संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|व्यवहारपदानि| वाग्दण्डपारुष्ये व्यवहारपदानि ऋणादानम् निक्षिपः संभूयसमुत्थानम् दत्ताप्रदानिकम् अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म अस्वामिविक्रयः क्रीतानुशयः विक्रीयासंप्रदानम् समयस्यानपाकर्म क्षेत्रजविवादः स्त्रीपुंसयोगः दायभागः साहसम् वाग्दण्डपारुष्ये द्यूतसमाह्वयम् प्रकीर्णकम् स्तेयम् दिव्यानि व्यवहारपदानि - वाग्दण्डपारुष्ये स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः वाग्दण्डपारुष्ये Translation - भाषांतर देशजातिकुलादीनां आक्रोशन्यङ्गसंहितम् ।यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥१॥निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।गौरवानुक्रमादस्य दण्डोऽप्यत्र क्रमाद्गुरुः ॥२॥साक्षेपं निष्ठुरं ज्ञेयं अश्लीलं न्यङ्गसंयुतम् ।पातनीयैरुपक्रोशैस्तीव्रं आहुर्मनीषिणः ॥३॥परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।भस्मादिभिश्चोपघातो दण्डपारुष्यं उच्यते ॥४॥तस्यापि दृष्टं त्रैविध्यं मृदुमध्योत्तमं क्रमात् ।अवगूरणनिःसङ्ग पातनक्षतदर्शनैः ॥५॥हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् ।त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥६॥विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि ।विशुद्धिर्दण्डभाक्त्वं च तत्र संबध्यते यथा ॥७॥पारुष्ये सति संरम्भादुत्पन्ने क्षुब्धयोर्द्वयोः ।स मन्यते यः क्षमते दण्डभाग्योऽतिवर्तते ॥८॥पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयोः ।विशेषश्चेन्न दृश्येत विनयः स्यात्समस्तयोः ॥९॥पूर्वं आक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् ।पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥१०॥द्वयोरापन्नयोस्तुल्यं अनुबध्नाति यः पुनः ।स तयोर्दण्डं आप्नोति पूर्वो वा यदि वेतरः ॥११॥श्वपाकपण्डचण्डाल व्यङ्गेषु वधवृत्तिषु ।हस्तिपव्रात्यदारेषु गुर्वाचार्याङ्गनासु च ॥१२॥मर्यादातिक्रमे सद्यो घात एवानुशासनम् ।न च तद्दण्डपारुष्ये दोषं आहुर्मनीषिणः ॥१३॥यं एव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु ।स एव विनयं कुर्यान्न तद्विनयभाङ्नृपः ॥१४॥मला ह्येते मनुष्येषु धनं एषां मलात्मकम् ।अपि तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥१५॥शतं ब्राह्मणं आक्रुश्य क्षत्रियो दण्डं अर्हति ।वैश्योऽध्यर्धं शतं द्वे वा शूद्रस्तु वधं अर्हति ॥१६॥विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने ।वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥१७॥समवर्णद्विजातीनां द्वादशैव व्यतिक्रमे ।वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥१८॥काणं अप्यथवा खञ्जं अन्यं वापि तथाविधम् ।तथ्येनापि ब्रुवन्दाप्यो राज्ञा कार्षापणावरम् ॥१९॥न किल्बिषेणापवदेच्छास्त्रतः कृतपावनम् ।न राज्ञा धृतदण्डं च दण्डभाक्तद्व्यतिक्रमात् ॥२०॥लोकेऽस्मिन्द्वाववक्तव्यावदण्ड्यौ च प्रकीर्तितौ ।ब्राह्मणश्चैव राजा च तौ हीदं बिभृतो जगत् ॥२१॥पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः ।वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेत् ॥२२॥नामजातिग्रहं तेषां अभिद्रोहेण कुर्वतः ।निखेयोऽयोमयः शङ्कुः शूद्रस्याष्टादशाङ्गुलः ॥२३॥धर्मापदेशं दर्पेण द्विजानां अस्य कुर्वतः ।तप्तं आसेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥२४॥येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।तदङ्गं तस्य छेत्तव्यं एवं शुद्धिं अवाप्नुयात् ॥२५॥सहासनं अभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः ।कट्यां कृटाङ्को निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ॥२६॥अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।अवमूत्रयतः शिश्नं अवशर्धयतो गुदम् ॥२७॥केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।पादयोर्नासिकायां च ग्रीवायां वृषणेषु च ॥२८॥उपक्रुश्य तु राजानं वर्त्मनि स्वे व्यवस्थितम् ।जिह्वाछेदाद्भवेच्छुद्धिः सर्वस्वहरणेन वा ॥२९॥राजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः ।शूले तं अग्नौ विपचेद्ब्रह्महत्याशताधिकम् ॥३०॥पुत्रापराधे न पिता न श्ववाञ् शुनि दण्डभाक् ।न मर्कटे च तत्स्वामी तैरेव प्रहितो न चेत् ॥३१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP