व्यवहारपदानि - दत्ताप्रदानिकम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


दत्त्वा द्रव्यं असम्यग्यः पुनरादातुं इच्छति ।
दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥१॥

अदेयं अथ देयं च दत्तं चादत्तं एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥२॥

तत्र ह्यष्टावदेयानि देयं एकविधं स्मृतम् ।
दत्तं सप्तविधं विद्याददत्तं षोडशात्मकम् ॥३॥

अन्वाहितं याचितकं आधिः साधारणं च यत् ।
निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥४॥

आपत्स्वपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥५॥

कुटुम्बभरणाद्द्रव्यं यत्किंचिदतिरिच्यते ।
तद्देयं उपहृत्यान्यद्ददद्दोषं अवाप्नुयात् ॥६॥

पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥७॥

अदत्तं तु भयक्रोध शोकवेगरुजान्वितैः ।
तथोत्कोचपरीहास व्यत्यासच्छलयोगतः ॥८॥

बालमूढास्वतन्त्रार्त मत्तोन्मत्तापवर्जितम् ।
कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥९॥

अपात्रे पात्रं इत्युक्ते कार्ये चाधर्मसंहिते ।
यद्दत्तं स्यादविज्ञानाददत्तं तदपि स्मृतम् ॥१०॥

गृह्णात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति ।
अदत्तादायको दण्ड्यस्तथादेयस्य दायकः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP