संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| स्तेयम् व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - स्तेयम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः स्तेयम् Translation - भाषांतर द्विविधास्तस्करा ज्ञेयाः परद्रव्यापहारिणः ।प्रकाशाश्चाप्रकाशाश्च तान्विद्यादात्मवान्नृपः ॥१॥प्रकाशवञ्चकास्तत्र कूटमानतुलाश्रिताः ।उत्कोटकाः साहसिकाः कितवाः पण्ययोषितः ॥२॥प्रतिरूपकराश्चैव मङ्गलोद्देशवृत्तयः ।इत्येवमादयो ज्ञेयाः प्रकाशलोकवञ्चकाः ॥३॥अप्रकाशाश्च विज्ञेया बहिरभ्यन्तराश्रिताः ।सुप्तान्प्रमत्तांश्च नरा मुष्णन्त्याक्रम्य चैव ते ॥४॥देशग्रामगृहघ्नाश्च पथिघ्ना ग्रन्थिमोचकाः ।इत्येवमादयो ज्ञेया अप्रकाशाश्च तस्कराः ॥५॥तान्विदित्वा सुकुशलैश्चारैस्तत्कर्मकारिभिः ।अनुसृत्य गृहीतव्या गूढप्रणिहितैर्नरैः ॥६॥सभाप्रपापूपशाला वेशमद्यान्नविक्रयाः ।चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥७॥शून्यागाराण्यरण्यानि देवतायतनानि च ।चारैर्विनेयान्येतानि चौरग्रहणतत्परैः ॥८॥तथैवान्ये प्रणिहिताः श्रद्धेयाश्चित्रवादिनः ।चरा ह्युत्साहयेयुस्तांस्तस्करान्पूर्वतस्कराः ॥९॥अन्नपानसमादानैः समाजोत्सवदर्शनैः ।तथा चौर्यापदेशैश्च कुर्युस्तेषां समागमम् ॥१०॥ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि ।तेऽभिसार्य गृहीतव्याः सपुत्रपशुबान्धवाः ॥११॥यांस्तत्र चौरान्गृह्णीयात्तान्विताड्य विडम्ब्य च ।अवघुष्य च सर्वत्र वध्याश्चित्रवधेन ते ॥१२॥न त्वहोढान्विताश्चौरा राज्ञा वध्या ह्यनागमाः ।सहोढान्सोपकरणान्क्षिप्रं चौरान्प्रशासयेत् ॥१३॥स्वदेशघातिनो ये स्युस्तथा पन्थावरोधिनः ।तेषां सर्वस्वं आदाय भूयो निन्दां प्रकल्पयेत् ॥१४॥अहोढान्विमृशेच्चौरान्गृहीतान्परिशङ्कया ।भयोपधाभिश्चित्राभिर्ब्रूयुस्तथा यथाकृतम् ॥१५॥देशं कालं दिशं जातिं नाम वा संप्रतिश्रयम् ।कृत्यं कर्मकरा वा स्युः प्रष्टव्यास्ते विनिग्रहे ॥१६॥वर्णस्वराकारभेदात्ससंदिग्धनिवेदनात् ।अदेशकालदृष्टत्वाद्वासस्याप्यविशोधनात् ॥१७॥असद्व्ययात्पूर्वचौर्यादसत्संसर्गकारणात् ।लेशैरप्यवगन्तव्या न होढेनैव केवलम् ॥१८॥दस्युवृत्ते यदि नरे शङ्का स्यात्तस्करेऽपि वा ।यदि स्पृश्येत लेशेन कार्यः स्याच्छपथः ततः ॥१९॥चौराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः ।आवासदा देशिकदास्तथैवोत्तरदायकाः ॥२०॥क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् ॥२१॥राष्ट्रेषु राष्ट्राधिकृताः सामन्ताश्चैव चोदिताः ।अभ्याघातेषु मध्यस्था यथा चौरास्तथैव ते ॥२२॥गोचरे यस्य मुष्येत तेन चौराः प्रयत्नतः ।मृग्या दाप्योऽन्यथा मोषं पदं यदि न निर्गतम् ॥२३॥निर्गते तु पदे तस्मिन्नष्टेऽन्यत्र निपातिते ।सामन्तान्मार्गपालांश्च दिक्पालांश्चैव दापयेत् ॥२४॥गृहे वै मुषिते राजा चौरग्राहांस्तु दापयेत् ।आरक्षकान्राष्ट्रिकांश्च यदि चौरो न लभ्यते ॥२५॥यदि वा दाप्यमानानां तस्मिन्मोषे तु संशयः ।मुषितः शपथं शाप्यो मोषे वैशोध्यकारणात् ॥२६॥अचौरे दापिते मोषं चौर्यवैशोध्यकारणात् ।चौरे लब्धे लभेयुस्ते द्विगुणं प्रतिपादिताः ॥२७॥चौरहृतं प्रयत्नेन सरूपं प्रतिपादयेत् ।तदभावे तु मूल्यं स्याद्दण्डं दाप्यश्च तत्समम् ॥२८॥काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च ।वेणुवैणवभाण्डानां वेत्रस्नाय्वस्थिचर्मणाम् ॥२९॥शाकहरितमूलानां हरणे फलपुष्पयोः ।गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥३०॥पक्वान्नानां कृतान्नानां मद्यानां आमिषस्य च ।सर्वेषां अल्पमूल्यानां मूल्यात्पञ्चगुणो दमः ॥३१॥तुलाधरिममेयानां गणिमानां च सर्वशः ।एभ्यस्तूत्कृष्टमूल्यानां मूल्याद्दशगुणो दमः ॥३२॥धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।न्यूनं त्वेकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः ॥३३॥सुवर्णरजतादीनां उत्तमानां च वाससाम् ।रत्नानां चैव मुख्यानां शतादभ्यधिकं वधः ॥३४॥पुरुषं हरतः पात्यो दण्ड उत्तमसाहसः ।सर्वस्वं स्त्रीं तु हरतः कन्यां तु हरतो वधः ॥३५॥महापशून्स्तेनयतो दण्ड उत्तमसाहसः ।मध्यमो मध्यमपशुं पूर्वः क्षुद्रपशुं हरन् ॥३६॥चतुर्विंशावरः पूर्वः परः षण्णवतिर्भवेत् ।शतानि पञ्च तु परो मध्यमो द्विशतावरः ॥३७॥सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः ।त्रिविधः साहसेष्वेव दण्डः प्रोक्तः स्वयंभुवा ॥३८॥प्रथमे ग्रन्थिभेदानां अङ्गुल्यङ्गुष्ठयोर्वधः ।द्वितीये चैव तच्छेषं दण्डः पूर्वश्च साहसः ॥३९॥गोषु ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत् ।दासीं तु हरतो नित्यं अर्धपादविकर्तनम् ॥४०॥येन येन विशेषेण स्तेनाङ्गेन विचेष्टते ।तत्तदेवास्य छेत्तव्यं तन्मनोरनुशासनम् ॥४१॥गरीयसि गरीयांसं अगरीयसि वा पुनः ।स्तेने निपातयेद्दण्डं न यथा प्रथमे तथा ॥४२॥दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् ।त्रिषु वर्णेषु यानि स्युर्ब्राह्मणो रक्षितः सदा ॥४३॥उपस्थं उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥४४॥अपराधं परिज्ञाय देशकालौ च तत्त्वतः ।सारानुबन्धावालोक्य दण्डानेतान्प्रकल्पयेत् ॥४५॥न मित्रकारणाद्राज्ञा विपुलाद्वा धनागमात् ।उत्स्रष्टव्यः साहसिकस्त्यक्तात्मा मनुरब्रवीत् ॥४६॥यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे ।भवत्यधर्मो नृपतेर्धर्मस्तु विनियच्छतः ॥४७॥न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ।निर्वासं कारयेत्कामं इति धर्मो व्यवस्थितः ॥४८॥सर्वस्वं वा हरेद्राजा चतुर्थं वावशेषयेत् ।भृत्येभ्योऽनुस्मरन्धर्मं प्राजापत्यं इति स्थितिः ॥४९॥ब्राह्मणस्यापराधे तु चतुःस्वङ्को विधीयते ।गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥५०॥गुरुतल्पे भगः कार्यः सुरापाने ध्वजः स्मृतः ।स्तेये तु श्वपदं कृत्वा शिखिपित्तेन कूटयेत् ॥५१॥विशिराः पुरुषः कार्यो ललाटे भ्रूणघातिनः ।असंभाष्यश्च कर्तव्यस्तन्मनोरनुशासनम् ॥५२॥राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।आचक्षाणेन तत्स्तेयं एवं कर्तास्मि शाधि माम् ॥५३॥अनेना भवति स्तेनः स्वकर्मप्रतिपादनात् ।राजानं तत्स्पृशेदेन उत्सृजन्तं सकिल्बिषम् ॥५४॥राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।निर्मलाः स्वर्गं आयान्ति सन्तः सुकृतिनो यथा ॥५५॥शासनाद्वा विमोक्षाद्वा स्तेनो मुच्यते किल्बिषात् ।अशासनात्तु तद्राजा स्तेनस्याप्नोति किल्बिषम् ॥५६॥गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥५७॥अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।द्विरष्टापाद्यं वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु ॥५८॥ब्राह्मणस्य चतुःषष्टीत्येवं स्वायंभुवोऽब्रवीत् ।तत्रापि च विशेषेण विद्वत्स्वभ्यधिकं भवेत् ॥५९॥शारीरश्चार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः ।शारीरा दशधा प्रोक्ता अर्थदण्डास्त्वनेकधा ॥६०॥काकण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ।शारीरस्त्ववरोधादिर्जीवितान्तस्तथैव च ॥६१॥काकण्यादिस्तु यो दण्डः स तु माषापरः स्मृतः ।माषावराद्यो यः प्रोक्तः कार्षापणपरस्तु सः ॥६२॥कार्षापणापराद्यस्तु चतुःकार्षापणः परः ।द्व्यवरोऽष्टापरश्चान्यस्त्र्यवरो द्वादशोत्तरः ॥६३॥कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश्चतुर्गुणाः ।एवं अन्ये तु विज्ञेयाः प्राक्च ते पूर्वसाहसात् ॥६४॥कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते ।पणैर्निबद्धः पूर्वस्यां षोडशैव पणाः स तु ॥६५॥माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु ।काकणी तु चतुर्भागो माषस्य च पणस्य च ॥६६॥पाञ्चनद्याः प्रदेशे तु संज्ञा या व्यावहारिकी ।कार्षापणप्रमाणं तु निबद्धं इह वै तया ॥६७॥कार्षापणोऽण्डिका ज्ञेयाश्चतस्रस्तास्तु धानकः ।तद्द्वादश सुवर्णस्य दीनारश्चित्रकः स्मृतः ॥६८॥वार्त्तां त्रयीं चाप्यथ दण्डनीतिं राजानुवर्तेत्संतताप्रमत्तः ।हन्यादुपायैर्निपुणैर्गृहीतान्पुरे च राष्ट्रे निगृह्णीयात्पापान् ॥६९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP