व्यवहारपदानि - द्यूतसमाह्वयम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अक्षवर्ध्रशलाकाद्यैर्देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम् ॥१॥

सभिकः कारयेद्द्यूतं देयं दद्याच्च तत्कृतम् ।
दशकं तु शतं वृद्धिस्तस्य स्याद्द्यूतकारिता ॥२॥

द्विरभ्यस्ताः पतन्त्यक्षा ग्लहे यस्याक्षदेविनः ।
जयं तस्यापरस्याहुः कितवस्य पराजयम् ॥३॥

कितवेष्वेव तिष्ठेयुः कितवाः संशयं प्रति ।
त एव तस्य द्रष्टारः स्युस्त एव च साक्षिणः ॥४॥

अशुद्धः कितवो नान्यदाश्रयेद्द्यूतमण्डलम् ।
प्रतिहन्यान्न सभिकं दापयेत्तत्स्वं इष्टतः ॥५॥

कूटाक्षदेविनः पापान्निर्भजेद्द्यूतमण्डलात् ।
कण्ठेऽक्षमालां आसज्य स ह्येषां विनयः स्मृतः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP