संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| निक्षिपः व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - निक्षिपः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः निक्षिपः Translation - भाषांतर स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥१॥अन्यद्रव्यव्यवहितं द्रव्यं अव्याकृतं च यत् ।निक्षिप्यते परगृहे तदौपनिधिकं स्मृतम् ॥२॥स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा ।प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये ॥३॥याच्यमानस्तु यो दात्रा निक्षेपं न प्रयच्छति ।दण्ड्यः स राज्ञा दाप्यश्च नष्टे दाप्यश्च तत्समम् ॥४॥यश्चार्थं साधयेत्तेन निक्षेप्तुरननुज्ञया ।तत्रापि दण्ड्यः स भवेत्तच्च सोदयं आवहेत् ॥५॥ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः ।दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितम् ॥६॥एष एव विधिर्दृष्टो याचितान्वाहितादिषु ।शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥७॥प्रतिगृह्णाति पोगण्डं यश्च सप्रधनं नरः ।तस्याप्येष भवेद्धर्मः षडेते विधयः समाः ॥८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP