे विष्णोः कर्म्माणि च यथाक्रमम् ।आश्चर्य्याणि परं विष्णुर्वेददेवैश्च कथ्यते ॥६०॥विष्णोरुत्पत्तिमाश्चर्य्यं कथयस्व महामते ।एतदाश्चर्य्यमाख्यानं कथ्यतां वै सुखावहम् ॥६१॥प्रख्यातबलवीर्य्यस्य प्रादुर्भावा महात्मनः ।कर्म्मणाश्चर्य्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ॥६२॥॥सूत उवाच॥अहञ्च कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः ।यथा स भगवाञ्जातो मानुषेषु महातपाः ॥६३॥सप्तसप्ततपः प्रोक्ता भृगुशापेन मानुषे ।जायते च युगान्तेषु देवकार्य्यर्थसिद्धये ॥६४॥तस्य दिव्यतनुं विष्णोर्गदतो मे निबोधत ।युगधर्म्मे परावृत्ते काले च शिथिले प्रभुः ॥६५॥कर्तुं धर्म्मव्यवस्थानं जायते मानुषेष्विह ।भृगोः शापनिमित्तेन देवासुरकृतेन च ॥६६॥॥ऋषय ऊचुः॥कथं देवासुरकृते अध्याहारमवाप्नुयात् ।एतद्वेदितुमिच्छामो वृत्तं दैवासुरं कथम् ॥६७॥॥सूत उवाच॥दैवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत ।हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक् प्रशासति ॥६८॥बलिनाधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात् ।सख्यमासीत्परं तेषां देवानामसुरैः सह ॥६९॥युगं वै दशसङ्कीर्णमासीदव्याहतं जगत् ।निदेशस्थायिनश्चैव तयोर्देवासुराभवन् ॥७०॥बलवान् वै विवादोऽयं संप्रवृत्तः सुदारुणः ।देवासुराणां च तदा घोरक्षयकरो महान् ॥७१॥तेषां दायनिमित्तं वै संग्राणा बहवोऽभवन् ।वाराहेऽस्मिन् दश द्वौ च षण्डामार्कोत्तराः स्मृता ॥७२॥नामतस्तु समासेन श्रृणुध्वं तान् विवक्षतः ।प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥७३॥तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्धनः ।संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ॥७४॥षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः ।अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ॥७५॥वार्त्तश्च दशमो ज्ञेयस्ततो हाला हलः स्मृतः ।स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ॥७६॥हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः ।वामनेन बलिर्वद्धस्त्रैलोक्याक्रमणे कृते ॥७७॥हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे तु दैवतैः ।महाबलो महासत्त्वः संग्रामेष्वपराजितः ॥७८॥दंष्ट्रायान्तु वराहेण समुद्राद्भूर्यदा कृता ।प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ॥७९॥विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः ।इन्द्रेणैव स विक्रम्य निहतस्तारकामये ॥८०॥भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः ।सञ्जभो निहतः षष्ठे शक्राविष्टेन विष्णुना ॥८१॥अशक्नुवन्तो देवेषु पुरं गोप्तुं त्रिदैवतम् ।निहता दानवाः सर्वे त्रिपुरस्त्र्यम्बकेण तु ॥८२॥अष्टमे त्वसुराश्चैवं राक्षसाश्चान्धकारकाः ।जितदेवमनुष्यैस्तु पितृभिश्चैव सङ्गतान् ॥८३॥संवृतान् दानवांश्चैव सङ्गतान् कृत्स्नशश्च तान् ।तथा विष्णुसहायेन महेन्द्रेण निबर्हिताः ॥८४॥हतो ध्वजो महेन्द्रेण मायाच्छन्नश्च योधयन् ।ध्वजे लक्ष्यं समाविश्य विप्रवर्त्तिर्महाभुजः ॥८५॥दैत्यांश्च दानवांश्चैव संहतान् कृत्स्नशश्च तान् ।रजिः कोलाहले सर्वान् देवैः परिवृतोऽजयत् ।यज्ञामृतेन विजितौ षण्डामार्कौ तु दैवतैः ॥८६॥एते दैवासुरा वृत्ताः संग्रामा द्वादशैव तु ।देवासुरक्षयकराः प्रजानामशिवाय च ॥८७॥हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ।तथा शतसहस्राणि ह्यदिकानि द्विसप्ततिः ।अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ॥८८॥पर्याये तस्य राजाऽनु बलिर्वर्षार्बुदं पुनः ।षष्टिं चैव सहस्राणि त्रिंशतं नियुतानि च ॥८९॥बले राज्याधिकारस्तु यावत्कालं बभूव ह ।प्रह्लादेन गृहीतोऽभूत्तावत्कालं तदासुरैः ॥९०॥इन्द्रास्त्रयस्ते विख्याता असुराणां महौजसः ।दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ॥९१॥असपत्नं ततः सर्वं राष्ट्रं दशयुगं पुरा ।त्रैलोक्यमव्ययमिदं महेन्द्रेण तु पाल्यते ॥९२॥प्रह्लादस्य ततश्चादस्त्रैलोक्यं कालपर्ययात् ।पर्यायेण च संप्राप्ते त्रैलोक्ये पाकशासनः ॥९३॥ततोऽसुरान् परित्यज्य यज्ञे देवा उपागमन् ।यज्ञे देवानथ गते काव्यं ते ह्यसुराब्रुवन् ॥९४॥कृतं नो मिषतां राष्ट्रं त्यक्त्वा यज्ञं पुनर्गताः ।स्थातुं न शक्नुमो ह्यद्य प्रविशामो रसातलम् ॥९५॥एवमुक्तोऽब्रवीदेतान् विषण्णः सान्त्वयन् गिरा ।माभैष्ट धारयिष्यामि तेजसा स्वेन चासुराः ॥९६॥वृष्टिरोषधयश्चैव रसा वसु च यद्वयम् ।कृत्स्ना मयि च तिष्ठन्ति पादस्तेषां सुरेषु वै ।युष्मदर्थं प्रदास्यामि तत्सर्वं धार्यते मया ॥९७॥ततो देवासुरान् दृष्ट्वा धृतान् काव्येन धीमता ।अमन्त्रयंस्तदा ते वै संविग्ना विजिगीषया ॥९८॥एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात् ।साधु गच्छामहे तूर्णं क्षीणान्नाप्याययस्व तान् ।प्रसह्य हत्वा शिष्टान् वै पातालं प्रापयामहे ॥९९॥ततो देवाः सुसंरब्धा दानवानभिसृत्य वै ।जध्नुस्तै र्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः ॥१००॥ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् ।समरेऽक्त्रक्षतार्त्तांस्तान् देवेभ्यस्तान् दितेः सुतान् ॥१०१॥काव्यो दृष्ट्वा स्थितान् देवान् तत्र देवोऽभ्यचिन्तयत् ।तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ॥१०२॥त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः ।बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥१०३॥महार्हेषु द्वादशसु संग्रामेषु सुरैर्हताः ।तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ॥१०४॥किञ्चिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम् ।नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम् ॥१०५॥यास्याम्यहं महादेवं मन्त्रार्थे विजयाय वः ।अग्निमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ॥१०६॥ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम् ।युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ॥१०७॥यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने ।न वै देवा वधिष्यन्ति यावदागमनं मम ॥१०८॥अप्रतीपांस्ततो मन्त्रान् देवात् प्राप्य महेश्वरात् ।योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥१०९॥ततस्ते कृतसंवादा देवानूचुस्ततोऽसुराः ।न्यस्तवादा वयं सर्वे लोकान् यूयं क्रमन्तु वै ॥११०॥वयं तपश्चरिष्यामः संवृता वल्कलैर्वने ।प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ॥१११॥ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह ।न्यस्तशस्त्रेषु दैत्येषु स्वान् वै जग्मुर्यथागतान् ॥११२॥ततस्तानब्रवीत्काव्यः कञ्चित्कालमुपास्यताम् ।निरुत्सुकैस्तपोयुक्तैः कालं कार्यार्थसाधकैः ।पितुर्ममाश्रमस्था वै सर्वे देवाः सवासवाः ॥११३॥स सन्दिश्यासुरान् काव्यो महादेवं प्रपद्य च ।प्रणम्येनसुवाचाथ जगत्प्रभवमीश्वरम् ॥११४॥मन्त्रानिच्छाम्यहं देव मे नसन्ति बृहस्पतौ ।पराभवाय देवानामसुरेष्वभयावहान् ॥११५॥एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज ।व्रतं चर मयो द्दिष्टं ब्रह्मचारी समाहितः ॥११६॥पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः ।यद्युपास्यसि भद्रन्ते मत्तो मन्त्रमवाप्स्यसि ॥११७॥तथोक्तो देव देवेन स शुक्रस्तु महातपाः ।पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ॥११८॥व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो ।ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत् ॥११९॥असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा ।मन्त्रार्थं तत्र वसति ब्रह्मचर्ये महेश्वरः ॥१२०॥तद्बुद्ध्वा नातिपूर्वन्तु राज्यं न्यस्तं तदासुरैः ।तस्मिञ्छिद्रे तदामर्षा देवास्तान् समभिद्रवन् ।निशितात्तायुधाः सर्वे बृहस्पतिपुरोगमाः ॥१२१॥दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान् पुनः ।उत्पेतुः सहसा सर्वे सन्त्रस्तास्ते ततोऽभवन् ॥१२२॥न्यस्तशस्त्रे जये दत्ते आचार्यव्रतमास्थिते ।सन्त्यज्य. समयं देवास्ते सपत्नजिघांसवः ॥१२३॥अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसि स्थिताः ।चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ॥१२४॥रणे विजेतुं देवान् वै नशक्ष्यामः कथञ्चन ।अशुद्धेन प्रपद्यामः शरणं काव्यमातरम् ॥१२५॥ज्ञापयामस्ततमिदं यावदागमनं गुरोः ।विनिवृत्ते ततः काव्ये योत्स्यामो युधि तान् सुरान् ॥१२६॥एवमुक्त्वा सुरान् योग्यं शरणं काव्यमातरम् ।प्रापद्यन्त ततो भीतास्तदा चैव तदाऽभयम् ॥१२७॥दत्तन्तेषान्तु भीतानां दैत्या नामभयार्थिनाम् ।न भेतव्यं न भेतव्य भयन्त्यजत दानवाः ॥१२८॥मत्सन्निधौ वर्ततां वो न भीर्भवितुमर्हति ।भयाच्चाप्यभिपन्नांस्तान् दृष्ट्वा देवासुरांस्तदा ॥१२९॥अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ।तांस्त्रस्तान् वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ॥१३०॥देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम् ।संस्तभ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ॥१३१॥ततः संस्तम्भितं दृष्ट्वा शक्रंदेवास्तु यूपवत् ।व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ॥१३२॥गतेषु सुरसङ्घेषु विष्णुरिन्द्रमभाषत ।मांत्वं प्रविश भद्रन्ते नेष्यामि त्वां सुरेश्वर ॥१३३॥एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः ।विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ॥१३४॥एषा त्वां विष्णुना सार्द्धं दहामि मघवानिव ।मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥१३५॥तयाभिभूतौ तौ देवाविन्द्रविष्णू जजल्पतुः ।कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत ॥१३६॥इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नौ न दहेद्विभो ।विशेषेणाभिभूतोऽहमतस्त्वञ्च हि मा चिरम् ॥१३७॥ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः ।अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ॥१३८॥तस्याः सत्वरमाणायाः शीघ्रकारी सुरारिहा ।स्त्रिया विष्णुस्ततो देव्या क्रूरं बुद्ध्वा चिकीर्षितम् ।क्रुद्धस्तदस्त्रमाविद्ध्य शिरश्चिच्छेद माधवः ॥१३९॥तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः ।ततोऽभिशस्तो भृगुणा विष्णुर्भार्यावधे तदा ॥१४०॥यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता ।तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रपत्स्यसि ॥१४१॥ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः ।लोके सर्वहितार्थाय जायते मानुषेष्विह ॥१४२॥अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम् ।समानीय ततः काये अपो गृह्येदमब्रवीत् ॥१४३॥एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम् ।यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा ।तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ॥१४४॥सत्याभिव्याहृता तस्या देवी संजीविता तदा ।तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ॥१४५॥ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव ।साधु साध्वित्यदृश्यानां वाचस्ताः सस्वरुर्दिशः ॥१४६॥दृष्ट्वा सञ्जीवितामेवं देवीं तां भृगुणा तदा ।मिषतां सर्वभूतानां तदद्भुतमिवाभवत् ॥१४७॥असंभ्रान्तेन भृगुणा पत्नीं सञ्जीवितां ततः ।दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ॥१४८॥प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम् ।प्रोवाच मतिमान् वाक्यं स्वां कन्यां पाकशासनः ॥१४९॥एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः ।तेनाहं व्याकुलः पुत्रि कृतो धृतिमता दृढम् ॥१५०॥गच्छ सम्भावयस्वैनं श्रमापनयनैः शुभैः ।तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥१५१॥देवी सा हीन्द्रतुहिता जयन्ती शुभचारिणी ।युक्तध्यानञ्च शाम्यं तं दुर्बलं धृतिमास्थितम् ॥१५२॥पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा ।गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी ॥१५३॥गात्रसंवाहनैः काले सेवमाना सुखावहैः ।शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ॥१५४॥पूर्णे धूमव्रते चापि घोरे वर्षसहस्रिके ।वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ॥१५५॥एवं ब्रुवंस्त्वयैकेन चीर्णं नान्येन केनचित् ।तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ॥१५६॥तेजसा चापि विबुधान् सर्वानभिभविष्यसि ।यच्च किञ्चिन्मम ब्रह्मन् विद्यते भृगुनन्दन ॥१५७॥साङ्गञ्च सरहस्यञ्च यज्ञोपनिषदान्तथा ।प्रतिभास्यति ते सर्वं तच्चाद्यन्तं न कस्यचित् ॥१५८॥सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि ।एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ॥१५९॥अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ ।एतान् लब्ध्वा वरान् काव्यः सम्प्रहृष्टतनूरुहः ॥१६०॥हर्षात् प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम् ।तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ॥१६१॥नमोऽस्तु शितिकण्ठाय सुरापाय सुवर्चसे ।रिरिहाणाय लोपाय वत्सराय जगत्पते ॥१६२॥कपर्दिने ह्यूर्द्ध्वरोम्णे हयाय करणाय च ।संस्कृताय सुतीर्थाय देवदेवाय रंहसे ॥१६३॥उष्णीषिणे सुवक्राय सहस्राक्षाय मीढुषे ।वसुरेताय रुद्राय तपसे चीरवाससे ॥१६४॥ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च ॥१६५॥कवये राजवृद्धाय तक्षकक्रीडनाय च ।गिरिशायार्कनेत्राय यतिने जाम्बवाय च ।सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ॥१६६॥सहस्रबाहवे चैव सहस्रामलचक्षुषे ।सहस्रकुक्षये चैव सहस्रचरणाय च ॥१६७॥सहस्रशिरसे चैव बहुरूपाय वेधसे ।भवाय विश्वरूपाय श्वेताय पुरुषाय च ॥१६८॥निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च ।ताम्राय चैव भीमाय उग्राय च शिवाय च ॥१६९॥बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ।महादेवाय शर्व्वाय विश्वरूपशिवाय च ॥१७०॥हिरण्याय च शिष्टाय श्रेष्ठाय मध्यमाय च ।पिनाकिने चेषुमते चित्राय रोहिताय च ॥१७१॥दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा ।मृगव्याधाय सर्पाय स्थाणवे भीषणाय च ॥१७२॥बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च ।कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ॥१७३॥वास्तोष्पते विनाकाय शङ्कराय शिवाय च ।आरण्याय गुहस्थाय यतिने ब्रह्मचारिणे ॥१७४॥साङ्ख्याय चैव योगाय ध्यानिने दीक्षिताय च ।अन्तर्हिताय शर्व्वाय मान्याय मालिने तथा ॥१७५॥बुद्धाय चैव पुण्याय धार्मिकाय शुभाय च ।रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये ॥१७६॥चतुष्पादाय मेध्याय धर्मिणे शीघ्रगाय च ।शिखण्डिने कपालाय दंष्ट्रिणे विश्वमेधसे ॥१७७॥अप्रतीघाताय दीप्ताय भास्कराय सुमेधसे ।क्रूराय विकृतायैव बीभत्साय शिवाय च ॥१७८॥सौम्याय चैव पुण्याय धार्मिकाय शुभाय च ।अवध्याय मृताङ्गाय नित्याय शाश्वताय च ॥१७९॥साद्याय शरभायैव शूलिने च त्रिचक्षुषे ।सोमपायाज्यपायैव धूमपायोष्मपाय च ॥१८०॥शुचये रेरिहाणाय सद्योजाताय मृत्यवे ।पिशिताशाय खर्वाय मेधाय वैद्युताय च ॥१८१॥व्याश्रिताय श्रविष्टाय भारतायान्तरिक्षये ।क्षमाय सह मानाय सत्याय तपनाय च ॥१८२॥त्रिपुरघ्नाय दीप्ताय चक्राय रोमशाय च ।तिग्मायुधाय मेध्याय सिद्धाय च पुलस्तये ॥१८३॥रोचमानाय खण्डाय स्फीताय ऋषभाय च ।भोगिने पुञ्जमानाय शान्तायैवोर्द्ध्वरेतसे ॥१८४॥अघघ्नाय मख्घ्नाय मृत्यवे यज्ञियाय च ।कृशानवे प्रचेताय वह्नये किशलाय च ॥१८५॥सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे ।क्षिप्रेगवे सुधन्वाय प्रमेध्याय प्रियाय च ॥१८६॥रक्षोघ्नाय पशुघ्नाय विघ्नाय शयनाय च ।विभ्रान्ताय महन्ताय अन्तये दुर्गमाय च ॥१८७॥दक्षाय च जघन्याय लोकानामीश्वराय च ।अनामयाय चोर्द्ध्वाय संहत्याधिष्ठिताय च ॥१८८॥हिरण्यबाहवे चैव सत्याय शमनाय च ।असिकल्याय माघाय रीरिण्यायैकचक्षुषे ॥१८९॥श्रेष्ठाय वामदेवाय ईशानाय च धीमते ।महाकल्पाय दीप्ताय रादेनाय हसाय च ॥१९०॥वृतधन्वने कविचिने रथिने च वरूथिने ।भृगुनाथाय शुक्राय वह्निरिष्टाय धीमते ॥१९१॥अघाय अघशंसाय विप्रियाय प्रियाय च ।दिग्वासःकृत्तिवासाय भगघ्नाय नमोऽस्तु ते ॥१९२॥पशूनां पतये चैव भूतानां पतये नमः ।प्रणने ऋग्यजुःसाम्ने स्वधायै च सुधाय च ॥१९३॥वषट्कारतमायैव तुभ्यमन्तात्मने नमः ।स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च ॥१९४॥भूतभव्यभवायैव तुभ्यं कालात्मने नमः ।वसवे चैव साध्याय रुद्रादित्याश्विनाय च ॥१९५॥विश्वाय मरुते चैव तुभ्यन्देवात्मने नमः ।अग्निसोमर्त्विगिज्याय पशुमन्त्रौषधाय च ॥१९६॥दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः ।तपसे चैव सत्याय त्यागाय च शमाय च ॥१९७॥अहिंसायाप्यलोभाय सुवेशायातिशाय च ।सर्वभूतात्मभूताय तुभ्यं योगात्मने नमः ॥१९८॥पृथिव्यै चान्तरिक्षाय दिवाय च महाय च ।जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥१९९॥अव्यक्तायाथ महते भूतायैवोन्द्रियाय च ।तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः ॥२००॥नित्याय चार्थलिङ्गाय सूक्ष्माय चेतनाय च ।शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः ॥२०१॥नमस्ते त्रिषु लोकेषु स्वरान्तेषु भवादिषु ।सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते ॥२०२॥नमःस्तोत्रे मया ह्यस्मिन् सदसद्व्याहृतं विभो ।मद्भक्त इति ब्रह्मण्य सर्वन्तत् क्षन्तुमर्हसि ॥२०३॥इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्ये शम्भुस्तवकीर्त्तनं नाम पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP